॥ मानसोल्लास ॥

॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥ विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥ बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्छया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २॥ यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३॥ नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिःस्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४॥ देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५॥ राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६॥ बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा एष पुरुषो मायापरिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८॥ भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९॥ सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १०॥ ॥ मानसोल्लास ॥ विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥ मङ्गळं दिशतु मे विनायको मङ्गळं दिशतु मे सरस्वती । मङ्गळं दिशतु मे महेश्वरो मङ्गळं दिशतु मे सदाशिवः ॥ १॥ आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः । तल्लाभार्थं कविः स्तौति स्वात्मानं परमेश्वरम् ॥ २॥ स्वेच्छया सृष्टमाविश्य विश्वं यो मनसि स्थितः । स्तोत्रेण स्तूयतेऽनेन स एव परमेश्वरः ॥ ३॥ अस्ति प्रकाशत इति व्यवहारः प्रवर्तते । तच्चास्तित्वं प्रकाशत्वं कस्मिन्नर्थे प्रतिष्ठितम् ॥ ४॥ किं तेषु तेषु वाऽर्थेषु किं वा सर्वात्मनीश्वरे । ईश्वरत्वं च जीवत्वं सर्वात्मत्वं च कीदृशम् ॥ ५॥ जानीयात्कथं जीवः किं तज्ज्ञानस्य साधनम् । ज्ञानात्तस्य फलं किं स्यादेकत्वं च कथं भवेत् ॥ ६॥ सर्वज्ञः सर्वकर्ता च कथमात्मा भविष्यति । शिष्यं प्रतीत्थं पृच्छन्तं वक्तुमारभते गुरुः ॥ ७॥ अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् । बहिर्वन्माययाऽऽभाति दर्पणे स्वशरीरवत् ॥ ८॥ स्वप्ने स्वान्तर्गतं विश्वं यथा पृथगिवेक्ष्यते । तथैव जाग्रत्कालेऽपि प्रपञ्चोऽयं विविच्यताम् ॥ ९॥ स्वप्ने स्वसत्तैवार्थानां सत्ता नान्येति निश्चिता । को जाग्रति विशेषोऽस्ति जडानामाशु नाशिनाम् ॥ १०॥ स्वप्ने प्रकाशो भावानां स्वप्रकाशान्न हीतरः । जाग्रत्यपि तथैवेति निश्चिन्वन्ति विपश्चितः ॥ ११॥ निद्रया दर्शितानर्थान्न पश्यति यथोत्थितः । सम्यग्ज्ञानोदयादूर्ध्वं तथा विश्वं न पश्यति ॥ १२॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजन्मनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १३॥ श्रुत्याऽऽचार्यप्रसादेन योगाभ्यासवशेन च । ईश्वरानुग्रहेणापि स्वात्मबोधो यदा भवेत् ॥ १४॥ भुक्तं यथाऽन्नं कुक्षिस्थं स्वात्मत्वेनैव पश्यति । पूर्णाहन्ताकबळितं विश्वं योगीश्वरस्तथा ॥ १५॥ यथा स्वप्ने नृपो भूत्वा भुक्त्वा भोगान्यथेप्सितान् । चतुरङ्गबलोपेतः शत्रुं जित्वा रणाङ्गणे ॥ १६॥ परात्पराजितो भूत्वा वनं प्राप्य तपश्चरन् । मुहूर्तमात्रमात्मानं मन्यते कल्पजीविनम् ॥ १७॥ तथैव जाग्रत्कालेऽपि मनोराज्यं करोत्यसौ । कालनद्योघयोगेन क्षीणमायुर्न पश्यति ॥ १८॥ मेघच्छन्नोंऽशुमालीव मायया मोहितोऽधिकम् । किञ्चित्कर्ता च किञ्चिज्ज्ञो लक्ष्यते परमेश्वरः ॥ १९॥ यद्यत्करोति जानाति तस्मिन्तस्मिन्परेश्वरः । राजा विद्वान् स्वसामर्थ्यादीश्वरोऽयमितीर्यते ॥ २०॥ ज्ञानक्रिये शिवेनैक्यात्सङ्क्रान्ते सर्वजनुषु । ईश्वरत्वं च जीवानां सिद्धं तच्छक्तिसङ्गमात् ॥ २१॥ अयं घटोऽयं पट इत्येवं नानाप्रतीतिषु । अर्कप्रभेव स्वज्ञानं स्वयमेव प्रकाशते ॥ २२॥ ज्ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत् । न चेदस्य क्रिया काचित् व्यवहारः कथं भवेत् ॥ २३॥ क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी । स्पन्दमाने बहिर्ज्ञाने तदङ्कुरवदुद्भवेत् ॥ २४॥ उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया । करोति गच्छत्युन्मार्ष्टि छिनत्तीति प्रतीयते ॥ २५॥ शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते । देवतिर्यङ्मनुष्येषु किञ्चिज्ज्ञस्तारतम्यतः ॥ २६॥ जरायुजोऽण्डजश्चैव स्वेदजः पुनरुद्भिदः । एते चतुर्विधाः देहाः क्रमशो न्यूनवृत्तयः ॥ २७॥ ब्रह्मादिस्तम्बपर्यन्ता स्वप्नकल्पैव कल्पना । साक्षात्कृतेऽनवच्छिन्नप्रकाशे परमात्मनि ॥ २८॥ अणोरणीयान्महतो महीयानिति वेदवाक् । रुद्रोपनिषदप्येतं स्तौति सर्वात्मकं शिवम् ॥ २९॥ ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ ३०॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे प्रथमोल्लाससंग्रहः ॥ ३१॥ बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्छया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २॥ उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः । मृदन्वितो घटस्तस्माद्भासते नेश्वरान्वितः ॥ १॥ परमाणुगता एव गुणा रूपरसादयः । कार्ये समानजातीयमारभन्ते गुणान्तरम् ॥ २॥ कार्यं यत्र समन्वेति कारणं समवायि तत् । चक्राद्यं साधनं यत्तु घटस्यासमवायि तत् ॥ ३॥ समवायिनि तिष्ठेद्यत् समवाय्याश्रये तथा । कार्येऽवधृतसामर्थ्यं कल्प्यतेऽसमवायि तत् ॥ ४॥ निमित्तं कारणं तेषामीश्वरश्च कुलालवत् । यत्कार्यं जायते यस्मात्तस्मिन् तत्प्रतितिष्ठति ॥ ५॥ मृत्तिकायां घटस्तन्तौ पटः स्वर्णेऽङ्गुलीयकम् । इति वैशेषिकाः प्राहुस्तथा नैयायिका अपि ॥ ६॥ रजः सत्त्वं तमश्चेति प्रधानस्य गुणास्त्रयः । रजो रक्तं चलं तेषु सत्त्वं शुक्लं प्रकाशकम् ॥ ७॥ तमः कृष्णं चावरकं सृष्टिस्थित्यन्तहेतवः । इति सांख्याश्च भाषन्ते तेषां दूषण उच्यते ॥ ८॥ अङ्कुरादिफलान्तेषु कार्येष्वस्तित्वमिष्यते । कुत आगत्य सम्बद्धा वटबीजेषु ते कणाः ॥ ९॥ कारणानुगतं कार्यमिति सर्वैश्च सम्मतम् । तस्मात्सत्ता स्फुरत्ता च सर्वत्राप्यनुवर्तते ॥ १०॥ पुष्पे फलत्वमापन्ने क्षीरे च दधितां गते । विजातीयाः प्रतीयन्ते गुणा रूपरसादयः ॥ ११॥ कारणं कार्यमंशोंऽशी जातिव्यक्ती गुणी गुणः । क्रिया क्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः ॥ १२॥ चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते । ज्ञानक्रिये जगत्क्लृप्तौ दृश्येते चेतनाश्रये ॥ १३॥ कालरूपक्रियाशक्त्या क्षीरात्परिणमेद्दधि । ज्ञातृज्ञानज्ञेयरूपं ज्ञानशक्त्या भवेज्जगत् ॥ १४॥ ज्ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम् । सविकल्पन्तु संज्ञादिद्योतकत्वादनेकधा ॥ १५॥ सङ्कल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः । ऊहोऽनध्यवसायश्च तथाऽन्येनुभवा अपि॥ १६॥ प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः । अनुमानञ् च तच्चापि सांख्याः शब्दं च ते अपि ॥ १७॥ न्यायैकदर्शिनोप्यवेमुपमानं च के चन । अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः ॥ १८॥ अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा । सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥ १९॥ द्रव्यं गुणस्तथा कर्म सामन्यं च विशेषकम् । समवायं च काणादाः पदार्थान्षट्प्रचक्षते ॥ २०॥ नव द्रव्याणि भूतानि दिक्कालात्ममनांसि च । चतुर्विंशतिरेव स्युर्गुणाः शब्दादिपञ्चकम् ॥ २१॥ परिमाणं च सङ्ख्या च द्वौ संयोगविभागकौ । स्वभावतः पृथक्त्वं च गुरुत्वं द्रवता पुनः ॥ २२॥ परत्वं चापरत्वं च स्नेहः संस्कार इत्यपि । धीर्द्वेषसुखदुःखेच्छाधर्माधर्मप्रयत्नकाः ॥ २३॥ संस्कारस्त्रिविधो वेग इष्वादेर्गतिकारणम् । दृष्टश्रुतानुभूतार्थस्मृतिहेतुश्च भावना ॥ २४॥ स्थितस्थापकता नाम पूर्ववत्स्थितिकारणम् । आकृष्टशाखाभूर्जादौ स्पष्टमेवोपलक्ष्यते ॥ २५॥ उत्क्षेपणमवक्षेपो गमनं च प्रसारणम् । आकुञ्चनमिति प्राहुः कर्म पञ्चविधं बुधाः ॥ २६॥ सामान्यं द्विविधं प्रोक्तं परं चापरमेव च । परं सत्तैव सर्वत्र तदनुस्यूतवर्तनम् ॥ २७॥ द्रव्यत्वं च गुणत्वाद्यं सामान्यमपरं तथा । विशेषाः स्युरनन्तास्ते व्यावृत्तिज्ञानहेतवः ॥ २८॥ रूपस्येव घटे नित्यः सम्बन्धः समवायकः । कालाकाशदिगात्मानो नित्याश्च विभवश्च ते ॥ २९॥ चतुर्विधाः परिच्छिन्ना नित्याश्च परमाणवः । इति वैशेषिकमते पदार्थाः षट् प्रकीर्तिताः ॥ ३०॥ माया प्रधानमव्यक्तमविद्याऽज्ञानमक्षरम् । अव्याकृतं च प्रकृतिः तम इत्यभिधीयते ॥ ३१॥ मायायां ब्रह्मचैतन्यप्रतिबिम्बानुषङ्गतः । महत्कालपुमांसः स्युः महत्तत्त्वादहंकृतिः ॥ ३२॥ तामसात्स्युरहङ्कारात्खानिलाग्न्यम्बुभूमयः । शब्दः स्पर्शश्च रूपं च रसो गन्धोप्यनुक्रमात् ॥ ३३॥ इन्द्रियाणां च विषया भूतानामपि ते गुणाः । देवाः सदाशिवश्चेशो रुद्रो विष्णुश्चतुर्मुखः ॥ ३४॥ सात्त्विकात्स्यादहङ्कारादन्तःकरणधीन्द्रियम् । मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम् ॥ ३५॥ संशयो निश्चयो गर्वः स्मरणं विषया अमी । चन्द्रः प्रजापती रुद्रः क्षेत्रज्ञ इति देवताः ॥ ३६॥ श्रोत्रं त्वक्चक्षु जिह्वा घ्राणं ज्ञानेन्द्रियं विदुः । दिग्वातसूर्यवरुणा नासत्यौ देवताः स्मृताः ॥ ३७॥ राजसात्स्युरहङ्कारात्कर्मेन्द्रियसमीरणाः । कर्मेन्द्रियाणि वाक्पाणिः पादः पायुरुपस्थकम् ॥ ३८॥ वचनादानगमनविसर्गानन्दसंज्ञकाः । विषया देवतास्तेषां वह्नीन्द्रोपेन्द्रमृत्युकाः ॥ ३९॥ प्राणोपानः समानश्चोदानव्यानौ च वायवः । भूतैस्तु पञ्चभिः प्राणैः चतुर्दशभिरिन्द्रियैः ॥ ४०॥ चतुर्विंशतितत्त्वानि साङ्ख्यशास्त्रविदो विदुः । महान्कालः प्रधानं च मायाविद्ये च पूरुषः ॥ ४१॥ इति पौराणिकाः प्राहुस्त्रिंशत्तत्त्वानि तैः सह । बिन्दुनादौ शक्तिशिवौ शान्तातीतौ ततः परम् ॥ ४२॥ षट्त्रिंशत्तत्वमित्युक्तं शैवागमविशारदैः । सर्वे विकल्पाः प्रागासन् बीजेऽङ्कुर इवात्मनि ॥ ४३॥ इच्छाज्ञानक्रियारूपमायया ते विजृम्भिताः । इच्छाज्ञानक्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः ॥ ४४॥ सर्वेऽपि जन्तवस्तस्मादीश्वरा इति निश्चिताः । बीजाद्वृक्षस्तरोबीजं पारम्पर्येण जायते ॥ ४५॥ इतिशङ्कानिवृत्त्यर्थं योगिदृष्टान्तकीर्तनम् । विश्वामित्रादयः पूर्वे परिपक्वसमाधयः ॥ ४६॥ उपादानोपकरणप्रयोजनविवार्जिताः । स्वेच्छया ससृजुः सर्गं सर्वभोगोपबृंहितम् ॥ ४७॥ ईश्वरोऽनन्तशक्तित्वात्स्वतन्त्रोऽन्यानपेक्षकः । स्वेच्छामात्रेण सकलं सृजत्यवति हन्ति च ॥ ४८॥ न कारकाणां व्यापारात्कर्ता स्यान्नित्य ईश्वरः । नापि प्रमाणव्यापरात् ज्ञाताऽसौ स्वप्रकाशकः ॥ ४९॥ ज्ञातृत्वमपि कर्तृत्वं स्वातन्त्र्यात्तस्य केवलम् । या चेच्छाशक्तिवैचित्री साऽस्य स्वच्छन्दकारिता ॥ ५०॥ यया कर्तुं न वा कर्तुमन्यथा कर्तुमर्हति । स्वतन्त्रामीश्वरेच्छां के परिच्छेतुमिहेशते ॥ ५१॥ श्रुतिश्च सोऽकामयतेतीच्छया सृष्टिमीशितुः । तस्मादात्मन आकाशः सम्भूत इति चाब्रवीत् ॥ ५२॥ निमित्तमात्रं चेदस्य जगतः परमेश्वरः । विकारित्वं विनाशित्वं भवेदस्य कुलालवत् ॥ ५३॥ बुद्ध्यादयो नव गुणाः नित्या एवेश्वरस्य चेत् । नित्येच्छावान्ं जगत्सृष्टौ प्रवतेतैव सर्वदा ॥ ५४॥ प्रवृत्त्युपरमाभावात्संसारो नैव नश्यति । मोक्षोपदेशो व्यर्थः स्यादागमोऽपि निरर्थकः ॥ ५५॥ तस्मान्मायाविलासोऽयं जगत्कर्तृत्वमीशितुः । बन्धमोक्षोपदेशादिव्यवहारोऽपि मायया ॥ ५६॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे द्वितीयोल्लाससंग्रहः ॥ ५७॥ यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३॥ सत्तास्फुरत्ते भावेषु कुत आगत्य सङ्गते । बिम्बादिदर्पणन्यायादित्थं पृच्छन् प्रबोध्यते ॥ १॥ असत्कल्पेषु भावेषु जडेषु क्षणनाशिषु । अस्तित्वं च प्रकाशत्वं नित्यात्संक्रामतीश्वरात् ॥ २॥ आत्मसत्तैव सत्तैषां भावानां न ततोऽधिका । तथैव स्फुरणं चैषां नात्मस्फुरणतोऽधिकम् ॥ ३॥ ज्ञानानि बहुरूपाणि तेषं च विषया अपि । अहङ्कारेऽनुषज्यन्ते सूत्रे मणिगणा इव ॥ ४॥ प्रकाशाभिन्नमेवैतद्विश्वं सर्वस्य भासते । लहरीबुद्बुदादीनां सलिलान्न पृथक्स्थितिः ॥ ५॥ जानामित्येव यज्ज्ञानं भावानाविश्य वर्तते । ज्ञातं मयेति तत्पश्चाद्विश्राम्यत्यन्तरात्मनि ॥ ६॥ घटादिकानि कार्याणि विश्राम्यन्ति मृदादिषु । विश्वं प्रकाशाभिन्नत्वाद्विश्राम्येत्परमेश्वरे ॥ ७॥ स्वगतेनैव काळिम्ना दर्पणं मलिनं यथा ॥ अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ८॥ घटाकाशो महाकाशो घटोपाधिकृतो यथा । देहोपाधिकृतो भेदो जीवात्परमात्मनोः ॥ ९॥ तत्त्वमस्यादिवाक्यैस्तु तयोरैक्यं प्रदर्श्यते । सोयं पुरुष इत्युक्ते पुमानेको हि दृश्यते ॥ १०॥ यज्जगत्कारणं तत्त्वं तत्पदार्थः स उच्यते । देहादिभिः परिच्छिन्नो जीवस्तु त्वंपदाभिधः ॥ ११॥ तद्देशकालावस्थादौ दृष्टः स इति कथ्यते । तथैतद्देशकालादौ दृष्टोऽयमिति कीर्त्यते ॥ १२॥ मुख्यं तदेतद्वैशिष्ट्यं विसृज्य पदयोर्द्वयोः । पुम्मात्रं लक्षयत्येकं यथा सोयं पुमान्वचः ॥ १३॥ प्रत्यक्त्वं च पराक्त्वं च त्यक्त्वा तत्त्वमसीति वाक् । तथैव लक्षयत्यैकं जीवात्मपरमात्मनोः ॥ १४॥ सामानाधिकरणाख्यः सम्बन्धः पदयोरिह । विशेषणविशेष्यत्वं सम्बन्धः स्यात्पदार्थयोः ॥ १५॥ लक्ष्यलक्षणसंयोगाद्वाक्यमैक्यं च बोधयेत् । गङ्गायां घोष इतिवन्न जहल्लक्षणा भवेत् ॥ १६॥ नाजहल्लक्षणाऽपि स्याच्छ्वेतोधावतिवाक्यवत् । तत्त्वमस्यादिवाक्यानां लक्षणा भागलक्षणा ॥ १७॥ सोऽयं पुरुष इत्यादिवाक्यानामिव कीर्तिता । भिन्नवृत्तिनिमित्तानां शब्दानामेकवस्तुनि ॥ १८॥ प्रवृत्तिस्तु समानाधिकरणत्वमिहोच्यते । परस्यांशो विकारो वा जीवो वाक्येन नोच्यते ॥ १९॥ जीवात्मना प्रविष्ठत्वात्स्वमायासृष्टमूर्तिषु । निरंशो निर्विकारोऽसौ श्रुत्या युक्त्या च गम्यते ॥ २०॥ घटाकाशो विकरो वा नांशो वा वियतो यथा । त्वमिन्द्रोसीतिवद्वाक्यं न खलु स्तुतितत्परम् ॥ २१॥ न सादृश्यपरं वाक्यमग्निर्माणवकादिवत् । न कार्यकारणत्वस्य साधनं मृद्घटादिवत् ॥ २२॥ न जाति व्यक्तिगमकं गौः खण्ड इतिवद्वचः । गुणगुण्यात्मकं वाक्यं नैतन्नीलोत्पलादिवत् ॥ २३॥ नोपासनापरं वाक्यं प्रतिमास्वीशबुद्धिवत् । न वौपचारिकं वाक्यं राजवद्राजपूरुषे ॥ २४॥ जीवात्मना प्रविष्टोऽसावीश्वरः श्रूयते यतः । देहेन्द्रियमनोबुद्धिप्राणाहङ्कारसंहतौ ॥ २५॥ आत्मसङ्कलनादज्ञैरात्मत्वं प्रतिपाद्यते । वह्निधीः काष्ठलोहादौ वह्निसङ्कलनादिव ॥ २६॥ देहमन्नमयं कोशमाविश्यात्मा प्रकाशते । स्थूलो बालः कृशः कृष्णो वर्णाश्रमविकल्पवान् ॥ २७॥ प्राणकोशेऽपि जीवामि क्षुधितोऽस्मि पिपासितः । संशितो निश्चितो मन्ये इति कोशे मनोमये ॥ २८॥ विज्ञानमयकोशस्थो विजानामीति तिष्ठति । आनन्दमयकोशाख्ये त्वहङ्कारे पुराकृतैः ॥ २९॥ पुण्यैरुपासनाभिश्च सुखितोऽस्मीति मोदते । एवं कंचुकितः कोशैः कंचुकैरिव पञ्चभिः ॥ ३०॥ परिच्छिन्न इवाभाति व्याप्तोऽपि परमेश्वरः । यथा सलिलमाविश्य बहुधा भाति भस्करः ॥ ३१॥ तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः । कारणत्वं च कार्यत्वं तटस्थं लक्षणं तयोः ॥ ३२॥ शाखायां चन्द्र इतिवन्नैव मुख्यमिदं मतम् । महाप्रकाश इत्युक्तं स्वरूपं चन्द्रलक्षणम् ॥ ३३॥ सच्चिदानन्दरूपत्वं स्वरूपं लक्षणं तयोः । एकलक्षणयोरैक्यं वाक्येन प्रतिपाद्यते ॥ ३४॥ तस्मादेकप्रकाशत्वं सर्वात्मत्वमिति स्थितम् । देवतिर्यङ्मनुष्याणां प्रकाशान्न पृथक्स्थितिः ॥ ३५॥ जीवः प्रकाशाभिन्नत्वात्सर्वात्मेत्यभिधीयते । एवं प्रकाशरूपत्वपरिज्ञाने दृढीकृते ॥ ३६॥ पुनरावृत्तिरहितं कैवल्यं पदमश्नुते । सकृत्प्रसक्तमात्रोऽपि सर्वात्मत्व यदृच्छया ॥ ३७॥ सर्वपापविनिर्मुक्तः शिवलोके महीयते । सर्वात्मभावना यस्य परिपक्वा महात्मनः । संसारतारकः साक्षात्स एव परमेश्वरः ॥ ३८॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे तृतीयोल्लाससंग्रहः ॥ ३९॥ नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिःस्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४॥ स्वतः सन्तः प्रकाशन्ते भावा घटपटादयः । नेश्वरस्य समावेशादित्यस्योत्तरमुच्यते ॥ १॥ अहमित्यनुसन्धाता जानामीति न चेत्स्फुरेत् । कस्य को वा प्रकाशेत जगच्च स्यात्सुषुप्तवत् ॥ २॥ प्रागूर्ध्वं चासतां सत्त्वं वर्तमानेऽपि न स्वतः । तस्मादीशे स्थितं सत्त्वं प्रागूर्ध्वत्वविवर्जिते ॥ ३॥ स्वयमेव प्रकाशेरन् जडा यदि विनेश्वरम् । सर्वं सर्वस्य भासेत न वा भासेत किञ्चन ॥ ४॥ तस्मात्सर्वज्ञमज्ञं वा जगत्स्यादेकरूपकम् । तुल्ये स्वयंप्रकाशत्वे जडचेतनयोर्मिथः ॥ ५॥ तुल्यमेव प्रसज्येरन् ग्राह्यग्राहकतादयः । इन्द्रियाणामनियमाच्चाक्षुषा स्यू रसादयः ॥ ६॥ मलिनामलिनादर्शपश्चात्प्राग्भागतुल्ययोः । क्रियाशक्तिज्ञानशक्त्येरन्तःकरणभागयोः ॥ ७॥ प्रतिबिम्बे स्फुरन्नीशः कर्ता ज्ञातेति कथ्यते । बुद्धिः सत्त्वगुणोत्कर्षान्निर्मलो दर्पणो यथा ॥ ८॥ गृह्णाति विषयच्छायामात्मच्छायानुभावतः । अन्तःकरणसम्बन्धान्निखिलानीन्द्रियाण्यपि ॥ ९॥ रथाङ्गनेमिवलये कीलिता इव कीलकाः । नाड्योऽन्तःकरणे स्यूता जलसंस्यूतसूत्रवत् ॥ १०॥ ताभिस्तु गोळकान्ताभिः प्रसर्पन्ति स्फुलिङ्गवत् । करणानि समस्तानि यथास्वं विषयं प्रति ॥ ११॥ देहस्य मध्यमं स्थानं मूलाधार इतीर्यते । गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ॥ १२॥ त्रिकोणोऽधोमुखाग्रश्च कन्यकायोनिसन्निभः । यत्र कुण्डलिनी नाम पराशक्तिः प्रतिष्ठिता ॥ १३॥ प्राणाग्निबिन्दुनादानां सवित्री सा सरस्वती । मूलाधाराग्रकोणस्था सुषुम्ना ब्रह्मरन्ध्रगा ॥ १४॥ मूलेऽर्धच्छिन्नवंशाभा षडाधारसमन्विता । तत्पार्श्वकोणयोर्जाते द्वे इडापिङ्गले स्थिते ॥ १५॥ नाडीचक्रमिति प्राहुः तस्मान्नाड्यः समुद्गताः । गान्धारी हस्तिजिह्वा च नयनान्तं प्रधावतः ॥ १६॥ नाडीचक्रेण संस्यूते नासिकान्तमुभे गते । नाभिमण्डलमाश्रित्य कुक्कुटाण्डमिव स्थितम् ॥ १७॥ नाडीचक्रमिति प्राहुस्तस्मान्नाड्यः समुद्गताः । पूषा चालाम्बुषा नाडी कर्णद्वयमुपाश्रिते । नाडी शुक्लाह्वया तस्माद् भ्रूमध्यमुपसर्पति ॥ १८॥ सरस्वत्याह्वया नाडी जिह्वान्ता वाक्प्रसारिणी । नाडी विश्वोदरी नाम भुङ्क्तेऽन्नं सा चतुर्विधम् ॥ १९॥ पीत्वा पयस्विनी तोयं कण्ठस्था कुरुते क्षुतम् । नाडीचक्रात्समुद्भूता नाड्यस्तिस्रस्त्वधोमुखाः ॥ २०॥ राका शुक्लं सिनीवाली मूत्रं मुञ्चेत्कुहुर्मलम् । भुक्तान्नरसमादाय शङ्खिनी धमनी पुनः ॥ २१॥ कपालकुहरं गत्वा मूर्ध्नि सञ्चिनुते सुधाम् । शतं चैका च नाड्यः स्युस्तासामेका शिरोगता ॥ २२॥ तयोर्ध्वमायन्मुक्तः स्यादिति वेदान्तशासनम् । यदा बुद्धिगतैः पुण्यैः प्रेरितेन्द्रियमार्गतः ॥ २३॥ शब्दादीन् विषयान् भुङ्क्ते तदा जागरितं भवेत् । संहृतेष्विन्द्रियेष्वेषु जाग्रत्संस्कारजान्पुमान् ॥ २४॥ मानसान्विषयान्भुङ्क्ते स्वप्नावस्था तदा भवेत् । मनसोप्युपसंहारः सुषुप्तिरिति कथ्यते ॥ २५॥ तत्र मायासमाच्छन्नः सन्मात्रो वर्तते पुमान् । मूढो जडोऽज्ञ इत्येवं मायावेशात्प्रकाशते ॥ २६॥ सुखमस्वाप्समित्येवं प्रबोधसमये पुमान् । सच्चिदानन्दरूपः सन् सम्यगेव प्रकाशते ॥ २७॥ इत्थं जगत्समाविश्य भासमाने महेश्वरे । सूर्यादयोऽपि भासन्ते किमुतान्ये घटादयः ॥ २८॥ तस्मात्सत्ता स्फुरत्ता च भावानामीश्वराश्रयात् । सत्यं ज्ञानमनन्तं च श्रुत्या ब्रह्मोपदिश्यते ॥ २९॥ जाग्रत्स्वप्नोद्भवं सर्वमसत्यं जडमन्धवत् । ईश्वरश्चाहमित्येवं भासते सर्वजन्तुषु ॥ ३०॥ निर्विकल्पश्च शुद्धश्च मलिनश्चेत्यहं त्रिधा । निर्विकल्पं परं ब्रह्म निर्धूताखिलकल्पनम् ॥ ३१॥ धूल्यन्धकारधूमाभ्रनिर्मुक्तगगनोपमम् । विवेकसमये शुद्धं देहादीनां व्यपोहनात् ॥ ३२॥ यथाऽन्तरिक्षं संक्षिप्तं नक्षत्रैः किञ्चिदीक्ष्यते । देहेन्द्रियादिसंसर्गान्मलिनं कलुषीकृतम् ॥ ३३॥ यथाऽऽकाशं तमोरूढं स्फुरत्यनवकाशवत् । अहमित्यैश्वरं भावं यदा जीवः प्रबुध्यते ॥ ३४॥ सर्वज्ञः सर्वकर्ता च तदा जीवो भविष्यति । माययाधिकसम्मूढो विद्ययेशः प्रकाशते ॥ ३५॥ निर्विकल्पानुसन्धाने सम्यगात्मा प्रकाशते । अविद्याख्यतिरोधानव्यपाये परमेश्वरः । दक्षिणामूर्तिरूपोसौ स्वयमेव प्रकाशते ॥ ३६॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे चतुर्थोल्लाससंग्रहः ॥ ३७॥ देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५॥ प्रमाणमेकं प्रत्यक्षं तत्त्वं भूतचतुष्टयम् । मोक्षश्च मरणान्नान्यः कामार्थौ पुरुषार्थकौ ॥ १॥ न हि खल्वीश्वरः कर्ता परलोककथा वृथा । देहं विनाऽस्ति चेदात्मा कुम्भवद्दृश्यतां पुरः ॥ २॥ ह्रस्वो दीर्घो युवा बाल इति देहो हि दृश्यते । अस्ति जातः परिणतो वृद्धः क्षीणो जरन्मृतः ॥ ३॥ इत्येवमुक्ताः षड्भावविकारा देहसंश्रयाः । वर्णाश्रमविभागश्च देहेष्वेव प्रतिष्ठितः ॥ ४॥ जातकर्मादिसंस्कारो देहस्यैव विधीयते । शतं जीवेति देहस्य प्रयुञ्जन्त्याशिषं शुभाम् ॥ ५॥ इति प्रपञ्चं चार्वाको वंचयत्यल्पचेतनः । केचिच्छ्वसिमि जीवामि क्षुधितोस्मि पिपासितः ॥ ६॥ इत्यादिप्रत्ययबलात्प्ताणमात्मेति मन्वते । केचिच्छृणोमि पश्यामि जिघ्राम्या स्वादयाम्यहम् ॥ ७॥ इतीन्द्रियाणामात्मत्वं प्रतियन्ति ततोधिकम् । जानामिप्रत्ययबलाद्बुद्धिरित्यपरे जगुः ॥ ८॥ मायाव्यामूढचित्तानां तेषां दूषणमुच्यते । देहादीनां जडार्थानां पाषाणवदनात्मनाम् ॥ ९॥ कथं भवेदहम्भावः समावेशं विनेशितुः । देहस्तावदयं नात्मा दृश्यत्वाच्च जडत्वतः ॥ १०॥ रूपादिमत्त्वात्सांशत्वाद्भौतिकत्वाच्च कुम्भवत् ॥ मूर्च्छासुषुप्तिमरणेश्वपि देहः प्रतीयते ॥ ११॥ देहादिव्यतिरिक्तत्वात्तदाऽऽत्मा न प्रकाशते । यथा जगत्प्रवृत्तीनामादिकारणमंशुमान् ॥ १२॥ पुमांस्तथैव देहादिप्रवृत्तौ कारणं परम् । मम देहोयमित्येवं स्त्रीबालान्धाश्च मन्वते ॥ १३॥ देहोहमिति नावैति कदाचिदपि कश्चन । इन्द्रियाण्यपि नात्मानः करणत्वात्प्रदीपवत् ॥ १४॥ वीणादिवाद्यवच्छ्रोत्रं शब्दग्रहणसाधनम् । चक्षुस्तेजस्त्रितयवद्रूपग्रहणसाधनम् ॥ १५॥ गन्धस्य ग्राहकं घ्राणं पुष्पसम्पुटकादिवत् । रसस्य ग्राहिका जिह्वा दधिक्षौद्रघृतादिवत् ॥ १६॥ इन्द्रियाणि न मे सन्ति मूकोन्धो बधिरोस्म्यहम् । इत्याहुरिन्द्रियैर्हीना जनाः किं ते निरात्मकाः ॥ १७॥ प्राणोप्यात्मा न भवति ज्ञानाभावात्सुषुप्तिषु । जाग्रत्स्वप्नोपभोगोत्थश्रमविच्छित्तिहेतवे ॥ १८॥ सुषुप्तिं पुरुषे प्राप्ते शरीरमभिरक्षितुम् । शेषकर्मोभोगार्थं प्राणश्चरति केवलम् ॥ १९॥ प्राणस्य तत्राचैतन्यं करणोपरमे यदि । प्राणे व्याप्रियमाणे तु करणोपरमः कथम् ॥ २०॥ सम्राजि हि रणोद्युक्ते विरमन्ति न सैनिकाः । तस्मान्न करणस्वामी प्राणो भवितुमर्हति ॥ २१॥ मनसः प्रेरके पुंसि विरते विरमन्त्यतः । करणानि समस्तानि तेषां स्वामी ततः पुमान् ॥ २२॥ बुद्धिस्तु क्षणिका वेद्या गमागमसमन्विता । आत्मनः प्रतिबिम्बेन भासिता भासयेज्जगत् ॥ २३॥ आत्मन्युत्पद्यते बुद्धिरात्मन्येव प्रलीयते । प्रागूर्ध्वं चासती बुद्धिः स्वयमेव न सिध्यति ॥ २४॥ ज्ञानाच्चेत्पूर्वपूर्वस्मादुत्तरोत्तरसम्भवः । युगपद्बहुबुद्धित्वं प्रसज्येत क्षणे क्षणे ॥ २५॥ बुद्ध्यन्तरं न जनयेन्नाशोत्त्रमसत्त्वतः । एषां सङ्घात आत्मा चेदेकदेशे पृथक्कृते ॥ २६॥ न चैतन्यं प्रसज्येत सङ्घाताभावतस्तदा । भिन्नदृग्गत्यभिप्राये बहुचेतनपुञ्जितम् ॥ २७॥ सद्यो भिन्नं भवेदेतन्निष्क्रियं वा भविष्यति । देहस्यान्तर्गतोप्यात्मा व्याप्त एवेति बुध्यते ॥ २८॥ अणुप्रमाणश्चेदेष व्याप्नुयान्नाखिलं वपुः । देहप्रमाणश्चेन्न स्याद्बालस्य स्थविरादिता ॥ २९॥ देहवत्परिणामी चेत्तद्वदेव विनङ्क्ष्यति । कर्मणां परिणामेन क्रिमिहस्त्यादिमूर्तिषु ॥ ३०॥ व्याप्तत्वात्प्रविशत्यात्मा घटादिष्वन्तरिक्षवत् । परमाणुप्रमाणेऽपि मनसि प्रतिभासते ॥ ३१॥ स्वप्ने चराचरं विश्वमात्मन्येव प्रतिष्ठितम् । देहादिष्वहमित्येवं भ्रमः संसारहेतुकः ॥ ३२॥ अन्तः प्रविष्टः शास्तेति मोक्षायोपादिशच्छ्रुतिः । एवमेषा महामाया वादिनामपि मोहिनी ॥ ३३॥ यस्मात्साक्षात्कृते सद्यो लीयते च सदाशिवे । देहेन्द्रियासुहीनाय मानदूरस्वरूपिणे । ज्ञानानन्दस्वरूपाय दक्षिणामूर्तये नमः ॥ ३४॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थ प्रतिपादके । प्रबन्धे मानसोल्लासे पञ्चमोल्लाससङ्ग्रहः ॥ ३५॥ राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६॥ स्वप्ने विश्वं यथाऽन्तस्थं जाग्रत्यपि तथेति चेत् । सुषुप्तौ कस्य किं भाति कः स्थायी तत्र चेतनः ॥ १॥ सर्वं च क्षणिकं शून्यं सर्वमेव स्वलक्षणम् । सङ्घातः परमाणूनां मह्यम्ब्वग्निसमीरणाः ॥ २॥ मनुष्यादिशरीराणि स्कन्धपंचकसंहतिः । स्कन्धाश्च रूपविज्ञानसंज्ञासंकारवेदनाः ॥ ३॥ रूप्यन्त इति रूपाणि विषयाश्चेन्द्रियाण्यपि । विषयेन्द्रिययोर्ज्ञानं विज्ञानस्कन्ध उच्यते ॥ ४॥ संज्ञागुणक्रियाजातिविशिष्टप्रत्ययात्मिका । पञ्चधा कल्पना प्रोक्ता संज्ञास्कन्धस्य सौगतैः ॥ ५॥ गवां गौरिति संज्ञोक्ता जातिर्गोत्वं तु गोगतम् । गुणाः शुक्लादयस्तस्य गच्छत्याद्यास्तथा ॥ ६॥ शृङ्गी चतुष्पाल्लाङ्गूली विशिष्टप्रत्ययो ह्यसौ । एवं पञ्चविधा क्लृप्तः संज्ञास्कन्ध इतीर्यते ॥ ७॥ रागाद्याः पुण्यपापे च संस्कारस्कन्ध उच्यते । सुखं दुःखं च मोक्षश्च स्कन्धः स्याद्वेदनाह्वयः ॥ ८॥ पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन । न कश्चदीश्वरः कर्ता स्वगतातिशयं जगत् ॥ ९॥ स्कन्धेभ्यः परमाणुभ्यः क्षणिकेभ्योऽभिजायते । पूर्वपूर्वक्षणादेव क्षणः स्यादुत्तरोत्तरः ॥ १०॥ पूर्वस्मादेव हि ज्ञानाज्जायते ज्ञानमुत्तरम् । स एवायमिति ज्ञानं सेयं ज्वालेव विभ्रमः ॥ ११॥ अस्ति भातीतिधीभ्रान्तैरात्मानात्मसु कल्प्यते । हानोपादानराहित्यादाकाशः किं प्रकाशते ॥ १२॥ इत्येवं बौद्धसिद्धान्ती भाषमाणो निषिद्ध्यते । शून्यं चेज्जगतो हेतुः जगदेव न सिद्ध्यति ॥ १३॥ घटः शून्यः पटः शून्यः इति कैः प्रतिपाद्यते । नैव भासेत शून्यं चेज्जगन्नरविषाणवत् ॥ १४॥ वस्त्वर्थी किमुपादद्याद्भारार्थः किं परित्यजेत् । को विदध्यान्निषिद्ध्येद्वा शून्यत्वात्स्वस्य चात्मनः ॥ १५॥ अवसीदेन्नीराकूतं तस्मात्सर्वमिदं जगत् । स्कन्धानां परमाणूनां न सङ्घातयितास्ति चेत् ॥ १६॥ सङ्घातो न विना हेतुं जडा घटपटादयः । महानुभावो भूयासमिति भ्रान्तश्च मन्यते ॥ १७॥ आत्मापलापको बौद्धः किमर्थं चरति व्रतम् । प्रत्यभिज्ञा यदि भ्रान्तिः भोजनादि कथं भवेत् ॥ १८॥ इष्टसाधनमेवैतदन्नं गतदिनान्नवत् । इति निश्चित्य बालोऽपि भोजनादौ प्रवर्तते ॥ १९॥ अवकाशप्रदातृत्वमाकाशार्थक्रिया यथा । तथैवार्थक्रिया पुंसः कर्तृत्वज्ञातृतादिका ॥ २०॥ सुषुप्तिसमयेप्यात्मा सत्यज्ञानसुखात्मकः । सुखमस्वाप्समित्येवं प्रत्यभिज्ञायते यतः ॥ २१॥ प्रत्यभिज्ञायत इति प्रयोगः कर्मकर्तरि । आत्मा स्वयंप्रकाशात्वाज्जानात्यात्मानमात्मना ॥ २२॥ सुषुप्तौ मायया मूढः जडोन्ध इति लक्ष्यते । अप्रकाशतया भाति स्वप्रकाशतयापि च ॥ २३॥ जडात्मनि च देहादौ साक्षादीशो विविच्यते । एषैव मोहिनी नाम मायाशक्तिर्महेशितुः ॥ २४॥ मोहापोहः प्रमातॄणां मोक्ष इत्यभिधीयते । अवस्थात्रयनिर्मुक्तो दोषदिभिरनाविलः ॥ २५॥ इषीक इव सन्मात्रो न्यग्रोधकणिकोपमः । बाह्याबाह्यदळोन्मुक्तकदळीकन्दसन्निभः ॥ २६॥ निरंशो निर्विकारश्च निराभासो निरञ्जनः । पुरुषः केवलः पूर्णः प्रोच्यते परमेश्वरः ॥ २७॥ वाचो यत्र निवर्तन्ते मनो यत्र विलीयते । एकीभवन्ति यत्रैव भूतानि भुवनानि च ॥ २८॥ समस्तानि च तत्त्वानि समुद्रे सिन्धवो यथा । कः शोकस्तत्र को मोह एकत्वमनुपश्यतः ॥ २९॥ वाच्यवाचकरूपत्वात्सविकल्पोपि सन्नयम् । देहादीनां व्यपोहेन सम्भवेन्निर्विकल्पकम् ॥ ३०॥ असन्नेव भवेद्विद्वानसद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तेमेनं ततो विदुः ॥ ३१॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे षष्ठोल्लासस्य सङ्ग्रहः ॥ ३२॥ बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७॥ प्रत्यभिज्ञाबलादात्मा स्थायी निर्धार्यते यदि । का नाम प्रत्यभिज्ञैषा किं वा तस्याः प्रयोजनम् ॥ १॥ प्रत्यक्षादिप्रमाणेषु प्रत्यभिज्ञा न पठ्यते । कथं तस्याः प्रमाणत्वमिति पृच्छन् प्रबोध्यते ॥ २॥ भातस्य कस्य चित्पूर्वं भासमानस्य साम्प्रतम् । सोऽयमित्यनुसन्धानं प्रत्यभिज्ञानमुच्यते ॥ ३॥ तद्देशकालाकारादीनवधूयानुष्ङ्गिकान् । यथैकं वस्त्वनुस्यूतं सोऽयमित्यभिधीयते ॥ ४॥ मायानुष्ङ्गसञ्जातकिञ्चिज्ज्ञत्वाद्यपोहनात् । सर्वज्ञत्वादिविज्ञानं प्रत्यभिज्ञानमात्मनः ॥ ५॥ पूर्वजन्मानुभूतार्थस्मरणान्मृगशाबकः । जननीस्तन्यपानाय स्वयमेव प्रवर्तते ॥ ६॥ तस्मान्निश्चीयते स्थायीत्यात्मा देहान्तरेष्वपि । स्मृतिं विना न घटते स्तन्यपानं शिशोर्यतः ॥ ७॥ पूर्वत्रानुभवे काले स्मृतिकाले परत्र सन् । आत्मा संस्काररूपेण स्मरत्यर्थं स्वनिष्ठितम् ॥ ८॥ प्रत्यभिज्ञेति भावानां स्मृतिश्चेदभिधीयते । आत्मस्थैर्ये प्रमाणत्वं स्मृतिश्च प्राप्नुयात्कथम् ॥ ९॥ स्मृतौ प्रकाशो नार्थस्य न चाप्यर्थस्य निश्चयः । न चाप्यर्थानुभवयोरङ्गुल्योरिव सम्भवेत् ॥ १०॥ नानुभूतिविशिष्टस्य पदार्थस्य च दण्डिवत् । सर्वत्राप्येवमित्येवं प्रसङ्गादिति चेच्छृणु ॥ ११॥ प्राक्तनानुभवे नष्टे तदवष्टम्भसम्भवात् । संस्कारसंज्ञात्सामग्र्यात् पौरुषाज्जायते स्मृतिः ॥ १२॥ आवेद्यानुभवे नष्टे तदीयं विषयं प्रति । अनुभावकमात्मानं बोधयत्यनपायिनम् ॥ १३॥ विषये च प्रमुषिते नष्टे वाऽनुभवे सति । स्वविश्रान्तं स्मरत्यर्थं देवोऽप्रमुषितः सदा ॥ १४॥ प्रमोषणं प्रमातॄणां मायया तमसा कृतम् । मायाविद्ये प्रभोः शक्ती भानोश्छायाप्रभोपमे ॥ १५॥ अर्थानाच्छदयेन्माया विद्या व्याक्षिप्य दर्शयेत् । प्रत्यभिज्ञैव सर्वेषां प्रमाणानां च साधनम् ॥ १६॥ ईश्वरोन्योहमप्यन्य इति विच्छेदकारिणीम् । व्याक्षिप्य विद्यया मायामीश्वरोहमिति स्मृतिः ॥ १७॥ ईषत्प्रकाशोभूदीशो मायायवनिकावृतः । सम्यगावरणापाये सहस्रांशुरिव स्फुरेत् ॥ १८॥ न कारणानां व्यापारः प्रमाणानां न वा पुनः । प्रत्यभिज्ञापनं नाम मोहापसरणं परम् ॥ १९॥ यावन्ति सन्ति मानानि व्यवहारप्रवृत्तये । तेषां मोहापसरणाद्व्यपारोन्यो न विद्यते ॥ २०॥ जडानृतपरिच्छिन्नदेहधर्माश्चिदात्मनि । सत्यज्ञानसुखात्मत्वं मोहाद्देहेऽपि कल्प्यते ॥ २१॥ शुक्तौ रजतमित्येवं यथा व्यामुह्यतेऽन्यथा । सएव र्रूप्यं चेद्भाति विलयस्ते न सिध्यति ॥ २२ नात्यन्तासत्प्रकाशेत नरशृङ्गादिवत्क्वचित् । कान्ताकरादौ रजतमिति स्यात्स्मरणं भ्रमे ॥ २३॥ तेनेदं तुल्यमित्येवं स्यात्सादृश्याद्यदि भ्रमः । पीतः शङ्खो गुडस्तिक्त इत्यादौ नास्ति तुल्यता ॥ २४॥ तादात्म्येन स्फुरति चेद्रजतत्वेन शुक्तिका । विभ्रमो निरधिष्ठानो बाधो निरवधिर्भवेत् ॥ २५॥ बुद्धिस्थितं चेद्रजतं बाह्यत्वेन प्रतीयते । गुञ्जादौ ज्वलनारोपे देहदाहः प्रसज्यते ॥ २६॥ युक्तिहीनप्रकाशत्वाद् भ्रान्तेर्न ह्यस्ति लक्षणम् । यदि स्याल्लक्षणं किंचिद् भ्रान्तिरेव न सिध्यति ॥ २७॥ जलचन्द्रवदेकस्मिन्निर्भये रज्जुसर्पवत् । प्रतीयते यथा स्वर्णे कारणे कटकादिवत् ॥ २८॥ उपात्ते रूप्यवच्छुक्तौ व्याप्ते यक्षपुरीव खे । रश्म्यम्बुवत्स्फुरद्रूपे स्थाणौ चोरवदक्रिये ॥ २९॥ असत्कल्पमिदं विश्वमात्मन्यारोप्यते भ्रमात् । स्वयंप्रकाशं सद्रूपं भ्रान्तिबाधविवर्जितम् ॥ ३०॥ प्रत्यभिज्ञायते वस्तु प्राग्वन्मोहे व्यपोहिते । देहाद्युपाधौ निर्धूते स्यादात्मैव महेश्वरः ॥ ३१॥ स्मृतिः प्रत्यक्षमैतिह्यमित्यादीन्यपराण्यपि । प्रमाणान्याप्तवागाह प्रत्यभिज्ञाप्रसिद्धये ॥ ३२॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे सप्तमोल्लाससङ्ग्रहः ॥ ३३॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा एष पुरुषो मायापरिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८॥ प्रकाशव्यतिरेकेण पदार्थः कोऽपि नास्ति चेत् । परमार्थोपदेशान्तो व्यवहारः कथं भवेत् ॥ १॥ कस्य बन्धश्च मोक्षश्च बध्यते केन हेतुना । मायया लक्षणं किं स्यादित्येवं परिपृच्छतः ॥ २॥ प्रशनः स्यादुत्तरं वक्तुं प्रतिपत्तुं सुखेन च । उक्तोर्थः सप्तभिः श्लोकैः पुनः संक्षिप्य कथ्यते ॥ ३॥ पौनरुक्त्यं न दोषोऽत्र शब्देनार्थेन वा भवेत् । अभ्यासेन गरीयस्त्वमर्थस्य प्रतिपाद्यते ॥ ४॥ स्वयंप्रकाशे सद्रूपेऽप्येकस्मिन्परमेश्वरे । कार्यकारणसम्बन्धाद्यनेकविधकल्पना ॥ ५॥ राहोः शिरः सुषिः खस्य ममात्मा प्रतिमावपुः । इत्यादिकल्पना तुल्या न पृथग्वस्तुगोचरा ॥ ६॥ उपास्योपासकत्वेन गुरुशिष्यक्रमेण च । स्वामिभृतादिरूपेण क्रीडति स्वेच्छयेश्वरः ॥ ७॥ पितरं प्रति पुत्रो यः पुत्रं प्रति पितैव सः । एक एव हि नानेव कल्प्यते शब्दमात्रतः ॥ ८॥ तस्मात्प्रकाश एवास्ति परमार्थनिरूपणे । भेदप्रतीतिर्मिथ्यैव माययाऽऽत्मनि कल्पिता ॥ ९॥ मिथ्यात्वं नाम बाध्यत्वं सम्यग्ज्ञानोदये सति । शिष्याचार्योपदेशादि स्वप्नवत्प्रतिभासते ॥ १०॥ मिथ्याभूतोऽपि वेदान्तः सत्यमर्थं प्रबोधयेत् । देवताप्रतिमावच्च चित्रवत्प्रतिबिम्बवत् ॥ ११॥ सर्वोऽपि व्यवहारोऽयं मायया परिजृम्भणम् । सुषुप्तिसदृशी माया स्वप्रबोधेन बाध्यते ॥ १२॥ युक्तिहीनप्रकाशस्य संज्ञा मायेति कथ्यते । नासती दृश्यमाना सा बाध्यमाना न वा सती ॥ १३॥ न प्रकाशादियं भिन्ना छायेवार्कस्य तामसी । न चाभिन्ना जडत्वेन विरोधान्नोभयात्मिका ॥ १४॥ स्वहेत्ववयवाभावान्नेयं सावयवोच्यते । न चावयवहीना सा कार्येष्ववयवान्विता ॥ १५॥ अविचारितसिद्धेयं मायावेश्याविलासिनी । पुरुषं वञ्चयत्येव मिथ्याभूतैः स्वविभ्रमैः ॥ १६॥ न तस्या मूलविच्छेदमभिवाञ्छति केचन । तेषां पक्षे कथं मोक्षो मनसः सम्भविष्यति ॥ १७॥ तिस्रोप्यवस्था मनसो जाग्रत्स्वप्नसुषुप्तयः । चक्रवत्परिवर्तन्ते भेदभ्रान्त्येकहेतवः ॥ १८॥ ताभिः करोति कर्माणि पुनस्तैर्बध्यते मनः । मनसः केवलः साक्षी भानुवत्पुरुषः परः ॥ १९॥ यथा प्राणिकृतैरर्कः कर्मभिर्नैव बध्यते । तथा मनःकृतैरात्मा साक्षित्वान्नैव बध्यते ॥ २०॥ आत्मा करोति कर्माणि बध्यते मुच्यते च तैः । इत्यौपचारिकी क्लृप्तिर्भ्रममात्रैव केवलम् ॥ २१॥ धूमाभ्रधूलीनीहारैरस्पृष्टोऽपि दिवाकरः । यथा छन्न इवाभाति तथैवात्माऽपि मायया ॥ २२॥ यथा लीलावशात्कश्चिद्भ्राम्यमाणः कुमारकः । भ्रमत्तत्पश्यति जगत् शतचन्द्रं नभःस्थलम् ॥ २३॥ तथैव मायया जीवो भ्रामितो वासनावशात् । नानाकारमिदं विश्वं भ्रममाणं च पश्यति ॥ २४॥ संसृज्य मनसा देवः संसरन्निव लक्ष्यते । यथाऽर्को जलसंसर्गाच्चलन्नानेव लक्ष्यते ॥ २५॥ योगाभ्यासवशाद्येन मनो निर्विषयं कृतम् । निवृत्तः स पुमांसद्यो जीवन्मुक्तो भविष्यति ॥ २६॥ द्वा सुपर्णौ च सयुजाभवन्मायया शिवः । अजामेकां जुषन्नेको नानेवासीदिति श्रुतिः ॥ २७॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे अष्टमोल्लाससङ्ग्रहः ॥ २८॥ भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९॥ कथमेवंविधा माया निवर्तेतेति पृच्छतः । ईश्वरोपासनारूपस्तदुपायः प्रकीर्त्यते ॥ १॥ षट्त्रिंशत्तत्त्वरूपासु परमेश्वरमूर्तिषु । प्रत्यक्षेणोपलभ्यन्ते सर्वैरप्यष्टमूर्तयः ॥ २॥ अमेयासु मनः क्षिप्रमारोढुं नार्हतीत्यतः । मूर्त्यष्टकमयीं ब्रूत गुरुः सर्वात्मभावनाम् ॥ ३॥ विराट्छरीरे ब्रह्माण्डे प्राणिनामपि विग्रहे । षट्त्रिंशत्तत्त्वसङ्घातः सर्वत्राप्यनुवर्तते ॥ ४॥ व्याप्तिर्व्यष्टिशरीरेऽस्मिन्मनसो व्यष्टिरूपिणः । तस्मात्सर्वात्मकमिदं स्वशरीरं विचिन्तयेत् ॥ ५॥ व्यष्ट्युपासनया पुंसः समष्टिव्याप्तिमाप्नुयात् । उपसंक्रामतीत्येवं दशकृत्व उपादिशत् ॥ ६॥ ब्रह्माण्डस्योदरे लोकाः सप्तभूरादयः स्मृताः । मूलादिब्रह्मरन्ध्रान्तेष्वाधारेषु वसन्ति ते ॥ ७॥ वीणादण्डो महामेरुस्थीनि कुलपर्वताः । गङ्गा तु पिङ्गळा नाडी यमुनेडा प्रकीर्तिता ॥ ८॥ सरस्वती सुषुम्नोक्ता नाड्योन्याः पुण्यनिम्नगाः । द्वीपाः स्युर्धातवः सप्त स्वेदबाष्पादयोब्धयः ॥ ९॥ मूले तिष्ठति कालाग्निरस्थिमध्ये च बाडबः । वैद्युतोग्निः सुषुम्नायां पार्थिवो नाभिमण्डले ॥ १०॥ हृदि तिष्ठति सूर्याग्निः कपाले चन्द्रमण्डलम् । नक्षत्राण्यपराण्याहुर्नेत्रादीनीन्द्रियाण्यपि ॥ ११॥ धार्यन्ते वायुभिर्लोकाः यथा प्रवहणादिभिः । प्राणादिभिर्दशविधैर्धार्यते वायुभिर्वपुः ॥ १२॥ प्राप्येडापिङ्गळे प्राणो मूलात्सूर्यस्वरूपतः । नासिकाभ्यां बहिर्गत्वा लीयते द्विषडङ्गुले ॥ १३॥ अष्टाङ्गुळेन सोमात्मा नाडीभ्यामन्तराविशत् । मलमूत्रमरुच्छुक्राण्यपानो विसृजेद्बहिः ॥ १४॥ अग्नीषोममयो भूत्वा सुषुम्नारन्ध्रमाश्रितः । आब्रह्मरन्ध्रमुद्गच्छन्नुदानो वर्धते स्वयम् ॥ १५॥ व्यापयेद्वपुषि व्यानो भुक्तान्नरसमन्वहम् । सन्धुक्षणं समानस्तु कायाग्नेः कुरुते सदा ॥ १६॥ नागो हिक्काकरः कूर्मो निमेषोन्मेषकारकः । क्षुतं करोति कृकरो देवदत्तो विजृम्भणम् ॥ १७॥ स्थौल्यं धनञ्जयः कुर्यान्मृतं चापि न मुञ्चति । आकाशो बहिरप्यन्तरवकाशं प्रयच्छति ॥ १८॥ चन्द्रार्कौ कालनेतारौ प्राणापानौ शरीरिणाम् । साक्षी पुरुष इत्येवं मूर्त्यष्टकमिदं वपुः ॥ १९॥ समनस्कमिदं योगी सेवमान उपासनम् । अष्टाङ्गयोगयुक्तः सन्नमनस्कं स गच्छति । २०॥ मनः प्रसादः सन्तोषो मौनमिन्द्रियनिग्रहः । दया दाक्षिण्यमास्तिक्यमार्जवं मार्दवं क्षमा ॥ २१॥ भावशुद्धिरहिंसा च ब्रह्मचर्यं स्मृतिर्धृतिः । इत्येवमादयोन्ये च मनः साध्या यमाः स्मृताः ॥ २२॥ स्नानं शौचं क्रतुः सत्यं जपो होमश्च तर्पणम् । तपो दानं तितिक्षा च नमस्कारः प्रदक्षिणम् ॥ २३॥ व्रतोपवासाद्याश्चान्ये कायिका नियमाः स्मृताः । स्वस्तिकं गोमुखं पद्यं हंसाख्यं ब्राह्ममासनम् ॥ २४॥ नृसिंहं गरुडं कूर्मं नागाख्यं वैष्णवासनम् । वीरं मयूरं वज्राख्यं सिद्धाख्यं रौद्रमासनम् ॥ २५॥ योन्यासनं विदुः शाक्तं शैवं पश्चिमतानकम् । निरालम्बनयोगस्य निरालम्बनमासनम् ॥ २६॥ निरालम्बतया ध्यानं निरालम्बः सदाशिवः । रेचकः पूरकश्चैव कुम्भकः प्राणसंयमः ॥ २७॥ इन्द्रियाणां समस्तानां विषयेभ्यो निवारणम् । प्रत्याहार इति प्रोक्तं प्रत्याहारार्थवेदिभिः ॥ २८॥ आधारे क्वापि मनसः स्थापनं धारणोच्यते । ब्रह्मविष्णुशिवादीनां चिन्ता ध्यानं प्रचक्षते ॥ २९॥ ध्यानादस्पन्दनं बुद्धेः समाधिरभिधीयते । अमनस्कसमाधिस्तु सर्वचिन्ताविवर्जितम् ॥ ३०॥ चित्ते निश्चलतां याते प्राणो भवति निश्चलः । चित्तस्य निश्चलत्वाय योगं सध्यानमभ्यसेत् ॥ ३१॥ आकुञ्चनमपानस्य प्राणस्य च निरोधनम् । लम्बिकोपरि जिह्वायाः स्थापनं योगसाधनम् ॥ ३२॥ चित्ते निश्चलतां याते प्राणे मध्यपथं गते । चिह्नान्येतानि जायन्ते पञ्चभूतजयात्पृथक् ॥ ३३॥ मलमूत्रकफाल्पत्वमारोग्यं लघुता तनोः । सुगन्धः स्वर्ण[स्वर] वर्णत्वं प्रथमं योगलक्षणम् ॥ ३४॥ कण्टकाग्रेष्वसङ्गत्वं जलपङ्केष्वमज्जनम् । क्षुत्तृडादिसहिष्णुत्वं द्वितीयं योगलक्षणम् ॥ ३५॥ बह्वन्नपानभोक्तृत्वमातपाग्निसहिष्णुता । दर्शनं श्रवणं दूरात्तृतीयं योगलक्षणम् ॥ ३६॥ मण्डूकप्लवनं भूमौ मर्कटप्लवनं द्रुमे । आकाशगमनं चेति चतुर्थं योगलक्षणम् ॥ ३७॥ ज्ञानं त्रिकालविषयमैश्वर्यमणिमादिकम् । अनन्तशक्तिमत्वं च पञ्चमं योगलक्षणम् ॥ ३८॥ प्राणे सुषुम्नां सम्प्राप्ते नादोन्तः श्रूयतेष्टधा । घण्टादुन्दुभिशङ्खाब्धिवीणावेण्वादितालवत् ॥ ३९॥ तनूनपात्तटित्तारातारेशतपनोपमम् । ब्रह्मनाडीं गते प्राणे बिम्बरूपं प्रकाशते ॥ ४०॥ श्वासाश्चरन्ति यावन्तो मनुष्यस्य दिनं प्रति । तावन्ति योजनान्यर्कः श्वासेश्वासे प्रधावति ॥ ४१॥ एकविंशतिसाहस्रं षट्छतं श्वाससङ्ख्यया । सोऽहमित्युच्चरत्यात्मा मन्त्रं प्रत्यहमायुषे ॥ ४२॥ सकारं च हकारं च लोपयित्वा प्रयोजयेत् । सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ ४३॥ अकारश्चाप्युकारश्च मकारो बिन्दुनादकौ । पञ्चाक्षराण्यमून्याहुः प्रणवस्थानि पण्डिताः ॥ ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरश्च सदाशिवः । तेष्वक्षरेषु तिष्ठन्ति षट्त्रिंशत्तत्त्वसंयुताः ॥ ४५॥ गुरुप्रसादाल्लभते योगमष्टाङ्गलक्षणम् । शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतीम् ॥ ४६॥ सच्चिदानन्दरूपाय बिन्दुनादान्तरात्मने । आदिमध्यान्तशून्याय गुरूणां गुरवे नमः ॥ ४७॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे नवमोल्लाससङ्ग्रहः ॥ ४८॥ सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १०॥ परिच्छिन्नमहम्भावं परित्यज्यानुषङ्गिकम् । पूर्णाहम्भावलाभोस्य स्तोत्रस्य फलमुच्यते ॥ १॥ पुत्रपौत्रगृहक्षेत्रधनधान्यसमृद्धयः । अर्वाचीनाश्च सिध्यन्ति स्वर्गपाताळभूमिषु ॥ २॥ पाके प्रवर्तमानस्य शीतादिपरिहारवत् । प्रासङ्गिकाश्च सिध्यन्ति स्तोत्रेणानेन सर्वदा ॥ ३॥ ऐश्वर्यमीश्वरत्वं हि तस्य नास्ति पृथक्स्थितिः । पुरुषे धावमानेऽपि छाया तमनुधावति ॥ ४॥ अनन्तशक्तिरैश्वर्यं निष्यन्दाश्चाणिमादयः । स्वस्येश्वरत्वे संसिद्धे सिध्यन्ति स्वयमेव हि ॥ ५॥ यदीयैश्वर्यविप्रुड्भिर्ब्रह्मविष्णुशिवादयः । ऐश्वर्यवन्तो शासन्ते स एवात्मा सदाशिवः ॥ ६॥ पुष्पमानयता गन्धो विनेच्छामनुभूयते । पूर्णाहम्भावयुक्तेन परिच्छिन्ना विभूतयः ॥ ७॥ अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ८॥ अत्यन्तमणुषु प्राणिष्वात्मत्वेन प्रवेशनम् । अणिमासंज्ञमैश्वर्यं व्याप्तस्य परमात्मनः ॥ ९॥ ब्रह्माण्डादिशिवान्तायाः षट्त्रिंशत्तत्त्वसंहतेः । बहिश्च व्याप्यवृत्तित्वमैश्वर्यं महिमाह्वयम् ॥ १०॥ महामेरुसमाङ्गस्य समुद्धरणकर्मणि । लाघवे तूलतुल्यत्वं लघिमानं विदुर्बुधाः ॥ ११॥ परमाणुसमाङ्गस्य समुद्धरणकर्मणि । गुरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः ॥ १२॥ पातालवासिनः पुंसो ब्रह्मलोकावलोकनम् । प्राप्तिर्नाम महैश्वर्यं सुदुष्प्रापमयोगिनाम् ॥ १३॥ आकाशगमनादीनामन्यासं सिद्धिसम्पदाम् । स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते ॥ १४॥ स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् । प्राकाश्यमिदमैश्वर्यमिति केचित्प्रचक्षते ॥ १५॥ स्वेच्छामात्रेण लोकानां सृष्टिस्थित्यन्तकर्तृता । सूर्यादिनां नियोक्तृत्वमीशित्वमभिधीयते ॥ १६॥ सलोकपालाः सर्वेऽपि लोकाः स्ववशवर्तिनः । तदैश्वर्यं वशित्वाख्यं सुलभं शिवयोगिनाम् ॥ १७॥ यस्त्वेवं ब्राह्मणो वेत्ति तस्य देवा वशे स्थिताः । किं पुनः क्ष्मापतिव्याघ्रव्याळस्त्रीपुरुषादयः ॥ १८॥ सर्वात्मभावसाम्राज्यनिरन्तरितचेतसाम् । परिपक्वसमाधीनां किं किं नाम न सिध्यति ॥ १९॥ स्तोत्रमेतत्पठेद्धीमान्सर्वात्मत्वं च भावयेत् । अर्वाचीने स्पृहां मुक्त्वा फले स्वर्गादिसम्भवे ॥ २०॥ स्वर्गादिराज्यं साम्राज्यं मनुते न हि पण्डितः । तदेव तस्य साम्राज्यं यत्तु स्वाराज्यमात्मनि ॥ २१॥ सर्वात्मभावनावन्तं सेवन्ते सर्वसिद्धयः । तस्मादात्मनि साम्राज्यं कुर्यान्नियतमानसः ॥ २२॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २३॥ प्रकाशात्मिकया शक्त्या प्रकाशानां प्रभाकरः । प्रकाशयति यो विश्वं प्रकाशोऽयं प्रकाशताम् ॥ २४॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे दशम्मोल्लाससङ्ग्रहः ॥ २५॥ इति श्रीमच्छङ्करभगवत्पादाचार्यकृत दक्षिणामूर्तिस्तोत्रभावार्थवार्तिकं सुरेश्वराचार्यकृतं समाप्तम् ॥ ॐ तत् सत् ॥
Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com
% Text title            : manasollAsa or abhilakShitArthachintAmaNi
% File name             : manasollasa.itx
% itxtitle              : mAnasollAsaH (abhilakShitArthachintAmaNi)
% engtitle              : Manasollasa
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Sureshvaracharya
% Language              : Sanskrit
% Subject               : hinduism/religion/philosophy
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Translated by         : -
% Description-comments  : A commentary (vArtika) on Shankara@s Dakshinamurti Stotra
% Indexextra            : (commentary on dakShiNAmUrti stotra by Sureshvaracharya)
% Latest update         : April 17, 2003
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP