सीतापति अनन्यताऽऽवेदनम्
शृणोमि सीतापति चित्रसत्कथां
वदामि सीतापति कीर्तिमक्षयाम् ।
स्मारामि सीतापति दिव्यविग्रहं
वृणोमि सीतापति भक्तिमुत्तमाम् ॥ १॥
व्रजामि सीतापतिदिव्यमन्दिरं
तथा च सीतापतिसत्प्रपन्नताम् ।
युनज्मि सीतापति चिन्तने मनः
तनोमि सीतापतिदाससङ्गतिम् ॥ २॥
अवैमि सीतापतिमञ्जुबन्धुतां
तथा च सीतापतिदिष्टभोग्यताम् ।
ततश्च सीतापति नित्यधामदां
करोमि सीतापति भक्तिमुत्तमाम् ॥ ३॥
करोमि सीतापतिपाददासतां
नमामि सीतापति पादपङ्कजम् ।
पठामि सीतापतिकाव्यसंहतिं
जपामि सीतापतिमन्त्रभूषितम् ॥ ४॥
करोमि सीतापतिविग्रहार्चनं
तथा च सीतापतिमूर्तिदर्शनम् ।
गुणाब्धि सीतापति नाम कीर्तनं
परेश सीतापतिपादवन्दनम् ॥ ५॥
भजामि सीतापतिमेव केवलं
रटामि सीतापतिमेव केवलम् ।
श्रयामि सीतापतिमेव केवलं
प्रयामि सीतापतिमेवकेवलम् ॥ ६॥
॥ इति श्रीगङ्गाधराचार्यविरचितं
श्रीराम अनन्यताऽऽवेदनम् ॥