श्रीरामकर्णामृतम्

श्रीरामकर्णामृतम्

श्रीरामाय नमः

प्रथमाश्वासः

श्रीरामं त्रिजगद्गुरुं सुरवरं सीतामनोनायकं श्यामाङ्गं शशिकोटिमञ्जुवदनं वक्षोल्लसत्कौस्तुभम् । सौम्यं सत्वगुणोत्तमं सुसरयूतीरे वसन्तं प्रभुं त्रातारं सकलार्थसिद्धिसहितं वन्दे रघूणां पतिम् ॥ १॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुवरान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ २॥ श्रीरामं बलवैरिनीलचिकुरं स्मेराननं श्यामलं कर्णान्तायतलोचनं सुरवरं कारुण्यपाथोनिधिम् । शोणाम्भोरुहपादपल्लवयुगं क्षोणीतनूजायुतं राजत्कुण्डलगण्डभागयुगलं रामं सदाऽहं भजे ॥ ३॥ श्रीरामं जगदेकवीरममलं सीतामनोरञ्जनं कौसल्यावरनन्दनं रघुपतिं काकुत्स्थवंशोद्भवम् । लोकानामभिराममङ्गलधनव्यापारपारायणं वन्देऽहं जनघोरपापनिकरध्वंसं विभुं राघवम् ॥ ४॥ श्रीरामं जगदीश्वरं जनकजाजानिं जनानन्दनं जन्तूनां जनकं जनार्तिहरणं लोकेश्वरं शाश्वतम् । जाबालादिमुनीश्वरैः परिवृतं जाज्ज्वल्यमानं सदा जङ्घालं जमदग्निसूनुहरणं जातानुकम्पं भजे ॥ ५॥ श्रीरामो रघुनायको रघुवरो राजीवनेत्राञ्चितो राजेन्द्रो रघुपुङ्गवो रघुकुलोत्तंसो रघूणां पतिः । रामो राक्षसनाशनोऽमितबलो राकेन्दुपूर्णाननो राजत्किङ्किणिकङ्कणाङ्कितकरो रामस्सदा पातु नः ॥ ६॥ श्रीरामचन्द्र करुणाकर राघावेन्द्र राजेन्द्रचन्द्र रघुवंशसमुद्रचन्द्र । सुग्रीवनेत्रयुगलोत्पलपूर्णचन्द्र सीतामनःकुमुदचन्द्र नमो नमस्ते ॥ ७॥ श्रीरामं करुणाकरं गुणनिधिं सीतापतिं शाश्वतं पारावारगभीरमब्जनयनं प्रावृड् (भ्राजद्) घनश्यामलम् । वीरश्रेष्ठमनामयं विजयिनं विश्वप्रकाशात्मकं घोरारिप्रकराधिकप्रहरणं कोदण्डरामं भजे ॥ ८॥ श्रीरामचन्द्रेति सलक्ष्मणेति नीलोत्पलश्यामलकोमलेति । आक्रोशतामस्त्वधुनैव जिह्वा सीतापते राघव राघवेति ॥ ९॥ श्रीरामचन्द्रे रमतां मनो मे रमाङ्गवामे विपदां विरामे । जितारिरामे प्रणतारिरामे गुणाभिरामे भुवनैकरामे ॥ १०॥ श्रीरामचन्द्र रघुपुङ्गव राजवर्य राजेन्द्रराज सुरनायक राघवेश । राजाधिराज रघुनन्दन रामभद्र दासोऽस्म्यहं च भवतः शरणागतोऽस्मि ॥ ११॥ श्रीरामं सरसीरुहाक्षममलं दूर्वाङ्कुरश्यामलं विद्युत्कोटिनिभप्रभाम्बरधरं वीरासनाधिष्ठितम् । वामाङ्कोपरि संस्थितां जनकजामालिङ्ग्य तां बाहुना तत्त्वं चापरपाणिना मुनिगणानाज्ञापयन्तं भजे ॥ १२॥ श्रीरामः सकलेश्वरो मम पिता माता च सीता मम भ्राताऽजश्च सखा प्रभञ्जनसुतः पत्नी विरक्तिः प्रिया । विश्वामित्रविभीषणप्रभृतयो मित्राणि बोधः सुतो भक्तिः श्रीहरिसङ्गता रतिसुखं वैकुण्ठमस्मत्पदम् ॥ १३॥ श्रीरामामलपुण्डारीकनयन श्रीराम सीतापते गोविन्दाच्युत नन्दनन्दन मुकुन्दानन्द दामोदर । विष्णो राघव वासुदेव नृहरे देवौघचूडामणे संसारार्णवकर्णधारक हरे कृष्णाय तुभ्यं नमः ॥ १४॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं काकुत्स्थं करुणाकरं गुणनिधिं विप्रप्रियं धार्मिकम् । राजत्कुण्डलमण्डिताननरुचिं रात्रिञ्चरध्वंसिनं शम्पाकोटिसमानकान्तिविलसन्मायामृगघ्नं भजे ॥ १५॥ रामं रत्नकिरीटकुण्डलधरं केयूरहारान्वितं सीतालङ्कृतवामभागममलं सिंहासनस्थं प्रभुम् । सुग्रीवादिसमस्तवानरनुतं संसेव्यमानं सदा विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं भजे ॥ १६॥ रामः सीतासमेतो निवसतु हृदये सानुजं राममीडे रामेण क्षीणपापस्त्रिविधमपि कृतं कर्म रामाय दद्याम् । रामादन्यं न जाने न हि किमपि महारामनाम्नः समानं रामे पश्यामि विश्वं भुवनमनुदिनं पाहि मां वीरराम ॥ १७॥ रामं राजशिखामणिं रघुपतिं देवारिदर्पापहं लोकानां हितकारिणं गुणनिधिं कारुण्यपुण्योदयम् । मुक्ताविद्रुमरत्नशोभिततनुं सौन्दर्यहस्ताम्बुजं कौसल्यातनयं भजामि सततं श्रेजानकीनायकम् ॥ १८॥ रामं वीरासनस्थं हृदयगतकरोदञ्चितज्ञानमुद्रं जानुन्यासक्तहस्तं क्षितिवरतनयाभूषितं वामभागे । षट्कोणे व्याहरन्तं पवनसुतयुतं मानसे मानयन्तं सुग्रीवे सेव्यमाने दृढशरधनुषा दक्षिणे लक्ष्मणेन ॥ १९॥ रामं सौमित्रिमित्रं रघुपतिममलं रामचन्द्रं रमेशं रम्यं श्रीराघवेशं शुभललितमुखं शुद्धसत्त्वं सुवीरम् । सीतासौन्दर्यपात्रं सुरमुनिविनुतं नीलमिन्दीवराभं वन्दे वन्दारुपालं रजनिचरहरं रम्यकोदण्डरामम् ॥ २०॥ रामं चन्दनशीतलं क्षितिसुतामोहाकरं श्रीकरं वैदेहीनयनारविन्दमिहिरं सम्पूर्णचन्द्राननम् । राजानं करुणासमेतनयनं सीतामनःस्यन्दनं सीतादर्पणचारुगण्डललितं वन्दे सदा राघवम् ॥ २१॥ रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोदण्डहस्तम् । कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं भीमं भीमाट्टहासं सकलभयहरं रामचन्द्रं भजेऽहम् ॥ २२॥ रामचन्द्रचरितं कथामृतं लक्ष्मणाग्रजगुणानुकीर्तनम् । राघवेश तव पादसेवनं सम्भावन्तु मम जन्मजन्मनि ॥ २३॥ रामो मत्कुलदैवतं सकरुणं रामं भजे सादरं रामेणाखिलघोरपापरहितो रामाय तस्मै नमः । रामान्नास्ति जगत्त्रयैकसुलभो रामस्य दासोऽस्म्यहं रामे प्रीतिरतीव मे कुलगुरो श्रीराम रक्षस्व माम् ॥ २४॥ श्रीरामचन्द्र तव कीर्तिसुरद्रुमस्य तारागणस्सुमनसः फलमिन्दुबिम्बम् । मूलं महाफणिपदं गगनं च मध्यं सर्वा दिशो भुवनमण्डलमालवालम् ॥ २५॥ वैदेहीं मुदिताभिजातपुलकां गाढं समालिङ्गयन् वामेन स्तनचूचुकं पुलकितं वामं करेण स्पृशन् । तत्त्वं दक्षिणपाणिना कलितया चिन्मुद्रया बोधयन् रामो मारुतिसेवितः स्मरतु मां साम्राज्यसिंहासने ॥ २६॥ वामाङ्कस्थितजानकीं परिल(र)सत्कोदण्डदण्डं करे चक्रं चोर्ध्वकरेण बाहुयुगले शङ्खं शरं दक्षिणे । विभ्राणं जलजातपत्रनयनं भद्राद्रिमूर्ध्नि स्थितं केयूरादिविभूषितं रघुपतिं रामं भजे श्यामलम् ॥ २७॥ वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेष्वपि । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसोरजकोमलरुचिं रामं भजे श्यामलम् ॥ २८॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ २९॥ वैदेहीं परिरभ्य जातपुलकां लज्जावतीं सुस्मितां काञ्चीनूपुरहारकङ्कणलसत्कर्णावतंसोज्ज्वलाम् । कस्तूरीघनसारचर्चितकुचां चन्द्राननां श्यामलं कन्दर्पाधिकसुन्दरं रघुपतिं श्रीरामचन्द्रं भजे ॥ ३०॥ वैदेहीरमणं विभीषणविभुं विष्णुस्वरूपं हरिं विश्वोत्पत्तिविपत्तिपोषणकरं विद्याधरैरर्चितम् । वैरिध्वंसकरं विरिञ्चिजनकं विश्वात्मकं व्यापकं व्यासाङ्गीरसनारदादिविनुतं वन्दामहे राघवम् ॥ ३१॥ मैथिल्या नगरे विवाहसमये कल्याणवेद्यन्तरे सामन्ते विमलेन्दुरत्नखचिते पीठे वसन्तौ शुभे । श‍ृण्वन्तौ निगमार्थवेदिविदुषामाशीर्गिरो राजितौ पायास्तां सुवधूवरौ रघुपती श्रीजानकीराघवौ ॥ ३२॥ असितकमलभासा भासयन्तं त्रिलोकं दशरथकुलदीपं दैवताम्भोजभानुम् । दिनकरकुलबालं दिव्यकोदण्डपाणिं कनकखचितरत्नालङ्कृतं राममीडे ॥ ३३॥ सुस्निग्धं नीलकेशं स्फुटमधुरमुखं सुन्दरभ्रूललाटं दीर्घाक्षं चारुनासापुटममलमणिश्रेणिकादन्तपङ्क्तिम् । विम्बोष्ठं कम्बुकण्ठं कठिनतरमहोरस्कमाजानुबाहुं मुष्टिग्राह्यावलग्नं पृथुजघनमुदारोरुजङ्घाङ्घ्रिमीडे ॥ ३४॥ वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ ३५॥ जानाति राम तव नामरुचिं महेशो जानाति गौतमसती चरणप्रभावम् । जानाति दोर्बलपराक्रममीशचापो जानात्यमोघपटुबाणगतिं पयोधिः ॥ ३६॥ दिव्यस्यन्दनमध्यगं रणरणच्चापान्वितं भीषणं कालाग्निप्रतिमानबाणकलितं घोरास्त्रतूणीद्वयम् । सुग्रीवाङ्गदरावणानुजमरुत्पुत्रादिसंसेवितं रामं राक्षसवीरकोटिहरणं रक्ताम्बुजाक्षं भजे ॥ ३७॥ ब्रह्माद्यामरसिद्धजन्मभवनं यन्नाभिपङ्केरुहं श्रीनिर्वाणनिकेतनं यदुदरं लोकैकशय्यागृहम् । यद्वक्षः कमलाविलासभवनं यन्नाम मन्त्रं सतां वासागारमखण्डमण्डलनिधिः पायात्स वो राघावः ॥ ३८॥ श‍ृङ्गारं क्षितिनन्दिनीविहरणे वीरं धनुर्भञ्जने कारुण्यं बलिभञ्जनेऽद्भुतरसं सिन्धौ गिरिस्थापने । हास्यं शूर्पणखामुखे भयवहे बीभात्समान्यामुखे रौद्रं रावणमर्दने मुनिजने शान्तं वपुः पातु नः ॥ ३९॥ माता रामो मत्पिता रामचन्द्रो भ्राता रामो मत्सखा राघवेशः । सर्वस्वं मे रामचन्द्रो दयालुः नान्यं दैवं नैव जाने न जाने ॥ ४०॥ मूले कल्पद्रुमस्याखिलमणिविलसद्रत्नसिंहासनस्थं कोदण्डद्वन्द्वबाणैर्ललितकरयुगेनार्पितं लक्ष्मणेन । वामाङ्कन्यस्तसीतं भरतधृतमहामौक्तिकच्छत्रकान्तिं शत्रुघ्नं चामराभ्यां विलसितमनिशं रामचन्द्रं भजेऽहम् ॥ ४१॥ वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकं पश्चाद्भागे च नित्यं दधदभिमतं साचितूणीरभारम् । वामेऽवामे लसद्भ्यां सह मिलिततनुं जानकीलक्ष्मणाभ्यां रामं श्यामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ॥ ४२॥ आम्भोधरश्यामलमम्बुजाक्षं धनुर्धरं वीरजटाकलापम् । पार्श्वद्वये लक्ष्मणमैथिलीभ्यां निषेव्यमाणं प्रणमामि रामम् ॥ ४३॥ कोदण्डदीक्षागुरुमप्रमेयं सलक्ष्मणं दाशरथिं दयालुम् । आजानुबाहुं जगदेकवीरं अनाथनाथं रघुनाथमीडे ॥ ४४॥ कर्पूराङ्गविलेपनं रघुवरं राजीवनेत्रं प्रभुं कस्तूरीनिकराकृतिं खरधृतिप्रध्वंसिनं श्रीहरिम् । कन्दर्पायुतकोटिसुन्दरतनुं कामारिसेव्यं गुरुं कान्ताकामदमप्रमेयममलं सीतासमेतं भजे ॥ ४५॥ नीलाब्द(ब्ज) वृन्दसदृशं परिपूर्णदेहं दिक्पालकादिसुरसेवितपादपद्मम् । पीताम्बरं कनककुण्डलशोभिताङ्गं सीतापतिं रघुपतिं सततं भजामि ॥ ४६॥ भर्गब्रह्मसुरेन्द्रमुख्यदिविजप्राञ्चत्किरीटाग्रसं सर्गानेकमणिप्रभाकरसहस्राभं पदाम्भोरुहे । दुर्गासन्ततसंस्तुताङ्घ्रिकमलं दुर्वारकोदाण्डिनं गङ्गासंस्फुटमौलिमानसहरं कल्याणरामं भजे ॥ ४७॥ अग्रे प्राञ्जलिमाञ्जनेयमनिशं वीरं च तारासुतं पार्श्वे पङ्क्तिमुखानुजं परिसरे सुग्रीवमग्रासने । पश्चाल्लक्ष्मणमन्तिके जनकजां मध्ये स्थितं राघवं चिन्तातूलिकया लिखन्ति सुधियश्चित्तेषु पीताम्बरम् ॥ ४८॥ क्षीराम्भोनिधिमध्यवर्तिनि सिते द्वीपे सुवर्णाचले रत्नोल्लासितकल्पभूरुहतले जाम्बूनदे मण्डपे । तेजोभ्राजितवेदिके सुरुचिरे माणिक्यसिंहासने हेमाम्भोरुहकर्णिकोपरितले वीरासनस्थं भजे ॥ ४९॥ दौर्दण्डैककमण्डलीकृतमहाकोदण्डचण्डाशुगैः निर्घातै रविकोटितुल्यनिशितैर्ब्रह्मादिमुख्यस्तुतैः । सुग्रीवादिसमस्तवानरवरानाज्ञापयन्तं गिरा तत्त्वं ताडय ताडयेत्यनुपदं श्रीरामचन्द्रं भजे ॥ ५०॥ भूकम्पं जनयन्नभो विदलयन्नम्भोनिधिं क्षोभयन् दैतेयांश्च विमर्दयन् गिरिवरान् भिन्दन् दिशः पूरयन् । वैदेहीमपि मोदयन् सकलगीर्वाणान् शिरः कम्पयन् कल्याणो रघुरामबाणविलसत्कोदण्डचण्डध्वनिः ॥ ५१॥ विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानवध्वान्तमित्रम् । भुवनशुभचरित्रं भूमिपुत्रीकलत्रं दशरथवरपुत्रं नौमि रामाख्यमित्रम् ॥ ५२॥ जननी जानकी साक्षाज्जनको रघुनन्दनः । लक्ष्मणो मित्रमस्माकं को विचारः कुतो भयम् ॥ जनको रामचन्द्रो मे जननी जनकात्मजा । हनुमत्प्रमुखास्सर्वे हरयो मम बान्धवाः ॥ ५३॥ जगति विशदमन्त्रं जानकीप्राणमन्त्रं विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् । दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं रघुपतिनिजमन्त्रं रामरामेति मन्त्रम् ॥ ५४॥ सीताया दक्षिणे पार्श्वे लक्ष्मणस्य च पार्श्वतः । तन्मध्ये राघवं वन्दे धनुर्बाणधरं हरिम् ॥ ५५॥ चन्द्रोपमं मलयचन्दनचर्चिताङ्गं मन्दारपुष्पभरपूजितपादपद्मम् । ब्रह्मेन्द्रवन्द्यमनिशं मुनिवृन्दसेव्यं वन्देऽरविन्दनयनं रघुरामचन्द्रम् ॥ ५६॥ ब्रह्मामृतानन्दफलप्रदायिनं वेदान्तविज्ञानसुगन्धपुष्पितम् । सीताशुभाङ्गाचितबाहुशाखिनम् श्रीरामकल्पद्रुममाश्रयामः ॥ ५७॥ कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयधामश्यामवर्णोऽभिरामः । अभिनवयुतविद्युन्नन्दितो मेघषण्डः शमयतु मम तापं सर्वदा रामचन्द्रः ॥ ५८॥ अलं शास्त्राभ्यासैरलमसकृदाम्नायपठनैः अलं तीर्थस्नानैरलमखीलयागव्रतजपैः । अलं योगाभ्यासैरलमपि महापातकधिया यदस्माकं रामस्मरणमहिमा सा विजयते ॥ ५९॥ सीतामनोमानसराजहंस संसारसन्तापहर क्षमालो । श्रीराम दैत्यान्तक शान्तरूप श्रीतारकब्रह्म नमो नमस्ते ॥ ६०॥ कदा वा साकेते विमलसरयूतीरपुलिने समासीनः श्रीमद्रघुपतिपदाब्जे हृदि भजन् । अये राम स्वामिन् जनकतनयावल्लभ विभो प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ६१॥ कदा वा साकेते तरुणतुलसीकाननवने निविष्टं तं पश्यन् सुरुचिरविशालोर्ध्वतिलकम् । अये सीतानाथ स्मृतिजनपते दानवजयिन् प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ६२॥ कदा वा साकेति मणिखचितसिंहासनतले समासीनं रामं जनकतनयालिङ्गिततनुम् । अये सीताराम त्रुटितहरधन्विन् राघुपते प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ६३॥ मार्गे मार्गे शाखिनां रत्नवेदी वेद्यां वेद्यां किन्नरीवृन्दगीतम् । गीते गीते जञ्जुलालापगोष्ठी गोष्ठं गोष्ठं त्वत्कथा रामचन्द्र ॥ ६४॥ वृक्षे वृक्षे वीक्षिताः पक्षिसङ्घाः सङ्घे सङ्घे मञ्जुलामोदवाक्यम् । वाक्ये वाक्ये मञ्जुलालापगोष्ठी गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचन्द्र ॥ ६५॥ श्वेतपुष्पकमारुह्य सीतया सह राघव । सुग्रीवादिभवद्भक्तैर्मनोमध्ये रमस्व मे ॥ ६६॥ दोर्भिः खड्गं त्रिशूलं डमरुमसिधनुश्चारुबाणं कुठारं शङ्खं चक्रं च खेटं हलमुसलगदाभिण्डापालं च पाशम् । विद्युद्वह्नी च मुष्टिं त्वभयवरकरं बिभ्रतं शुभ्रवर्णं वन्दे रामं त्रिनेत्रं सकलरिपुकुलं मर्दयन्तं प्रतापैः ॥ ६७॥ दुरिततिमिरचन्द्रो दुष्टकञ्जातचन्द्रः सुरकुवलयचन्द्रः सूर्यवंशाब्धिचन्द्रः । स्वजननिवहचन्द्रः शत्रुराजीवचन्द्रः प्रणतकुमुदचन्द्रः पातु मां रामचन्द्रः ॥ ६८॥ कल्याणदं कौशिकयज्ञपालं कलानिधिं काञ्चनशैलधीरम् । कञ्जातनेत्रं करुणासमुद्रं काकुत्स्थरामं कलयाम चित्ते ॥ ६९॥ वाल्मीकिस्मृतिमन्दरेण मथितस्सीतारमासम्भवः सुग्रीवामरभूरुहोऽङ्गदगजः सौमित्रिचन्द्रोदयः । वातोत्पन्नमणिर्विभीषणसुधः पौलस्त्यहालाहलः । श्रीरामायणदुग्धवार्धिरमलो भूयात्सुखश्रेयसे ॥ ७०॥ रघुनन्दन एव दैवतं नो रघुवंशोद्भव एव दैवतं नः । भरताग्रज एव दैवतं नो भगवान् राघव एव दैवतं नः ॥ ७१॥ उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामन- श्चन्द्राय प्रशमाय निर्मलगुणारामाय रामात्मने । ध्यानारूढमुनीन्द्रमानससरोहंसाय संसारवि- ध्वंसायाद्भुततेजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ७२॥ राजीवायतलोचनं रघुवरं नीलोतपलश्यामलं मन्दाराञ्चितमण्डपे सुललिते सौर्वर्णके पुष्पके । आस्थाने नवरत्नराजिखचिते सिंहासने संस्थितं सीतालक्ष्मणलोकपालसहितं वन्दे मुनीन्द्रास्पदम् ॥ ७३॥ वल्लीप्रवालनवपल्लवपादपद्मं कञ्जेक्षणं जलजनीलसरोरुहाभम् । सीमन्तिनीनयनमोहनमूलमन्त्रं रामं नमामि मुनिमानसराजहंसम् ॥ ७४॥ अलं विवादेन न मानुषोऽयं रामात्मना राक्षसमर्दनाय । भुजङ्गशय्यां परिमुच्य साक्षान्नारायणो भूतलमाजगाम ॥ ७५॥ लोकत्राणानुकारी दशवदनशिरःपङ्क्तिविच्छेदकारी लङ्कालङ्कारहारी भृगुतनयमनस्सर्वगर्वापहारी । सीतासीमन्तकारी मणिमयमुकुटो दिव्यकोदण्डधारी श्रीरामः पापहारी शमयतु दुरितं भूमिभारापहारी ॥ ७६॥ ब्रह्मादियोगमुनिपूजितसिद्धमन्त्रं दारिद्र्यदुःखभवरोगविनाशमन्त्रम् । संसारसागरसमुत्तरणैकमन्त्रम् । वन्दे महाभयहरं रघुराममन्त्रम् ॥ ७७॥ शत्रुच्छेदैकमन्त्रं सरसमुपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुचितसमये सङ्गनिर्वाणमन्त्रम् । सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वाश्रीराममन्त्रं जपतु जपतु मे जन्मसाफल्य मन्त्रम् ॥ ७८॥ आकर्णमारूढधनुर्गुणाढ्यं ब्रह्मास्त्रमुण्डीकृतराक्षसेन्द्रम् । रथाधिरूढं रणरङ्गधीरं रामं भजे रक्तसरोरुहाक्षम् ॥ ७९॥ एतौ तौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदौ वैदेहीकुचकुम्भकुङ्कुमरजः पङ्कारुणालङ्कृतौ । विश्वत्राणनिदानसाधुसरसप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि नः ॥ ८०॥ वामाङ्कोपरि संस्थितावनिसुतामामुक्तभूषोज्ज्वलां पश्यन्तं परिपूर्णचन्द्रवदनं भ्राजत्किरीटोज्ज्वलम् । आसीनं नवरत्नराजिखचिते सिंहासने राघवं सुग्रीवाङ्गदलक्ष्मणानिलसुतैरासेव्यमानं भजे ॥ ८१॥ जानक्याः कमलामलाञ्जलिपुटे याः पद्मरागायिताः न्यस्ता राघवमस्तके तु विलसत्कुन्दप्रसूनायिताः । स्रस्ताः श्यामलकायकान्तिकलिताः या इन्द्रनीलायिताः मुक्तास्ताश्शुभदा भवन्तु भवतां श्रीरामवैवाहिकाः ॥ ८२॥ नित्यं श्रीराममन्त्रं निरुपममधिकं नीतिसुज्ञानमन्त्रं सत्यं श्रीराममन्त्रं सदमलहृदये सर्वदाऽऽरोग्यमन्त्रम् । स्तुत्यं श्रीराममन्त्रं सुललितसुमनः सौख्यसौभाग्यमन्त्रं पठ्यं श्रीराममन्त्रं पवनजवरदं पातु मां राममन्त्रम् ॥ ८३॥ व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्योन्मूलकरौषधं भवभयप्रध्वंसनैकौषधम् । भक्तानन्दकरौषधं त्रिभुवने सञ्जीवनैकौषधं श्रेयः प्राप्तिकरौषधं पिब मनः श्रीराममनामौषधम् ॥ ८४॥ ध्यायेत्प्रातः सुरेशं रविकुलतिलकं रञ्जितानन्तलोकं बालं बालारुणाक्षं भवमुखविनुतं भावगम्यं भवघ्नम् । दीप्यन्तं स्वर्णक्लृप्तैर्मणिगणनिकरैर्भूषणैरुज्ज्वलाङ्गं कौसल्यादेहजातं मम हृदयगतं राममीषत्स्मितास्यम् ॥ ८५॥ मध्याह्ने रामचन्द्रं मणिगणललितं मन्दहासावलोकं मार्ताण्डानेकभासं मरकतनिकराकारमानन्दमूर्तिम् । सीतावामाङ्कसंस्थं सरसिजनयनं पीतवासो वसानं वन्देऽहं वासुदेवं वरशरधनुषं मानसे मे विभान्तम् ॥ ८६॥ ध्यायेद्रामं सुधांशुं नतसकलभवारण्यतापप्रहारं श्यामं शान्तं सुरेन्द्रं सुरमुनिविनुतं कोटिसूर्यप्रकाशम् । सीतासौमित्रिसेव्यं सुरनरसुगमं दिव्यसिंहासनस्थं सायाह्ने रामचन्द्रं स्मितरुचिरमुखं सर्वदा मे प्रसन्नम् ॥ ८७॥ केयूराङ्गदकङ्कणैर्मणिगणैर्वै रोचमानं सदा राकापर्वणि चन्द्रकोटिसदृशं छत्रेण वै राजितम् । हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ८८॥ विहाय कोदण्डमिमं मुहूर्तं गृहाण पाणौ मणिचारुवेणुम् । मायूरबर्हं च निजोत्तमाङ्गे सीतापते राघव रामचन्द्र ॥ ८९॥ शुद्धान्ते मातृमध्ये दशरथपुरतः सञ्चरन्तं परं तं काञ्चीदामानुविद्धं प्रतिमणिविलसत्किङ्किणीनिक्वणाङ्गम् । फाले मुक्ताललामं पदयुगनिनदन्नूपरं चारुहासं बालं रामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ॥ ९०॥ सम्पूर्णचन्द्रवदनं सरसीरुहाक्षं माणिक्यकुण्डलधरं मुकुटाभिरामम् । चाम्पेयगौरवसनं शरचापहस्तं श्रीरामचन्द्रमनिशं मनसा स्मरामि ॥ ९०॥ इन्द्रनीलमणिसन्निभदेहं वन्द्यमानमसकृन्मुनिवृन्दैः । लम्बमानतुलसीवनमालं चिन्तयामि सततं रघुवीरम् ॥ ९२॥ रामचन्द्र दयासान्द्र रघुवीर नृपोत्तम । लोचनाभ्यां कृपापूरपूर्णाभ्यां मां विलोकय ॥ ९३॥ समेति वर्णद्वयमादरेण सदा स्मरन् मुक्तिमुपैति जन्तुः । कलौ युगे कल्मषमानसानामन्यत्र धर्मे खलु नाधिकारह् ॥ ९४॥ भक्तप्रियं भक्तसमाधिगम्यं चिन्ताहरं चिन्तितकामधेनुम् । सूर्येन्दुकोटिद्युतिभास्वरं तं रामं भजे राघवरामचन्द्रम् ॥ ९५॥ सकलभुवनरत्नं सर्वशास्त्रार्थरत्नं समरविजयरत्नं सच्चिदानन्दरत्नम् । दशमुखहररत्नं दानवारातिरत्नं रघुकुलनृपरत्नं पातु मां रामरत्नम् ॥ ९६॥ मातुः पार्श्वे चरन्तं मणिमयशयने मञ्जुभूषाञ्चिताङ्गं मन्दं मन्दं पिबन्तं मुकुलितनयनं स्तन्यमन्यस्तनाग्रम् । अङ्गुल्यग्रैः स्पृशन्तं सुखपरवशया सुस्मितालिङ्गिताङ्गं गाढं गाढं जनन्या कलयतु हृदयं मामकं रामबालम् ॥ ९७॥ रामाभिरामं नयनाभिरामं वाचाभिरामं वदनाभिरामम् । सर्वाभिरामं च सदाभिरामं वन्दे सदा दाशरथिं च रामम् ॥ ९८॥ जय जय रघुराम श्रीमुखाम्भोजभानो जय जय रघुवीर श्रीमदम्भोजनेत्र । जय जय रघुनाथ श्रीकराभ्यर्चिताङ्घ्ने जय जय रघुवर्य श्रीश कारुण्यसिन्धो ॥ ९९॥ जय जय वरशङ्खश्रीगदाचक्रधारिन् जय जय निजदासप्राप्यदुर्लभ्यकाम । त्रिभुवनमय सर्वप्राणिभावज्ञ विष्णो शरणमुपगतोऽहं सर्वदा त्वां शरण्यम् ॥ १००॥ इक्ष्वाकुनन्दनं सुग्रीवपूजितं त्रैलो क्यरक्षकं सत्यसन्धं सदा । राघवं रघुपतिं राजीवलोचनं रामचन्द्रं भजे राघवेन्द्रं भजे ॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥ १०१॥ श्रीरामेत्येकदा वक्तुं मनो यस्य प्रवर्तते । वैकुण्ठवासिनस्तस्य कुलमेकोत्तरं शतम् ॥ १०२॥ राशब्दोच्चारमात्रेण मुखान्निर्यान्ति पातकाः । पुनः प्रवेशभीत्या च मकारस्तु कपाटवत् ॥ १०३॥ श्रीरामायणमादिकाव्यमृषिणा वाल्मीकिना निर्मितं वेदान्तार्थविशारदैरनुदिनं स्तुत्यं सुरैरर्चितम् । श्रेतॄणामघनाशनं सुरतरोस्तुल्यं तु मुक्तिप्रदं ये श‍ृण्वन्ति पठन्ति रामचरितं ते यान्ति विष्णोः पदम् ॥ १०४॥

द्वितीयाश्वासः

श्रीरामं जनकक्षितीश्वरसुतावक्त्राम्बुजाहारिणं श्रीमद्भानुकुलाब्धिकौस्तुभमणिं श्रीरत्नवक्षःस्थलम् । श्रीकण्ठाद्यमरौघरत्न मुकुटालङ्कारपादाम्बुजं श्रीवत्सोज्ज्वलमिन्द्रनीलसदृशं श्रीरामचन्द्रं भजे ॥ १॥ श्रीरङ्गेशपदाब्जलग्नहृदयं श्रीशङ्खचक्रान्वितं श्रीमन्निर्जरपादपस्फुटपदं श्रीसिंहपीठस्थितम् । श्रीवैकुण्ठसहस्रमस्तकलसद्भोगासने शायिनं श्रीभूमीसुतया युतं श्रितनिधिं श्रीराममूर्तिं भजे ॥ २॥ आनन्दकन्दमरुणाधरमम्बुजाक्षं आपीतवस्त्रमतसीकुसुमोज्ज्वलाङ्गम् । अक्षान्तवर्णमकलङ्कममेयमाद्यं सीतापतिं रघुपतिं शरणागतोऽस्मि ॥ ३॥ साकेते नवरत्नपङ्क्तिखचिते चित्रध्वजालङ्कृते वामे स्वर्णमये दलाष्टललिते पद्मे विमानोत्तमे । आसीनं भरतादिसोदरजनैः शाखामृगैः किन्नरैः दिक्पालैर्मुनिपुङ्गवैनृपगणैः संसेव्यमानं भजे ॥ वराभयं दिव्यरथाङ्गशङ्खं सकौस्तुभं वेष्टितपीतवस्त्रम् । किरीटहाराङ्गदकुण्डलाङ्गं श्रीवत्सचिह्नं शिरसा नमामि ॥ ६॥ दिगम्बरं किङ्किणिमेखलोज्ज्वलं ललाटपर्यन्तविलम्बितालकम् । कलद्वचस्कं कमनीयनूपुरं तं बालरामं शिरसा नमामि ॥ ७॥ मन्दारमूले मणिपीठसंस्थं सुधाप्लुतं दिव्यविराट्स्वरूपम् । सबिन्दुनादान्तकलान्ततुर्यमूर्तिं भजेऽहं रघुवंशरत्नम् ॥ ८॥ अनर्घ्यमाणिक्यविराजमानश्रीपादुकालङ्कृतशोभनाभ्याम् । अशेषवृन्दारकवन्दिताभ्यां नमो नमो रामपदाम्बुजाभ्याम् ॥ ९॥ ध्वजाम्बुजच्छत्ररथाङ्गशङ्ख दम्भोलिपाशाङ्कुशमत्स्यचिह्नम् । ब्रह्मेन्द्रदेवादिकिरीटकोटिसङ्घर्षिपादाम्बुजयुग्ममीडे ॥ १०॥ ललाटदेशोज्ज्वलबालभूषणं सताण्डवं व्याघ्रनखाङ्ककन्धरम् । दिगम्बरं शोभितबर्बरालकं श्रीबालरामं शिरसा नमामि ॥ ११॥ शताष्टदिव्यस्थलमूर्तिवन्दितं शतक्रतुब्रह्ममरुद्गणार्चितम् । शशाङ्कवैश्वानरभानुमण्डल- स्थितं भजेऽहं रघुवंशवर्धनम् ॥ १२॥ कर्णान्तविश्रान्तधनुर्गुणाङ्कं कलम्बलक्षीकृतराक्षसेश्वरम् । वृद्धश्रवः स्यन्दनमध्यसंस्थं रूक्षेक्षणं राममहं नमामि ॥ सुत्राम नीलोत्पल नीलमेघश्रीनिर्जिताङ्गं सुतया धरण्याः । युक्तं सुरेन्द्रावनमानसं तं रामं भजे राक्षसवंशनाशम् ॥ राकाचन्द्रनिभाननं रतिपतिद्वेषिप्रियं राक्षसा- धीशग्रीवविभेदनस्फुटपटुप्रख्यातबाणोज्ज्वलम् । रत्नालङ्कृतपादुकाञ्चितपदाम्भोजं रमावल्लभं रागद्वेषविहीनचित्तसुलभं रामं भजे तारकम् ॥ १५॥ आलोलस्फुटरत्नकुण्डलधरं चाविस्मितालङ्कृतं आधारादिकचक्रमण्डलगतं चाविस्मितालङ्कृतम् । आविर्भूतकृपातरङ्गजलधिं चाक्षान्तवर्णाश्रयं आपन्नार्तिनिदाघमेघसमभं रामं भजे तारकम् ॥ साकेतान्तरतारमण्डपमहामाणिक्यसिंहासने तन्मध्येऽष्टदलाम्बुजे स्फुटतरे चित्कर्णिके संस्थितम् । सौमित्र्यम्बुजमित्रसूनुभरतश्रीवायुपुत्रैर्वृतं मुद्रालङ्कृतापाणिसारसमजं रामं भजे तारकम् ॥ १७॥ विराजमानोज्ज्वलपीतवासं विशालवक्षःस्थलकौस्तुभश्रियम् । भजे किरीटाङ्गदरत्नकुण्डलं नमस्तुलस्याऽमलमालयाऽङ्कितम् ॥ १८॥ मूलादिषट्सरसिजान्त सहस्रपद्म- पत्रान्तरालिनिलयं भवबन्धनाशम् । नादान्तचन्द्रगलितामृतसिक्तरूपं नादान्तनादमहिमास्पदराममीडे ॥ १९॥ वन्दे वरप्रदमहावरदानगर्वलङ्काधिनाथकुलपर्वतनाशवज्रम् । तं रावणानुजमरुत्सुतभानुसूनुदिक्पालसोदरगणैः परिसेव्यमानम् ॥ २०॥ अज्ञानगाढतिमिरापहभानुमुर्तिं आरक्तचारुनयनाम्बुजमादिबीजम् । अम्भोधिमध्यवटपत्रशयानमादि- मध्यान्तशून्यमखिलास्पदरामचन्द्रम् ॥ २१॥ सुधासमुद्रान्तविराजमानद्वीपे सिते चन्दनपारिजाते । महासने पन्नगतल्पमध्ये निषण्णमीडे रघुवंशरत्नम् ॥ २२॥ स्मिताननं पद्मदलायतेक्षणं विनीलमाणिक्यजिताङ्गशोभितम् । जटाकिरीटं शरचापलाञ्छनं नमाम्यहं भानुकुलाब्धिकौस्तुभम् ॥ २३॥ प्रसूनबाणाङ्कितमिक्षुचापं चक्राब्जपाशाङ्कुशवंशनालम् । धरं करैरष्टभिरर्कवर्णं श्रीकृष्णरूपं प्रणमामि रामम् ॥ २४॥ बाहूरुपादोदरवक्त्रलोचनं दीप्तप्रचण्डानलदुर्निरीक्ष्यम् । अशेषवृन्दारकनागगोचरं भजामि ते राघव विश्वरूपम् ॥ २५॥ सहस्रनेत्राननपादबाहुमनन्तवीर्यं रविकोटितुल्यम् । स्रक्चन्दनालङ्कृतदिव्यदेहं भजाम्यहं ते हरिविश्वरूपम् ॥ २६॥ कदम्बकोदण्डगदाब्जसंयुतं दंष्ट्राकरालाङ्कधनञ्जयाननम् । पीतांशुकं स्वर्णकिरीटकुण्डलं भजामि ते राघव विश्वरूपम् ॥ २७॥ कोदण्डमिक्षुजनितस्मरपञ्चबाणं शङ्खं रथावयवमङ्कुशपाशवेणुम् । हस्ताष्टके नवमणिद्युतिमुद्वहन्तं प्रद्युम्नकृष्णमनिशं भज रामचन्द्रम् ॥ सीतालोकनतत्परं मणिनिधिं व्याख्यानमुद्राञ्चितं वामे जानुनि लम्बहस्तमनिशं वीरासने संस्थितम् । मूले कल्पतरोरनादिमुनिभिर्ब्रह्मादिभिः सेवितं मुक्ताहारकिरीटकुण्डलधरं मूर्धाभिषिक्तं भजे ॥ यद्रूपमानन्दकरं मुनीनां यद्बाणमाखण्डलशत्रुनाशनम् । यद्दैवतं सर्वजनान्तरस्थं तत्सर्वरूपं रघुनाथमीडे ॥ नादं नादविलीनचित्तपवनं नादान्ततत्त्वप्रियं नामाकारविवर्जितं नवघनश्यामाङ्गनादप्रियम् । नादाम्भोजमरन्दमत्तविलसद्भृङ्गं नदान्तस्थितं नादान्तध्रुवमण्डलाब्जरुचिरं रामं भजे तारकम् ॥ ३१॥ नानाभूतहृदब्जपद्मनिलयं नामोज्ज्वलाभूषणं नामस्तोत्रपवित्रितत्रिभुवनं नारायणाष्टाक्षरम् । नादान्तेन्दुगलत्सुधाप्लुततनुं नानात्मचिन्मात्रकं नानाकोटियुगान्तभानुसदृशं रामं भजे तारकम् ॥ ३२॥ खश्यामं खगवाहनं खगरिपुं खाद्यादिभूतात्मकं खातीतं खगमं खतत्परपदं खद्योतकोट्युज्ज्वलम् । खावाच्यं खगकेतनं खगमनं खर्वाटश‍ृङ्गालयं खारार्यं च खरन्ध्रपीठनिलयं रामं भजे तारकम् ॥ ३३॥ वेद्यं वेदगुरुं विरिञ्चिजनकं वेदान्तमूर्तिस्फुरद् वेदं वेदकलापमूलमहिमाधारान्तकन्दाङ्कुरम् । वेदीश‍ृङ्गसमानशेषशयनं वेदान्तवेदात्मिकं वेदाराधितपादपङ्कजमहं रामं भजे तारकम् ॥ ३४॥ मूलाधारधनञ्जयस्फुटपटुज्वालासमालिङ्गितं मूर्धन्यान्तशशाङ्कमण्डलगतं क्षीराभिषेकप्रियम् । मुक्ताशोभितमौलिभिर्मुनिवरैराराधितं भावये प्रख्यातैस्तिरगुणैर्जनाधिपगणैः शाखामृगैः सेवितम् ॥ ३५॥ ताराकारविमानमध्यनिलयं तत्त्वत्रयाराधितं तत्त्वाधीश्वरयोगनिर्गुणमहासिद्धैः समाराधितम् । तत्सङ्गं तरुणेन्दुशेखरसखं तारात्रयान्तर्गतं तप्तस्वर्णकिरीटकुण्डलयुगं रामं भजे तारकम् ॥ ३६॥ तारं तारकमण्डलोपरिलसज्ज्योतिः स्फुरत्तारका- तीतं तत्त्वमसीतिवाक्यमहिमाधारं तडित्सन्निभम् । तत्त्वज्ञानपवित्रितत्रिभुवनं तारासनान्तर्गतं तारान्तध्रुवमण्डलाब्जरुचिरं रामं भजे तारकम् ॥ ३७॥ कस्तूरीघनसारकुङ्कुमलसच्छ्रीचन्दनालङ्कृतं कन्दर्पाधिकसुन्दरं घननिभं काकुत्स्थवंशध्वजम् । कल्याणाम्बरवेष्टितं कमलया युक्तं कलावल्लभं कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ॥ ३८॥ मज्जीवं मदनुग्रहं मदधिपं मद्भावनं मत्सखं मत्तातं मम सद्गुरुं मोहान्धविच्छेदनम् । मत्पुण्यं मदनेकबान्धवजनं मज्जीवनं मन्निधिं मत्सिद्धिं मम सर्वकर्मसुकृतं रामं भजे तारकम् ॥ ३९॥ नित्यं नीरजलोचनं निरुपमं नीवारशूकोपमं निर्भेदानुभवं निरन्तरगुणं नीलाङ्गरागोज्ज्वलम् । निष्पापं निगमागमार्चितपदं नित्यात्मकं निर्मलं निष्पुण्यं निखिलं निरञ्जनपदं रामं भजे तारकम् ॥ ४०॥ ध्याये त्वां हृदयाम्बुजे रघुपतिं विज्ञानदीपाङ्कुरं हंसोहंसपरम्परादिमहिमाधारं जगन्मोहनम् । हस्ताम्भोजगदाब्जचक्रमतुलं पीताम्बरं कौस्तुभं श्रीवत्सं पुरुषोत्तमं मणिनिभं रामं भजे तारकम् ॥ ४१॥ सत्यं ज्ञानमनन्तमच्युतमजं चाव्याकृतं तत्परं कूटस्थादिसमस्तसाक्षिमनघं साक्षाद्विराट्तत्त्वदम् । वेद्यं विश्वमयस्वलीनभुवनस्वाराज्यसौख्यप्रदं पूर्णं पूर्णतरं पुराणपुरुषं रामं भजे तारकम् ॥ ४२॥ रामं राक्षसवंशनाशनकरं राकेन्दुबिम्बाननं रक्षोऽरिं रघुवंशवर्धनकरं रक्ताधरं राघवम् । राधाद्या(योगीन्द्रा)त्मनिवासिनं रविनिभं रम्यं रमानायकं रन्ध्रान्तर्गतशेषशायिनमहं रामं भजे तारकम् ॥ ४३॥ ताराकारं निखिलनिलयं तत्त्वमस्यादिलक्ष्यं शब्दावाच्यं त्रिगुणरहितं व्योममङ्गुष्ठमात्रम् । निर्वाणाख्यं सुगुणमगुणं व्योमरन्ध्रान्तरस्थं सौषुम्नान्तः प्रणवसहितं रामचन्द्रं भजेऽहम् ॥ ४४॥ मुक्तेर्मूलं मुनिवरहृदानन्दकन्दं मुकुन्दं कूटस्थाख्यं सकलवरदं सर्वचैतन्यरूपम् । नादातीतं कमलनिलयं नादनादान्ततत्त्वं नादातीतं प्रकृतिरहितं रामचन्द्रं भजेऽहम् ॥ ४५॥ निजानन्दाकारं निगमतुरगाराधितपदं परब्रह्मानन्दं परमपदयुगं पापहरणम् । कृपापारावारं परमपुरुषं पद्मनिलयं भजे रामं श्यामं प्रकृतिरहितं निर्गुणमहम् ॥ ४६॥ श्रीमद्वैकुण्ठनाथं सुरमुनिमुकुटज्योतिषं स्वर्णपीठं नीलाङ्गं चन्द्रवक्त्रं मणिमयमुकुटं बाणकोदण्डहस्तम् । पद्माक्षं पापनाशं प्रणवमयमहारत्नसिंहासनस्थं श्रीसीतावामभागं श्रितजनवरदं रामचन्द्रं भजेऽहम् ॥ ४७॥ साकेते मणिमण्डपे सुरतरुप्रान्ते विमानान्तरे पद्मे चाष्टदलोज्ज्वले नुतमहासौधे सुधापा(मा)न्विते । सख्ये सूर्यजरावणानुजमरुत्पुत्रानुजैः सेवितं मध्ये वासवनीलकोमलनिभं रामं भजे तारकम् ॥ ४८॥ हृदयकुहरमध्ये द्योतितं मन्त्रसारं निगमम(नि)यमगम्यं वेदशास्त्रैरचिन्त्यम् । हरिहरविधिवन्द्यं हंसमन्त्रान्तरस्थं दशरथसुतमीडे दैवतं देवतानाम् ॥ देवेन्द्रनीलनवमेघविनिर्जिताङ्गं पूर्णेन्दुबिम्बवदनं शरचापहस्तम् । सीतासमेतमनिशं शरणं शरण्यं चेतो मदीयमभिवाञ्छति रामचन्द्रम् ॥ ५०॥ ओतप्रोतसमस्तवस्तुनिचयं चौङ्कारबीजाक्षरं ओङ्कारप्रकृतिं षडक्षरहितं चौङ्कारकन्दाङ्कुरम् । ओङ्कारस्फुटभूर्भुवः सुव(प)रिधिं चौघत्रयाराधितं ओङ्कारोज्ज्वलसिंहपीठनिलयं रामं भजे तारकम् ॥ ५१॥ साकेते धवले सुरद्रुमत्तले सौधे विमानान्तरे आदिक्षान्तसमस्तवर्णकमले दिव्ये मृगेन्द्रासने । ओङ्कारोज्ज्वलकर्णिके सुरसरिन्मध्ये सदेवान्तरे व्यस्तं व्यासमुनीश्वाराद्यभिनुतं रामं भजे तारकम् ॥ ५२॥ कोदण्डदीक्षागुरुमादिमूलं गुणाश्रयं चन्दनकुङ्कुमाङ्कम् । सलक्ष्मणं सर्वजनान्तरस्थं परात्परं राममहं नमामि ॥ ५३॥ मूलाधारसरोरुहे हुतवहस्थाने त्रिकोणान्तरे कन्दे कुण्डलिकासुषुप्तिपटलीवासान्तवर्णाश्रये । बालार्कप्रतिमं सु(व)राभयकरं पाशाङ्कुशालङ्कृतं भूतत्त्वाश्रयमादिपूरुषमजं रामं भजे तारकम् ॥ ५४॥ स्वाधिष्ठानसरोरुहे प्रविलसद्वालान्तवर्णाश्रयं ब्रह्मग्रन्थिमहोन्नते करतले श्रीकुण्डिकामालिकाम् । पीठे रत्ननिभं वराभयकरं वाणीयुतं बिभ्रतं सर्वं सर्वगमिन्दिरासहचरं रामं भजे तारकम् ॥ ५५॥ डाफान्त्याक्षरपङ्कजे दशदले माणिक्यसम्पूरिते विष्णुग्रन्थिमये वराभयकरं चाशङ्खचक्रान्वितम् । मार्ताण्डद्युति मञ्जुनाभमतुलं पीताम्बरं कौस्तुभं सर्वं सर्वगमिन्दिरासहचरं रामं भजे तारकम् ॥ ५६॥ हृत्पद्मे विलयार्ककोटिसदृशं कण्ठान्तवर्णोज्ज्वले प्राणान्तप्रणवान्तरे च विलसद्वोधार्णपीठान्तरे । सूर्ये हंसमये सदाशिवपदं कोदण्डदीक्षागुरु वासामोक्ष रमासमेतमनिशं रामं भजे तारकम् ॥ ५७॥ साक्षात्षोडश दिव्यपत्रकमले जीवात्मसंस्थापिते रुद्रग्रन्थिमये मनोन्मनिपथे जालन्ध्रपीठान्तरे । शुभ्रज्योतिमयं शरीरसहितं संस्थं सुधाशीतलं शब्दब्रह्मनिवासभूतवदनं रामं भजे तारकम् ॥ ५८॥ भ्रूमध्ये निगमागमोज्ज्वलपदे चन्द्रे त्रिमार्गान्तरे निर्द्वन्द्वे निखिलार्थतत्त्वविलसत्सूक्ष्मे सुषुम्नोन्मुखे । आसीनं प्रलयार्कभासुरपदं ज्योतिः स्वरूपात्मकं कर्णानाञ्चितमोक्षलक्ष्मिसहितं रामं भजे तारकम् ॥ ५९॥ शीर्षाम्भोरुहकर्णिके निरुपमे श्रीषोडशान्ते शशि- प्रख्यातामृतवार्धिवीचिलहरीनिर्वाणपीठान्तरे । शब्दब्रह्मपरं चराचरगुरुं तेजः परं शाश्वतं सत्यासत्यमगोचरं हृदि सदा सीतासमेतं भजे ॥ साकेते रविकोटिसन्निभमहाहर्म्ये सुसिंहासने नानारत्नविनिर्मिते मुनिजनाकीर्णे सदानन्दने । देवाधीश्वरपङ्कजे निवासितं वामाङ्कसीतोज्ज्वलं देवेन्द्रोपलनीलकोमलनिभं रामं भजे तारकम् ॥ ६०॥ साकेते नगरे समस्तसुखदे हर्म्येन्दुकोटिद्युते नक्षत्रग्रहपङ्क्तिलग्नशिखरे चान्तर्यपङ्केरुहे । वाल्मीकात्रिपराशरादिमुनिभिः संसेव्यमानं स्थितं सीतालङ्कृतवामभागमनिशं रामं भजे तारकम् ॥ ६१॥ वन्दे राममनादिपूरुषमजं वन्दे रमानायकम् । वन्दे हारकिरीटकुण्डलधरं देवेन्द्रनीलद्युतिम् । वन्दे चापकदम्बकोज्ज्वलकरं वन्दे जगन्मङ्गलं वन्दे पङ्क्तिरथात्मजं मम गुरुं वन्दे सदा राघवम् ॥ ६२॥ वन्दे शौनकगौतमाद्यभिनुतं वन्दे घनश्यामलं वन्दे तारकपीठमध्यनिलयं वन्दे जगन्नायकम् । वन्दे भक्तजनौघदेवविटपं वन्दे धनुर्वल्लभं वन्दे तत्त्वमसीति वाक्यजनकं वन्दे सदा राघवम् ॥ ६३॥ वन्दे सूर्यशशाङ्कलोचनयुगं वन्दे जगत्पावनं वन्दे पत्रसहस्रपद्मनिलयं वन्दे पुरारिप्रियम् । वन्दे राक्षसवंशनाशनकरं वन्दे सुधाशीतलं वन्दे देवकपीन्द्रकोटिविनुतं वन्दे सदा राघवम् ॥ ६४॥ वन्दे सादरगर्वभङ्गविशिखं वन्दे जगज्जीवनं वन्दे कौशिकयागरक्षणकरं वन्दे गुरुणां गुरुम् । वन्दे बाणशरासनोज्ज्वलकरं वन्दे जटावल्कलं वन्दे लक्ष्मणभूमिजान्वितकरं वन्दे सदा राघवम् ॥ ६५॥ वन्दे पाण्डुरपुण्डरीकनयनं पूर्णेम्दुबिम्बाननं वन्दे कम्बुगलं करभ्जयुगलं वन्दे ललामोज्ज्वलम् । वन्दे पीतदुकूलमम्बुदनिभं वन्दे जगन्मोहनं वन्दे कारणमानुषोज्ज्वलतनुं वन्दे सदा राघवम् ॥ ६६॥ वन्दे नीलसरोजकोमलरुचिं वन्दे जगद्वन्दितं वन्दे सूर्यकुलाब्धिकौस्तुभमणिं वन्दे सुराराधितम् । वन्दे पातकपञ्चकप्रहरणं वन्दे जगत्कारणम् वन्दे विंशतिपञ्चतत्त्वरहितं वन्दे सदा राघवम् ॥ ६७॥ वन्दे साधकवर्गकल्पकतरुं वन्दे त्रिमूर्त्यात्मकं वन्दे नादलयान्तकस्थलगतं वन्दे त्रिवर्णात्मकम् । वन्दे रागविहीनचित्तसुलभं वन्दे सभानायकं वन्दे पूर्णदयामृतार्णवमहं वन्दे सदा राघवम् ॥ ६८॥ वन्दे सात्तिवकतत्त्वमुद्रिततनुं वन्दे सुधादायकं वन्दे चारुचतुर्भुजं मणिनिभं वन्दे षडध्व(ब्ज)स्थितम् । वन्दे ब्रह्मपिपीलिकादिनिलयं वन्दे विराड्विग्रहं वन्दे पन्नगतल्पशायिनमहं वन्दे सदा राघवम् ॥ ६९॥ अयोध्यापुरमण्डपे स्फुरितसिंहपीठे स्थितं वसिष्ठमुनिगौतमैर्भृगुशुकादिसंसेवितम् । दिनेशसुतरावणानुजसहोदराद्यावृतं भजामि रघुनन्दनं प्रणवबीजसारात्मकम् ॥ ७०॥ विलोलमणिमण्डलं विमलचन्द्रविम्बाननं विखण्डितदशाननं विततचापबाणोज्ज्वलम् । विमोहितजगत्त्रयं विकचपद्मपत्रेक्षणं विभीषणसुरक्षितं विजयराममीडे हरिम् ॥ ७१॥ चलत्कनककुण्डलोल्लसितदिव्यगण्डस्थलं चराचरजगन्मयं चरणपद्मगङ्गाश्रयम् । चतुर्विधफलप्रदं चरमपीठ मध्यस्थितं चिदंशमखिलास्पदं दशरथात्मजं चिन्तये ॥ ७२॥ सनन्दनमुनिप्रियं सकलवर्णवेदात्मकं समस्तनिगमागमस्फुरिततत्त्वसिंहासनम् । सहस्रनयनाब्जजाद्यमरवृन्दसंसेवितं समष्टिपुरवल्लभं दशरथात्मजं चिन्तये ॥ ७३॥ अनर्घ्यमणिपूरकोल्लसितदिव्यतेजः परं अनाहतसरोरुहस्फुरितहंसनादान्वितम् । अनन्तदलपङ्कजं स्फुटमृगाङ्कबिम्बामृता- प्लुताङ्गमखिलास्पदं दशरथात्मजं चिन्तये ॥ ७४॥ जाग्रत्स्वप्नसुषुप्तिकालविलसत्तत्त्वात्मचिन्मात्रकं चैतन्यात्मकमादिपापरहितं भूम्यादि तन्मात्रकम् । शाम्भव्यादिसमस्तयोगकुलकं सङ्ख्यादितत्त्वात्परं शब्दावाच्यमहं नमामि सततं व्युत्पत्तिनाशात्परम् ॥ ७५॥ ध्याये त्वां नवविद्रुमस्फुटतनुं बर्हालसन्मेचकं नासारञ्जितमौक्तिकं परिलसत्पीताम्बरं कौस्तुभम् । वेणूकम्बुरथाङ्गपाशपरिघप्रासेक्षुचापाशुगं श्रीरामं नवमन्मथाधिपमहं षट्कोणचक्रस्थितम् ॥ ७६॥ साकेते नगरे समस्तमहिमाधारे जगन्मोहनं रत्नस्तम्भसहस्रमण्डपमहासिंहासने साम्बुजे । विश्वामित्रवसिष्ठगौतमशुकव्यासादिभिर्मौनिभिः ध्येयं लक्ष्मणलोकपालसहितं सीतासमेतं भजे ॥ ७७॥ एकान्ते कमले जले विकसिते चन्द्रीकृतस्थापिते स्थाने तारकमण्डपे तनुबिलव्याप्ते सुधामण्डपे । अब्जार्कानिलमण्डलोपरि महाश्रीषोडशान्ते सदा नादान्ते जनकात्मजान्वितमहं रामं भजे तारकम् ॥ ७८॥ साकेते मणिमण्डपे सुरतरुप्रान्तेऽष्टवर्णोल्लसत् पत्रे तारककर्णिके प्रविलसत्कल्पप्रसूनाञ्चिते । पद्मे वेदचतुष्कमण्डलसिते नादान्तशय्यातले तं सेवे ध्रुवमण्डलेन्दुविगलत्पीयूषधाराप्लु(मृ)तम् ॥ ७९॥ ध्याये त्वां रविमण्डलेन्दुधवले पद्मे निषण्णं हरिं स्वर्णाभं करशङ्खचक्रललितं पीताम्बरं कौसुत्भम् । स्वर्णश्मश्रुनखालकं ललनया युक्तं किरीटाङ्गदं हारालङ्कृतवक्षसं पदयुगं श्रीपादुकालङ्कृतम् ॥ ८०॥ वसन्ताक्षराख्ये चतुः पत्रपद्मे त्रिकोणान्तकण्ठे धरातत्त्वयुक्ते । वराभीतिपाशाङ्कुशं विद्रुमाभं गजाश्वे निषण्णं भजे रामचन्द्रम् ॥ ८१॥ वलान्ताक्षराभ्यां च षट्पत्रपद्मे लसत्तोयतत्त्वे वराभीतिहस्ते । महाकुण्डिकां चाक्षमालां वहन्तं चतुर्वक्त्ररूपं भजे रामचन्द्रम् ॥ ८२॥ डफान्ताक्षराभ्यां मणिव्रातपूरे रथाङ्गाब्जहस्तं महेन्द्रोपलाङ्गम् । लसद्वह्नित्त्वं निषण्णं गदाङ्कं महाविष्णुरूपं भजे रामचन्द्रम् ॥ ८३॥ कठान्ताक्षराख्ये जगत्प्राणतत्त्वे वराभीतिहस्तं त्रिशूलं दधानम् । उमानाथमब्जारिखण्डोज्ज्वलाङ्कं स्मरारिस्वरूपं भजे रामचन्द्रम् ॥ ८४॥ विशुद्धाख्यपद्मे नभस्तत्त्वरम्ये अरूपं निरूपं समस्तेषुवासम् । विशिष्टं मनोगम्यमेकं त्वनादिं भजे जीवजीवात्मरामं च रामम् ॥ ८५॥ द्विपत्राब्जमध्ये मनस्तत्त्वगम्ये जगत्कारणं ज्योतिरानन्दरूपम् । लसद्भावविष्णुं मनोभावदीपं परात्मस्वरूपं भजे रामचन्द्रम् ॥ ८६॥ सदानन्ददेवे सहस्रारपद्मे गलच्चन्द्रपीयूषधारावृतान्ते । स्थितं राममूर्तिं निषेवे निषेवे- ऽन्यदैवं न सेवे न सेवे न सेवे ॥ ८७॥ सुधाब्जासितद्वीपमध्ये विमाने सुपर्वाणवृक्षोज्ज्वले शेषतल्पे । निषण्णं रमाङ्कं निषेवे निषेवे- ऽन्यदैवं न सेवे न सेवे न सेवे ॥ ८८॥ चिदंशं सदानन्दमानन्दकन्दं सुषुम्नाख्यरन्ध्रान्तरालं च हंसम् । सचक्रं सशङ्खं सपीताम्बराङ्कं परं चान्यदैवं न जाने न जाने ॥ ८९॥ सुपर्वाणवृक्षोज्ज्वलस्वर्णपीठे वनौकादिभिर्मौनिभिः सेव्यमानम् । स्थितं पुष्पवृष्ट्याऽऽवृतं राममूर्तिं सदा भूमिजायुक्तमीडे हृदन्ते ॥ ९०॥ करे दिव्यचक्रं परे चारुशङ्खं गले तारहारं ललाटे ललामम् । भुजङ्गे निषण्णं परानन्दरूपं सदा भूमिजायुक्तमीडे हृदन्ते ॥ ९१॥ चतुर्वेदकूटोल्लसत्कारणाख्ये स्फुरद्दिव्यवैमानिके भोगितल्पे । परन्धाममूर्तिं निषण्णं निषेवे- ऽन्यदैवं न सेवे न सेवे न सेवे ॥ ९२॥ लसद्दिव्यशेषाचले योगपीठे सदानन्दवैमानिके मासहायम् । मुनीनां हृदानन्दमोङ्कारगम्यं सदा भूमिजायुक्तमीडे हृदन्ते ॥ ९३॥ मनःस्थं मनोऽन्तःस्थमाद्यन्तरूपं महाचिन्तवर्जं च मध्यस्थमीशम् । मनोबुद्ध्यहङ्कारचित्तादिसाक्षिं परस्वप्रकाशं भजे रामचन्द्रम् ॥ ९४॥ परानन्दवस्तुस्वरूपादि साक्षिं परब्रह्मगम्यं परं ज्योतिमूर्तिम् । पराशक्तिमित्राप्रियाराधिताङ्घ्रिं परन्धामरूपं भजे रामचन्द्रम् ॥ ९५॥ परं पवित्रं परवासुदेवं परात्परं तं परमेश्वराख्यम् । गुणत्रयाराधितमूलकन्द- मादित्यवर्णं तमसः परस्तात् ॥ ९६॥ साकेते गुरुगन्धधूपनिविडे माणीक्यदीपान्विते कस्तूरीघनसारकुङ्कुमरसप्राचुर्यसारोज्ज्वले । नानापुष्पवितान पङ्क्तिरुचिरे सौवर्णसिंहासने वासं मन्मथमन्मथं मणिनिभं राम भजे तारकम् ॥ ९७॥ भङ्गोत्तुङ्गमयामृताब्धिलहरीमध्ये विराड्विग्रहे द्वीपे निर्जरपादपैः परिवृते कर्पूरदीपोज्ज्वले । ओङ्कारान्तरमन्दिरे मणिमये शेषान्तराशायिनं लक्ष्मीयुक्तमसारचित्सुखपदं रामं भजे तारकम् ॥ ९८॥ वैकुण्ठे नगरे सुरद्रुमतले स्वानन्दवप्रान्तरे नानारत्नविनिर्मितास्फुटपटुप्राकारसंवेष्टिते । सौधेन्दूपलशेषतल्पललिते नीलोत्पलाच्छादिते पर्यङ्के शयिनं रमादिसहितं रामं भजे तारकम् ॥ ९९॥ वैकूण्ठे पुटभेदने मणिमयप्रान्तेन्दुसिंहासने अक्षान्तान्तसरोरुहे शशिगलत्पीयूषवार्यन्तरे । चन्द्रार्कानलभानुमण्डलयुते शेषाहितल्पान्तरे वासं वासवनीलकोमलनिभं रामं भजे तारकम् ॥ १००॥ क्षीराब्धौ शशिशङ्खमौक्तिकलसद्द्वीपे सुधर्मान्तरे बिन्दौ सार्धकलान्विते परिलसन्नागान्तरे संस्थितम् । कोटीराङ्गदहारकुण्डलमणिग्रैवेयहारोज्ज्वलं श्रीवत्साञ्चितमिन्द्रनीलसदृशं रामं भजे तारकम् ॥ १०१॥ साकेतेऽनलचन्द्रभानुविलसत्तच्चक्रबिन्दुस्थितं बालार्कद्युतिभासुरं करतले पाशाङ्कुशौ बिभ्रतम् । बाणं चापयुतं विशालनयनं स्मेराननाम्भोरुहं स्त्रीपुंरूपधरं विलाससदनं रामं भजे तारकम् ॥ १०२॥ अर्धं रक्तवदर्धनीलरुचिरं अर्धेन्दुचूडार्चितं अर्धं रत्नकीरीटकुण्डलधरं ताटङ्कमर्धं धनुः । शङ्खं चक्रगदाब्जसंयुतकरं ध्येयं सदा वैष्णवं पाशं चाङ्कुशबाणसन्धृतकरं रामं भजे तारकम् ॥ १०३॥ सहस्रपत्राम्बुजकर्णिकान्तर्ज्योतिः प्रकाशं परमादिमूलम् । तेजोमयं जन्मजराविहीनं श्रीराघवं नित्यमहन्नमामि ॥ १०४॥ सकलभुवनरत्नं सच्चिदानन्दरत्नं सकलहृदयरत्नं सूर्यबिम्बान्तरत्नम् । विमलसुकृतरत्नं वेदवेदान्तरन्तं पुरहरजपरत्नं पातु मां रामरत्नम् ॥ १०५॥ इक्ष्वाकुवंशार्णवजातरत्नं सीताङ्गनायौवनभाग्यरत्नम् । वैकुण्ठरत्नं जनभाग्यरत्नं श्रीरामरत्नं शिरसा नमामि ॥ १०६॥ निगमशिशिररत्नं निर्मलानन्दरत्नं निरुपमगुणरत्नं नादनादान्तरत्नम् । दशरथकुलरत्नं द्वादशान्तस्थरत्नं पशुपतिजपरत्नं पातु मां रामरत्नम् ॥ १०७॥ शतमखनुतरत्नं षोडशान्तस्थरन्तं मुनिजनजपरत्नं मुख्यवैकुण्ठरत्नम् । निरुपमगुणरत्नं नीरजान्तस्थरत्नं परमपदविरत्नं पातु मां रामरत्नम् ॥ १०८॥ सकलसुकृतरत्नं सत्यवाक्यार्थरत्नं शमदमगुणरत्नं शाश्वतानन्दरत्नम् । प्रणयनिलयरत्नं प्रस्फुटज्ज्योतिरत्नं परमपदविरत्नं पातु मां रामरत्नम् ॥ १०९॥ निखिलनिलयमन्त्रं नित्यतत्त्वाख्यमन्त्रं भुवकुलहरमन्त्रं भूमिजाप्राणमन्त्रम् । पवनजनुतमन्त्रं पार्वतीमोक्षमन्त्रं पशुपति निजमन्त्रं पातु मां राममन्त्रम् ॥ ११०॥ प्रणवनिलयमन्त्रं प्राणनिर्याणमन्त्रं प्रकृतिपुरुषमन्त्रम्ब्रह्मरुद्रेन्द्रमन्त्रम् । प्रकटदुरितरागद्वेषनिर्नाशमन्त्रं रघुपतिनिजमन्त्रं राम रामेति मन्त्रम् ॥ १११॥ दक्षरथसुतमन्त्रं दैत्यसंहारमन्त्रं विविधविनुतमन्त्रं विश्वविख्यातमन्त्रम् । मुनिगणनुतमन्त्रं मुक्तमार्गैकमन्त्रं रघुपति निजमन्त्रं राम रामेति मन्त्रम् ॥ ११२॥ संसारसागरभयापहविश्वमन्त्रं साक्षान्मुमुक्षुजनसेवितसिद्धमन्त्रम् सारङ्गहस्तमुखहस्तनिवासमन्त्रं कैवल्यमन्त्रमनिशं भज राममन्त्रम् ॥ ११३॥ जयतु जयतु मन्त्रं जन्मसाफल्यमन्त्रं जननमरणभेदक्लेशविच्छेदमन्त्रम् । सकलनिगममन्त्रं सर्वशास्त्रैकमन्त्रं रघुपतिनिजमन्त्रं राम रामेति मन्त्रम् ॥ ११४॥ अज्ञानसम्भवभवाम्बुधिबाडवाघ्निं अव्यक्ततत्त्वनिकरप्रणवाधिरूढम् । सीतासमेतमनुजेन हृदन्तराले प्राणप्रयाणसमये मम सन्निधत्ताम् ॥ ११५॥

तृतीयाश्वासः

श्रीरामं शिवचापभङ्गनिपुणं सीताङ्गनावल्लभं सुत्रामार्चितपादपद्मयुगलं सूर्येन्दुनेत्रोज्ज्वलम् । कर्पूराङ्गविलेपनं घनरुचिं कारुण्यपाथोनिधिं वन्दे कल्पतरुप्रवेशितलसत्सिंहासनाधिष्ठितम् ॥ १॥ श्रीरामं शितिकन्धरस्य धनुषः सम्भेदनात्प्रापितां सीतां काञ्चनसन्निभां परिणतामाकल्परत्नोज्ज्वलाम् । वामाङ्कोपरि लज्जया नतमुखीमालोक्य दिव्यासने श्रीमद्भानुशशाङ्ककोटिनिवहः पायात्स वो राघवः ॥ २॥ श्रीरामं भुवनैकसुन्दरतनुं धाराधरश्यामलं राजीवायतलोचनं रघुवरं राकेन्दुबिम्बाननम् । कोदण्डादिनिजायुधाश्रितभुजैर्भान्तं विदेहात्मजा- धीशं भक्तजनावनं रघुवरं श्रीरामचन्द्रं भजे ॥ ३॥ आरामं वैभवानामभिनवसुपथं हारकेयूरकान्तं हासोल्लासाभिरामं मणिमयमुकुटं मङ्गलानां निवासम् । मन्दारामसीमान्तरमणिभवनाधिष्ठितं शिष्टसेव्यं सल्लापानन्दसिन्धुं प्रणवमभिनिशं रामचन्द्रं भजेऽहम् ॥ ४॥ रामं राजशिखामणिं रघुवरं राकेन्दुबिम्बाननं राजीवायतलोचनं रणहतानेकासुरं राघवम् । सीताचारुपयोधराञ्चितलसत्काश्मीरगन्धाचितं राजत्कुण्डलमण्डितं शुभकरं रामाभिरामं भजे ॥ ५॥ रामं कोमलनीलमेघविलसद्गात्रं पयोजाननं काकुत्स्थं दशकण्ठबाहुविदलत्कोदण्डबाणान्वितम् । पापघ्नं विशदायताक्षियुगलं सौमित्रिसंसेवितं भक्तानां परमौषधं मुनिवरैः संस्तूयमानं भजे ॥ ६॥ रामं श्यामलमेघकोमलरुचिं राकेन्दुबिम्बाननं रक्षोघ्नं रविजाचितं रघुवरं रत्नोज्ज्वलत्कुण्डलम् । राजीवाक्षममानुषं रणबलोदग्रं रमानुग्रहं राजेन्द्रं रमणीयरूपमसकृद्ध्याये जगन्मोहनम् ॥ ७॥ रामं रम्यगुणं रमापतिसमं राकाशशाङ्काननं राजन्यं रमणीयरूपममलं रामाभिरामं हरिम् । राजाराधितपादपद्ममनिशं राजन्यविद्भासितं राकेन्दुप्रतिमं धराकुचयुगे विन्यस्तहस्तं भजे ॥ ८॥ रामं कौशिकगौतमप्रियकरं सीतापतिं सानुजं रक्षोघ्नं वनवासिनं गुणनिधिं विघ्नघ्नमाप्तार्कजम् । सेतोर्बन्धनधीरवानरबलं धिक्कुम्भकर्णेन्द्रजित्- पङ्किग्रीवमवद्विभीषणमजं श्रीरामचन्द्रं भजे ॥ ९॥ रामं कोमलनीलनीरदनिभं नीलालकालङ्कृतं कट्यां शोभितकिङ्किणीझणझणध्वानैरुपेतं शिशुम् । कण्ठालम्बितरक्षुनिर्मलनखं कञ्जाक्षमब्जच्छविं भास्वन्तं मकुटाङ्गदादिविविधाकल्पं सदाऽहं भजे ॥ १०॥ रामं सीतासमेतं विमलरविशताभासमानं रसार्दं श्यामं देदीप्यमानस्मितरुचिरमुखं कुण्डलोद्भासिगण्डम् । श्रीवत्सं श्रीनिवासं सुरतरुविलसद्रत्नसिंहासनस्थं दिव्याकल्पोज्ज्वलाङ्गं दिविजपतिनुतं सन्ततं तं भजेऽहम् ॥ ११॥ जलनिधिकृतसेतुं देवतानन्दहेतुं दशमुखमुखरक्षोदारवैधव्यहेतुम् । मुनिजननिवहानां मुक्तिसौख्यादिहेतुं रघुवरकुलकेतुं कीर्तये धर्महेतुम् ॥ १२॥ सकलगुणनिधानं योगिभिः स्तूयमानं भजतु सुरविमानं रक्षितेन्द्रादिमानम् । महितवृषभयानं सितया शोभमानं स्मरतु हृदयभानुं ब्रह्म रामाभिरामम् ॥ १३॥ वरगुणमणिसिन्धुर्मैथिलीप्राणबन्धुः कनकशिखरिधैर्यो भूतमोभानुसूर्यः । दशरथनृपरत्नो देवताग्रैकगण्यो भजितभुवनभद्रो पातु मां रामभद्रः ॥ १४॥ त्रिदशकुमुदचन्द्रो दानवाम्भोजचन्द्रो दुरिततिमिरचन्द्रो योगिनां ज्ञानचन्द्रः । प्रणतनयनचन्द्रो मैथिलीनेत्रचन्द्रो दशमुखरिपुचन्द्रः पातु मां रामचन्द्रः ॥ १५॥ स्वयुवतिकुलचन्द्रं बन्धुदुग्धाब्धिचन्द्रं सुजनकुमुदचन्द्रं वैरिवक्त्राब्जचन्द्रम् । विकसितमुखचन्द्रं व्याप्तसत्कीर्तिचन्द्रं सकलभुवनचन्द्रं सन्ततं रामचन्द्रम् ॥ १६॥ भेतालं दशकण्ठकण्ठकदलीकन्दर्पदर्पापहं श्रीकण्ठाकृतिमाप्लुवन्तममलं घोरासुरप्राणहम् । बाणं प्रत्युपसंहरन्तमतुलं बाणासनोद्यत्करं वन्देऽरातिभयावहं मुनिनुतं रामं घनश्यामलम् ॥ १७॥ आकर्णान्तगुणोल्लसच्छरमजं कल्पान्तकालोपमं नेत्रान्तारुणतां वहन्तमनिशं प्रह्लाददं नाकिनाम् । पौलस्त्यासुरदृष्टिचञ्चलकरं शस्त्रास्त्रसन्धायिनं बाणानेकविचित्रहस्तकुशलं श्रीवीररामं भजे ॥ १८॥ स हि माता स हि तातः स हि मम तनयः स एव सोदर्यः । (न हि माता न हि तातो न हि मम तनयः न चैव सोदर्यः ।) इति मम कुटिले मृत्यौ रघुपतिरयमेव बन्धुरासन्नः ॥ १९॥ देवेन्द्रेण समर्पिते ध्वजयुते तत्स्यन्दने संस्थितं सोत्कण्ठं सुरवैरिवीर्यविभवं ज्ञात्वा भुजास्भालनम् । कृत्वा सूतयुतो दशाननहरं तूणीरसंस्थं शरं हृत्वा ज्यानिनदात्करोति भयदं श्रीवीररामं भजे ॥ २०॥ रुचिरमणिकिरीटं सुन्दरभ्रूललाटं कनकरुचिरचेलं काशसद्भोगखेलम् । विमलजलदनीलं कुण्डलोद्भासिकर्णं रघुकुलजनिरत्नं सन्ततं चिन्तयामि ॥ २१॥ श्रीवत्साङ्कमुदारकौस्तुभलसत्पीताम्बरालङ्कृतं नानारत्नविराजमानमुकुटं नीलाम्बुदश्यामलम् । कस्तूरीघनसारचर्चिततनुं मन्दारमालाधरं कन्दर्पायुतसुन्दरं रघुपतिं सीतासमेतं भजे ॥ २२॥ यन्नामैव सहस्रनामसदृशं यन्नाम वेदैः समं यन्नामाङ्कितवाक्यमासुरबलस्त्रीगर्भविच्छेदकम् । यन्नाम श्वपचार्यभेदरहितं मुक्तेः सदा दायकं यन्नाम्ना रघुरामनामरमणं श्रीरामनामामृतम् ॥ २३॥ रामं राक्षसमर्दनं रघुवरं दैतेयविध्वंसिनं सुग्रीवेप्सितराज्यदं सुरपतिं दैत्यान्तकं शार्ङ्गिणम् । भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं सामीरिस्तुतपादपद्मयुगलं सीतासमेतं भजे ॥ २४॥ रामं रक्तसरोरुहाक्षममलं लङ्काधिनाथान्तकं कौसल्यानयनोत्सुकं रघुवरं नागेन्द्रतल्पस्थितम् । वैदेहीकुचकुम्भकुङ्कुमरजोऽलङ्कारकारं हरिं मायामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ २५॥ रामं हेमतटित्प्रभांशुकधरं वीरासने संस्थितं बालं नीलमणिप्रभं मधुरिपुं दैत्येन्द्रगर्वापहम् । विश्वामित्रवसिष्ठवानरवरैः संसेव्यमानं सदा नित्यं भास्करचन्द्रकोटिसदृशं सीतासमेतं भजे ॥ २६॥ शत्रुघ्नो व्यजनाङ्कितोऽपि भरतः पार्श्वद्वये पश्चिमे छत्रं चामरसंयुतं कलितवान् संसेवते लक्ष्मणः । मूले कल्पतरोर्विमानविलसन्माणिक्यसिंहासने पद्मास्यं मुनिसेवितं रघुपतिं सीतासमेतं भजे ॥ २७॥ वामाङ्कोपरि तप्तकाञ्चननिभं सीतासमालोकितं हस्ताभ्यां धृतछत्रचामरधृता सौमित्रिणा सेवितम् । नित्यं पूजितपादपद्मयुगलं देवैः सुरेन्द्रादिभिः सेव्यं मानुषराक्षसैः कपिवरैः श्रीरामचन्द्रं भजे ॥ २८॥ कस्तूरीतिलकङ्कपीन्द्रहरणं कारुण्यवारान्निधिं क्षीराम्भोधिसुतामुखाब्जमधुपं कल्याणरामं विधिम् । कौसल्यानयनोत्सुकं कपिवरत्राणं महापौरुषं कामारिप्रियमर्ककोटिसदृशं सीतासमेतं भजे ॥ २९॥ विद्युत्कोटिदिवाकरद्युतिनिभं श्रीकौस्तुभालङ्कृतं योगीन्द्रैः सनकादिभिः परिवृतं कैलासनाथप्रियम् । मुक्तारत्नकिरीटकुण्डलधरं ग्रैवेयहारान्वितं वैदेहीकुचसन्निवासमनिशं सीतासमेतं भजे ॥ ३०॥ श्यामलमम्बुजातनयनं विस्तीर्णवक्षःस्थलं बाहुद्वन्द्वविराजितं सुवदनं शोणाङ्घ्रिपङ्केरुहम् । नानारत्नविचित्रभूषणयुतं कोदण्डबाणाङ्कितं त्रैलोक्यप्रतिमानसुन्दरतनुं सीतासमेतं भजे ॥ ३१॥ विद्युत्कोटिसहस्रभानुसदृशं सिंहासने संस्थितं मूले कल्पतरोर्महामणिमये भान्तं परेशं विभुम् । सुग्रीवाङ्गदजाम्बवादिहरिभिः संसेव्यमानं हरिं शम्बुब्रह्मसुरारिभिः परिवृतं सीतासमेतं भजे ॥ ३२॥ दिव्यारण्ययतीन्द्रनामनगरे मध्ये महामण्डपे स्वर्णस्तम्भसहस्रषोडशयुते मन्दारमूलाश्रिते । नानारत्नविचित्रनिर्मलमहासिंहासने संस्थितं सीतालक्ष्मणसेवितं रघुपतिं सीतासमेतं भजे ॥ ३३॥ यत्पादाम्बुजसम्भवा त्रिपथगा भागीरथी मुक्तिदा लोकानां हतकिल्बिषा भगवती मन्दाकिनी शाम्भवी । लोके भाति सरस्वती सुरनदी पूर्णेन्दुकान्तिप्रभा तं विष्णुं भरताग्रजं रघुवरं सीतासमेतं भजे ॥ ३४॥ यत्पादाम्बुजरेणुना मुनिसती मुक्तिं गता यन्महा- पुण्यं पातकनाशने त्रिजातां भाति स्मृता पाविनी । स्मृत्वा राघवमप्रमेयममलं पुर्णेन्दुमन्दस्मितं तं रामं सरसीरुहाक्षममलं सीतासमेतं भजे ॥ ३५॥ वैदेहीकुचमण्डलाग्रविलसन्माणिक्यहस्ताम्बुजं काञ्चीकङ्कणहारनूपुरलसत्केयूरहारान्वितम् । दिव्यश्रीमणिकुण्डलोज्ज्वलमहाभूषासहस्रान्वितं वीरं श्रीरघुवीरपुङ्गवं गुणनिधिं सीतासमेतं भजे ॥ ३६॥ वैदेहीकुचमण्डलोपरिलसन्माणिक्यहारावली- मध्यस्थं नवनीतकोमलरुचिं नीलोत्पलश्यामलम् । कन्दर्पायुतकोटिसुन्दरतनुं पूर्णेन्दुबिम्बाननं कौसल्याकुलभूषणं रघुपतिं सीतासमेतं भजे ॥ ३७॥ वैदेहीयुतवामभागमतुलं वन्दारुमन्दारकं वन्दे प्रस्तुतकीर्तिवासिततरुच्छायानुकारिप्रभम् । वैदेहीकुचकुङ्कुमाङ्कितमहोरस्कं महाभूषणं वेदान्तैरुपगीयमानमसकृत्सीतासमेतं भजे ॥ ३८॥ वैदेहीस्तनकुम्भसम्भ्रमपरीरम्भावृतं सिन्धुगं राकाचन्द्रनिभाननं रघुवरं राजीवपत्रेक्षणम् । प्रावृण्मेघनिभद्युतिं स्मितयुतं हारावलीभूषितं श्रीरामं प्रणमामि भक्तजनताचिन्तामणिं सन्ततम् ॥ ३९॥ वैदेहीरमणं हिरण्यतिलकं विश्वम्भरापालकं वर्षिष्ठं विविधायुधेषु निपुणं विद्वज्जनश्रीकरम् । विद्यावासगृहं वियच्चरनुतं विद्युत्प्रकाशाम्वरं विप्रत्राणविधेयमादिपुरुषं श्रीरामचन्द्रं भजे ॥ ४०॥ वैदेहीवशवर्तिनं रणजितं रत्नाकरागारिणं पङ्क्तिग्रीवमदापहं पटुभुजं पद्माप्तकोटिप्रभम् । विष्णुं जिष्णुमवार्यशौर्यनिलयं नीलाम्बुदश्यामलं रत्नालङ्करणान्वितं रघुपतिं श्रीरामचन्द्रं भजे ॥ ४१॥ देवानां हितकारिणं सुभुवने कृत्वाऽवतारं ध्रुवं रामं कौशिकयज्ञविघ्नदनुजघ्नं ताटकासंहरम् । नित्यं गौतमपत्निशापदलनश्रीपदरेणुं शुभं शम्भोरुत्कटचापखण्डनमहासत्त्वं भजे राघवम् ॥ ४२॥ राजीवनेत्र रघुपुङ्गव रामभद्र राकेन्दुबिम्बसदृशानन नीलगात्र । रामाभिराम रघुवंशसमुद्भव त्वं श्रीरामचन्द्र मम देहि करावलम्बम् ॥ ४३॥ मुकुररुचिरगण्डं पुण्डरीकाभतुण्डं करिकरभुजदण्डं रौद्रतेजोऽग्निकुण्डम् । नमितभुवनषण्डं भेदितोग्रारिमुण्डं गुणनिकरकरण्डं नौमि रामप्रचण्डम् ॥ ४४॥ कोदण्डकाण्डविनिवेशितबाहुदण्डं आखण्डलाद्यमरवर्षितपुष्पवर्षम् । आयोधनस्थितिरजःपरिधूसराङ्गं अव्यूतिदं रघुवरेन्द्रमरिप्रभेदम् ॥ ४५॥ सेव्यं श्रीराममन्त्रं श्रवणशुभकरं श्रेष्ठसुज्ञानमन्त्रं स्तव्यं श्रीराममन्त्रं नरकदुरितदुर्वारनिर्घातमन्त्रम् । भव्यं श्रीराममन्त्रं भजतु भजतु संसारनिस्तारमन्त्रं दिव्यं श्रीराममन्त्रं दिवि भुवि विलसन्मोक्षरक्षैकमन्त्रम् ॥ ४६॥ आजानुबाहुमरविन्ददृशं शुभाङ्गं राजाधिराजमघराजितमःपतङ्गम् । श्रीजानकीमुखसरोरुहमत्तभृङ्गं श्रीमानितं हृदि भजामि कृपान्तरङ्गम् ॥ ४७॥ एकेन बाणमपरेण करेण चापं हर्षं वहन्तमसमानजटाशिरस्कम् । सीतासहायमनुजेन सहाचरन्तं श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ४८॥ आमीलयन्दशशिरोवदनाम्बुजातं उन्मीलयन् जनकजानयनोत्पले च । आनन्दयन्सकलजीवचकोरराशिं श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ४९॥ रामं पुराणपुरुषं रमणीयवेषं राजाधिराजमुकुटार्चितपादपीठम् । सीतापतिं सुनयनं जगदेकवीरं श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ५०॥ सिंहासनस्थं सुरसेवितव्यं रत्नाङ्कितालङ्कृतपादपद्मम् । सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघवरामचन्द्रम् ॥ ५१॥ सुग्रीवमित्रं शुभनामरूपं लङ्काहरं राक्षसवंशनाशम् । वेदाश्रयाङ्गं विपुलायताक्षं रामं भजे राघवरामचन्द्रम् ॥ ५२॥ अनन्तकीर्तिं वरदं प्रसन्नं पद्मासनं सेवकपारिजातम् । राजाधिराजं रघुवीरकेतुं रामं भजे राघवरामचन्द्रम् ॥ ५३॥ पद्मासनस्थं सुरसेवितव्यं पद्मालयानन्दकटाक्षवीक्षम् । गन्धर्वविद्याधर गीयमानं रामं भजे राघवरामचन्द्रम् ॥ ५४॥ अचिन्त्यमव्यक्तमनन्तरूपं अद्वैतमानन्दमनादिगम्यम् । पुण्यस्वरूपं पुरुषोत्तमाख्यं रामं भजे राघवरामचन्द्रम् ॥ ५५॥ मन्दस्मितं कुण्डलगण्डभागं पीताम्बरं भूषणभूषिताङ्गम् । नीलोत्पलाङ्गं भुवनैकमित्रं रामं भजे राघवरामचन्द्रम् ॥ ५६॥ डिण्डीरहासमणिकुण्डलचारुकर्ण- दोर्दण्डशौर्यजितखण्डनशौर्यधीर । कोदण्डकाण्डपरिमण्डितपार्थिवेन्द्र वेतण्डयान जय राघव रामचन्द्र ॥ ५७॥ लोकान् सप्त निनादयन् हरिहयाश्वं भ्रामयन्निन्धयन् सप्ताख्ये भुवने प्रकम्पमुदयन् सप्तार्णवान् घूर्णयन् । उन्मूलानि रसातलानि जनयन् सप्तापि पृथ्वीधरान् सुश्रीराघवबाहुदण्डविदलत्कोदण्डचण्डध्वनिः ॥ ५८॥ ब्रह्माण्डं दलयन् वियद्विदलयन् भोगीशभोगस्थले सन्त्रासं जनयन् समुद्रपटलीतोयं समुद्वेलयन् । दिक्पालानतिक्षोभयन् कुलगिरीन् दीर्णत्वमापादयन् नक्षत्राणि च पातयन् विलसते शौरेर्धनुज्यारवः ॥ ५९॥ यश्चण्डगाम्भीर्यधनुर्वितेजोभूमण्डलीत्राणकृतावतारः । अखण्डलाद्यैरमरैरुपास्यः कोदण्डपाणिः कुलदैवतं नः ॥ ६०॥ वैदेह्या सह राजमानमनिशं सौवर्णसिंहासने मन्दारद्रुमवाटिकान्तरमहा श्रीचन्द्रकान्तालये । कैकेयीजनिमाञ्जनेयसहितं सौमित्रिणा सेवितं मेघश्याममुदारहासवदनं श्रीरामचन्द्रं भजे ॥ ६१॥ वैदेह्या पुलकाङ्कुरार्चिततनुर्व्यालम्बहस्ताम्बुजः हस्ते मोदितरत्नकङ्कणरवः कल्पद्रुमाणां वने । पादाभ्यां मणिपादुकाद्युतिकरं प्रेङ्खन्नखाभ्यां चरन् इष्टालापसुधारसं दिशतु मे श्रीरामचन्द्रं भजे ॥ ६२॥ वामाङ्कस्थितजानकीकुचयुगे विस्रस्तहस्ताम्बुजं उज्जृम्भाननपङ्कजं परिलसद्विस्पष्टबिम्बाधरम् । सत्तारेण विशिष्टकङ्कणरवे ओङ्कारशब्दाश्रये भान्तं शारदचन्द्रहासमनिशं वन्दे सदा राघवम् ॥ ६३॥ वैदेहीसहितं सुलक्ष्मणयुतं कैकासुतं सानुगं सुग्रीवं च विभीषणानिलसुतौ नीलं नलं साङ्गदम् । विश्वामित्रवसिष्ठगौतमभरद्वाजानुसंसेवितं रामं मारुतिसेवितं स्मर मनः साम्राज्यसिंहासने ॥ ६४॥ रामः प्राञ्जलिमग्रतोऽनिलसुतं सौभ्रात्रमादर्शयन् छत्राचामरयुग्मभासितकरान् पश्चात्स्थले पार्श्वयोः । वामाङ्गे च निजान् विभीषणमुखान् सम्भावयन् बोधयन् धीमुद्राकरतत्त्वरूपमवतात् साम्राज्यसिंहासने ॥ ६५॥ पौगण्डे हितबालकैः परिवृतः पूर्णेन्दुकान्ताननः प्रीत्या बद्धविचित्रहेमवसने संसक्तकाञ्चीगुणः । आजानुप्रविलम्बिबाहुयुगलः श्यामाम्बुभृद्विग्रहः भ्रातृव्यानुचरश्चराचरगुरुः पायात्स वो राघवः ॥ ६६॥ वैदेहीरमणीयवक्त्रवनजप्रद्योतखद्योतनं केलीसद्मनि रत्नदीपकलिकाकान्ते वसन्तं हरिम् । सौरभ्यप्रसवप्रयुक्तविलसच्छायान्तरे शायिनं श्रीमन्तं रघुवंशदीपकमणिं श्रीरामचन्द्रं भजे ॥ ६७॥ रामो बद्धपयोनिधिर्गुणनिधिर्गत्वाऽथ पारेऽम्बुधेः लङ्कां प्राप्य सकुम्भकर्णदनुजं हत्वा रणे रावणम् । तत्रास्थाप्य विभीषणं पुनरगात्सीतापतिः पुष्पकं चारूढः पुनरागतः स भृतवान् धात्रीमजः पातु नः ॥ ६८॥ रत्नोल्लसज्ज्वलितकुण्डलगण्डभागं कस्तूरिकातिलक शोभितभालभागम् । कर्णान्तदीर्घनयनं करुणाकटाक्षं श्रीरामचन्द्रमुखमात्मनि सन्निधत्ताम् ॥ ६९॥ हेलाभग्नशशाङ्कशेखरधनुर्भूमण्डलाखण्डल- श्रेणीमौलिलसद्विनूत्नमणिभिर्दीप्ताङ्घ्रिपङ्केरुहः । कल्याणं जनयत्यखण्डविभवः कल्याणलीलोत्सवे मार्ताण्डान्वयमण्डनश्च भवतादाविः स रामः सदा ॥ ७०॥ विद्युत्स्फुरन्मकरकुण्डलदीप्तचारु- गण्डस्थलं मणिकिरीटविराजमानम् । पीताम्बरं जलदनीलमुदारकीर्तिं श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ७१॥ करतलधृतचापं कालमेघस्वरूपं सरसिजदलनेत्रं चारुहासं सुगात्रम् । विचिनुत वनवासे विक्रमोदग्रवेषं प्रणमत रघुनाथं जानकीप्राणनाथम् ॥ ७२॥ यः पृथ्वीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः । निश्चक्रं हतराक्षसं पुनरगाद्ब्रह्मत्वमद्य स्थिरां कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ ७३॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकं मायाश्रयं विगतमायमचिन्त्यमूर्तिम् । आनन्दसान्द्रममलं निजबोधरूपं सीतापतिं विदिततत्त्वमहं नमामि ॥ ७४॥ श्रीरामं नवरत्नकुण्डलधरं श्रीरामरक्षामणिं श्रीरामं च सहस्रभानुसदृशं श्रीरामचन्द्रोदयम् । श्रीरामं श्रुतकीर्तिमाकरमहं श्रीराममुक्तिप्रदं श्रीरामं रघुनन्दनं भयहरं श्रीरामचन्द्रं भजे ॥ ७५॥ रामः पातु सदैव मामरिभयाद्रामं सदा भावये रामेणैव हृतं महत्तरतमो रामाय नित्यं नमः । रामान्नास्ति परं पदं सुललितौ रामस्य पादौ भजे रामे प्रीतिरचञ्चलाऽस्तु मम हे श्रीराम मां पालय ॥ ७६॥ राममिन्दीवरश्यामं राजीवायतलोचनम् ज्याघोषनिर्जितारातिं जानकीरमणं भजे ॥ ७७॥ हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं भूमावष्टभ्य तिष्ठन्नितरकरधृतं भ्रामयन्बाणमेकम् । आरक्तोपान्तनेत्रे शरदलितवपुः कोटिसूर्यप्रकाशः वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ७८॥ युद्धे सन्नद्धशस्त्रं कपिवरभयदं कुम्भकर्णं सुरारिं बाणेनैकेन सद्यः प्रकटितहुतभुग्विश्वरोषारुणाक्षम् । हत्वा कृत्वा प्रमोदं सुरकपिविततेर्मौनिवृन्दैकसेव्यं वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ७९॥ दैतेयोदग्रसेव्यं पटुतरविशिखं भीषणं घोरनादं देवेन्द्रस्तूयमानः स्फुटवरनिकरानन्धकादींश्च हत्वा । दिक्पालान् प्राप्य भोगान् मणिरुचिसुभगान् दिक्षु तान् दापयित्वा वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ८०॥ कौसल्यावीरगर्भाम्बुधिघनविलसत्पूर्णचन्द्रः प्रतापः मौनीन्द्रस्वान्तपद्मप्रविमलतरुणीधर्मनैपुण्यरूढः । मारीचं राक्षसेन्द्रं निजशरदहनायाहुतिं कल्पयित्वा वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ८१॥ यो दण्डकारण्यनिशाचरेन्द्रान् कोदण्डलीलाविषयीचकार । वेतण्डशुण्डायतबाहुदण्डः कोदण्डपाणिः कुलदैवतं नः ॥ ८२॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ ८३॥ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ । रक्षःकुलनिहन्तारौ भ्रातरौ रामलक्ष्मणौ ॥ ८४॥ कल्याणानां निदानं कलिमलदहनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परमप्राप्तये प्रस्थितस्य । विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानम् बीजं धर्मद्रुमस्य प्रभवति भवतां भूतये रामनाम ॥ ८५॥ कौसल्यानयनेन्दुं दशरथमुखारविन्दमार्ताण्डम् । सीतामानसहंसं रामं राजीवलोचनं वन्दे ॥ ८६॥ दीर्घबाहुमरविन्दलोचनं दीनवत्सलमनाथरक्षणम् । दीक्षितं सकललोकरक्षणे दैवतं दशरथात्मजं भजे ॥ ८७॥ सत्येन लोकाञ्जयति दीनान्दानेन राघवः । गुरुं शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ ८८॥ भर्जनं भवबीजानामार्जनं सुखसम्पदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम् ॥ ८९॥ सकृत्प्रणतरक्षी यः साक्षी यस्य विभीषणः । सापराधाप्रतीकारः स श्रीरामो गतिर्मम ॥ न जाने जानकीजाने राम त्वन्नामवैभवम् । स वेत्ति भगवान्शम्भुः वाल्मीकिर्वेत्ति वा न वा ॥ ९०॥ कृत्याकृत्यविवेकहीनमनसां हत्यादिभिर्जीविनां अत्यन्तं बहुतारकं तनुभृतामत्यन्त रम्भादिना । सत्यानन्दमयं समस्त निगमस्तुत्यास्पदं सम्पदां स्थानं श्रीरघुरामनामममलं नित्यं स्मरन्मुच्यते ॥ ९१॥ साकेते स्वनिकेतने सुरतरोर्मूले लसद्वेदिके हैमे रत्नमयं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं परिपूर्णचन्द्रवदनं भास्वत्किरीटं भजे ॥ ९२॥ विद्युद्वर्णोपमाङ्गीं विकचदलमुखीं विद्रुमाभाधरोष्ठीं वेतण्डौद्धत्यकुम्भप्रतिकुचयुगलां वेदिमध्यावतंसाम् । श्यामाभां फुल्लपद्मच्छदनिभनयनां चारुहासां सुनासां सीतां श्रीरामदेवीं श्रितजनवरदां चिन्तयेऽनन्तमूर्तिम् ॥ ९३॥ माणिक्यमञ्जीरपदारविन्दां रामार्कवत्फुल्लमुखारविन्दाम् । भक्तप्रदातृत्वकरारविन्दां देवीं भजे राघववल्लभां ताम् ॥ ९४॥ जयतु विजयकारी जानकीमोदधारी तपनकुलविहारी दण्डकारण्यचारी । दशवदनकुठारी दैत्यविच्छेदकारी मणिमुकुटकधारी चण्डकोदण्डधारी ॥ ९५॥ चेतः स्थितं चिन्तितचिन्तनीयं चिन्ताहरं चिन्तितपारिजातम् । अचिन्तनीयं बहु चिन्तयेऽहं त्वामेव रामं भुवनाभिरामम् ॥ ९६॥ साकेते शरदिन्दुकुन्दधवले सौधे महामण्डपे पर्यस्तागरुधूपधूमपटले कर्पूरदीपोज्ज्वले । सुग्रीवाङ्गदवायुपुत्रसहितं सौमित्रिणा सेवितं लीलामानुषविग्रहं रघुपतिं रामं भजे श्यामलम् ॥ ९७॥ रामः पिता राघव एव माता रामोऽथ बन्धुश्च सखा सखी वा । रामो गुरुर्मे परमं च दैवं रामं विना नान्यमहं स्मरामि ॥ ९८॥ या कृपा मुनिसन्त्राणे या कृपा कपिनायके । या विभीषणरक्षायां सा राम मम दीयताम् ॥ ९९॥ दयानिधे राघव रामचन्द्र निरस्व पापानि ममाबलानि । त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते ह्यखिलानभीष्टान् ॥ १००॥ अक्षीणबाणतूणीरः समारोपितकार्मुकः । दशग्रीवशिरोहर्ता श्रीरामः शरणं मम ॥ १०१॥ श्रीराम मे त्वं हि पिता च माता श्रीराम मे त्वं हि सुहृच्च बन्धुः । श्रीराम मे त्वं हि गुरुर्गरिष्ठः श्रीराम मे त्वं हि समस्तमेव ॥ १०२॥ पटुतरजलवाहध्वानमादाय चापं पवनजवनवेगं बाणमाकृष्य तूणात् । अभयवचनदायी सानुजः सर्वतो मे रणहरदनुजेन्द्रो रामचन्द्रः सहायः ॥ १०३॥ कौसल्यालसदालवालजनितः सीतालतालिङ्गितः सिक्तः पङ्क्तिरथेन सोदरमहाशाखाभिरत्युन्नतः । रक्षस्तीक्ष्णनिदाघपाटनपटुश्छायाभिरानन्दकृत् यच्छन् वाञ्छितसत्फलानि भवतु श्रीरामकल्पद्रुमः ॥ १०४॥ निगमशिशिररत्नं नित्यमाशास्यरत्नं जननुतनृपरत्नं जानकीरूपरत्नम् । भुवनवलयरत्नं भूभुजामेकरत्नं रघुकुलवरत्नं पातु मां रामरत्नम् ॥ १०५॥ विशालनेत्रं परिपूर्णगात्रं सीताकलत्रं सुरवैरिजैत्रम् । कारुण्यपात्रं जगतः पवित्रं श्रीरामरत्नं प्रणतोऽस्मि नित्यम् ॥ १०६॥ श्रीरामचन्द्रः श्रितपारिजातः समस्तकल्याण गुणाभिरामः । सीतामुखाम्भोरुहचञ्चरीको निरन्तरं मङ्गलमातनोतु ॥ १०७॥ इन्दीवरदलश्यामः पुण्डरीकनिभेक्षणः । धृतकोदण्डतूणीरो राम एव गतिर्मम ॥ १०८॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यातं रामं छत्रावृताननम् ॥ १०९॥ रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितुः वाचा पञ्चवटीवने विहरतस्तामाहरद्रावणः । निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः श‍ृण्वता सौमित्रे क्व धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥ ११०॥ श्रीरामचन्द्रेति दयापरेति भक्तिप्रियेति भवबन्धनमोचनेति । नाथेति नागशयनेति सदा स्तुवन्तं मां पाहि भीतमनिशं कृपणं कृतघ्नम् ॥ १११॥ रामचन्द्रचरितामृतपानं सोमपानशतकोटिसमानम् । सोमपानशतकोटिभिरेव जन्म नैति रघुनायकनाम्ना ॥ ११२॥ राम राम दयासिन्धो रामनाथ जगत्पते । त्वत्पादकमलासक्तिर्भवेज्जन्मनि जन्मनि ॥ ११३॥ श्रीराघवं रामचन्द्रं रावणारिं रमापतिम् । राजीवलोचनं रामं तं वन्दे रघुनायकम् ॥ ११४॥ यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं यन्नाभिषङ्गजभवः कमलासनः स्यात् । यन्नामसाररसिको भगवान् पुरारिः तं रामचन्द्रमनिशं हृदि भावयामि ॥ ११५॥ यस्यावतारचरितानि विरिञ्चलोके गायन्ति नारदमुखा भवपद्मजाद्याः । आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ रामचन्द्रचरणारविन्दयोरन्तरङ्गचरभृङ्गलीलया । तत्र सन्ति च रसाश्चतुर्विधाः माकरन्दरस एव पङ्कजे ॥ ११७॥ नानादिव्यास्त्रतेजः स्फुरदमितभुजः शत्रुसंहारधीरः कौटिल्यद्योतमानभ्रुकुटियुतमुखं धारयन्नम्बुदाभः । तूणीरद्युस्तवेगोल्लसितशरवरं ताडयित्वा दशास्यं वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ११८॥ जातिभ्रष्टोऽपि पापी परधनपरदारेषु नित्योद्यतो यः वास्तेयी ब्रह्महन्ता पितृवधनिरतो योगिवृन्दापकारी । ध्येयं कर्णामृतं यः पठति हि सततं रामचन्द्रस्य भक्तो योगीन्द्रैरप्यलभ्यं पदमपि लभते सर्वदेवैश्च सेव्यम् ॥ ११९॥

चतुर्थाश्वासः

श्रीरामं जनकात्मजाकुचतटी श्रीगन्धपङ्कोल्लसद् वक्षोवीथिमुदारमाश्रितमुनिं प्रादुर्भवत्कल्पकम् । ब्रह्मेशानमुखामरस्तुतमजं ब्रह्माण्डभाण्डाधिपं वन्दे कोसलकन्यकासुतमहं वाराशिगर्वापहम् ॥ १॥ साकेते मणिनिर्मिते प्रविलसत्सौधायुतानां शते अन्तर्गेहमतीतभानुनिलये चञ्चत्पताकोज्ज्वले । हर्म्ये भर्मघणङ्घणाघनरवद्घण्टाशतैरावृते दोलातल्पविहारिणं रघुपतिं सीतासमेतं भजे ॥ २॥ साकेते सौधबद्धध्वजशतमहिते राजमार्गे विशाले घण्टारावैरुपेते कनककुथयुते गन्धनागे वसन्तम् । विद्याकल्पोज्ज्वलाङ्गं रथगजतुरगैरावृतं सुप्रसन्नं रामं श्वेतातपत्रावृतमुखकमलं चिन्तयाम्यन्तरङ्गे ॥ ३॥ साकेते मणिकोटिभिः सुखचिते दिव्याम्बरालङ्कृते हेमस्तम्भसहस्रकोटिघटिते तारापथात्युन्नते । रम्यस्वर्णमये विचित्रभुवने दिव्यन्तरिक्षे मुदा रामं स्मेरमुखाम्बुजं रघुपतिं सीतासमेतं भजे ॥ ४॥ साकेते मणितोरणाञ्चितलसद्वीथीशतप्राङ्गणे सानन्दं भरतादिभिः सहचरैरत्यन्तमोदान्वितैः । क्रीडन्तं मणिकन्दुकैः करगतैरन्योन्यमत्युज्ज्वलैः । पौरस्त्रीनयनोत्सवैः प्रतिदिनं पूज्यं भजे राघवम् ॥ ५॥ साकेते कनकाद्रीश‍ृङ्गघटिते कल्पद्रुमैरावृते वैडूर्यादिमणीन्द्रकान्तिघटिते देवेन्द्रनीलोज्ज्वले । कुर्वन्तं मणिनायकं मणिगृहे माणिक्यपीठे भजे पुत्रौ मन्मथसुन्दरौ कुशलवौ संसेव्यपादाविमौ ॥ ६॥ साकेते जननीकरार्पितलसत्कस्तूरीकासुन्दरे फाले मौक्तिकजालकं शशिनिभं स्वर्णाङ्कितं वर्तुलम् । चूडालम्बमनोज्ञहारकलितं बिभ्राणमत्युज्ज्वलं रामं कोसलपुत्रिकावरसुतं सीतासमेतं भजे ॥ ७॥ साकेते सरयूजलेऽतिविमले प्रोत्फल्लपद्माङ्किते दिव्यश्री शतकोटि नृत्यरुचिरे स्वर्गापगासुन्दरे । पश्यन्तीषु सुराङ्गनासु शपथं क्रीडन्तमुर्वीसुतां बाहुभ्यां विमलोदकेन रुचिरं सीतासमेतं भजे ॥ ८॥ कदा सुरतरुस्थले कनकमण्डपे पुष्पके वरासनमुपेयिवान् वसुदलारविन्दोज्ज्वले । करेण हृदयस्पृशा कलितमुद्रचिन्मुद्रिकः मम स्फुटतु वासनामनिशमात्तवीरासनः ॥ ९॥ नदीरमणबन्धनं मतिमतामुदारं धनं जगद्विहितरन्धनं सकलकामनिष्पन्दनम् । विलिप्तहरिचन्दनं विनुतयातसङ्क्रन्दनं भजामि रघुनन्दनं पवननन्दनस्यन्दनम् ॥ १०॥ रक्ताम्भोरुहलोचनं कुवलयश्यामं कपोले धनुः कोटिन्यस्तकराम्बुजं धृततनुत्राणं जटामण्डितम् । जेतारं खरदूषणत्रिशिरसामाबद्धगोधाङ्गुलि- त्राणं मार्गणपुर्णतूणयुगलं कोदण्डरामं भजे ॥ ११॥ श्रीमत्कल्पद्रुमूले सकलमणिमये मण्टपे पुष्पकाख्ये तन्मध्ये सूर्यबिम्बद्युतिसरसिरुहे शोभमानेऽष्टपद्मे । पश्यन्निष्टां जनकतनयां वामभागोपसेव्यां सौमित्रिं भानुपुत्रं पवनसुतयुतं पातु मां रामचन्द्रः ॥ १२॥ विनीलजलदोपमं विमलचन्द्रबिम्बाननं विनिद्रमणिकुण्डलं विकचपुण्डरीकेक्षणम् । विभिन्न दनुजाधिपं विधृतबाणबाणासनं विभीषणवरप्रदं विजयराममीडेऽनिशम् ॥ १३॥ राजद्राजीवनेत्रं रघुकुलतिलकं रञ्जिताशेषलोकं वामाङ्कालोकिसीतं वरकरधनुषी कुण्डलोद्दीप्तगण्डम् । श्यामं शान्तं प्रसन्नं दरहसितमुखं वज्रसिंहासनस्थं रामं राजत्किरीटं रविशतविशदं राजराजेशमीडे ॥ १४॥ भद्रां व्याख्यानमुद्रां करसरसिरुहे दक्षिणे धारयन्तं सव्ये जानुन्युदारं करमपि च मुदा धारयन्तं स्फुरन्तम् । पश्यन्तं वामभागे करधृतकमलां चित्रभूषाविशेषां वैदेहीं काञ्चनाभां स्तनभरनमितां भावये रामचन्द्रम् ॥ १५॥ विबुधविटपिमूले जानकीलक्ष्मणाभ्यां सहितमनिलवेगं बाणमादाय चापम् । बहुशरपटुतूणं रम्यपुष्पोपहारं विबुधभरणचित्तं चिन्तये रामचन्द्रम् ॥ १६॥ जानाति राम तव स्वामिगतिं हनूमान् जानाति राम तव सख्यगतिं कपीशः । जानाति राम तव युद्धगतिं दशास्यो जानाति राम धनदानुज एव सत्यम् ॥ हे राम हे रमण हे जगदेकवीर हे नाथ हे रघुपते करुणालवाल । हे जानकीरमण हे जगदेकबन्धो मां पाहि दीनमनिशं कृपणं कृतघ्नम् ॥ १८॥ अयोध्यानाथ राजेन्द्र सीताकान्त जगत्पते । श्रीराम पुण्डरीकाक्ष रामचन्द्र नमोऽस्तु ते ॥ १९॥ दक्षिणे लक्ष्मणो धन्वी वामतो जानकी शुभा । पुरतो मारुतिर्यस्य तन्नमामि रघूत्तमम् ॥ २०॥ रामं राक्षसमर्दनं रघुपतिं शक्रारिविध्वंसिनं सुग्रीवेप्सित राज्यदं सुरपतेः पुत्रान्तकं शार्ङ्गिणम् । भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं सीतासेवितपादपद्मयुगलं रामं भजे श्यामलम् ॥ २१॥ भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ २२॥ रामं श्यामपयोदनीलममलं राजीवनेत्रं सदा- ऽहल्याशापनिवारण प्रणयपादाम्भोजमुर्वीश्वरम् । विद्युत्कोटिसहस्रदीधितिलसत्कोटीरमुक्तोज्ज्वलं ध्याये तारकनाममीश्वरसखं दैतेयवंशापहम् ॥ २३॥ दशरथसुतमीशं दण्डकारण्यवासं शतमखमणिनीलं जानकीप्राणलोलम् । सकलभुवनमोहं सन्नुताम्भोददेहं बहुलनुतसमुद्रं भावये रामभद्रम् ॥ २४॥ सूर्यतीरवने लतानिवसने सद्रत्नवेदीतटे श्रीपर्यङ्कतले विदेहसुतया सार्धं परिक्रीडता । कस्तूरीघनसारचन्दनमिलद्गन्धोल्लसत्पावनी पायान्मूर्तिरनामयी रघुपतेर्भद्रात्मिका नोऽनिशम् ॥ २५॥ वैदेहीप्रियवल्लभं विजयिनं वातात्मजाधीश्वरं वाणीवारिधिवानरादिविनुतं वन्दारुमन्दारकम् । विश्वामित्रवसिष्ठवासवशिवावागीशशश्वन्नुतं देवेशं विनतात्मजाभिविनुतं वन्दे सदा राघवम् ॥ २६॥ विशालनेत्रं परिपूर्णगात्रं सीताकलत्रं सुरवैरिजैत्रम् । जगत्पवित्रं परमात्मतन्त्रं श्रीरामचन्द्रं प्रणमामि चित्ते ॥ २७॥ सौमित्रिमानार्णवपूर्णचन्द्र सीतालसल्लोचनपूर्णचन्द्र । सुरारिवक्त्राम्बुधिपुर्णचन्द्र संरक्ष मां राघव रामचन्द्र ॥ २८॥ यस्य किञ्चिदपि नो हरणीयं कर्म किञ्चिदपि नो चरणीयम् । रामनाम च सदा स्मरणीयं लीलया भवजलं तरणीयम् ॥ २९॥ रिङ्गमाणमभितो गृहाङ्गणे भृङ्गनीलमलकावृताननम् । मङ्गलप्रदममङ्गलापहं सङ्गृहाण दशरथात्मजं हृदि ॥ ३०॥ दनुजतिमिरभानुं तापसैश्चिन्त्यमानं शमितकलुषचारं सेवके दुष्टदूरम् । दलितविषमसालं दण्डितारातिजालं प्रणम शिखरिशत्रुं भव्यपाथोदगात्रम् ॥ हे गोपालक हे दयाकरनिधे हे शम्भुचापाकृवृत् ते हे दैत्यान्तक हे विभीषणदयापारीण हे भूपते । हे वैदेहसुतामनोज्ञविहृते हे कोटिमाराकृते हे नव्याम्बुजनेत्र पालय परं जानामि न त्वां विना ॥ ३२॥ साकेते प्रणवाब्जरत्नखचिते सिंहासने संस्थितं विश्वामित्रवसिष्ठगालवमुखैराशीर्भिरामोदितम् । पूज्यं पार्श्वगताब्जचारुनयनं विद्युच्चलच्चामरं वन्दे कोमलसंस्मिताननमिलारक्षावतीर्णं हरिम् ॥ ३३॥ नित्यं निर्जितपङ्कसम्भवमहोनेत्रश्रियं राघवं रामं पर्वणि चन्द्रचारुवदनं दिक्पालकैः सेवितम् । कर्पूरागरु चन्दनार्द्र हृदयं मन्दारमालाङ्कितं विद्युत्पुञ्जनिभाम्बरावृततनुं रामं भजे श्यामलम् ॥ ३४॥ श्रीरामं कुशिकात्मजस्य वचनेनाकृष्य बाणासनं मारीचं च सुबाहुकं शरयुगेनैवाहवे लीलया । कान्तं सुन्दरकाकपक्षरुचिरं सौमित्रिणा संस्तुतं पश्यामः कमलामुखे सकरुणं कालाम्बुदश्यामलम् ॥ ३५॥ आनन्दरूपं वरदं प्रसन्नं सिंहासने सेवितपारिजातम् । नीलोत्पलाङ्गं भुवनैकमित्रं रामं भजे राघवरामचन्द्रम् ॥ ३६॥ युद्धे वसन्तमृदुरद्भुतबाणवर्षै रामः प्रहारसमये रजनीचराणाम् । रक्षानुकूलसमयाय विभीषणाय लङ्काधिपत्यमदिशद्रघुरामचन्द्रः ॥ ३७॥ वेदान्तनादं सुकृतैकदासं हताभिमानं त्रिदशप्रधाने । गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥ ३८॥ श्रीरामचन्द्रं धृतचापसायकं नीलोत्पलाभं नलिनायतेक्षणम् । सौमित्रिणा सेवितपादपङ्कजं सीतासमेतं शरणं भजेऽहम् ॥ ३९॥ श्रीरामचन्द्र करुणाकर दीनबन्धो सीतासमेत भरताघ्रज राघवेश । पापार्तिभञ्जन भयातुरदीनबन्धो पापाम्बुधौ पतितमुद्धर मामनाथम् ॥ ४०॥ इदं शरीरं शतसन्धिजर्जरं पतत्यवश्यं परिणामदुर्लभम् । किमौषधं पृच्छसि मूढ दुर्मते निरामयं रामकथामृतं पिव ॥ ४१॥ दशमुखगजसिंहं दैत्यगर्वादरंहं कदनभयदहस्तं तारकब्रह्मशस्तम् । मणिखचितकिरीटं मञ्जुलालापनादं दशरथकुलचन्द्रं रामचन्द्रं भजेऽहम् ॥ ४२॥ लङ्काविरामं रणरङ्गभीमं राजीवनेत्रं रघुवंशमित्रम् । कारुण्यमूर्तिं करुणाप्रपूर्तिं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ४३॥ श्रीरामचन्द्रमनिशं हृदिस्थितं श्रीराममिन्दुवदनं प्रविभासम् । भावयामि निगमान्तनिवासं भारतीपतिनुतं भववन्द्यम् ॥ ४४॥ कौमारे रामचन्द्रः कमलमृदुपदा शोभयन् भूमिभागं मातुश्चानन्दकारी मरकतनिकराकार इन्दीवराक्षः । उत्सङ्गे सन्निविष्टः पितुरमरवरैः स्तूयमानोपकारी नानालङ्कारभूषः स्फुरतु मम सदा मायया राम ईशः ॥ ४५॥ सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥ ४६॥ सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवहेमसूत्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं शिरसा नमामि ॥ ४७॥ श्रीराघवेति रमणेति रघूद्वहेति रामेति रावणहरेति रमाधवेति । साकेतनाथ सुमुखेति च सुव्रतेति वाणी सदा वदतु राम हरे हरेति ॥ ४८॥ जयतु जयतु रामो जानकीवल्लभोऽयं जयतु जयतु रामश्चन्द्रचूडार्चिताङ्घ्रिः । जयतु जयतु वाणीनाथनाथः परात्मा जयतु जयतु रामो नाथनाथः कृपालुः ॥ ४९॥ वरं न याचे रघुनाथ युष्मत्पादाब्जभक्तिः सततं ममास्तु । इदं प्रियं नाथ वरं प्रयच्छ पुनः पुनस्त्वामिदमेव याचे ॥ ५०॥ अम्भोधिरोषैररुणायमाने नाथस्य मृष्ट्वा नयने रघूणाम् । मरुद्गणैस्तत्क्षणमानुशङ्के मन्दाकिनीमङ्गलसूत्रभङ्गः ॥ ५१॥ अम्भोधिस्मयबन्धनेन जगदानन्देन भूपुत्रिका- स्वान्ताम्भोभवबान्धवेन नतरक्षायत्तचित्तेन मे । कर्णालम्बितकुण्डलेन दिविषात्त्राणोद्यमेनाश्रित- श्रेयः कल्पलतेव मे मतिरियं रामेण संवर्धताम् ॥ ५२॥ रामादौ जननं कुमारगमनं यज्ञप्रतीपालनं शापादुद्धरणं धनुर्विदलनं सीताङ्गनोद्वाहनम् । लङ्काया दहनं समुद्रतरणं सौमित्रिसम्मोहनं रक्षः संहरणं स्वराज्यभवनं चैतद्धि रामायणम् ॥ ५३॥ जन्मादौ क्रतुरक्षणं मुनिपतेः स्थाणोर्धनुर्भञ्जनं वैदेहीग्रहणं पितुश्च वचनाद्घोराटवीगाहनम् । कोदण्डग्रहणं खरादिमथनं मायामृगच्छेदनं बद्धाब्धिक्रमणं दशास्यनिधनं चैतद्धि रामायणम् ॥ ५४॥ पूर्वं रामतपोवनानुगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् । बालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं पश्चाद्रावणकुम्भकर्णकदनं चैतद्धि रामायणम् ॥ ५५॥ शान्तं शारदचन्द्रकोटिसदृशं चन्द्राभिरामाननं चन्द्रार्काग्निविकासकुण्डलधरं चन्द्रावतंसस्तुतम् । वीणापुस्तकसाक्षसूत्रविलसद्व्याख्यानमुद्राकरं देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ५६॥ कृष्टं भीमधनुः कठोरनिनदं ब्रह्मादिसंवित्स्मयं भास्वद्वाजिगतेन मार्गमनिशं शाम्भोः शिरः कम्पनम् । दिग्दन्तिस्खलनं कुलाद्रिचलनं सप्तार्णवोन्मीलनं वैदेहीमदनं मदान्धदमनं त्रैलोक्यसम्मोहनम् ॥ ५७॥ कञ्जातपत्रायतलोचनाय कर्णावतंसोज्ज्वलकुण्डलाय । कारुण्यपात्राय सुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ॥ ५८॥ विद्युन्निभाम्भोदसुविग्रहाय विद्याधरैः संस्तुतसद्गुणाय । वीरावताराय विराधहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ ५९॥ संसक्तदिव्यायुधकार्मुकाय समुद्रगर्वापहरायुधाय । सुग्रीवमित्राय सुरारिहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ ६०॥ पीताम्बरालङ्कृतमध्यकाय पितामहेन्द्रामरवन्दिताय । पित्रे स्वभक्तस्य जनस्य मात्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ ६१॥ नमो नमस्तेऽखिलपूजिताय नमो नमश्चन्द्रनिभाननाय । नमो नमस्ते रघुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ॥ ६२॥ इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः । सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ६३॥ श्रीरामः कल्पवृक्षो मे विरामः सकलापदः । अभिरामस्त्रिलोकानां रामः क्षेमं करोतु नः ॥ ६४॥ हृदयसदयचित्तं चित्तनाथं गुणानां उदधिमुदितनिम्नं निम्नगालङ्कृताङ्घ्रिम् । जनकपतितनुजास्वान्तकान्तोत्पलस्य स्फुरणकरणचन्द्रं रामचन्द्रं भजेऽहम् ॥ ६५॥ वदतु वदतु वाणी राम रामेति नित्यं जपतु जपतु नित्यं रामपादारविन्दम् । वदतु वदतु देहः चिन्तयेद्रामचन्द्रं न भवतु मम पापं जन्मजन्मान्तरेषु ॥ चापबाणधरः सीताकामदः कान्तिमान्नरः । सीतालक्ष्मणसंयुक्तः पातु मां राघवेश्वरः ॥ ६७॥ प्रातः स्मरामि रघुनाथमुखारविन्दं मन्दस्मितं मधुराभाषि विशालभालम् । कर्णावलम्बिचलकुण्डलगण्डभागं कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ ६८॥ प्रातर्भजामि रघुनाथपदारविन्दं रक्षोगणाय भयदं वरदं निजेभ्यः । यद्राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमङ्गलमाप सद्यः ॥ ६९॥ प्रातर्नमामि रघुनाथपदारविन्दं पद्माङ्कुशादिशुभरेखशुभावहं मे । योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्याः ॥ ७०॥ प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं कलुषं निहत्य । यत्पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप ॥ प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुदोत्पलसितेतररत्ननीलाम् । आमुक्तमौक्तिकविशेषविभूषणाढ्यां ध्येयां समस्तमुनिभिर्निजभृत्यमुख्यैः ॥ ७२॥ यः श्लोकपञ्चकमिदं नियतः पठेत नित्यं प्रभातसमये पुरुषः प्रबुद्धः । श्रीरामकिङ्करजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥ ७३॥ किं मन्त्रैर्बहुभिश्च दुष्करफलैरायासदैस्तद्विदां किञ्चिल्लोपविधानमात्रविफलैः संसारदुःखावहैः । एकः सन्नपि सर्वमन्त्रफलदो दोषोज्झितः सर्वदा श्रीरामः शरणं ममेति परमो मन्त्रोऽयमष्टाक्षरः ॥ ७४॥ रामभद्राश्रयः साक्षाद्रामचन्द्रो न संशयः । तत्र कोदण्डतूणीरावत्र दण्डकमण्डलू ॥ ७५॥ रघुनाथ पदारविन्दयोस्ते भ्रमरीभूतमदान्धकारसूर्यः । अपराधशतालयं कलौ मामवगृह्णाति हि मङ्गलैः कटाक्षैः ॥ ७६॥ रामनाम तव नाम जपन्तः पामरा अपि तरन्ति भवाब्धिम् । अङ्गसङ्गिभवदङ्गुलिमुद्रः किं विचित्रमतरत्कपिरब्धिम् ॥ ७७॥ श्रीरामनामामृतमन्त्रबीजं सञ्जीवनं चेन्मनसि प्रतिष्ठम् । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा वितथीकरोति ॥ ७८॥ हा कृष्णाच्युत हा कृपालय हरे हा पाण्डवानां सखे क्वासि क्वासि सुयोधनावरगतां हा रक्ष मां द्रौपदीम् । इत्युक्तौ क्षयवस्त्ररक्षणतनुर्योऽरक्षदाशु क्षणे- नार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७९॥ इन्दीवरदलश्याममिन्दुकोटि निभाननम् । कन्दर्पकोटिलावण्यं वन्देऽहं रघुनन्दनम् ॥ ८०॥ किं योगशास्त्रैः किमशेषविद्यया किं यागगङ्गादिविशेषतीर्थैः । किं ब्रह्मचर्याश्रमसञ्चरेण भक्तिर्नचेत्ते रघुवंशकीर्त्याम् ॥ ८१॥ हे राम भद्राश्रय हे कृपालो हे भक्तलोकैकशरण्यमूर्ते । पुनीहि मां त्वच्चरणारविन्दं जगत्पवित्रं शरणं ममास्तु ॥ ८२॥ हे राम भद्राश्रय योगिचन्द्र प्रसन्नमूर्तौ परिदृश्यमाने । तापत्रयं नाशमुपैति पुंसां ममान्धकारं विनिहन्तु नद्यः ॥ ८३॥ नीलाभ्रवृन्द निखिलेश जगन्निवास राजीवनेत्र रमणीय गुणाभिराम । श्रीराम दैत्यकुलमर्दन रामचन्द्र त्वत्पादपद्ममनिशं कलयामि चित्ते ॥ ८४॥ कुवलयदलनीलः पीतवासाः स्मितास्यो विविधरुचिरभूषाभूषितो दिव्यमुर्तिः । दशरथकुलनाथो जानकीप्राणनाथो निवसतु मम चित्ते सर्वदा रामचन्द्रः ॥ ८५॥ सजलजलदनीलं सन्मुनिस्तुत्यलीलं सुगमनिगममूलं यातुधानान्तकालम् । दशरथनृपबालं सत्कृपापूर्णलीलं भजतु भुवनखेलं भक्तसंस्तुत्यशीलम् ॥ ८६॥ दशरथवरपुत्रं जानकीसत्कलत्रं दशमुखहरदक्षं पद्मपत्रायताक्षम् । करधृतशरचापं चारुमुक्ताकलापं रघुकुलनृपवर्ण्यं राममीडे शरण्यम् ॥ ८७॥ रामं वीरासनस्थं विमलरविनिभं भासमानस्वरूपं श्यामं सीतासमेतं स्मितरुचिरमुखं कुण्डलोद्दीप्तगण्डम् । श्रीवत्सं श्रीनिवासं सुरविटपितटन्यस्तसिंहासनस्थं दिव्याकल्पोज्ज्वलाङ्गं दिविजपतिनुतं ध्यानयज्ञेन यक्ष्ये ॥ ८८॥ श्रीरामभद्राश्रयसद्गुरूणां पादारविन्दं भजतां नराणाम् । आरोग्यमैश्वर्यमनन्तकीर्तिं अन्ते च विष्णोः पदमस्ति सत्यम् ॥ ८९॥ रणहतदनुजेन्द्रो राजराजात्मचन्द्रः समदरिपुमृगेन्द्रः सन्मनोऽम्भोधिचन्द्रः । ललितघननगेन्द्रो लक्ष्मणानन्दसान्द्रो महितसुजनचन्द्रो मैथिलीप्राणचन्द्रः ॥ ९०॥ नमः कोदण्डहस्ताय सन्धीकृतशराय च । दण्डिताखिलदैत्याय रामायापन्निवारिणे ॥ ९१॥ न जानन् जानकीजानौ रामे तत्त्वमपि प्रभौ । धिक् कुर्याद्यमदूतान् स यो नरस्तत्त्वमीहते ॥ ९२॥ रामो मे हृदि सन्निधिं रमयतां रामं भजे दुष्कृतं रामेणापहृतं नमो भगवते रामाय रामाच्छुभम् । वक्ष्ये श्रीरघुनन्दनस्य सुकृतेर्दासोस्म्यहं सर्वदा नित्यं कोसलकन्यकाप्रियसुते रामे मनो वर्तताम् ॥ ९३॥ कोदण्डनिर्मुक्तशराग्रखण्डनं प्रचण्डविष्वग्भुजदण्डमण्डनम् । प्रचण्डचण्डांशुसमानमण्डनं भजामि रामं रणरङ्गमण्डनम् ॥ ९४॥ सिंहासनस्थं मुनिसिद्धसेव्यं रक्तोत्पलालङ्कृतपादपद्मम् । सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघवरामचन्द्रम् ॥ ९५॥ दयारूपे भूपे रघुकुलकलापे सुहृदये भुजस्तम्भे दम्भेतरविजयगुम्भे विहरताम् । महावीरे धीरे दशरथकुमारे परिसरद् गुणारामे रामे दशमुखविरामे मम मनः ॥ ९६॥ गतेष्वनेकेषु भवेषु पापव्रतेष्वमूर्तेषु न योगितीर्थेः । वित्रस्तसर्वेषु नृणां कुलेशे सञ्जायते भक्तिरनन्तमीडे ॥ ९७॥ श्रीरामभद्राश्रितयोगिवर्य पादाब्जयुग्मं सततं भजेऽहम् । यच्चक्षुषी धाम जनप्रवेशं तच्चक्षुषी पश्यति यस्य चेतः ॥ ९८॥ न ग्रस्तस्तमसा न चाह्नि मलिनो दर्शेन नो कर्शितो नैवास्तं गतवान् न चाङ्किततनुर्नो पाक्षिकश्रीरपि । लोकालोकनगेन्द्रलङ्घनविधौ नो पङ्गुभावङ्गतो निर्दोषो गुणसागरद्रघुपतेस्तेजो यशश्चन्द्रमाः ॥ ९९॥ नागानामयुतं तुरङ्गनियुतं सार्थं रथानां शतं पादाताः शतकोटियुद्धदलिता नृत्यत्कबन्धो रणे । एवं कोटिसहस्रनर्तनविधौ चञ्चच्चलद्घण्टिका यामार्धं परमात्मनो रघुपतेः कोदण्डघण्टारवः ॥ १००॥ भजेहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधेयम् । भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवानीप्रसन्नम् ॥ १०१॥ सुरानीक दुःखौघनाशैक हेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ १०२॥ प्रपन्नाखिलानन्ददोहप्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे रामचन्द्रम् ॥ १०३॥ स्फुरद्रत्नकेयूर हाराभिरामं धराभारभूतासुरानीकदावम् । शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं दुरासाद्यपारं भजे रामचन्द्रम् ॥ १०४॥ सुराधीशनीलाभनीलाङ्गकान्तिं विराधादिरक्षोगणानीकनाशम् । किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूनामधीन्द्रम् ॥ १०५॥ लसचच्चन्द्रकोटिप्रकाशादि पीठे समासीनमङ्के समादाय सीताम् । स्फुरद्धेमवर्णां लसत्कञ्जपुञ्जां भजे रामचन्द्रं निवृत्त्यादितन्त्रम् ॥ १०६॥ सदा भोगभाजां सुदूरे विभान्तं मुदा योगभाजामदूरे विभान्तम् । चिदानन्दकन्दं सदा राघावेशं विदेहात्मजानन्दकन्दं प्रपद्ये ॥ १०७॥ महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः । त्वदानन्दलीलाकथापूर्णकण्ठाः सदानन्दरूपा भवन्तीह लोके ॥ १०८॥ यस्य प्राणनिवारणावनकृते स्यातां निदानौ विभोः ऐन्द्रध्वाङ्क्षपतेः कृपाजलनिधौ कोपप्रसादौ मुदे । भूयाद्वासवनीलसन्निभतनुर्वामाङ्कसेव्यद्वधूः सोऽयं दुष्टनिशाटपाटनपटुः श्रीराघवो नः सदा ॥ १०९॥ दृष्टो वा कलुषात्मकोऽपि पिशुनो दुर्मार्गसञ्चारि वा मातृघ्नोऽपि पितृघ्नवर्तनरतः सन्मौनिनिन्दापरः । योऽयं स्मृत्यमृतं तथा मधुरसं वक्ता च श्रेता लिखेत् स प्राप्नोति निरन्तरैहिकसुखं निर्वाण सौख्यं ततः ॥ ११०॥ इति श्रीरामकर्णामृतं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : rAmakarNAmRRitam
% File name             : rAmakarNAmRRitam.itx
% itxtitle              : rAmakarNAmRRitam
% engtitle              : rAmakarNAmRRitam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1(VSM), 2)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org