श्रीरामश्लोकपञ्चरत्नम्
कञ्जातपत्रायतलोचनाय कर्णावतंसोज्ज्वलकुण्डलाय ।
कारुण्यपात्राय सुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ॥ १॥
विद्युन्निभाम्भोदसुविग्रहाय विद्याधरैः संस्तुतसद्गुणाय ।
वीरावताराय विराधहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ २॥ (विरोधिहर्त्रे)
संसक्तदिव्यायुधकार्मुकाय समुद्रगर्वापहरायुधाय ।
सुग्रीवमित्राय सुरारिहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ ३॥
पीताम्बरालङ्कृतमध्यकाय पितामहेन्द्रामरवन्दिताय ।
पित्रे स्वभक्तस्य जनस्य मात्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ ४॥
नमो नमस्तेऽखिलपूजिताय नमो नमश्चन्द्रनिभाननाय । (नमस्तेन्दु)
नमो नमस्ते रघुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ॥ ५॥
इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ६॥
इति श्रीरामकर्णामृतान्तर्गतं श्रीरामश्लोकपञ्चरत्नं सम्पूर्णम् ।
Verses 58-63 of Ramakarnamritam, chaturtha AshvAsaH
Proofread by PSA Easwaran psaeaswaran at gmail.com