श्रीसीताष्टोत्तरशतनामस्तोत्रम्

श्रीसीताष्टोत्तरशतनामस्तोत्रम्

अथ श्रीमदानन्दरामायणान्तर्गत श्री सीताष्टोत्तरशतनाम स्तोत्रम् ॥ अगस्तिरुवाच- एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् । अतः परं श‍ृणुष्वान्यत्सीतायाः स्तोत्रमुत्तमम् ॥ १॥ यस्मिन्नष्टोत्तरशतं सीतानामानि सन्ति हि । अष्टोत्तरशतं सीतानाम्नां स्तोत्रमनुत्तमम् ॥ २॥ यस्मिन्नष्टोत्तरशतं सीतानामानि सन्ति हि । अष्टोत्तरशतं सीतानाम्नां स्त्रमनुत्तमम् ॥ ३॥ ये पठन्ति नरास्त्वत्र तेषां च सफलो भवः । ते धन्या मानवा लोके ते वैकुण्ठं व्रजन्ति हि ॥ ४॥ न्यासः । अस्य श्रीसीतानामाष्टोत्तरशतमन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः । रमेति बीजम् ंआतुलिङ्गीति शक्तिः । पद्माक्षजेति कीलकम् । अवनिजेत्यस्त्रम् । जनकजेति कवचम् । मूलकासुरमर्दिनीति परमो मन्त्रः । श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामनासिद्ध्यर्थं जपे विनियोगः ॥ करन्यासः - ॐ सीतायै अङ्गुष्ठाभ्यां नमः । ॐ रमायै तर्जनीभ्यां नमः । ॐ मातुलिङ्ग्यै मध्यमाभ्यां नमः । ॐ पद्माक्षजायै अनामिकाभ्यां नमः । ॐ अवनिजायै कनिष्ठिकाभ्यां नमः । ॐ जनकजायै करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ सीतायै हृदयाय नमः । ॐ रमायै शिरसे स्वाहा । ॐ मातुलिङ्ग्यै शिखायै वषट् । ॐ पद्माक्षजायै नेत्रत्रयाय वौषट् । ॐ जनकात्मजायै अस्त्राय फट् । ॐ मूलकासुरमर्दिन्यै इति दिग्बन्धः ॥ अथ ध्यानम् - वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना या विप्राधिपयानरम्यनयना या विप्रपालानना । विद्युत्पुञ्जविराजमानवसना भक्तार्तिसङ्खण्डना श्रीमद्राघवपादपद्मयुगळन्यस्तेक्षणा सावतु ॥ अथ स्तोत्रम् । श्रीसीता जानकीदेवी वैदेही राघवप्रिया । रमाऽवनिसुता रामा राक्षसान्तप्रकारिणी ॥ १॥ रत्नगुप्ता मातुलिङ्गी मैथिली भक्ततोषदा । पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥ २॥ वैकुण्ठनिलया मा श्रीः मुक्तिदा कामपूरणी । नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥ ३॥ कुशाम्बिका दिव्यदा च लवमाता मनोहरा । हनूमद्वन्दितपदा मुग्धा केयूरधारिणी ॥ ४॥ अशोकवनमध्यस्था रावणादिकमोहिनी । विमानसंस्थिता सुभ्रूः सुकेशी रशनान्विता ॥ ५॥ रजोरूपा सत्त्वरूपा तामसी वह्निवसिनी । हेममृगासक्तचित्ता वाल्मीक्याश्रमवासिनी ॥ ६॥ पतिव्रता महामाया पीतकौशेयवासिनी । मृगनेत्रा च बिम्बोष्ठी धनुर्विद्याविशारदा ॥ ७॥ सौम्यरूपा दशरथस्नुषा चामरवीजिता । सुमेधादुहिता दिव्यरूपा त्रैलोक्यपालिनि ॥ ८॥ अन्नपूर्णा महालक्ष्मीः धीर्लज्जा च सरस्वती । शान्तिः पुष्टिः क्षमा गौरी प्रभाऽयोध्यानिवासिनी ॥ ९॥ वसन्तशीतला गौरी स्नानसन्तुष्टमानसा । रमानामभद्रसंस्था हेमकुम्भपयोधरा ॥ १०॥ सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी । लघूदरा वरारोहा हेमकङ्कणमण्डिता ॥ ११॥ द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी । श्रीरामसेवनरता रत्नताटङ्कधारिणी ॥ १२॥ रामवामाङ्गसंस्था च रामचन्द्रैकरञ्जनी । सरयूजलसङ्क्रीडाकारिणी राममोहिनी ॥ १३॥ सुवर्णतुलिता पुण्या पुण्यकीर्तिः कलावती । कलकण्ठा कम्बुकण्ठा रम्भोरूर्गजगामिनी ॥ १४॥ रामार्पितमना रामवन्दिता रामवल्लभा । श्रीरामपदचिह्नाङ्गा रामरामेति भाषिणी ॥ १५॥ रामपर्यङ्कशयना रामाङ्घ्रिक्षालिणी वरा । कामधेन्वन्नसन्तुष्टा मातुलिङ्गकरे धृता ॥ १६॥ दिव्यचन्दनसंस्था श्रीर्मूलकासुरमर्दिनी । एवमष्टोत्तरशतं सीतानाम्नां सुपुण्यदम् ॥ १७॥ ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः । अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥ १८॥ जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम् । सन्ति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च ॥ १९॥ नानेन सदृशानीह तानि सर्वाणि भूसुर । स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम् ॥ २०॥ एवं सुतीक्ष्ण ते प्रोक्तमष्टोत्तरशतं शुभम् । सीतानाम्नां पुण्यदं च श्रवणान्मङ्गळप्रदम् ॥ २१॥ नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः । सीतापूजनकालेऽपि सर्ववाञ्छितदायकम् ॥ २२॥ इति श्रीशतकोटिरामचरिते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे चतुर्दशसर्गान्तर्गतं सीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran
% Text title            : siitaaShTottarashatanaama stotraM 1
% File name             : siitaa108stAnanda.itx
% itxtitle              : sItAShTottarashatanAmastotram 1 (AnandarAmAyaNAntargatam)
% engtitle              : sItAShTottarashatanAma stotram 1
% Category              : aShTottarashatanAma, raama, stotra, vAlmIki
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : stotra
% Author                : Valmiki
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma, PSA Easwaran
% Description-comments  : from Anandaramayana
% Indexextra            : (Ananda Ramayana)
% Latest update         : January 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org