श्रीमदृष्यशृङ्गेश्वरस्तुतिः
श्रीगणेशाय नमः ॥
कष्टारिवर्गदलनशिष्टालिसमर्चिताङ्घ्रिपाथोजम् ।
नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ १॥
प्राणायामैर्ध्यानैर्नष्टं चित्तं विधाय मुनिवर्याः ।
यत्पश्यन्ति हृदञ्जे शान्ताभाग्यं नमामि तत्किञ्चित् ॥ २॥
वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम् ।
खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ ३॥
शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम् ।
शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि शृङ्गशिवम् ॥ ४॥
इति श्रीमदृष्यशृङ्गेश्वरस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran