॥ बिल्वाष्टकम् २ ॥

त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ३॥ काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४॥ तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा । पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम् ॥ ५॥ तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् । कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ६॥ दन्त्यश्वकोटिदानानि अश्वमेधशतानि च । कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ७॥ सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥ अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥ एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् । महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ १०॥ अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥ ॥ ॐ तत्सत् ॥
Encoded and proofread by N.Balasubramanian bbalu at satyam.net.in

% Text title            : bilvAShTakam 2
% File name             : bilvAShTakam2.itx
% itxtitle              : bilvAShTakam 2
% engtitle              : bilvAShTakam 2
% Category              : aShTaka, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Translated by         : N.Balasubramanian bbalu@satyam.net.in
% Latest update         : July 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP