अरुणाचलपञ्चरत्नवार्त्तिकम्

अरुणाचलपञ्चरत्नवार्त्तिकम्

मङ्गलम् सच्चिन्मात्रस्वभावाय नित्यमुक्ताय शम्भवे । रमणायात्मनाथाय नमो भगवते सदा ॥ १॥ ग्रन्थावतरणम् तेनारुणाचलाख्यस्य स्वस्वरूपस्य पञ्चभिः । श्लोकैः कृता नुतिस्तस्याः क्रियते लघुवार्त्तिकम् ॥ २॥ माण्डूक्योदितमद्वैतं तुर्याख्यं निष्प्रपञ्चकम् । ससाधनं स्तुतावस्यामात्मतत्त्वं प्रपञ्च्यते ॥ ३॥ प्रामाण्यं युज्यते ह्यस्य यतो वक्त्यत्र सद्गुरुः । नित्यानुभूतमात्मीयं तत्त्वं शिवमनामयम् ॥ ४॥ वेदेन गुरुवाक्यानां प्रामाण्यं मन्यतां जनः । मन्यामहे तु वेदानां प्रामाण्यं गुरुवाक्यतः ॥ ५॥ स्वस्वरूपे तुरीयाख्ये स्थितो यस्स भवेद्गुरुः । उपदेशस्तदीयो यस्सा स्यादुपनिषत्परा ॥ ६॥ विहाय प्रायशो वादान् प्रामाण्याद्वचसां गुरोः । सिद्धान्ता एव सङ्गृह्य दीयन्ते ह्यत्र वार्त्तिके ॥ ७॥ प्रथमश्लोकः करुणापूर्णसुधाब्धे कबलितघनविश्वरूप किरणावल्या । अरुणाचलपरमात्म- न्नरुणो भव चित्तकञ्जसुविकासाय ॥ प्रथमश्लोकस्यानुवादः कृपासुधाम्बुधेऽरुणाचल प्रबोधभास्कर स्वचित्स्वरूपतेजसा निगीर्णसर्वलोकक । हृदम्बुजातकोशकप्रफुल्लताविधायिनीं प्रभां निजां प्रसार्य भोस्तमो विनाशयान्तरम् ॥ वार्त्तिकम् हृदम्भोजविकासाय प्रथमे प्रार्थ्यते शुभा । तत्कृपास्वीयभक्तानां तत्स्वरूपत्वसिद्धये । अत्रैव निष्प्रपञ्चत्वं दिश्यते च परात्मनः ॥ ८॥ अहमित्यखिलस्यान्तर्भानं यत् परमात्मनः । करुणेत्युच्यते सैव नाद्वैते विक्रिया यतः ॥ ९॥ करुणायाः स्वरूपत्वमिष्टं न गुणता विभोः । उच्यते निर्गुणत्वं हि वेदान्तैः परमात्मनः ॥ १०॥ तया गृहीता ये भक्ताः प्रेमिणो वा विचारिणः । स्वरूपानुभवस्तेषां ध्रुवो ह्यज्ञाननाशतः ॥ ११॥ निष्प्रपञ्चकमद्वैतं तुर्यं सत्यमिति स्फुटम् । जगत्कबलनस्योक्त्या पूर्वार्धे गुरुणोच्यते ॥ १२॥ अधिष्ठानतया तस्य विश्वस्यारोपितत्वतः । सत्यत्वमस्ति तस्यैव न तु विश्वस्य कर्हिचित् ॥ १३॥ कुरुते ह्यसदेवासत् करुणा परमात्मनः । नान्यत् किञ्चन कर्तव्यं सत्य आत्मा स एव हि ॥ १४॥ संविद्भानुरसावात्मा यद्भासा मायिकं जगत् । नीयते नाशमत्यन्तं तमो भासा यथा रवेः ॥ १५॥ असदेव तमो यद्वत् सत्यवद्गृह्यतेऽबुधैः । असत्यैव तथा माया सकार्या सत्यवन्मता ॥ १६॥ यथाऽसत्त्वात् तमो भासा कबलीक्रियते रवेः । सकार्या च तथा माया कबलीक्रियते चिता ॥ १७॥ स एव शिष्यते तुर्ये चिदानन्दोऽद्वितीयकः । न जीवो न जगत् किञ्चित् तद्द्वयं च मृषा किल ॥ १८॥
द्वितीयश्लोकः त्वय्यरुणाचल सर्वं भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् । हृद्यहमित्यात्मतया नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥ द्वितीयश्लोकानुवादः उदेति वर्तते प्रलीयतेऽखिलं जगच्चलं त्वयि प्रकाशवत्पटे यथैव चित्रसन्ततिः । अहन्तयाऽऽत्मरूपतोऽपि नृत्यसि स्वयं हृदि वदन्त्यतो हृदाख्यकं भवन्तमेककं परम्॥ वार्त्तिकम् बहवः प्रतिबध्यन्ते मन्वानाः सदिदं जगत् । आत्मनाशपदं केचिदिदं मत्वा च बिभ्यति । शङ्काद्वयनिरासाय द्वितीयश्लोक ईरितः ॥ १९॥ तटस्थलक्षणं चात्र दिश्यते परमात्मनः । स्वरूपलक्षणं चापि शुद्धं भक्तिविवृद्धये ॥ २०॥ स्वतः सत्यं जगन्मत्वा तस्याधिष्ठानमव्ययम् । न पश्यत्यविवेकीति तत्तत्त्वमुपदिश्यते ॥ २१॥ जीवेशौ विषयाश्चेति त्रितयं जगदाख्यकम् । आरोपितमिदं सर्वमधिष्ठाने चिदात्मनि ॥ २२॥ स्वरूपं जगतः सत्यं सच्चिदात्मैव केवलः । अतोऽन्वेषेण लब्धव्यो विहायेदं स एव हि ॥ २३॥ दृश्यते जगदित्येतत् तत्सत्तां नैव साधयेत् । अधिष्ठानं किमप्यस्तीत्येतदेव हि साधितम् ॥ २४॥ प्रतीयते यथा यद्यत् तत् तथेत्यप्रमाणकम् । वैज्ञानिकजनैश्चापि स्पष्टमेतन्निरूपितम् ॥ २५॥ बहिर्मुखतया ते तु भेदज्ञानपरायणाः । न स्वं वेदितुमिच्छन्ति ज्ञानं तेषामतो मृषा ॥ २६॥ साक्षात्कृतमधिष्ठानं जगतो येन बोधतः । प्रमाणीकृत्य तद्वाक्यं तथा निष्ठां लभेमहि ॥ २७॥ अधिष्ठानसदद्वैतं निर्विशेषं निरंशकम् । जगद्रूपतया भाति मनोव्यापारमात्रतः ॥ २८॥ मन एव स्वयं माया याऽन्यथा कुरुते परम् । ज्ञायतां तदिदं स्पष्टं सुप्तौ जगदभानतः ॥ २९॥ उदेति वर्तते तस्मिन् लीयते चाखिलं यतः । स एवात्मा ततः सर्वं जीवेशौ विषया अपि ॥ ३०॥ मायाकार्यमिदं यस्मात् केवलोऽसावविक्रियः । नानेन बाध्यते किञ्चित् पटश्चित्राग्निना यथा ॥ ३१॥ तदाभासमयं चेदं स एव परमार्थतः । यदेवाद्यन्तयोरेतन्मध्ये चेदं तदेव हि ॥ ३२॥ विश्वं विवेकदृष्ट्यैवं स्वात्मनि प्रविलापयेत् । प्रविलापनदृष्ट्या हि स्वान्वेषणक्षमं मनः ॥ ३३॥ स्वान्वेषणस्य चात्रैव प्रकार उपदिश्यते । तेन स्वरूपेऽवस्थानं जगद्भ्रमविनाशतः ॥ ३४॥ तटस्थलक्षणं दिष्टमेवं तस्य परात्मनः । स्वरूपलक्षणं त्वत्र सूचितं चोपलक्ष्यते ॥ ३५॥ स्वरूपं तत् स्फुटीकुर्वन् शिवस्य परमात्मनः । तस्यैवात्मत्वमस्माकं दर्शयत्यतिशोभनम् ॥ ३६॥ आत्मत्वेनाखिलस्यान्तरहमित्यनिशं स्वयम् । भात्यसौ नान्य आत्माऽस्ति स्वरूपं तदिदं विभोः ॥ ३७॥ नृत्यसीति पदेनात्र दिष्टाऽऽनन्दस्वरूपता । आत्मभूतस्य तुर्यस्य तदसंसारिताऽऽत्मनः ॥ ३८॥ स्वयैव मायया देवो विमोहित इव स्वयम् । भ्रमतीवात्र संसारे मायाऽसौ न तु विद्यते ॥ ३९॥ अर्थाद्व्यावर्तनं चापि देहादीनामनात्मनाम् । कृतमेवेत्यतस्तेषु जह्यादात्मत्वभावनाम् ॥ ४०॥ सर्वे वयं स एव स्मो न देहा नापि देहिनः । नाज्ञानं न च संसार इत्येषा परमार्थता ॥ ४१॥ मनः कल्पयते देहान् जीवांश्च विषयानहो । जाग्रत्यपि यथा स्वप्ने मायैषा मन एव हि ॥ ४२॥ शुद्धचिद्रूप आत्मैव सत्यो नान्यस्ततः शिवः । एष वेदान्तसिद्धान्त उक्तः स्वीयानुभूतितः ॥ ४३॥ प्रेष्ठ आत्मैव सर्वेषां तदर्थमितरत् प्रियम् । अत आनन्दरूपत्वमात्मनो गम्यते स्फुटम् ॥ ४४॥ तदानन्दकणा एव ह्यानन्दा लौकिकाः स्मृताः । आत्मलाभसमो नास्तीत्यत एवोच्यते बुधैः ॥ ४५॥ बहिर्मुखत्वहानाय दिश्यते हृदि तत्स्थितिः । अन्तर्मुखतया ह्येव साधने सम्प्रवर्तनम् ॥ ४६॥ परमार्थतया त्वेष परमो हृदयं स्वयम् । सर्वाधारस्य सत्यस्य मिथ्यैवाधारकल्पना ॥ ४७॥
तृतीयश्लोकः अहमिति कुत आयाती- त्यन्विष्यान्तः प्रविष्टयाऽत्यमलधिया । अवगम्य स्वं रूपं शाम्यत्यरुणाचल त्वयि नदीवाब्धौ॥ तृतीयश्लोकस्यानुवादः उदेत्यहं कुतस्स एष इत्यतीव शुद्धया धिया हृदि प्रविष्टया विमृग्य तत्त्वमात्मनः । अवैति चेच्चिदात्मकं भवन्तमात्मरूपतो नदीव सङ्गताऽम्बुधिं त्वयि प्रशान्तिमेति धीः॥ वार्त्तिकम् ज्ञात्वैवमात्मलाभाय यतमानस्य सिद्धये । ऋजुमार्गस्तृतीयेन विस्पष्टमुपदिश्यते ॥ ४८॥ आभासमात्रो जीवोऽयं चिज्जडग्रन्थिरूपकः । तच्चिदंशनिदानं तु भवत्यात्मा परः स्वयम् ॥ ४९॥ हित्वा जडांशं देहादि शिष्टां चैतन्यरूपिणीम् । शुद्धाहन्तां समादाय तन्मूलं स्वं गवेषयेत् ॥ ५०॥ निमज्जेत् सलिले लब्धुं मग्नं वस्तु यथा तथा । अहन्तामूलमन्विष्यन् निमज्जेत् साधको हृदि ॥ ५१॥ स्वामिनो गन्धमादाय यथा श्वा तं गवेषयेत् । शुद्धाहन्तां तथाऽऽदाय धीः स्वमूलं गवेषयेत् ॥ ५२॥ गवेषणे स्थिरीभूतं मनो विशति हृद्गुहाम् । तदा भायात् स्वभासाऽऽत्मा शाम्येदपि मनोऽन्ततः ॥ ५३॥ मनोनाशादपार्थक्यं स्वतः सिद्धं प्रकाशते । मनःकृतो हि भेदोऽयं द्वयोर्ब्रह्मात्मनोरिह ॥ ५४॥ इदमन्वेषणात् स्वस्य तत्त्वस्य हृदि मज्जनम् । साधनं परमं मुक्तेर्विचार इति चोच्यते ॥ ५५॥ अत्यन्त्यैक्यमनावृत्तिं दर्शयिष्यन्नतो गुरुः । नदीं दृष्टान्तयत्यब्धिं गत्वा तद्रूपतां गताम् ॥ ५६॥ आत्मानुभूतिरेषैव मुक्तिरित्यभिधीयते । सत्या स्थितिः परं धाम कैवल्यं सहजा स्थितिः ॥ ५७॥ स्वज्ञानममृतत्वं च मौनं निर्भयतेत्युत । स्थितिमेतां परां तुर्यां शंसन्ति बहुधा बुधाः ॥ ५८॥ आत्मा तु ज्ञेयतां नैति तुर्ये ज्ञाताऽपि नास्ति हि । ज्ञानाज्ञानविनिर्मुक्त आत्मा ज्ञानस्वरूपकः ॥ ५९॥ ज्ञेयज्ञातृविहिनोऽसावात्मा भवति केवलः । अनात्मन्यात्मधीनाशः स्वात्मज्ञानमितीर्यते ॥ ६०॥ नष्टं यस्य विचारेण मनो हृदि निमज्जनात् । आत्मैव स हि नात्मज्ञो ब्रह्मैव ब्रह्मविन्नहि ॥ ६१॥ ब्रह्मब्रह्मज्ञयोर्भेदं मन्वानः पारमार्थिकम् । मिथ्याग्रहेण तेनैव प्रतिबध्येत साधकः ॥ ६२॥ ज्ञानाद्विमुक्तिरित्युक्तेर्ज्ञानमित्यर्थ एव हि । न ज्ञानं कारणं मुक्तेर्मुक्तिर्ज्ञानफलं च न ॥ ६३॥ आत्मनः सहजा मुक्तिः स्वरूपं ज्ञानमात्मनः । स मुक्तिर्नित्यसिद्धैव स्वयमेव स्वकारणम् । व्यावहारिकदृष्ट्या तु ज्ञानान्मुक्तिरितीर्यते ॥ ६४॥ न वक्तुं नापि मन्तुं वा शक्यमेतत् परं पदम् । मौनव्याख्याननिर्देश्यं वेद्यं च स्वानुभूतितः ॥ ६५॥ न वक्ता न च मन्ता वा तत्र कश्चन शिष्यते । अत एतत् पदं तुर्यं मौनमित्यभिधीयते ॥ ६६॥ वाचोऽपि मनसा साकं निवर्तन्ते यतोऽद्वयात् । अनुभूय तमानन्दं न बिभेति कुतश्चन ॥ ६७॥ यत्रास्ति भेदविज्ञानं नाभीतिस्तत्र कर्हिचित् । इति च श्रूयते यस्मात् तुर्यमेवाभयं पदम् ॥ ६८॥ स्वस्वरूपपरिज्ञानात् कथमैक्यं परात्मना । इति प्रश्नो निराधार ऐक्यं स्वाभाविकं यतः ॥ ६९॥ अत्रोक्तेन विचारेण लभ्यैषा परमा गतिः । नान्यथा लभ्यते सेयमिति वेदान्तनिर्णयः ॥ ७०॥ इह दिष्टः स एवार्थो नदीदृष्टान्तयोजनात् । अन्यत्रानेकधा चापि स्पष्टं भगवता सताम् ॥ ७१॥ नोपासनेन योगेन पुण्यैर्वाऽपि च कर्मभिः । लभ्येतेदं पदं तुर्यमित्येवं च प्रदर्शितम् ॥ ७२॥ मिथ्येयं जीवता यावन्न लुप्येत विचारणात् । तावत् संसारनिर्मोक्षो न भवेत् किल देहिनाम् ॥ ७३॥ जीवत्वमादिमो धर्मः कर्तृत्वाद्यास्तदाश्रयाः । जीवताऽऽरोपिता पूर्वं कर्तृत्वाद्यास्ततः परम् । जीवत्वनाशे सर्वेषां नाशोऽतः सहजा स्थितिः ॥ ७४॥ सर्वधर्मपरित्यागो यो गीतासु विधीयते । कर्तृत्वादिकहानं स जीवत्वत्यागपूर्वकम् ॥ ७५॥ सर्वधर्मपरित्यागो जीवत्वत्याग एव हि । अत्यागे जीवतायास्तु त्यक्तो धर्मो न कश्चन ॥ ७६॥ इत्यौपनिषदं स्वास्थ्यं परमं पदमव्ययम् । अत्रोपदिष्टं द्रष्टव्यमद्वैतं तुर्यनामकम् ॥ ७७॥ ऋजुमार्गमिमं हित्वा चरन्त्यन्यपथा तु ये । कालेन परमं धाम यान्ति ते हृन्निमज्जनात् ॥ ७८॥
चतुर्थश्लोकः त्यक्त्वा विषयं बाह्यं रुद्धप्राणेन रुद्धमनसाऽन्तस्त्वाम् । ध्यायन्पश्यति योगी दीधितिमरुणाचल त्वयि महीयं ते॥ चतुर्थश्लोकस्यानुवादः विहाय बाह्यवस्तु वायुरोधनान्मनो हठा- न्निरुध्य योगगस्स्मरन् भवन्तमेव सर्वदा । महिम्नि लीनधीः प्रभे क्षणेन मोदते भृशं अथोत्थितस्स वासनेन चेतसा तु संसरेत्॥ वार्त्तिकम् शिष्येते यतमानौ द्वौ योगी प्रेमी परात्मनि । चतुर्थे योगिनं वक्ति प्रेमिणं पञ्चमे गुरुः ॥ ७९॥ तत्र योगी हठाद्रुद्ध्वा प्राणायामेन मानसम् । चिज्ज्योतिर्वीक्षणं लब्ध्वा तदानीं मोदते भृशम् ॥ ८०॥ मनोरोधो हठात् सिद्धो न स्थिरो भविता क्वचित् । लीनमेव मनस्तिष्ठेत् सवासनमथोदियात् ॥ ८१॥ मनोनाशेन मुक्तिर्हि न लयेन कदाचन । लीनं हि पुनरायाति नष्टं नैवोदियात् पुनः । अनाशान्मनसो योगी जीवत्वं न जहाति हि ॥ ८२॥ स्फुटीकर्तुमिमं भेदं मनसो लयनाशयोः । गुरुर्वक्ति पुरावृत्तां कथां कस्यापि योगिनः ॥ ८३॥ समाधेर्व्युत्थितो योगी पिपासार्दितमानसः । शिष्यमादिश्य तीर्थाय समाधिं प्राविशत् पुनः ॥ ८४॥ ययुः शतानि वर्षाणां व्युत्थितोऽभूत् ततः परम् । जलाथप्रेषितं शिष्यं वेगेनाथ स्मरंस्तदा । उवाचोच्चैश्च भोस्तीर्थं किमानीतं त्वयेत्यसौ ॥ ८५॥ पिपासावासनायुक्तं मनो लीनं ह्यभूच्चिरम् । उदियाय च वेगेन समाधेर्व्युत्थितस्य हि । अनाशान्मनसो ह्येवं वेगेन स्मृतिरुद्गता ॥ ८६॥ महिम्नि रमते योगी न स्वरूपं प्रपद्यते । इत्युक्त्या योगिनो भोगो दिश्यते न तु मोक्षणम् ॥ ८७॥ अल्पमप्यन्तरं कृत्वा भयमेतीति च श्रुतेः । नाभयं विन्दते योगीत्ययमर्थो निरूपितः ॥ ८८॥ विना विवेकमत्रोक्तं स्वशक्त्या च हठेन च । यतमानो हि दिष्टोऽत्र न तु सर्वोऽपि योगगः ॥ ८९॥ यावन्न सज्जते सोऽयं विचारेऽहङ्कृतिं त्यजन् । परं वा शरणं याति तावन्नायं विमुच्यते ॥ ९०॥ वार्त्तिकम् अतो विशिष्यते प्रेमी तदर्पितमनाः सदा । विस्मृत्य स्वं च तत्प्रेम्णा वीक्षते तन्मयं जगत् ॥ ९१॥ ᳚ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ᳚ ॥ ९२॥ ᳚ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ᳚॥ इति गीतासु सन्दिष्टं पारम्यं प्रेमिणः किल ॥ ९३॥ पश्यंस्तं स सदा प्रेष्ठं तदानन्दे निमग्नधीः । मुक्तप्रायो ह्यसौ कालान्मुक्तिमात्यन्तिकीं व्रजेत् ॥ ९४॥ भक्तियोगेन लभ्येत परस्मिन् प्रेम शोभनम् । उक्ता भागवते भक्तिर्नवधा श्रवणादिका । प्रपत्तिर्नवमा तत्तु परस्मै स्वनिवेदनम् ॥ ९५॥ ᳚ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ᳚॥ इत्युपायः प्रपत्तिर्हि मायामोक्षाय दिश्यते ॥ ९६॥ मायया विषयेष्वेव प्रीतिः सञ्जायते नृणाम् । प्रपन्नो मायया मुक्तः परस्मिन् प्रेमवान् भवेत् ॥ ९७॥ अतः परस्मिन् कर्तव्या भक्तिः परमशोभना । आत्मत्वेन पृथक्त्वेन कथञ्चित् परमं भजेत् ॥ ९८॥ भजनात् प्रेम्णि सञ्जाते पार्थक्यं स्रंसते चिरात् । अभेदः शिष्यते सत्य एवं भक्तः कृती भवेत् ॥ ९९॥ प्रेमवाञ्जयतीत्युक्त्या योगिभ्योऽसौ विशिष्यते । अतो विचारे नो चेद्धीरिच्छेत् प्रेम्णाऽऽप्तुमीश्वरम् ॥ १००॥ स्तोत्रसमुदायार्थः ᳚ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ᳚ । इति पूर्वोक्तमेवार्थमिव दर्शयति स्वयम् ॥ १०१॥ वृद्ध इत्युच्यते ज्ञानी प्रेमी बाल इतीर्यते । अहङ्कारपरीतात्मा योगी प्रोक्तो युवेति च ॥ १०२॥ अत्र यौवनमेवाद्यं ततो बालत्ववृद्धते । साहङ्कारत्वमेवादौ निरहङ्कारता परा । योगाद्भक्तिस्ततः प्रेम ततो ज्ञानमिति क्रमः ॥ १०३॥ उत्तमो भवति ज्ञानी निकृष्टो योगतत्परः । मध्यमो भवति प्रेमी तेषामेवं भिदा मता ॥ १०४॥ मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । भक्तिप्रकारे सर्वस्मिन् विचारः परमोत्तमः ॥ १०५॥ विचारेणान्नतां याति परमस्य स्वयं हृदि । विचारी परमो भक्तो ज्ञात्वैवं स्वं विचारयन् ॥ १०६॥ विचारेणैव सम्पूर्णं परस्मै स्वनिवेदनम् । विचारेणान्नतामेत्य न ततो भिद्यते यतः ॥ १०७॥ मङ्गलम् ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । परस्मै रमणाख्याय पञ्चरत्नकृते नमः ॥ १०८॥ इति शिवम्
In another Ashram publication, there is an addition of another verse (as below) one of Ganapati Muni's disciples, Daivarata, wrote a Tamil verse and colophon in praise of the stotra. Maharshi translated this in Sanskrit. The original pancharatna was composed by Maharshi in Tamil and also translated by him into Sanskrit. एतद् रमण महर्षेर्दर्शनमरुणाचलस्य देवगिरा । पञ्चकमार्यागीतौ रत्नं त्विदमौपनिषदं हि ॥ इति श्री पाराशर्यस्य भगवतो महर्षेराचार्य रमणस्य दर्शनमरुणाचलपञ्चरत्नम् ॥ Encoded and proofread by Sunder Hattangadi This work is published by Sri Ramanasramam www.sriramanamaharshi.org It has been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.
% Text title            : Arunachala Pancharatnam with Varttika
% File name             : aruNAchalapancharatnavArttikam.itx
% itxtitle              : aruNAchalapancharatnavArttikam
% engtitle              : Arunachala Pancharatna Varttikam
% Category              : pancharatna, shiva, ramaNa-maharShi
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shri Ramana Maharshi; varttikam by K.Lakshmana Sharma('WHO')
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : Hymn of 5 verses, with commentary. Ramanashrama publication
% Indexextra            : (Scan)
% Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org
% Latest update         : November 7, 2014
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org