॥ मनोबोधः २ ॥

मनोबोधः श्रीसमर्थरामदासस्वामिविरचितः संस्कृत अनुवादक विश्वनाथ केशव छत्रे रामाप्तिमार्गः गणाधीशमीशं गुणानामनन्तं जगज्जातमेतद्यतो निर्गुणं तम् । चतुर्वाक्खनिं शारदाम्बां च वन्दे सुदृग्गोचरो मेऽस्तु रामाप्तिमार्गः ॥ १॥ मनो! भद्र! भक्तेः पथैव प्रयायात् स्वभावात्ततः श्रीहरिः स्यात् प्रसन्नः । जनैर्निन्दितं तत् त्यजेत् सर्वथैव जनैर्वन्दितं सर्वभावेन कुर्यात् ॥ २॥ प्रभाते प्रभुर्ध्यायतां रामचन्द्रो गिरा प्रोच्यतां पावनं रामनाम । सदाचारमत्याज्यमेवाचरन्ना सुधन्यो भवेद्भूतलेऽस्मिन्नवश्यम् ॥ ३॥ मनो! माऽस्तु दुर्वासनाया लवोऽपि मनो! मा स्पृशेत्पापबुद्धिस्तथा त्वाम् । मनो! मा त्यजेत् सर्वथा धर्मनीती मनो! रेऽस्तु सारोद्धृतौ ते विवेकः ॥ ४॥ मनः! पापसङ्कल्पमाशु त्यज त्वं समाश्रीयतां सत्यसङ्कल्प एव । मनो! वासना माऽस्तु शब्दादिकेषु विकाराभिभूतं विनिन्दन्ति लोकाः ॥ ५॥ मनो! माऽस्तु दुःखावहः क्रोध एषो विकारी च कामः प्रकारैरनेकैः । मनो! न श्रयेत्पापमूलं च लोभं वसेन्मत्सराद्दम्भदैत्याच्च दूरम् ॥ ६॥ मनो! रेऽवलम्बस्व धैर्यं प्रसङ्गे गिरं मर्मभेत्रीमपि त्वं सहस्व । स्वयं ब्रूहि रे! नम्रवाचैव नित्यं मनस्तोषय त्वं ततः सर्वलोकान् ॥ ७॥ स्वदेहावसानेऽपि जीवेत् स्वकीर्तिः तथैव क्रियां सन्मनो रे! कुरुष्व । त्वया चन्दनेनेव रे! स्वक्षयेण प्रतोषोऽर्जितव्यस्सतामन्तराणाम् ॥ ८॥ मनः पुष्यतां मा परार्थेऽभिलाषो ह्यतिस्वार्थबुद्धिर्महापातकाय । फलं पापकृत्यस्य भोक्ताव्यमेवा चिरेष्टं न चेल्लभ्यते, दुःखमुग्रम् ॥ ९॥ अखण्डं मनो! रक्ष्यतां प्रेम रामे, विषादं विना प्राप्तदुःखं सहेत । सुखं मन्यतां तत्, तनोर्यत्तु दुःखं विवेकेन च स्थीयतामात्मरूपे ॥ १०॥ क आप्नोति सर्वाणि लोके सुखानि? विचिन्त्येति रेऽन्वेषितव्यं त्वयैव । कृतं कर्म यादृक् पुरा हि त्वयैव तथैवोपभोक्तव्यमस्मिन् शरीरे ॥ ११॥ मनः! सन्ततं चिन्तयेन्न स्वदुःखं मनः! शोकचिन्ते त्यजेद् रे! सुदूरम् । विवेकेन सन्त्यज्यतां देहबुद्धि- र्विदेहेन रे! भुज्यतां मुक्तिसौख्यम् ॥ १२॥ गतिः काऽभवद् भो मनो! रावणस्य? सराज्यं त्वकस्माद्विनाशं गतोऽसौ । त्यजातो दुरिच्छां मनः! शीघ्रमेव ग्रसिष्णुर्हि कालोऽनुधावत्यखण्डम् ॥ १३॥ तनुं कर्मभिर्लब्धवाञ् जीव एषः, परं सापनीता तु कालेन काले । महान्तोऽपि मृत्योः पथैव प्रयाता असङ्ख्याश्च जाता मृताश्चापि मह्याम् ॥ १४॥ इयं मर्त्यभूमिर्मनः ! सत्यदृष्ट्या, समस्ताश्च जीवा अहन्तावदृप्ताः । चिरञ्जीव्यशेषं च ते मन्यमाना, अकस्मात् परित्यज्य सर्वं प्रयान्ति ॥ १५॥ अथैकं मृतं शोचतीह द्वितीयस् तमन्वेत्यकस्मादहो ! सोऽपि शोचन् । सुदुष्पूरलोभो मनःक्षुब्धतायै, स आप्नोति तस्मात् पुनर्जन्म जीवः ॥ १६॥ वृथैवोह्यते मानवेनेह चिन्ता, भवत्येव भावि ह्यकस्मात् समस्तम् । नरो भोगमाप्नोति कर्मानुरूपं, विषादं श्रयत्यल्पधीस्तद्वियोगात् ॥ १७॥ विना राममन्येन नाशा निधेया, न गेया च कीर्तिर्मनो ! मानवस्य । स्तुतो यः पुराणैस्तथा वेदशास्त्रैः, स्तवात्तस्य सर्वे स्तुता गौरवार्हाः ॥ १८॥ मनः ! सर्वथा मा सखे ! प्रोज्झ सत्यम्, असत्यं मनो ! मा प्रतिष्ठापयस्व । मनो ! रे वदेत् सत्यवाचैव सत्यम्, असत्यं त्वसत्यं, मनः ! सन्त्यजेत्तत् ॥ १९॥ क्रियान् रे ! ऽहह ! क्लेशदो गर्भवासः, प्ररुद्धो मनः ! पच्यते तत्र जीवः । अधोवक्त्रजीवस्य दुःखं महत्तद्- मनो ! मास्तु तादृक्षकृच्छ्रं पुनस्ते ॥ २०॥ मनो ! मास्तु जन्मप्रसूर्वासना ते, न वा कामना द्रव्यदारादिकानाम् । मनो ! यातना दुःसहा गर्भवासे, मनो ! भद्र ! सम्मेलय द्राक् सरामम् ॥ २१॥ मनः ! सज्जन ! त्वं हितं मे कुरुष्व, दृढं राघवं धारयान्तः सदैव । त्रिलोकाधिपोऽसौ हनूमत्प्रभूश्च महाराज उद्धारकर्ता जनानाम् ॥ २२॥ मनो ! ब्रूहि माऽन्यद् विना रामकीर्तिं, वृथा भाषणान्नास्ति रे ! सौख्यलाभः । हरत्येष तेऽनुक्षणं काल आयुस्- ततस्त्वां नु को मोचयेद् देहपाते ?॥ २३॥ विना राघवं किं वृथा क्लेशितव्यं ? पृथग्लोकवत् किं वृथा जल्पितव्यम् ? । मनो ! वाचि ते रामानामास्त्वखण्डं, न सम्बाधतां त्वामहन्ताघरूपा ॥ २४॥ मनो ! भद्र ! नोद्विज्यतां बोधनान्मे, कुतो रामलाभो भवेदन्यथा ते! । अवश्यं समायाति दुःखं सुखान्ते, विनङ्क्ष्यत्यशेषं च काले समस्तम् ॥ २५॥ कृता भूरियत्ना वपूरक्षणार्थं, तदन्ते तु कालेन कालेऽपनीतम् । भजानन्यभक्त्या रघुश्रेष्ठमेनं, त्यजाशेषचिन्तां च संसारजन्याम् ॥ २६॥ भवात् किं वृथा भीरुवद् रे! बिभेषि ? त्यजाशेषभीतिं च धैर्यं श्रयस्व । समर्थोऽन्तिके रक्षिता राम एष, उपेक्षेत न क्रोधतप्ते कृतान्ते ॥ २७॥
जहात्येष दासप्रियो नैव रामः धनुर्धारिरामः स रे! दीननाथः पुरो वीक्ष्य तं कम्पते त्वन्तकोऽपि । मनः सत्यमेतन्न भोः शङ्कनीयं जहात्येष दासप्रियो नैव रामः ॥ २८॥ त्रिलोक्या तु यन्नूपुरं गर्जतीव यद् 'अन्ते जयी रामदासः सदैव' । अयोध्यामशेषां दिवं यो निनाय जहात्येष दासप्रियो नैव रामः ॥ २९॥ समर्थस्य दासे क्षणं वक्रदृष्टिं क उत्क्षेस्तुमस्यां क्षितौ स्यात् सुधृष्टः । मुदा वर्ण्यते यस्य लीला त्रिलोके जहात्येष दासप्रियो नैव रामः ॥ ३०॥ महासङ्कटेभ्यः सुरा येन मुक्ता गुणी सर्वतो यो बलिष्ठः प्रतापी । सदा स्मर्यते यः शिवाशङ्कराभ्यां जहात्येष दासप्रियो नैव रामः ॥ ३१॥ अहल्या शिलारूपतो येन मुक्ता पदस्पर्शमात्रेण दिव्या कृता च । ययुर्विक्लमं वर्णने यस्य वेदा जहात्येष दासप्रियो नैव रामः ॥ ३२॥ शशी भास्करस्तारका मेघमाला वसन्तीह यावच्च मन्दारमेरू । चिरञ्जीविन्तां येन नीतौ स्वदासौ जहात्येष दासप्रियो नैव रामः ॥ ३३॥ उपेक्षा तु सम्भाव्यते नैव रामात् परं चञ्चलं तन्मनो मानवस्य । पुरोवाच यो 'भक्तचिन्ता वहामि' जहात्येष दासप्रियो नैव राम ॥ ३४॥ नरो यादृशं भावमन्तर्बिभर्ति वसत्यन्तरे तादृशस्तस्य देवः । अनन्यस्य यो रक्षिता चापपाणिः जहात्येष दासप्रियो नैव रामः ॥ ३५॥ समीपस्थ एवास्ति देवः सदैव कृपालुः परीक्षेच्छुकस्तु क्षणैकम् । सुस्वानन्दरूपश्च मोक्षप्रदो यो जहात्येष दासप्रियो नैव रामः ॥ ३६॥ यथा प्रत्यहं चक्रवाकार्थमर्कः तथा धावति द्राक् प्रभुः सङ्कटे यः । नदत्यम्बरे डिण्डिमो यस्य भक्तेः जहात्येष दासप्रियो नैव रामः ॥ ३७॥
मनः! सज्जन! स्थीयतां रामरूपे! मनः! प्रार्थना मामिकेयं त्वदग्रे, सदा राममीक्षस्व साश्चर्यमेनम् । अवज्ञायतां मा क्षणं बोध एषो, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ३८॥ पुराणैश्च यो वर्ण्यते वेदशास्त्रैः, स्थिरं यस्य भक्त्या समाधानसौख्यम् । त्यजाशेषचाञ्चल्यदोषं तमाप्तुं, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ३९॥ मनः! प्राप्यते यत्र सौख्यं समस्तं, वसात्यादरात्तत्र रे! सावधानम् । विवेकेन दुष्कल्पना रे! निरस्य, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ४०॥ भ्रमित्वा भृशं लप्स्यसे रे! न सौख्यं, श्रमा निष्फलास्ते, हितं नाल्पमात्रम् । विवेकेन रे! स्वान्तरं बोधयित्वा, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ४१॥ अनेकैः श्रितं मार्गमेवावलम्ब्य, मनो! रामचन्द्रं वशं स्वं कुरुष्व । प्रसिद्धः स नाथो हि दैन्यार्दितानां, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ४२॥ मनः! सज्जन! स्मर्यतामेकमात्रं, हितं प्राप्यतामात्मनीनं जनेषु । विना रामनाम्नो न रे! भाषितव्यं, निदिध्यासितव्यं सदा रामरूपम् ॥ ४३॥ मनः! पालयेत् सर्वथान्यत्र मौनं, कथा वर्णयेद्राघवस्यादरेण । त्यजेद्धाम तद्, यद्भवेद् रामहीनं, सुखावाप्तये संश्रयेदप्यरण्यम् ॥ ४४॥ समाधानभङ्गाय योऽनिष्टसङ्गो, यतोऽहन्तयाक्रम्यसे त्वं त्वकस्मात् । मतिः प्रेरिता येन रामं जहाति, रुचिर् हा! तदर्थं महत्येव लोके ॥ ४५॥ क्षणो निर्गतो यो विना रामगानं, मनो व्यर्थमायुस्त्वया तेन नीतम् । वृथा स श्रमो, यो विना राघवं स्याद्, हितं शश्वदालक्षते नित्यदक्षः ॥ ४६॥
सुधन्यः स दासोऽस्ति सर्वोत्तमस्य बहिः श्रीहरिं वीक्षतेऽन्तस्तथा च हरेर्ज्ञान्यपि स्नेहयुक्तः सुभक्तः । रतः कीर्तने साधनं चानुतिष्ठन् सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ४७॥ सदा क्षीयते यत्तनुर्देवकार्ये सदा वर्तते यन्मुखे रामनाम । स्वधर्मस्य यः पालने नित्यदक्षः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ४८॥ सदैव क्रिया यस्य भाषानुरूपा अपश्यत्यनेकेषु देवं य एकम् । भजत्यप्यशङ्को गुणोपेतरूपं सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ४९॥ विकारीति चित्तेऽल्पमात्रोऽपि कामो यतिर्ब्रह्मचारी तथोदासवृत्तिः । लवं नावशिष्टस्तमो नित्यशान्तः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५०॥ मदो मत्सरो नाथवा स्वार्थबुद्धिः न वा बाधते यं भवस्योपसर्गः । सदा भाषणं स्वादु नम्रञ्च यस्य सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५१॥ नयंस्तत्त्वचिन्तानुवादेन कालं विवादेन वादेन दम्भेन शून्यः । सुखं ब्रह्म सम्भाष्यते येन मूलं सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५२॥ ऋजुः सर्वदा सर्वलोकप्रियश्च विवेकी तथा सत्यवाग्यः सदैव । असत्या न बह्वर्थदा वा यदुक्तिः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५३॥ सदाऽरण्यवासी च तारुण्यकाले न जालेन यो बध्यते कल्पनायाः । दृढो निश्चयो नाविचाल्यश्च यस्य सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५४॥ न दुष्टा दुराशा लवाप्यस्ति चित्ते हरिप्रेमतृष्णार्तमास्तेऽन्तरं च । ऋणी श्रीहरिर्येन भक्त्या कृतश्च सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५५॥ मनः कोमलो योदयालुश्च दीने कृपालुस्तथा वत्सलो दासपाता । कुतः कोपसन्तापलेशोऽन्तरे स्यात्? सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५६॥
निष्कामभक्तिः वादविरोधिता च मनः! प्राप्यतां धन्यता रामनाम्ना, व्रतोपासनादीननुष्ठाय सम्यक् । उदासीनता तेऽस्तु साध्यं सदैव, ततो वृत्तिनिर्लेपतां भोक्ष्यसे त्वम् ॥ ५७॥ मनो! वासना मास्तु भोगेषु ते, सा; ह्युदेत्यन्तरे पूर्वकर्मानुसारम् । सदा ध्यायतां काममुत्सार्य रामो! मनो मास्तु ते कल्पनालेशमात्रम् ॥ ५८॥ मनः! कल्पना क्लृप्यते कोटिशस्तु, ततः सर्वथा लप्स्यसे रे! न रामम् । मनो! धारयन् काममत्यादरेण, नरो नाप्नुयात् प्रेम रामे कदापि ॥ ५९॥ मनः! कामधुक्, कल्पवृक्षः स रामः, स चिन्तामणिः सर्वसारो निधिश्च । कथं तं स्तुवीयाम्? हि यस्य प्रभुत्वं, जगच्छास्ति, किं तत्समानं यथार्थम् ?॥ ६०॥ स्थितः कल्पवृक्षस्य मूलेऽपि शोकं, वहन्नन्तरे प्राप्नुयाच्छोकमेव । सतां सङ्गतौ यो वसंस्तत्त्ववादं, वृथा वर्धयेत्तस्य दैवे तु शोकः ॥ ६१॥ निदिध्यासने खण्डिते त्वन्तरङ्गे, समुत्तिष्ठतः शोकसन्तापदुष्टौ । सुखानन्द एत्यत्ययं भेदबुद्ध्या, विषादेन सन्निश्चयो नाशमेति ॥ ६२॥ यथा कामधुक् -स्वामिना तक्रयाञ्चा विवादस्तथात्मावबोधालसेन । करस्थं तु विस्मृत्य चिन्तामणिं यश्- चिनोति श्रमैः काचख्नण्डान् स मूढः ॥ ६३॥ दृढो निश्चयः सम्भवेन्नातिमूढे, न कामातिसक्तस्य चित्ते च रामः । भवेच्चातिलुब्धोऽन्तरे क्षोभतप्तः, प्रसक्तश्च भोगे सदा दैन्ययुक्तः ॥ ६४॥ मनो! मास्तु ते जीवनं भक्तिहीनं, सदैन्यं; स दुःखी महान् योऽतिमूढः । मनः! सादरं धारय प्रेम रामे न धामेच्छहेम्नोऽपि रे! रामशून्यम् ॥ ६५॥ असारः स संसार उग्राधिपूर्णो, मनो! ऽन्विष्यतां हे सखे! सत्यमेतत् । कुतः सौख्यलाभो विषप्राशनेन! मनो! राघवध्यानसौख्ये रमस्व ॥ ६६॥
प्रभाते प्रभुर्ध्यायतां रामचन्द्रः घनश्याम-रामः स लावण्यमूर्तिः प्रतापी महान् धैर्यमेरुर्गभीरः । विपत्तौ स्वदासान् स रक्षत्यवश्यं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ६७॥ बलिष्ठं धनुर्धारि-रामं विलोक्य करालः कृतान्तोऽपि कम्पं प्रयाति । तदग्रे नरो दुर्बलः किं नु कुर्यात्? प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ६८॥ सुखानन्ददं सर्वभीनाशनं च भजेद् भक्तिभावेन रामं सदैव । विवेकेन जह्याच्च दुर्वर्तनेच्छां प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ६९॥ जपेद्यः सदा कामदं रामनाम न बाधेत तं भक्तमापत् कदापि । मदं सर्वमालस्यमप्याशु जह्यात् प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७०॥ दहेद् घोरदोषान् क्षणे यस्य नाम नयेत् सद्गतिं मानवं यस्य नाम । भवेत्पुण्यराशिस्तथा यस्य नाम्ना स रामः प्रभुर्ध्यायतां सुप्रभाते ॥ ७१॥ न तु क्षीयते सञ्चितार्थोऽशतोऽपि मनो! न श्रमो नामघोषे लवोऽपि । 'महाघोरसंसारशत्रुं' विजेतुं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७२॥ महद्दुःखदो देहदण्डस्य मार्गः परं रामनाम्नो जपो दुःखहारी । स्वयं शङ्करो ध्यायते देवदेवं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७३॥ अनेकानि विघ्नानि योगादिकेषु व्रतोद्यापनाद्यर्थमर्थस्त्ववश्यः । दयालुः स दीनेष्वतो ध्यायतां रे! प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७४॥ जपो रामनान्तोऽग्रणीः साधनानां न चेद् ज्ञायते, मृग्यतां चिन्तनेन । वृथा संशयस्त्याज्य एवास्ति सद्यः प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७५॥ क्रिया दुष्करा नैव धर्मो न योगो न भोगोऽखिलस्त्याग उक्तस्त्ववश्यः । दृढं विश्वसेनान्नि वक्तीति 'दासः' प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७६॥
रामविश्वासः प्रजायेत निष्कामता रामकामात्, ततो जीवमात्रे प्रतीयेत रामः । गुणान् रामचन्द्रस्य सप्रेम गायन्, भवेद् द्वन्द्वमुक्तो नरः श्रद्दधानः ॥ ७७॥ न यो विश्वसित्यादराद्रामचन्द्रे, वराको नरः सर्वशः पीड्यतेऽसौ । अनाश्रित्य ना मोक्षदं स्वामिनं तं, वृथा देहसंसारचिन्तां करोति ॥ ७८॥ मनो! ऽन्तः परित्यज्य संसारचिन्तां, दृढं ध्यायतां पावनो रामचन्द्रः । भवः सत्य आभाति मिथ्याभ्रमेण, ततश्चात्मरूपस्मृतिर्लोपमेति ॥ ७९॥ दृढं धार्यतां स्वान्तरे श्रीहरिश्च, सुखं तीर्यतां दुस्तरोऽसौ भवाब्धिः । न सञ्चिन्त्यतां स्वोदरं दुर्भरं तद्, मनो! हन्यतां निर्दयं मत्सरोऽसौ ॥ ८०॥
नामस्मरणम् मनो! नाम मा मत्सरेण त्यज त्वं, परं तज्जपाखण्डमत्यादरेण । समस्तेषु नामोत्तमं साधनेषु, तुलार्हं न किञ्चित् सखे! तेन लोके ॥ ८१॥ तुलार्हं न नामापरं रामनाम्ना, परं नेत्यभिज्ञायते दुर्भगेण । स्वदाहोपशान्त्यै शिवस्तत् सिषेवे, कथं पामरेण त्वसेव्यं नरेण? ॥ ८२॥ शिवश्चिन्तयन् दग्धकामोऽपि रामं, शिवायाः पुरस्तं स्तवीत्यादरेण । बहुज्ञानवैराग्यसामर्थ्ययुक्ते, त्वियानादरो, मर्त्यजीवे पुनः किम्? ॥ ८३॥ महेशः स मूर्ध्नोह्यते विठ्ठलेन, स यं ध्यायति ज्ञायतेऽसौ न लोकैः । स्वयं शङ्करः शान्तिमाप्नोत्यदाहात्, प्रमोक्तान्तकाले तु जीवस्य रामः ॥ ८४॥ उपास्यः स योगेश्वरारामरामो, रमेते जपे तस्य गौरी हरश्च । स्वयं चन्द्रमौलिस्तपस्वी प्रशान्तः, स रामः प्रभुर्वोऽन्तकाले विमोक्ता ॥ ८५॥ मुखे यस्य रामः, स आप्नोति नित्यं, सदाऽऽनन्दविश्रामपूर्णप्रसादम् । सशङ्कश्रमास्ते विना नाम वन्ध्या, निजं धाम तत्प्रापयत्यार्तिहीनम् ॥ ८६॥ जपन् राममान्पोति नो कामबाधां, सधैर्यं तरत्यापदः कीर्तयंस्तम् । जयत्युग्रकामं बली रामभक्तः, स धन्योऽवनौ मारुतिर्ब्रह्यचारी ॥ ८७॥ प्रशस्यं भृशं राघवस्यास्य नाम, सुवाच्यं मधु स्वल्पमास्ते त्वमूल्यम् । ध्रुवं जन्ममृत्युद्रुमोन्मूलनाय, स एव प्रमोक्षो मनो! मानवानाम् ॥ ८८॥ प्रतिग्रासमीदृग्वदेद्रामनाम, तदुद्घोषयेदादरेणासकृच्च । हरेश्चिन्तनेऽन्नं सदा भक्षयेच्च, स्वभावात्ततः श्रीहरिं प्राप्यतेऽसौ ॥ ८९॥ स खल्वात्महा, वाचि रामो न यस्य, न तं मानयन् ना वृथा जीवतीह । स्तुतं नाम वेदैश्च शास्त्रैः पुराणैः, स्तुतं व्यासवाचापि भूयो नितान्तम् ॥ ९०॥ समुद्विज्यतां मा मनो! रामचन्द्राद्, मनः! प्रोच्यतां तस्य नामादरेण । विना मूल्यमेवोपलभ्यं मुखे तत्, समुद्धोष्यतां जानकीवल्लभोऽसौ ॥ ९१॥ समुद्धोषणात् सादरं रामनाम्नो, गिरेर्गह्नरं प्रद्रवन्त्याशु दोषाः । स्वनामोपतिष्ठत्यनन्तः सुतुष्टो, विशेषेण नामातिलुब्धः शिवश्च ॥ ९२॥ जगत्यन्नदाता य एकोऽस्ति देवो, वहत्येष नः सर्वसंसारचिन्ताम् । अमूल्यं तु तन्नाम सेविष्यसे चेद्, मनस्! ते भविष्यत्यरे! का नु हानिः? ॥ ९३॥ त्रिलोकीं प्रदग्धुं क्षमः कोपितो यः, स नाम्नाप शान्तिं शिवः क्ष्वेडदाहात् । जपत्यादरात् पार्वती विश्वमाता, तदेवोच्यतां नाम तस्मात् समस्तैः ॥ ९४॥ वदन् पुत्रकामेन नारायणेति, पुराऽजामिलः पापकर्मा विमुक्तः । शुकं शिक्षयन्तीशनामापि वेश्या, विमुक्ता पुराणे गता च प्रसिद्धिम् ॥ ९५॥ कुले दानवानां कयाधोः सुपुत्रो, जपन्नीशनाम स्थितोऽसौ सदैव । स दैत्याधिराजः पिता पापकर्मा, प्रविद्वेष्टि नामेत्यमृष्यन्न पुत्रः ॥ ९६॥ कुतो नामहीनस्य रे! मुक्तिवार्ता? ह्यहङ्कारदृप्तः सदा यातनाभाक् । स दैन्यान्वितो मृत्युरेष्यत्यवश्यं, ततः प्रोच्यतां प्रोच्यतां देवनाम ॥ ९७॥ शिलास्तारिता निश्चितं रामनाम्ना, मनस्! तारिता नाल्पसङ्ख्या मनुष्याः । नरः सर्वथा तत्र चाश्रद्दधानः, कदापि प्रवर्तेत नो पापरूपः ॥ ९८॥ सुधन्येह वाराणसी पुण्यराशिर्, द्रुतं मोक्षदा यात्रिकाणां पितॄणाम् । सुलभ्यं तु तद् रामनाम्ना सुपुण्यम्, इतीशः सदा बोधयन् नृभ्य आस्ते ॥ ९९॥ न सम्पद्यते कर्म शास्त्रोक्तरीत्या, कृतं चाऽयथोक्तं न पुण्यं तनोति । मनाग् नानुकम्पाऽन्तरे प्राणिनोऽर्थं, मुखे नास्ति तन्नाम मूल्यं विनापि ॥ १००॥ सशङ्कश्च यो नाम्नि विश्वासशून्यो, यमादुग्रदण्डं स आप्नोति, धिक्! तम् । ततः सेव्यतां नाम रे। ऽत्यादरेण। तदुच्चारमात्रात् क्षयं पापमेति ॥ १०१॥ सदात्यन्तनम्रत्वमाश्रित्य तोषो, मनः! सज्जनानां त्वयोपार्जितव्यः । सदा क्षीयतां स्वीयदेहः परार्थं, गुणाढ्यः सदा सेव्यतामादरेण ॥ १०२॥
मनोबोधः-उत्तरार्धः क्रियाहीनवाचालता निष्फलैव सदा कीर्त्यतां राघवः सानुरागं मनः! कीर्तने लुप्यतां देहबुद्धिः । परस्त्रीपरार्थाभिलाषश्च हेयः, त्वया भद्र! जीवार्पणेनापि काले ॥ १०३॥ क्रियाहीनवाचालतां नैकरूपां सदाऽतीव निर्भर्त्सयत्यन्तरङ्गम् । सदा स्वैरसङ्कल्पसंसक्तचेताः कथं प्राप्नुयाद् मानवो विश्वनाथम् ॥ १०४॥ विवेकेन हित्वा क्रियां गर्हणीयां विशुद्धां सदैवानुतिष्ठादरेण । सदा तात! वर्तस्व भाषानुसारं, भवार्तिप्रदां कल्पनां रे! जहीहि ॥ १०५॥
विवादान्तकारी हि संवाद इष्टः कुरु स्नानसन्ध्यादिकर्मैकनिष्ठं विवेकेन च भ्रंशनात् स्वं नियच्छ । नरो भूतमात्रे दयास्नेहयुक्तो हरेर्भक्तितः शान्तिमन्तः प्रयुङ्क्ते ॥ १०६॥ मनो रुध्यतां क्रोध उद्भूतमात्रो मनो! धार्यतामादरः साधुसङ्गे । मनस्! त्यज्यतां दुष्टपापिष्ठसङ्गो मनो !ऽवाप्यतां तात! मोक्षाधिकारः ॥ १०७॥ मनो! नित्यसङ्गाद् अरे! सज्जनानां क्रिया ते विशुध्येत जायेत भक्तिः । निवर्तस्व रे! निष्क्रियोक्तेः सुशीघ्रं विवादान्तकारी हि संवाद इष्टः ॥ १०८॥ विवादो वृथा सर्वथा प्रोज्झितव्यः सुखान्तश्च संवाद एवावलम्ब्यः । मनः! सर्वदा शोकसन्तापहारी विवादान्तकारी हि संवाद इष्टः ॥ १०९॥ नयेद्वादमन्तं स संवाद उक्तो जयेत् स्वामहन्तां विवेकप्रभावात् । अहन्ताढ्यवादो विकारोद्भवाय विवादान्तकारी हि संवाद इष्टः ॥ ११०॥ मया ते हितायैव वक्तव्यमेवं मनः! सत्यमन्विष्यतां स्वं हितं च । हितायोद्धतं प्रोज्झ पाखण्डमेनं विवादान्तकारी हि संवाद इष्टः ॥ १११॥ गतं भाषणैरायुराकर्णनैश्च विवादस्तु तस्थौ यथापूर्वमेव । मनो! दाम्भिकः संशयोत्पादि-वादो विवादान्तकारी हि संवाद इष्टः ॥ ११२॥ अहन्ताबलाद् हन्त! विद्वद्वरेण्याः क्रियन्तो गता ब्रह्मरक्षःशरीरम् । परेशान्मनः ! कोऽधिको नाम विद्वां- स्त्वया द्रागहन्ताविहीनेन भाव्यम् ॥ ११३॥ मनो! मौखिको ब्रह्ममायाप्रपञ्चः किमर्थम्? स तु प्रत्यहं गर्ववृद्ध्यै । क्रियाहीनवाचालता निष्फलैव विचार्येति सत्यं स्वयं मृग्यतां तत् ॥ ११४॥ विवादान्तकारिस्थले ब्रूहि नित्यं विवेकादहन्तां सुकार्ये नियुङ्क्ष्व । सदावर्तनं तेऽस्तुभाषानुसारं पथा गच्छ भक्तेश्च शुद्धक्रियाभिः ॥ ११५॥
स नोपेक्षते भक्तमीशः कदापि ऋषेः शापतः पीडितेऽत्यम्बरीषे तदर्थं मुदा योऽग्रहीन्नैकदेहान् । ददौ बालक्ताय यः क्षीरसिन्धुं स नोपेक्षते भक्तमीशः कदापि ॥ ११६॥ सुदीनेन बालेन भक्तध्रुवेण य आर्तस्वराहूत आविर्बभूव । पदं सुस्थिरं व्योम्नि तस्मै ददौ च स नोपेक्षते भक्तमीशः कदापि ॥ ११७॥ गजेन्द्रेण यः प्रार्थितः प्राणकृच्छ्रे प्रधाव्याशु नक्रग्रहात्तं ररक्ष । प्रदीर्घप्रतीक्षार्तभक्तं दयार्द्रः स नोपेक्षते भक्तमीशः कदापि ॥ ११८॥ यदाऽजामिलं प्राप उग्रः कृतान्तो दयार्द्रेन पाप्मापि येनोधृतोऽसौ । अनाथाश्रयश्चक्रपाणिर्य एकः स नोपेक्षते भक्तमीशः कदापि ॥ ११९॥ विधातुः कृते यो बभूवाशु मीनः समुद्धर्तुमब्धेर्धरित्रीं च कूर्मः । जनार्थं वराहोऽप्यभून्नीचदेहः स नोपेक्षते भक्तमीशः कदापि ॥ १२०॥ पितृक्लेशिते भूरि कायाधवे हा ! नृसिंहाकृतौ स्तम्भतो योऽवतीर्णः । शिखा यन्मुखाग्नेस्त्वसह्याः प्रतीताः स नोपेक्षते भक्तमीशः कदापि ॥ १२१॥ कृपायाः प्रसादं यदेन्द्रो ययाचे तदर्थं दधाराकृतिं वामनस्य । द्विजान् रक्षितुं योऽभवद् भार्गवश्च स नोपेक्षते भक्तमीशः कदापि ॥ १२२॥ वने यन्नहल्यां मुमोचोग्रशापात् सुरान् यश्च सर्वान् दशास्यस्य बन्धात् । त्रिलोकेऽनदद्यद्यशोर्डिण्डिमश्च स नोपेक्षते भक्तमीशः कदापि ॥ १२३॥ य उग्रापदि द्रौपदीह्रीं प्रपातुं विहाय प्रियाराज्यचिन्तामधावत् । कलौ योऽश्रयद् बौद्धरूपं समौनं स नोपेक्षते भक्तमीशः कदापि ॥ १२४॥ स भूयोऽवतीर्णः प्रपातुं सुदीनान् अनाथांश्च, कल्किर्भविष्यत्यवश्यम् । ययुर्विक्लमं वर्णने यस्य वेदाः स नोपेक्षते भक्तमीशः कदापि ॥ १२५॥
सत्सङ्गे रामभक्तिः, राघवस्य पन्थाः निर्गुणबोधश्च भुवं सादरं योऽवतीर्णः सलीलं, ह्यनेकेषु वेषेषु भक्तावनार्थम् । न तं येऽभिजानन्ति सर्वेश्वरं ते दुरात्मान उग्राः खलाः पापरूपाः ॥ १२६॥ सुधन्यः स यो राघवध्यानयोगात् प्रशान्तोऽन्तरे, तन्मयस्तत्कथायाम् । गतो रामबोधेन यद्देहभावो विलीना च यद्वासना रामरूपे ॥ १२७॥ मनो! वासना वासुदेवेऽस्तु सर्वा मनः! कामना माऽस्तु ते कामसङ्गे । असत्यां मनः! कल्पनां माऽऽश्रयस्व, मनः! सज्जन! न्युष्यतां साधुसङ्गे ॥ १२८॥ सुगत्यै सतां सङ्गतिर्ह्यत्यवश्या तया दुर्मतिः सन्मतित्वं वृणोति । अनङ्गः स कामः खलो वञ्चकश्च ततो रे! त्वया निर्विकारेण भाव्यम् ॥ १२९॥ कुसङ्कल्पलेशोऽपि हेयः सदैव मनः सत्यसङ्कल्प एवावलम्ब्यः । जहीह्यञ्जसा जल्पनं निष्फलं च रमाकान्तमेकान्तकाले भजस्व ॥ १३०॥ मनो! भक्तियोग्यस्त्वसौ राम एकः, प्रसिद्धो भुवि ह्येकबाणैकशब्दः । जनोद्धारकर्त्री क्रिया दृश्यतेऽस्य विवेकं जना! राघवस्याश्रयध्वम् ॥ १३१॥ विचार्यैव यो भाषते वर्तते च भवोत्तापशान्त्यै सदा तस्य सङ्गः । न भाषस्व सम्यग्विमर्शं विना भो! सदा भाषणं वर्तनं तेऽस्तु शुद्धम् ॥ १३२॥ विरक्तश्च विज्ञानवानीशभक्तः कृतो निश्चयो येन च स्वात्मबोधे । सुपुण्यं हि तद्दर्शनस्पर्शलभ्यं तदीयः सुबोधश्च शङ्कापहारी ॥ १३३॥ अहङ्कारशून्यश्च नित्यं विरक्तो दयाशान्तियुक्तः क्षमी नित्यदक्षः । अलुब्धश्च यः क्षोभदैन्यप्रमुक्तो मनो! ऽसावभिज्ञायतां योगिराजः ॥ १३४॥ मनः! सेव्यतां भद्र! सत्सङ्गतिः सा निवर्त्त्याशु या दुर्मतिं स्वप्रभावात् । सुमार्गं प्रति प्रेरयत्यादरेण भियापेति यस्याः करालोऽपि कालः ॥ १३५॥
निधिर्ज्ञायतेऽहन्तया नो पुराणः भयव्याप्तमेतद्धि विश्वं समस्तं भयातीतमानन्दमास्वादयस्व । तदालोकनान्नश्यति द्वैतभावः प्रमुक्तस्ततो निर्भयत्वं प्रभुङ्क्ते ॥ १३६॥ हितं बोधितं साधुभिः स्पष्टशब्दैः स्थितः पूर्ववन्मन्दबुद्धिस्तु लोकः । विहातुं न देहात्मबुद्धिं क्षमोऽसौ निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १३७॥ अलभ्यं भ्रमाद् भूनिखातं हि वित्तं तथा जन्मदैन्यं गतो जीव एषः । न सन्त्यज्यते निश्चयो देहबुद्धे- र्निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १३८॥ स्थितो विश्वतो विश्वनाथः स नूनं शिलां मन्यते दुर्भगस्तस्य मूर्तिम् । न पुण्यं समाप्नोति ना भावहीनो निधिर्ज्ञायतेऽहन्तया नो पुराणः॥। १३९॥ निधेर्वञ्चितः सन्निधिस्थात् स्वकीया- न्निबद्धो गुणैर्दुःखमग्नः स जीवः । क्षमो लङ्घितुं तत्त्रयं न स्ववृत्त्या निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १४०॥ अतो ज्ञानिसाधुं जनेऽन्विष्य तस्य दृढं धार्यतां पादयुग्मं कृपार्थम् । विना सद्गुरोरञ्जनं सर्वथैव निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १४१॥ न तज्ज्ञायते, ज्ञायते नात्मरूपं ह्यहन्ता न विस्रंसते स्रंसते न । हृदो हन्त! नापैति नापैति शङ्का विनातिश्रमैर्नाप्यते नाप्यते तत् ॥ १४२॥ नरो नाभिजानाति मायाभ्रमाद्यद् हितात् सर्वथा वञ्च्यतेऽसौ स्वकीयात् । परीक्षां विनोद्दीप्तमायाविमुद्रां कटौ सन्निबध्नन्निवैषोऽतिमूढः ॥ १४३॥
मनोऽनन्तसद् मृग्यतां तत् प्रयत्नैः जगत्यस्ति किं सत्यमित्यादरेण मनोऽन्विष्यतां सर्वशक्यप्रयत्नैः । मनो! ऽस्मिन् प्रयासे प्रतीयेत देवो भ्रमाज्ञानशङ्कातमः स्यान्निरस्तम् ॥ १४४॥ सदा चिन्तयन्निन्द्रियार्थानहन्ताऽऽ- वृतो जायते जन्तुरज्ञानयोगात् । विवेकेन सम्प्राप्नुयाद् रे! स्वरूपं ततो नैव जीवः पुनर्जन्म याति ॥ १४५॥ इदं दृश्यमानं न जीवेच्चिराय भिनत्ति ह्यकस्मात् स कालः समूर्तम् । विनङ्क्ष्यत्यशेषं च काले समस्तं मनो!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४६॥ न तच्छिद्यते भिद्यते निर्विकारि जगद्व्याप्यगम्यं ह्यहम्भावयोगात् । क्षमं तन्न सोढं मनाग् द्वैतभावं मनो! ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४७॥ निराकार आधारभूतो विधेर्य- स्तथेशान्तराणामगम्यः श्रुतीनाम् । सखे! तेन सार्धं त्वयाप्तव्यमैक्यं मनो!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४८॥ न शक्नोति यत् प्रेक्षितुं चर्मचक्षु- र्न यस्य द्युतिं मृष्यति ज्ञानचक्षुः । यदीक्षाक्षणे लुप्यतीक्षाक्रियैव मनो!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४९॥ न पीतं, न नीलं, सितं श्यामलं वा, न तद् व्यक्तमव्यक्तरूपं न नूनम् । सविश्वासभक्त्या सुलभ्यं पदं यद्, मनौ!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १५०॥
समाधानसौख्यं सतां सङ्गतेन मनो! मार्गणाद् मार्गणात् सत्यबोधो, मनो! बोधनात् बोधनात् सत्यलाभः । समस्तं त्विदं सङ्गतेः सज्जनानां, स्थिरान्निश्चयात् सा च लभ्यानुरागात् ॥ १५१॥ वृथा चातुरी शाब्दिकज्ञानबोध- क्रियायां, हि तन्निर्णयोऽन्तस्त्ववश्यः । मनस्! तत्त्वसारं स्थितं ह्यन्यदेव, समस्तेष्वनुस्यूतमत्युत्तमं च ॥ १५२॥ नरे! पिण्डतत्त्वाऽऽदिविज्ञानतो वा, न नीतेः पटुत्वात् समाधानसौख्यम् । न वा योगयागैर्न वा त्यागभोगै- र्मनस्! तत् परं साधुसङ्गेन लभ्यम् ॥ १५३॥ यथाऽऽलक्षते प्रोज्झ्य निर्दिष्टशाखां, दिदृक्षुर्नभोमण्डले तं नवेन्दुम् । विहाय श्रुतं साधुसङ्गे तथैव, महावाक्यतत्त्वादि पश्येत् स्वरूपम् ॥ १५४॥ तदन्विष्यतां दृश्यते यन्न लोके, मनस्! तद्धि साधो! निगूढं नितान्तम् । करग्राह्यतां नैति तद्भोः! कदापि, जगद्व्याप्नुवच्चापि नाऽऽकल्यते तत् ॥ १५५॥
मनः! स्थीयतां प्रोज्झ्य सर्वामहन्ताम् प्रशंसन्निजज्ञानितां मूर्ख एव, ह्यतर्क्यं प्रभुं तर्कयेत् को जगत्याम् । सहाहन्तया लक्षितुं तं त्वशक्यं, तमालक्षमाणस्तदैक्यं समेति ॥ १५६॥ गवेषार्हशास्त्राणि नैकानि नूनं, परं धारयन्त्यैकमत्यं न तानि । कलिं कुर्वते स्वस्वशास्त्राभिमानात् प्रवीणाः, ततो रुध्यते ह्यात्मबोधः ॥ १५७॥ मनो! न्यायतर्कादिशास्त्राणि वेदाः, श्रुतिश्च स्मृतिर्भिन्नमार्गान् दिशन्ति । स्वयं ह्येष मौनं समेत्य स्थितोऽसौ, मनः! स्थीयतां प्रोज्झ्य सर्वामहन्ताम् ॥ १५८॥ अहन्ताकृतिं मक्षिकां भक्षयित्वा, रुचिः स्याद् महाबोधनास्वादने किम् । अहन्ता न यन्मानसात् सम्प्रणश्येत्, तदन्तः प्रपच्येत न ज्ञानबोधः ॥ १५९॥ मनो! ऽलं विषादान्तवादेन तावत् विकारप्रसूभेदबुद्ध्या कृतं च । मनो! मा सखे! बोधयान्यांस्तु तावद्, न यावत्तव स्यादहन्ता विलुप्ता ॥ १६०॥ अहन्ता सदा दुःखमेव प्रसूते। क्रियाहानिबोधः फलं नातनोति । सुखं त्वान्तरं सर्वसौख्यं प्रदत्ते, विमृग्य व्यपोह स्वयं तामहन्ताम् ॥ १६१॥ विवेकी नरोऽहन्तयापैति नीतेः, अनीत्या च स श्लाघ्यतामेति लोके । परं सोऽन्तराप्नोति सम्यक् प्रतीतिं यदाचार आलम्बितोऽस्त्यप्रमाणः ॥ १६२॥
सत्सङ्गे देहबुद्धिः आत्मबुद्धौ परिवर्तयितव्या प्रसक्तो दृढं निश्चये देहबुद्धेः सुखाद् वञ्च्यते ना स्वदेहादतीताम । परीवर्त्य बुद्धिं तनोरात्मबुद्धौ, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६३॥ मनः । कल्पितस्त्यज्यतामिद्रियार्थो, ह्यभिज्ञायतां निर्गुणो देव एकः । मनः । कल्पना रुध्यतां प्रोत्थितैव सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६४॥ वहन् देहगेहादि चिन्तामखण्डं, नरोऽत्यन्तलुन्धो हितं स्वं हिनस्ति । हरिं चिन्तयन् मुक्तिकान्ता वृणीयात्, सदाश्रीयतां सङ्गतिः सज्जनानाम्॥ १६५॥ अहन्ता प्रवृत्ता स्वदेहात् प्रवृद्धा, प्रियापुत्रमित्रादिमोहाद्, भ्रमाय । त्यजैनां द्रुतं जन्ममृत्युप्रमुक्त्यै, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६६॥
सगुणनिर्गुणातीतं शुद्धस्वरूपम् मनः! शाश्वते स्थातुमाद्यात्मरूपे, सखे! निश्चिनु द्राग् व्यपोह्य स्वशङ्काः । हितार्थं क्षणो युज्यतां सर्व एव, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६७॥ स्ववृत्त्यात्मरूपे स्थिरं विद्धि साधुं, य आशाविहीनत्वयोगाददीनः । मनो! बन्धनं वर्धयन् देहबुद्धिं, कथं सज्जनोपद्रवाय क्षमेत? ॥ १६८॥ सतामग्रतोऽनन्तपृच्छां विदध्या- न्निरस्येदहन्तां प्रविस्तारितां च । अशेषस्मृतिं देहबुद्धेर्विलोप्य, मनश्! चिन्त्यतां निर्गुणं शुद्धतत्त्वम् ॥ १६९॥ त्यजेदात्मबोधेन रे! देहबुद्धिं, विवेकेन सम्प्राप्यतां वस्तु तच्च । न वृत्त्या स्थिरीभूयते ब्रह्मणीति, तदेवानुसन्धीयतां सर्वकालम् ॥ १७०॥ मनश्! चर्मचक्षुष्पथात् सर्वसारं, सुगुप्तं, स आभास ईक्षापथे यद् । न चाऽऽकल्यते तद्गुणाभासशून्यं ह्यहन्तागुणात् कल्पनाया अगम्यम् ॥ १७१॥ मनो! द्योतयन्तीन्द्रियार्थांस्त्वविद्या सुविद्या च सा ब्रह्मबोधोपकर्त्री । द्विरूपास्ति सा कल्पना; निर्मलान्ते, विवेकेन संलीयते ब्रह्मरूपे ॥ १७२॥ अहङ्कारराहुः स्वरूपोत्थितोऽसौ, स्थितो व्याप्य तद् ब्रह्मरूपान्तरिक्षम् । दिशो ध्वान्तमेघावृता दुर्निरीक्ष्या, विचार्याप्यतां ब्रह्म तद् रे! विवेकात्॥ १७३॥ न शक्नोति यं लक्षितुं चर्मचक्षु- रशेषं भवं यश्च पश्यत्यरुद्धम् । ददात्येष नूनं क्षयातीतमोक्षं, सदा भक्तपक्षानुकूलश्च दक्षः ॥ १७४॥
देवाधिदेवः - केवलं ब्रह्म विधात्रा विधिर्लिख्यते सर्वभाले, विधिस्तद्विधातुर्ललाटे तु केन । जगद् दह्यतेऽन्ते समस्तं हरेण, हरोऽसौ परं दह्यतेऽन्ते तु केन ॥ १७५॥ अथ द्वादशार्काश्च रुद्रा दशैकाः, अगण्या असङ्ख्याकशक्ताश्च नूनम् । स सर्वेश्वरः कीदृशः कस्तथेति, विना सश्रमान्वेषणाज्ज्ञायते न ॥ १७६॥ न विच्छिद्यते भिद्यते देवराजः, स्थिरो निश्चलो दैन्यहीनो बलिष्ठः । अहन्ताप्रभावात् क्षमं नेक्षितुं तं, सखे! चर्मचक्षुः; स तिष्ठत्यगम्यः ॥ १७७॥ प्रियो यस्य यः सोऽर्च्यते तेन देवः, परं कोऽपि नान्विष्यतीशं तमेकम् । अहो! कोटिशो दृक्पथं यान्ति देवाः, प्रिया यस्य या ह्युत्तमा सैव भक्तिः ॥ १७८॥ त्रिलोकी यतो निर्मिता तं यथार्थं, न कोऽपि स्तवीतीश्वरं ह्येकमानम् । मनुष्याक्षिमार्गादतीतः स गुप्तो, विना सद्गुरोः सुप्रसादं न दृश्यः ॥ १७९॥
दाम्भिकाः गुरवः त्याज्याः; सद्गुरुः आश्रयितव्यः गुरुः कोटिशो लभ्यते मार्गणान्ते, ह्यनेकाश्च मन्त्रा, महांस्तत्प्रभावः । सकामेषु रे! साभिचारेषु, तेषु, गुरुष्वस्ति नैकोऽपि ते मुक्तिदाता ॥ १८०॥ अभक्तोऽभिचारी परार्थापहारी, मनो! दुर्गुणोन्मत्ततापप्रदश्च । तथा दाम्भिको निन्दको मत्सरी च, न साधुः, स तु ज्ञानिनामप्यगम्यः ॥ १८१॥ न रे! सद्गुरुः कामनासक्त इष्टः क्रियाहीनवाचालतायां पटुश्च । सदा वर्तते यस्तु वाचोऽनुसारं, तमेवादरात् सद्गुरुं मार्गयस्व ॥ १८२॥ मनो! ज्ञानवैराग्यभक्त्यन्वितश्च, विवेकी च योगी क्षमावान् कृपालुः । समर्थश्च चातुर्ययुक्तश्च विद्वान्, समाधानदः सद्गुरुर्मार्गितव्यः ॥ १८३॥
निःसङ्गवृत्त्या देवाधिदेवः भजनीयः असन् माययाप्नोत् सतस्तात! भावम्, इति ज्ञानबोधः सदुक्तेरुदेति । अनिर्वाच्यमत्युच्यतां बोधनार्थं, मनो! ऽनन्त सन् ,-मृग्यतां सन्ततं तत्॥ १८४॥ मनो! भीतिचिन्ताविहीनात्मरूपे, सदाऽऽच्छादयात्मानमत्यादरेण । मनो! दृक्पथं नैति रामः सलोके, सदैक्यात् कदाप्यात्मनो नैष भिन्नः ॥ १८५॥ समीपस्थ एवास्ति रामः सदैव, मनो!' मृग्यतां हे सखे! सत्यमेतत् । तवाखण्डयोगस्तु रामेण सार्धं, वियोगप्रसूं तां त्यज द्रागहन्ताम् ॥ १८६॥ मनो! ब्रह्मपिण्डाण्डयोरैक्यभाव- स्ततो वस्तु तद् भिन्नमेवास्ति नूनम् । मनो! भासमानं समस्तं प्रपश्येत्, सुखेनेह तिष्ठेत्तु निःसङ्गवृत्त्या ॥ १८७॥ जहि ज्ञानशस्त्रेण रे! देहभावं, विदेहस्थितौ याहि भक्तेः पथैव । विरक्त्याश्रयात् सर्वनिन्द्यं जहीहि, मनस्! तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ १८८॥ अभिज्ञायतां भूविनिर्मातृदेवो, विलोक्यैव तं मुच्यते मर्त्यजीवः । गुणातीतमेनं गुणाढ्यं भजस्व, परं तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ १८९॥ न कर्ता न भर्तापि सृष्टेः स देवः, परावागतीतः स मायाविहीनः । मनो! निर्विकल्पं सदा चिन्तयैनं, परं तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ १९०॥ न शक्नोति यो देहबुद्धिं विहातुं, स न ज्ञानबोधक्षमः सर्वथैव । परव्रह्म नाऽऽकल्यतेऽहन्तया च, कदाप्येति नाज्ञानपुञ्जो विनाशम् ॥ १९१॥ मनो निश्चलं यस्य रूपं ह्यबोध्यं, स सर्वोत्तमो ध्येय ऐक्यस्य योगात् । तदर्थं तु सर्वोपमा नूनमूना, स निःसङ्गताःसङ्गतातीत एव ॥ १९२॥ सुबोध्यो न देवो, ह्यबोध्योऽपि नैव, न शक्यः स्तवो वेदशास्त्रैश्च तस्य । अदृश्यो न, दृश्यो न, सद्युग्मसाक्षी, तदन्तो न गम्यो न गम्यः श्रुतीनाम् ॥ १९३॥ 'वसन्नन्तरे कीदृशो देव ?' इत्या- नतः पृष्टवान् साधकोऽत्यादरेण । 'तनुं प्रोज्झ्य देवो वसत्येष कुत्र? विशत्येष देहान्तरं किं पुनश्च' ॥ १९४॥ 'हृदिस्थं विजानीहि तं देवमेवं स्थितो व्याप्य विश्वं नभोवत् स सर्वम् । स सर्वत्र, नायाति वा याति नूनं, न रिक्तं स्थलं तं विना किञ्चिदस्ति ॥ १९५॥ 'असौ सञ्चरत्यन्तरालेऽणुमात्रे, ह्यनुस्यूत आस्ते न किञ्चिद्विना तम् । स्वयं याति तादात्म्यतां द्रष्टुकामो, लयं च त्रयं दर्शन-द्रष्टृ-दृश्यम् ॥ १९६॥ 'नभःसन्निभं राघवस्यास्य रूपं, सदा ध्यायतो जन्मनिर्मूलनाय । न तद्दर्शनाद् देहभावावशेष- श्चिरायोपभुक्त्वापि तन्नैव तृप्तिः ॥ १९७॥ 'नभोव्याप्य सृष्टिं समस्तां स्थितं तु, यथार्थोपमा नैव तद् राघवार्थम् । स्वभावादसौ सर्वमेवाद्वितीयः, कथं व्यापकाख्या तदीयोचिता स्यात् ॥ १९८॥। 'पुराणा'तिविस्तीर्णरूपं विबोद्धुं, न ते तर्कसम्पर्कलेशोऽपि शक्तः । तदत्यन्तगूढाद्वितीयं; प्रभावात्, परं सद्गुरोर्द्राक् सुबोध्यानुभव्यम् ॥ १९९॥ 'तदाकल्यते ज्ञानबोधात् स्वरूपं तदा सर्वसाक्षित्वमस्तं प्रयाति । उदेत्युन्मनस्त्वं च वाचो निरोधः, प्रतीतिश्च यत्, सर्वतो राम एव ॥ २००॥ 'अभिज्ञात आद्यात्मरूपे द्वितीयं, न सन्दृश्यते तदृते चिन्त्यते न । चिराद् मीलनं सात्मरूपं च लब्ध्वा, विदेहस्थितेर्देहतापः प्रशान्तः ॥ २०१॥
साध्यं भूत्वा साधनं कुर्यात् मनो! यद्यपीदं त्वयाप्तं सुगुह्यं, स्थिरीकर्तुमन्तःप्रयत्नोऽत्यवश्यः । सदा तत्त्वमाकर्ण्य ते निश्चयः स्यात्, सतां सङ्ग आश्रीयतां धन्यतायै ॥ २०२॥ मनो! भद्र! सङ्गं समस्तं विजह्यात् सतामाश्रयेताञ्जसात्यादरेण । विमुच्येत जन्मोग्रदुःखाद्, यतोऽन्यद्, विना साधनं, प्रेरितः सत्पथे ना ॥ २०३॥ मनः! सर्वसङ्गांश्छिनत्त्येष सङ्गो मनः! प्रापयत्येष मोक्षं च सद्यः । मनः! साधकं तारयत्येष शीघ्रं, मनो! द्वैतमेष ह्यशेषं भिनत्ति ॥ २०४॥
फलश्रुतिः मनोबोधमाकर्ण्य दोषघ्नमेनं, नरः साधनार्हो भवेद् मन्दबुद्धिः । शनैर्ज्ञानवैराग्यसामर्थ्यवांश्च, दृढं चात्र विश्वस्य भुञ्जीत मोक्षम् ॥ २०५॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : manobodhaH 2 marAThI manAche shlokasya saMskRitAnuvAda
% File name             : manobodha-skt2.itx
% itxtitle              : manobodhaH 2 (saMskRitAnuvAdaH ChAtrekRitaH)
% engtitle              : Manobodha 2
% Category              : raama, samartha-rAmadAsa
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : pramukha
% Author                : Swami Ramdas, translator Vishvanath Keshava Chatre
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description/comments  : in Sanskrit by Chatre, verses for mind
% Indexextra            : marathi-skt-engl, shloka Excel
% Latest update         : June 20, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP