श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् २

श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् २

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः । ॐ अस्य श्रीबटुकभैरवस्तोत्रमन्त्रस्य कालाग्निरुद्र ऋषिः । अनुष्टुप् छन्दः । आपदुद्धारकबटुकभैरवो देवता । ह्रीं बीजम् । भैरवीवल्लभः शक्तिः । नीलवर्णो दण्डपाणिरिति कीलकम् । समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः ॥ ऋष्यादि न्यासः - ॐ कालाग्निरुद्र ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । आपदुद्धारकश्रीबटुकभैरव देवतायै नमः हृदये । ह्रीं बीजाय नमः गुह्ये । भैरवीवल्लभ शक्तये नमः पादयोः । नीलवर्णो दण्डपाणिरिति कीलकाय नमः नाभौ । समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥ अथ मूलमन्त्रः - ॥ ॐ ह्रीं वां बटुकाय क्ष्रौं क्षौ आपदुद्धारणाय कुरु कुरु बटुकाय ह्रां बटुकाय स्वाहा ॥ ॥ इति मूलमन्त्रः ॥ अथ ध्यानम् - नीलजीमूतसङ्काशो जटिलो रक्तलोचनः । दंष्ट्राकरालवदनः सर्पयज्ञोपवीतवान् ॥ दंष्ट्रायुधालंकृतश्च कपालस्रग्विभूषितः । हस्तन्यस्तकरोटीको भस्मभूषितविग्रहः ॥ नागराजकटीसूत्रो बालमूर्ति दिगम्बरः । मञ्जु सिञ्जानमञ्जरी पादकम्पितभूतलः ॥ भूतप्रेतपिशाचैश्च सर्वतः परिवारितः । योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥ अट्टहासस्फुरद्वक्त्रो भ्रुकुटीभीषणाननः । भक्तसंरक्षणार्थाय दिक्षुभ्रमणतत्परः ॥ ॥ इति ध्यानम् ॥ अथ स्तोत्रम् । ॐ ह्रीं बटुको वरदः शूरो भैरवः कालभैरवः । भैरवीवल्लभो भव्यो दण्डपाणिर्दयानिधिः ॥ १॥ वेतालवाहनो रौद्रो रुद्रभ्रुकुटिसम्भवः । कपाललोचनः कान्तः कामिनीवशकृद्वशी ॥ २॥ आपदुद्धारणो धीरो हरिणाङ्कशिरोमणिः । दंष्ट्राकरालो दष्टोष्ठौ धृष्टो दुष्टनिबर्हणः ॥ ३॥ सर्पहारः सर्पशिराः सर्पकुण्डलमण्डितः । कपाली करुणापूर्णः कपालैकशिरोमणिः ॥ ४॥ श्मशानवासी मांसाशी मधुमत्तोऽट्टहासवान् । वाग्मी वामव्रतो वामो वामदेवप्रियङ्करः ॥ ५॥ वनेचरो रात्रिचरो वसुदो वायुवेगवान् । योगी योगव्रतधरो योगिनीवल्लभो युवा ॥ ६॥ वीरभद्रो विश्वनाथो विजेता वीरवन्दितः । भूताध्यक्षो भूतिधरो भूतभीतिनिवारणः ॥ ७॥ कलङ्कहीनः कङ्काली क्रूरकुक्कुरवाहनः । गाढो गहनगम्भीरो गणनाथसहोदरः ॥ ८॥ देवीपुत्रो दिव्यमूर्तिर्दीप्तिमान् दीप्तिलोचनः । महासेनप्रियकरो मान्यो माधवमातुलः ॥ ९॥ भद्रकालीपतिर्भद्रो भद्रदो भद्रवाहनः । पशूपहाररसिकः पाशी पशुपतिः पतिः ॥ १०॥ चण्डः प्रचण्डचण्डेशश्चण्डीहृदयनन्दनः । दक्षो दक्षाध्वरहरो दिग्वासा दीर्घलोचनः ॥ ११॥ निरातङ्को निर्विकल्पः कल्पः कल्पान्तभैरवः । मदताण्डवकृन्मत्तो महादेवप्रियो महान् ॥ १२॥ खट्वाङ्गपाणिः खातीतः खरशूलः खरान्तकृत् । ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥ १३॥ दिग्चरो भूचरो भूष्णुः खेचरः खेलनप्रियः । सर्वदुष्टप्रहर्ता च सर्वरोगनिषूदनः । सर्वकामप्रदः शर्वः सर्वपापनिकृन्तनः ॥ १४॥ इत्थमष्टोत्तरशतं नाम्नां सर्वसमृद्धिदम् । आपदुद्धारजनकं बटुकस्य प्रकीर्तितम् ॥ १५॥ एतच्च श‍ृणुयान्नित्यं लिखेद्वा स्थापयेद्गृहे । धारयेद्वा गले बाहौ तस्य सर्वा समृद्धयः ॥ १६॥ न तस्य दुरितं किञ्चिन्न चोरनृपजं भयम् । न चापस्मृतिरोगेभ्यो डाकिनीभ्यो भयं न हि ॥ १७॥ न कूष्माण्डग्रहादिभ्यो नापमृत्योर्न च ज्वरात् । मासमेकं त्रिसन्ध्यं तु शुचिर्भूत्वा पठेन्नरः ॥ १८॥ सर्वदारिद्र्यनिर्मुक्तो निधिं पश्यति भूतले । मासद्वयमधीयानः पादुकासिद्धिमान् भवेत् ॥ १९॥ अञ्जनं गुटिका खड्गं धातुवादरसायनम् । सारस्वतं च वेतालवाहनं बिलसाधनम् ॥ २०॥ कार्यसिद्धिं महासिद्धिं मन्त्रं चैव समीहितम् । वर्षमात्रमधीयानः प्राप्नुयात्साधकोत्तमः ॥ २१॥ एतत्ते कथितं देवि गुह्याद्गुह्यतरं परम् । कलिकल्मषनाशनं वशीकरणं चाम्बिके ॥ २२॥ ॥ इति कालसङ्कर्षणतन्त्रोक्त श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com PSA Easwaran psaeaswaran at gmail.com
% Text title            : Batukabhairava Ashtottarashatanama Stotram 2
% File name             : baTukabhairavAShTottarashatanAmastotram2.itx
% itxtitle              : baTukabhairavAShTottarashatanAmastotram 2 (kAlasaNkarShaNatantrAntargatam baTuko varadaH shUro)
% engtitle              : Batukabhairavashtottarashatanamastotram 2
% Category              : aShTottarashatanAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, Psa Easwaran psaeaswaran at gmail.com
% Source                : kAlasaNkarShaNatantra
% Latest update         : October 15, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org