श्रीरामधामस्तवः

श्रीरामधामस्तवः

श्रीरामचन्द्रपरब्रह्मणे नमः । ॐ शिवाय गुरवे नमः । श्रीमत्परमहंसपरिव्राजक श्रीतारकब्रह्मानन्दसरस्वतीविरचितः श्रीरामधामस्तवः । यस्यैकदन्तस्य परात्ममूर्तेः सङ्कल्पमात्रेण भवन्त्यभीष्टाः । तस्मै नमः सोमशिवैकभक्ति- ध्यानैकनिष्ठाय जगद्धिताय ॥ आलिङ्ग्य सीतामखिलात्मकां स्वां संविन्मयीं भास्वरवर्णगात्राम् । आनन्दयन् लोकगुरुः प्रशान्तः श्रीरामचन्द्रो जयति प्रभुर्नः ॥ १॥ इन्दुकोटिसदृशाननद्युतिं बिम्बकान्ति रुचिराधरं गुरुम् । अङ्कगामिमिथिलाधिपात्मजं रामचन्द्रमहमाश्रये परम् ॥ २॥ चन्द्ररश्मिसदृशाननप्रभं सुन्दरं मदनमोहनं प्रभुम् । कण्ठलम्बिवरहार भूषणं चिन्तयामि रघुनाथविग्रहम् ॥ ३॥ इन्द्रवन्द्यवरपादपङ्कजं भक्तहृद्गत तमोरविं प्रभुम् । सन्ततं शरणमात्मदं परं चिन्तयामि रघुनन्दनं गुरुम् ॥ ४॥ माहात्म्यं तस्य रामस्य यस्यैवेदं जगद्वशे । var जगद्गुरो स गुरुः स परं ब्रह्म सोऽहमस्मि सदाशिवः ॥ ५॥ यस्याः प्रसादेन परोऽवबुद्धः स्वात्माऽपि देवात्मतयाऽनुभूतः । तस्यै नमो वेदशिरोऽवगम्य - ब्रह्मात्मिकायै श्रुतिशास्त्रदेव्यै ॥ ६॥ अङ्के यस्याः शयानस्य मृत्युर्नास्तीति निश्चयः । श्रुतिं तां सन्ततं देवीं ध्यायामि परमात्मना ॥ ७॥ यस्य प्रसादेन भवन्ति लोकाः ऐश्वर्यशास्त्रार्थपरात्मसिद्धाः । तस्मै नमो विश्वहिते रताय विघ्नेश्वरायाखिललोककर्त्रे ॥ ८॥ सिद्धासनं प्राप्य जितेन्द्रिया ये सत्यात्मबुद्ध्या सकलंं विलाप्य । तिष्ठन्ति तत्त्वे सहजप्रबोधे तान् राघवानन्दगुरून्नमामि ॥ ९॥ जन्मकोटिभिरनुष्ठिताखिल- ध्यानकर्मपरमेश्वरेक्षणैः । कृत्स्नदृश्यगतदोषचिन्तनं बुद्धिमानथ करोति तत्त्वतः ॥ १०॥ यद्यदल्पमिह किञ्चिदीक्षते तत्तदेव परिणामि नश्वरम् । निश्चिनोति परिमार्गयत्यतो नित्यवस्तु किमिहेति तत्त्वतः ॥ ११॥ आत्मज्ञानं कारणं वेदवाक्यात् श्रुत्वा बन्धध्वंससाध्यस्य सिद्ध्यै । तच्च ज्ञानं वेदवाक्यैकलभ्यं मत्वा धीरो देशिकेन्द्रं वरिष्ठम् ॥ १२॥ गत्वा शान्तस्तस्य सेवां प्रयुञ्जं तिष्ठेत्तस्मै देशिको वाक्यजातम् । आदिश्यादौ बोधयेत्तत्त्वमर्थं श्रुत्या युक्त्या स्वानुभूत्या तथैव ॥ १३॥ (इति शिक्षावल्लीसङ्ग्रहः ॥) (अथानन्दवल्लीसङ्ग्रहः २ ।) श्रुतं ब्रह्म सत्यं यदादौ प्रधानं तदन्ते पुनर्ब्रह्मवाक्ये महेशम् । परं श्रूयते सेन्द्रदेवाद्यवेद्यं समस्तं यतो यच्च सर्वं यदन्तम् ॥ १४॥ (१) यद् ब्रह्मादौ सूचितं ब्रह्मवाक्ये यद् व्याख्यातं सत्यभूतं च ऋग्भिः । प्रत्यग्भूतं यच्च सर्वस्य जन्तोः तद् भूमाख्यं रामधाम प्रपद्ये ॥ १५॥ (२) यद् विज्ञानात्सर्वकामाप्तिरुक्ता यस्माज्जातं सूक्ष्मभूतं समस्तम् । यद् बोधार्थं कल्पिताः पञ्च कोशाः कोशातीतं रामधाम प्रपद्ये ॥ १६॥ (३) सत्तास्फूर्ती यत्र विश्रान्तिमेतः यस्मिन्नेतद् बम्भ्रमीतीह विश्वम् । यच्चादृश्यं नीडशून्यं न सङ्गि दृष्टे यस्मिन् बाध्यते भीतिहेतुः । यस्याज्ञानाद्भीतियुक्ताश्च देवाः तद् भूमाख्यं रामधाम प्रपद्ये ॥ १७॥ (४) यस्यानन्दस्यांशमग्नाश्च देवाः यस्यानन्दो भुज्यते वीत तृष्णैः । यच्चैतन्यं सर्वभूतान्तरस्थं यश्चादित्ये गीयते वेदवाक्यैः । यत् चैकत्वं ब्रह्मणः साक्षिणोक्तं तद् भूमाख्यं रामधाम प्रपद्ये ॥ १८॥ (५) यस्माच्छब्दाः शक्तिशून्या निवृत्ताः तद् भूमाख्यं रामधाम प्रपद्ये ॥ १९॥ (६) यत्राम्नायो वर्ततेऽमुख्यवृत्त्या यच्चाग्राह्यं बुद्धिवृत्त्यात्मभूतम् । यं चानन्दं प्राप्य विद्वानभीतः तद् भूमाख्यं रामधाम प्रपद्ये ॥ २०॥ (७) यस्मिन् ज्ञाते पुण्यपापे च नस्तो यस्मिन् दृष्टे विश्वमेतद्धि दृष्टम् । ध्येयं यच्च ब्रह्मविद्भिः प्रशान्तैः तद् भूमाख्यं रामधाम प्रपद्ये ॥ २१॥ (८) त्योगो यस्मै वर्तते वेदवाक्ये यद् विज्ञाने साधनं योगमाहुः । केचित्साङ्ख्याः साङ्ख्यमेवाद्रियन्ते तद् भूमाख्यं रामधाम प्रपद्ये ॥ २२॥ (९) अन्यो माता मेयमन्यद्धि यत्र पश्यन्नेवेत्येवमुक्तं हि लक्ष्म । विश्रम्यास्ते यत्र सत्ये परस्मिन्- तद् भूमाख्यं रामधाम प्रपद्ये ॥ २३॥ (१०) यद्विज्ञानात् सत्यवादित्वमेति यस्मात्सत्याज्जायते चातिवादी । यस्मिंल्लब्धे नास्ति कर्तव्य बुद्धिः तद् भूमाख्यं रामधाम प्रपद्ये ॥ २४॥ (११) कोशजातमपनीय बुद्धिमान् ब्रह्मरूपमनवद्यमीक्षते । सादरं सकलमानशेषिणा ब्रह्मपुच्छमिति वाक्यमानतः ॥ २५॥ (१२) अन्नं बाह्यं नाहमस्मीति सिद्धं तद्वद्देहो नाहमस्म्यन्नकार्यम् । नाहं देही तत्र यच्च प्रसिद्धं तेषां साक्षी सद्घनोऽहं परात्मा ॥ २६॥ (१३) नाहं श्रोत्रं त्वक् च चक्षुर्न चाहं जिह्वा घ्राणं पाणिपादं तथैव । पायूपस्थं वाङ्मनः प्राणवर्गो नाहं तेषां दृश्यतुच्छत्वहेतोः ॥ २७॥ (१४) नाहङ्कारो नापि वृत्तिस्तदीया विद्याविद्ये नापि सत्वं रजस्य । मूलाऽविद्या नापि माया तथैव तेषामेषामागमापाय हेतोः ॥ २८॥ (१५) दृष्टे हेयात्मन्यात्मनैवात्मभूते सर्वं दृश्यं बाध्यते ब्रह्मरूपे । यत्र त्वस्येत्यस्ति चात्र प्रमाणं सिद्धान्तः; स्यादागमापायितैषाम् ॥ २९॥ (१६) मायौ यद्वन्मायया विश्वमेतत् सृष्ट्वा स्वात्मन्यात्मनैवात्ति काले । अण्डे पिण्डे तद्वदेवाभिमानी खेलत्यात्मा संविदेकस्वभावः ॥ ३०॥ (१७) स्वप्नद्रष्टा यद्वदेवात्मदोषात् स्वप्ने सर्वं मानमेयादिभिन्नम् । पश्यन्नास्ते तद्वदेवात्र साक्षी तिष्ठत्यात्मा सच्चिदेकस्वभावः ॥ ३१॥ (१८) दृश्यदूरगतमात्मनाऽच्युतं भावयन्नखिलमात्मनि स्वके । दृश्यवर्गरहितः पुनर्भवे भूतभाविकृतवर्जितः स्वयम् ॥ ३२॥ (१९) परमपुरुषरूपे भूम्नि भूते परेशे परिमितिमिह किञ्चित् भाति यन्नास्ति तत्र । इतिमतिरहमस्मि ब्रह्म साक्षाच्चिदात्मा विगलितमदमानौ राजते सार्वभौमः ॥ ३३॥ (२०) समरसपरिपूर्णः स्वच्छचैतन्यसिन्धुः शमदमशरदिन्दुज्योतिरानन्दपूरः । जलनिधिशयनश्रीस्तुष्टिगाम्भीर्यशीलः स्वयमहमिति बुद्धिर्जायते नैव देही ॥ ३४॥ (२१) यत्र भाति सकलं जगच्चलं भित्तिचित्रमिव बुद् बुदोपमम् । सद्घनं सुखचिदात्मकं परं भूमरूपमहमस्मि तत्सदा ॥ ३५॥ (२२) प्रत्यक्तत्त्वतमोमोह तापसन्तापकृद्रविः । उदेति स्वे स्वके नित्यं सदानन्दप्रकाशकः ॥ ३६॥ (२३) स्वात्मगामि तमोजालमापीयायं विधुः सदा । कं वर्धयन् विवेकः स्वे काशते कोशदूरतः ॥ ३७॥ (२४) सम्पूज्य सीतापतिमाविरासीत् स्वानन्दसाम्राज्यमनामयं तत् । सर्वज्ञता शान्तिरसात्मनिष्ठे त्यागो विरागः परमः पराचि ॥ ३८॥ (२५) इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीरामचन्द्राश्रमपूज्यपादशिष्य श्रीतारकब्रह्मानन्दसरस्वतीविरचिता तैत्तिरीयोपनिषत्सङ्ग्रहरूपा श्रीरामधामस्तुतिः सम्पूर्णा । Encoded by N.S.Venkata Subramanian venkatasubr at gmail.com Proofread by N.S.Venkata Subramanian, Sunder Hattangadi
% Text title            : rAmadhAmastavaH
% File name             : rAmadhAmastavaH.itx
% itxtitle              : rAmadhAmastavaH (tArakabrahmAnandsarasvatIvirachitaH)
% engtitle              : rAmadhAmastavaH
% Category              : raama, brahmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : stotra
% Author                : tArakabrahmAnandsarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.S.Venkata Subramanian venkatasubr at gmail.com
% Proofread by          : N.S.Venkata Subramanian, Sunder Hattangadi
% Source                : Sri Rama Dhama Stava, ed. by P.V.Sivarama Dikshitar, Vighneshvara Venkateshvara trust, Madras 1985
% Latest update         : February 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org