आर्तत्राणस्तोत्रम् गङ्गाधरस्तोत्रम् च
अप्पयदीक्षितविरचितम्
क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निश्शङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १॥
क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २॥
मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिगत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३॥
ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्घोषयन्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ४॥
बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुध्यत्करम् ।
दृष्ट्वाऽऽनम्य वरिञ्चिरम्यनगरे पूजां त्वदीयां भजन्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ५॥
सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिवृन्दारके-
ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ६॥
श्रौतस्मार्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं
विश्वातीतमपत्यमेव गतिरित्यालापयन्तं सकृत् ।
रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ७॥
गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयतपावनीं
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ८॥
॥ इति श्रीमदप्पयदीक्षितविरचितं आर्तत्राणस्तोत्रं सम्पूर्णम् ॥
This stotra glorifies the leelas of lord Shiva, protecting his
afflicted devotees, in such a way lines pregnant with some stories.
It has many stories ie. Shiva took poison to protect the world,
giving milk ocean to Upamanyu, protecting Markandeya,
giving the disk weapon to Vishnu who dedicated his lotus eyes and so on.
Encoded Swami Vedanishthananda Saraswati vedanishtha at gmail dotcom
Proofread by Swami Vedanishthananda, PSA Easwaran
The audio clips of word by word meanings and translation
are provided by Swami Vedanishthananda Saraswati in his own voice.