॥ श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् ॥

श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ ॐ अस्य श्रीमदापदुद्धारक-बटुकभैरवाष्टोत्तरशतनामस्तोत्रस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः। श्रीमदापदुद्धारक-बटुकभैरवो देवता । बं बीजम् । ह्रीं वटुकाय इति शक्तिः । प्रणवः कीलकम् । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ ॥ ऋष्यादि न्यासः ॥ श्रीबृहदारण्यकऋषये नमः (शिरसि)। अनुष्टप् छन्दसे नमः (मुखे)। श्रीबटुकभैरव देवतायै नमः (हृदये)। ॐ बं बीजाय नमः (गुह्ये)। ॐ ह्रीं वटुकायेति शक्तये नमः पादयोः । ॐ कीलकाय नमः (नाभौ)। विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥ ॥ अथ करन्यासः ॥ ॐ ह्रां वां ईशानाय नमः अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं वीं तत्पुरुषाय नमः तर्जनीभ्यां नमः । ॐ ह्रूं वूं अघोराय नमः मध्यमाभ्यां नमः । ॐ ह्रैं वैं वामदेवाय नमः अनामिकाभ्यां नमः । ॐ ह्रौं वौं सद्योजाताय नमः कनिष्ठिकाभ्यां वमः । ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः करतलकरपृष्ठाभ्यां नमः । ॥ इति करन्यासः ॥ ॥ अथ हृदयादि न्यासः ॥ ॐ ह्रां वां ईशानाय नमः हृदयाय नमः । ॐ ह्रीं वीं तत्पुरुषाय नमः शिरसे स्वाहा । ॐ ह्रूं वूं अघोराय नमः शिखायै वषट् । ॐ ह्रैं वैं वामदेवाय नमः कवचाय हुम् । ॐ ह्रौं वौं सद्योजाताय नमः नेत्रत्रयाय वौषट् । ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः अस्त्राय फट् । ॥ इति हृदयादि न्यासः ॥ ॥ अथ ध्यानम् ॥ वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः । दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं हस्ताग्राभ्यां वटुकमनिशं शूलदण्डौ दधानम् ॥ करकलितकपालः कुण्डली दण्डपाणिः तरुणतिमिरनीलो व्यालयज्ञोपवीती । क्रतुसमयसपर्याविघ्नविच्छिप्तिहेतुः जयति वटुकनाथः सिद्धिदः साधकानाम् ॥ शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् । नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् । दशबाहुमथोग्रं च दिव्याम्बरपरिग्रहम् ॥ दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् । खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥ डमरुं च कपालं च वरदं भुजगं तथा । आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥ ॥ इति ध्यानम् ॥ ॥ मूलमन्त्रः ॥ ॐ ह्रीं बटुकायापदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॐ इसका जप ११ २१ ५१ या १०८ बार करे ॥ अथ स्तोत्रम् ॥ ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ १॥ श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः । रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २॥ कङ्कालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३॥ शूलपाणिः खङ्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४॥ धनदोऽधनहारि च धनवान्प्रीतिवर्धनः । प्रतिभानवान् नागहारो नागकेशो व्योमकेशो कपालभृत् ॥ ५॥ नागपाशो कालः कपालमालि च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥ त्रिलोकपः त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः । बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥ ७॥ भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः । धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८॥ प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९॥ अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः । भूधरो भुधराधीशो भूपतिर्भूधरात्मजः ॥ १०॥ कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान् । variation कपालधारि मुण्डी च नागयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११॥ शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः । बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२॥ सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥ १३॥ जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः । सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओं ॥ १४॥ फलश्रुतिः । अष्टोत्तरशतं नाम्नां भैरवाय महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ १५॥ य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ १६॥ न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् । न शत्रुभ्यो भयं किञ्चित्प्राप्नुयान्मानवः क्वचित् ॥ १७॥ पातकेभ्यो भयं नैव यः पठेत्स्तोत्रमुत्तमम् । मारीभये राजभये तथा चौराग्निजे भये ॥ १८॥ औत्पत्तिके महाघोरे तथा दुःखप्रदर्शने । बन्धने च तथा घोरे पठेत्स्तोत्रमनुत्तमम् ॥ १९॥ सर्वं प्रशममायाति भयं भैरवकीर्तनात् । एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ २०॥ यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥ २१॥ षण्मासं भूमिकामस्तु जपित्बा प्राप्नुयान्महीम् । राजशत्र्युविनाशार्थं पठेन्मासाष्टकं पुनः ॥ २२॥ रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् ॥ २३॥ धनार्थी च सुतार्थी च दारार्थी चापि मानवः । पठेन्मासत्रयं देवि वारमेकं तथा निशि ॥ २४॥ ॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com PSA Easwaran psaeaswaran at gmail.com
% Text title            : Batukabhairava Ashtottarashatanama Stotram
% File name             : baTukabhairavAShTottarashatanAmastotram.itx
% itxtitle              : baTukabhairavAShTottarashatanAmastotram
% engtitle              : Batukabhairavashtottarashatanamastotram
% Category              : aShTottarashatanAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, Psa Easwaran psaeaswaran at gmail.com
% Source                : Shivanama Manjari 1, page 480
% Latest update         : June 23, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP