॥ श्रीराममहिम्नः स्तोत्रम् ॥

श्रीगणेशाय नमः ॥ महामोहावर्ते पतितमिह मां ते शरणगं शरण्यस्त्वत्तोऽन्यः प्रभवति न कोऽप्यत्र जगति । अतस्त्वत्पादाम्भोरुहयुगलमाश्रित्य नितरां स्थितोऽहं संसाराद्वृजिननिचयादुद्धर विभो ॥ १॥ निजाव्यक्तेनेदं जगदखिलमिच्छादिकरणैः समुत्पन्नं प्रत्यावसितसततं श्रीरघुपते । युगान्ते सर्वं वै हरसि किल रौद्रेण वपुषा त्वमेकः सर्वात्मन्विहरसि न चान्यो गुणनिधे ॥ २॥ रमन्ते योगीन्द्रास्त्रिपुरहरमुख्यास्त्वयि सदा समाधौ विश्वात्मन्नियमितहृषीको रघुपते । तथाप्येते पारं निखिलनिगमागोचरविभो महिम्नस्ते गन्तुं गमयितुमलं नैव कुशलाः ॥ ३॥ कदाचिद्भौमान्वै गणयति कणान्कोऽपि मतिमान् तथा पारावारोदकलवचयान्वै रघुपते । क्वचिन्नक्षत्रौघं विषमगणनं पारयति वै गुणानां ते पारं गमयितुमलं नैव कुशलाः ॥ ४॥ ऋतं सत्यं भूमन्सगुणमगुणं रूपमुभयं चिदानन्दं तद्वै निखिलनिगमैरप्यविदितम् । समष्टिव्यष्टी ते विलसति विराड्रूपमपरं तदेतद्वै किञ्चित्स्फुरति हृदये चैव विदुषाम् ॥ ५॥ विरिञ्चिश्चेन्द्राद्यैरमरनिवहैः सिद्धमुनिभिः स्तुतस्त्वं भूभारं व्यसनमपहर्तुं सुरपतेः । विभुः कौसल्यायां दशरथगृहे स्वानुजयुतः समुद्भूतश्चक्रे निजपदकृतार्थां वसुमतीम् ॥ ६॥ मुनेर्विश्वामित्राच्छरणद बलां चाप्यतिबलां महाविद्यां प्राप्य प्रणतसुखसौभाग्यद विभो । शरेणैकेन त्वं निशिचरवधूं चातिमहतीं महाधोरां हत्वा विपिनमभयं चैव कृतवान् ॥ ७॥ करालास्यं घोरं निशिचरयुगं कौणपवरं श्रुतीनां द्वेष्टारं मुनिमखविघाते च निरतम् । सुबाहुं मारीचं निशितविशिखेनोरसि दृढं निहत्येकैकेनाध्वरभुवि पुरा प्राकृतधियम् ॥ ८॥ शिलाभूतां शापाच्चरणरजसा गौतमवधूं यथापूर्वां कृत्वा परमसुभगां चातिविमलाम् । महोत्तुङ्गं चापं सपदि शितिकण्ठस्य सुदृढं द्विधा खण्डं चक्रे जनकनगरीं प्राप्य मुनिना ॥ ९॥ शरद्राकेशास्यां विमलकलधौताङ्गरुचिरां स्फुरद्रत्नाकल्पां जनकतनयां विश्वजननीम् । सुभार्यां यद्रामो विधिवदुपयेमे सुललितां महेन्द्रेशब्रह्मामरमुकुटनीराजितपदाम् ॥ १०॥ महाघोरं त्रुट्यत्त्रिपुरहरचापस्य निनदं समाकर्ण्य क्रोधाद्भृगुकुलपतेः क्षत्रियरिपोः । पथि प्राप्तस्यास्य स्मयमपि जहर्थ त्वमतुलं महाविद्य प्रद्योतनकुलमणे पाहि नितराम् ॥ ११॥ सुराणां रक्षायै सपदि पितुराज्ञां सकरुणं समादाय प्रागावनमनुजयुक्तो वनितया । जनस्थानं प्राप्य मालवटतरूणां फलवता- मधश्चक्रे वासो दनुजकुलनाशाय च विभो ॥ १२॥ प्रभो लङ्केशस्य प्रबलतमवीर्यस्य भगिनीं विरूपां कृत्वा वै दनुजखरमुख्यान्निशिचरान् । सुरारातीन्हत्वा द्विजकुलविघातेषु निरता- न्निरातङ्कं चक्रे विपिनमपि स्वैरं जनपदम् ॥ १३॥ दशग्रीवाज्ञप्तः कनकमृगरूपेण विचरन् विचित्रो मारीचः प्रसभमभियातः स्वनिकटे । असौ मायावीति प्रणतजनसौभाग्यद विभो त्वया ज्ञात्वा नतिः सपदि विशिखेनान्तकपुरीम् ॥ १४॥ मुमूर्षुः पौलस्त्यः कपटयतिवेषेण कुमतिः परोक्षं सीताया हरणमकरोच्छ्रीरघुपते । सुराणां रक्षायै रजनिचरनाथस्य हननं विमृश्यैतत्सर्वं खरहर तवैवेङ्गितमभूत् ॥ १५॥ वियोगे जानक्यास्त्विह मनुजभावेन विचरन् जटायुं दृष्ट्वा वै विपिनगतमासन्नमरणम् । त्वया तस्योद्धारः स्वकरकमलेनैव विहित- स्तवैतद्वात्सल्यं विलसति हि भक्तेनु नितराम् ॥ १६॥ कबन्धं क्रव्यादं निशितकरवालेन महता द्रुतं हत्वा पम्पातटमनुजयुक्तश्च गतवान् । युवां दृष्ट्वा ज्ञातुं प्लवगपतिना वायुतनयः समाज्ञप्तश्चागाद्वरद तव पादाब्जयुगलम् ॥ १७॥ समाकर्ण्य त्वत्तः सकलमसुरारातिममलं विदित्वा निःशङ्कं दशरथसुतं त्वां रघुपते । महोत्साहोन्नीतः सपदि गिरिपृष्ठे हनुमता प्रभुः सुग्रीवेण प्लवगपतिना सख्यमकरोत् ॥ १८॥ कपीशं हत्वा वालिमतुलबलवीर्यं स्मयभरं दुराधर्षं देवैरसुरनिवहैरप्यसुलभम् । त्वया सुग्रीवाय प्लवगकुलराजेन्द्रपदवी प्रदत्ता देवेश प्राणतजनवात्सल्यजलधे ॥ १९॥ प्रतापात्ते नूनं सलिलनिधिमुल्लङ्घय तरसा गतो लङ्कां दृष्ट्वा जनकतनयां चातिविमलाम् । निहत्याक्षं दग्ध्वा पुरमथ समुत्पाट्य विपिनं हनूमान्त्वत्पादं पुनरपि समागाद्रघुपते ॥ २०॥ विदित्वा सीतायाः पवनजमुखाद्दुःखमतुलं निहन्तुं क्रव्यादेश्वरमपि तथा राक्षसकुलम् । प्रतस्थे सुग्रीवाङ्गदहनुमदाद्यैः कपिभटैः सुगुप्तामादाय प्लवगकुलसेनां च महतीम् ॥ २१॥ प्लवङ्गैर्भल्लूकैरमितभुजवीर्यैः परिवृतो निषङ्गी कोदाग्डी शरमपि दधानः करतले । क्रमान्मार्गं नीत्वा सलिलनिधितीरे सुविपुले गतस्त्वं सुग्रीवाङ्गदहनुमदाद्यैः कपिवरैः ॥ २२॥ तवाग्रे तत्रागाच्छरणद दशास्यानुजवरः प्रपन्नस्त्वत्पादाम्बुजयुगलमाराध्यममरैः । कृपापारावारामितगुणनिधे सिन्धुपुलिने त्वया दत्ता तस्मै वृजिनहर लङ्केशपदवी ॥ २३॥ उषित्वा तत्तीरे त्रिदिनमरविन्दाक्ष कपिभिस्ततः किञ्चित्क्रोधान्नियमनभयात्ते जलनिधिः । पुरः प्रह्वीभूतो रुचिरवचनैः श्रीरघुपते स्तुतिं चक्रे नत्वा पुलकिततनुर्गद्गदगिरा ॥ २४॥ अकूपारस्यान्ताद्दशदिशगतैर्वानरभटै- स्त्वयाऽऽज्ञप्तैर्नीता निजभुजबलैः प्रस्तरचयाः । पुनस्तैः पाषाणैर्विपुल इह नीलेन रचितो महासेतुर्वार्धौ तव विदितनाम्नोऽस्ति महिमा ॥ २५॥ यदेते पाषाणाः सततमुदके मज्जनपरा- स्तरन्त्यब्धौ नूनं जगति परमं चाद्भुतमिदम् । किमाश्चर्यं तत्र क्षणचलितनेत्रान्तविभवः कटाक्षस्ते नूनं जगति कति ब्रह्माण्डरचनाः ॥ २६॥ समुत्तार्याशेषान्प्लवगनिवहाँल्लक्ष्मणयुत- स्ततो लङ्कां गत्वा स्वयमपि समुत्तीर्णजलधिः । निहत्याजौ सर्वं रजनिचरवृन्दं च सकुलं दशग्रीवं हत्वा विमलतरमैश्वर्यमकरोः ॥ २७॥ विरिञ्चीशेन्द्राद्यैरमरनिवहैः सिद्धमुनिभिः स्तुतः स्तोत्रैः कृत्वा कुसुमचयवृष्टिं सुविपुलाम् । कटाक्षेणैवैतांस्त्रिदशमुनिमुख्यान्करुणया विलोक्य प्रध्वस्तं भयमखिलमेषां रघुपते ॥ २८॥ प्रभो त्वं सुग्रीवप्रमुखविविधैर्वानरभटैर्युतो वैदेहीं वै दहनसुविशुद्धां सुविपुलाम् । समादाय स्थित्वा धनपतिविमाने सुविमले वितन्वन्स्वानां वै मुदमतुलमागान्निजपुरीम् ॥ २९॥ सहस्रं वर्षाणामयुतमपि कुर्वन्वसुमतीं सनाथां वैदेहीरमण कृतवान् राज्यमतुलम् । अयोध्यायां देवासुरनृपकिरीटेषु निचितै- र्महारत्नैर्नीराजितचरणपङ्केरुह विभो ॥ ३०॥ कृशानुः शेषाद्यः शशधरयुतो विजयमति ते भजन्ति ध्यायन्तस्तव चरणपङ्केरुहयुगम् । गृहे तेषां पद्मा विहरति मुखे गीः सुललिता सुभोगान्भुक्त्वान्ते तव वरपदं यान्ति परमम् ॥ ३१॥ खबीजं शेषाग्नौ दहनमपरश्चैव पवनो नमोऽन्तः षड्वर्णापरमपदहेतुश्च भजताम् । इमं मन्त्रं यो वै जपति गुरुवक्त्रादधिगतं जगत्पूज्यो भोगान्भुवि परमदिव्यान्स लभते ॥ ३२॥ घनश्यामं विद्युत्प्रभवसनमाकल्परुचिरं सरोजाक्षं चैवामितमदनलावण्यसुभगम् । तडिद्वर्णा वामे जनकतनयां राघवमुखं प्रपश्यन्तीं ध्यायन् भजति परमां सिद्धिमतुलाम् ॥ ३३॥ अनन्तान्याहुर्वै तव विविधरूपाणि भगवन्न तानि ज्ञातुं वै कथमपि समर्थाश्च विबुधाः । विभूतीनामन्तं ते विमलबल को वेत्ति नितरा- मतद्व्यावृत्त्या वै त्वयि सकलवेदाश्च चकिताः ॥ ३४॥ तवेदं यद्रूपं सजलजलदाभं सुललितं तदेतत्तत्त्वज्ञा मुनिवरगणा हृत्सरसिजे । मुहुर्ध्यायन्ते वै विगतविषयाः सङ्गरहिता ययुर्नित्यानन्दं पदममरवन्द्यं रघुपते ॥ ३५॥ त्वमिन्दुस्त्वं सोमस्त्वमसि तरणिस्त्वं हुतवह- स्त्वमापस्त्वं भूमिस्त्वससि पवनस्त्वं च गगनम् । विरिञ्चिस्त्वं रुद्रस्त्वमसि सकलं दृश्यमिह यत् त्वदन्यद्वस्त्वेकं न हि जगति भूमन् रघुपते ॥ ३६॥ त्वमेवादौ भूमन्निगमनिचयानां जलनिधौ निमग्नानां चैवोद्धरणमकरोर्मीनवपुषा । सुधाकामैर्नीतं सलिलनिधिनिर्मन्थनविधौ गिरिं पृष्ठे त्वं वै दृढकमठरूपेण धृतवान् ॥ ३७॥ निहत्याजौ दैत्यं प्रलयजलधौ घोरमतुलं समुद्धारं भूमेर्गिरिकुलयुतायाः सरभसम् । ?? line missing in original महादंष्ट्राग्रेणामितगुणनिधे त्वं च कृतवान् ॥ ३८॥ स्वभक्तं प्रह्लादं परमविदुषामार्यममलं विदित्वा तं पित्रा कृतविविधदण्डं कुमतिना । विधायोग्रं रूपं नरहरिविचित्रं त्रिनयनं जघान त्वं दैत्येश्वरममितवीर्यं रघुपते ॥ ३९॥ सुनासीरैश्वर्यं हृतमतुलवीर्येण बलिना विदित्वेदं राम प्रणतजनवात्सल्यजलधे । स्तुतस्त्वं शक्राद्यैरमरनिवहैर्वामनवपु- र्विधायोग्रं वैरोचनमपि बबन्धामररिपुम् ॥ ४०॥ कुलं क्षात्रं सप्तत्रिगुणमपि कृत्वा रघुपते जघान त्वं राज्ञां प्रबलमिह शस्त्रास्त्रविशदम् । निहत्योग्रान् कंसप्रमुखदितिजान्यादवकुले त्वमाविर्भूयोग्रं समरभुवि भारं च हृतवान् ॥ ४१॥ अनन्तान्येवं वै तव विविधरूपाणि च विभो प्रवक्तुं तानीह प्रभवति न कोऽप्यत्र जगति । परात्मन् श्रीराम त्रिगुणरहिताकारपरमप्रभो पारावारामितगुणनिधे चिद्घन विभो ॥ ४२॥ नमस्ते श्रीराम ह्यमितगुणग्रामाय सततं नमो भूयो भूयो पुनरपि नमस्ते रघुपते । नमो वेदैर्वन्द्याखिलमुनिगणाराध्य भगवन्नमो भूयो भूयस्तव चरणपङ्केरुहयुगे ॥ ४३॥ मया ते पादाम्भोरुहयुगलमाश्रित्य नितरा- मयोध्यायां भक्त्या विविधपदरम्यैः सुरचितम् । इदं रामस्तोत्रं प्रपठति नरो यः प्रतिदिनं स भुक्त्वा भोगान्वै भजति परमं शाश्वतपदम् ॥ ४४॥ सहस्रैः शेषो वै प्रभवति न वक्त्रैर्गुणगणान् प्रवक्तुं चाकल्पं कथमपि च ते राम सततम् । अतस्त्वां कः स्तोतुं प्रभवति ह्यलं श्रीरघुपते व्रजन्त्याकाशस्य क्वचिदपि च पारं हि मशकाः ॥ ४५॥ तुभ्यं नमो भगवते रघुनन्दनाय श्रीजानकीप्रियतमाय खरान्तकाय । योगीन्द्रपूजितपदाम्बुरुहद्वयाय संसारदुःखशमनाय नमो नमस्ते ॥ ४६॥ कामाद्या दुर्जयाश्चेन्मम भवतु पुनर्मुक्तियोषित्सु कामः क्रोधश्चेत्तावके वै तव चरणयुगाम्भोरुहे स्याच्च लोभः । मोहश्चेद्ध्यानयोगे भवतु मम पुनर्मत्सरोमत्सरो वै त्वत्पादाम्भोजसौख्यस्थितिमिह नितरां नैव पश्यामि भूमौ ॥ ४७॥ इति श्रीमद्रामाचार्यविरचितं श्रीराममहिम्नः स्तोत्रं समाप्तम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : rAmamahimnaHstotram
% File name             : rAmamahimnaHstotram.itx
% itxtitle              : rAmamahimnaHstotram (rAmAchAryavirachitam)
% engtitle              : rAmamahimnaHstotram
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Author                : rAmAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 24, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP