शत्रुघ्नकवचम्
॥ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीशत्रुघ्नकवचम् ॥
अगस्तिरुवाच-
अथ शत्रुघ्नकवचं सुतीक्ष्ण श्रुणु सादरम् ।
सर्वकामप्रदं रम्यं रामसद्भक्तिवर्धनम् ॥ १॥
शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं
पार्श्वे श्रीरघुनन्दनस्य विनयाद्वामेस्थितं सुन्दरम् ।
रामं स्वीयकरेण तालदलजं धृत्वातिचित्रं वरं
सूर्याभं व्यजनं समास्थितमहं तं विजयन्तं भजे ॥ २॥
अस्य श्रीशत्रुघ्नकवचमन्त्रस्य अगस्ति ऋषिः । श्रीशत्रुघ्नो देवता ।
अनुष्टुप् छन्दः । सुदर्शन इति बीजम् । कैकेयीनन्दन इति शक्तिः ।
श्रीभरतानुज इति कीलकम् । भरतमन्त्रीत्यस्त्रम् ।
श्रीरामदास इति कवचम् । लक्ष्मणांशज इति मन्त्रः ।
श्रीशत्रुघ्नप्रीत्यर्थं सकलमनःकामनासिद्ध्यर्थं जपे विनियोगः ॥
अथ अङ्गुळीन्यासः ।
ॐ शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः ।
ॐ सुदर्शनाय तर्जनीभ्यां नमः ।
ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ॐ भरतानुजाय अनामिकाभ्यां नमः ।
ॐ भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः ।
ॐ श्रीरामदासाय करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः -
ॐ शत्रुघ्नाय हृदयाय नमः ।
ॐ सुदर्शनाय शिरसे स्वाहा ।
ॐ कैकेयीनन्दनाय शिखायै वषट् ।
ॐ भरतानुजाय कवचाय हुं ।
ॐ भरतमन्त्रिणे नेत्रत्रयाय वौषट् ।
ॐ श्रीरामदासाय अस्त्राय फट् ।
ॐ लक्ष्मणांशजेति दिग्बन्धः ॥
अथ ध्यानम् -
रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकम् ।
कैकेयीनन्दनं सौम्यं मुकुटेनातिरञ्जितम् ॥ १॥
रत्नकङ्कणकेयूरवनमालाविराजितम् ।
रशनाकुण्डलधरं रत्नहारसुनूपुरम् ॥ २॥
व्यजनेन वीजयन्तं जानकीकान्तमादरात् ।
रामन्यस्तेक्षणं वीरं कैकेयीतोषवर्धनम् ॥ ३॥
द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितम् ।
सुभुजं सुन्दरं मेघश्यामळं सुन्दराननम् ॥ ४॥
रामवाक्ये दत्तकर्णं रक्षोघ्नं खड्गधारिणम् ।
धनुर्बाणधरं श्रेष्ठं धृततूणीरमुत्तमम् ॥ ५॥
सभायां संस्थितं रम्यं कस्तूरीतिलकाङ्कितम् ।
मकुटस्थावतंसेन शोभितं च स्मिताननम् ॥ ६॥
रविवंशोद्भवं दिव्यरूपं दशरथात्मजम् ।
मधुरावासिनं देवं लवणासुरमर्दनम् ॥ ७॥
एवं ध्यात्वा तु शत्रुघ्नं रामपादेक्षणं हृदि ।
पठनीयं वरं चेदं कवचं तस्य पावनम् ॥ ८॥
अथ कवचप्रारम्भः ।
पूर्वे त्ववतु शत्रुघ्नः पातु याम्ये सुदर्शनः ।
कैकेयीनन्दनः पातु प्रतीच्यां सर्वदा मम ॥ १॥
पातूदीच्यां रामबन्धुः पात्वधो भरतानुजः ।
रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥ २॥
सर्वतः पातु मामत्र कैकेयीतोषवर्धनः ।
श्यामलाङ्गः शिरः पातु भालं श्रीलक्ष्मणानुजः ॥ ३॥
भ्रुवोर्मध्ये सदा पातु सुमुखोऽत्रावनीतले ।
श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥ ४॥
कर्णौ कुण्डलकर्णोऽव्यात् नासाग्रं नृपवंशजः ।
मुखं मम युवा पातु वाणीं पातु स्फुटाक्षरः ॥ ५॥
जिह्वां सुबाहुतातोऽव्याद्यूपकेतुपिता द्विजान् ।
चिबुकं रम्यचिबुकः कण्ठं पातु सुभाषणः ॥ ६॥
स्कन्धौ पातु महातेजाः भुजौ राघववाक्यकृत् ।
करौ मे कङ्कणधरः पातु खड्गी नखान् मम ॥ ७॥
कुक्षिं रामप्रियः पातु पातु वक्षो रघूत्तमः ।
पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥ ८॥
जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः ।
कटिं भरतमन्त्री मे गुह्यं श्रीरामसेवकः ॥ ९॥
रामार्पितमनाः पातु लिङ्गमूरू स्मिताननः ।
कोदण्डपाणिः पात्वत्र जानुनी मम सर्वदा ॥ १०॥
राममित्रः पातु झङ्घे गुल्फौ पातु सुनूपुरः ।
पादौ नृपतिपूज्योऽव्याच्छ्रीमान् पादाङ्गुलीर्मम ॥ ११॥
पात्वङ्गानि समस्तानि ह्युदाराङ्गः सदा मम ।
रोमाणि रमणीयोऽव्याद्रात्रौ पातु सुधार्मिकः ॥ १२॥
दिवसे सत्यसन्धोऽव्याद्भोजने शरसत्करः ।
गमने कलकण्ठोव्यात्सर्वदा लवणान्तकः ॥ १३॥
एवं शत्रुघ्नकवचं मया ते समुदीरितम् ।
ये पठन्ति नरास्त्वेतत्ते नराः सौख्यभागिनः ॥ १४॥
शत्रुघ्नस्य वरं चेदं कवचं मङ्गळप्रदम् ।
पठनीयं नरैर्भक्त्या पुत्रपौत्रप्रवर्धनम् ॥ १५॥
अस्य स्तोत्रस्य पाठेन यं यं कामं नरोऽर्थयेत् ।
तं तं लभेन्निश्चयेन सत्यमेतद्वचो मम ॥ १६॥
पुत्रार्थी प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।
इच्छाकामं तु कामार्थी प्राप्नुयात्पठनादिना ॥ १७॥
कवचस्यास्य भूम्यां हि शत्रुघ्नस्य विनिश्चयात् ।
तस्मादेतत्सदा भक्त्या पठनीयं नरैः शुभम् ॥। १८॥
आदौ नरैर्मारुतेश्च पठित्वा कवचं शुभम् ।
ततः शत्रुघ्नकवचं पठनीयमिदं शुभम् ॥ १९॥
पठनीयं भरतस्य कवचं परमं ततः ।
ततः सौमित्रिकवचं पठनीयं सदा नरैः ॥ २०॥
पठनीयं ततः सीताकवचं भाग्यवर्धनम् ।
ततः श्रीरामचन्द्रस्य कवचं सर्वथोत्तमम् ॥ २१॥
पठनीयं नरैर्भक्त्या सर्ववाञ्छितदायकम् ।
एवं षट् कवचान्यत्र पठनीयानि सर्वदा ॥ २३॥
पठनं षट् कवचानां श्रेष्ठं मोक्षैकसाधनम् ।
ज्ञात्वाऽत्र मानवैर्भक्त्या कार्यं यः पठनं सदा ॥ २४॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीशत्रुघ्नकवचम् ॥
हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न
षट् कवचानि पठनीयम् ।
षट् कवचानि पठितुं अशक्तश्चेत्
हनुमत्-लक्ष्मण-सीता-राम –
अथवा हनुमत्-सीता-राम
अथवा हनुमत्-राम / सीता-राम कवचानि ।
अथवा श्रीरामकवचमेव पठनीयम् ॥
All the six kavachas
hanumat-lakShmaNa-sItA-rAma-bharata-shatrughna
from AnandarAmAyaNa should be recited together.
If one is unable to recite all the six,
then he/she can recite in the decreasing order
hanumat-lakShmaNa-sItA-rAma
hanumat-sItA-rAma
hanumat-rAma
sItA-rAma
If this is not possible, then one should at least
recite Shri Rama Kavacham.
Encoded by Antaratma antaratma at Safe-mail.net
Proofread by Antaratma, PSA Easwaran