श्रीनटराजस्तवः
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
श्रीनटराजस्तवः ।
ॐ नटराजाय विद्महे । नटानन्दाय धीमहि ।
तन्नः शिवः प्रचोदयात् ॥
नमः शिवाय रुद्राय उमापाय नमो नमः ।
आनन्दताण्डवानन्दनटराजाय ते नमः ॥ १॥
चिदम्बरप्रनृत्यकं चिदात्मबोधनर्तनम् ।
नदत्पदस्थझङ्कृतं सदात्मलीनताण्डवम् ॥ २॥
सुताललास्यलासकं सुवक्त्रगारसस्वरम् ।
सुकाव्यलासरासकं सभव्यनृत्यताण्डवम् ॥ ३॥
सुनादनन्दताण्डवं चिदग्निमण्डलावृतम् ।
प्रकृत्यनुप्रवेशनं प्रकाशमण्डलं भवम् ॥ ४॥
झणत्करस्थडामरं करान्यपावकज्वलम् ।
वराभयप्रदोत्करं करस्फुरत्सुकाञ्चनम् ॥ ५॥
पदोत्थितं सुताण्डवं मृगारिचर्ममध्यमम् ।
सुवर्णलासवासनं नटप्रडीनवासनम् ॥ ६॥
गलप्रलाससर्पकं सुकर्णलासकुण्डलम् ।
स्मितोष्ठरञ्जनं मृडं सुनेत्रदीप्तिनर्तनम् ॥ ७॥
ललाटनेत्रशिक्षकं अलीकभस्मलेपनम् ।
जटार्धचन्द्रशोभनं जटाहिमण्डलं हरम् ॥ ८॥
सुमौलिगङ्गिकानटं सुगङ्गिकाहिमप्रियम् ।
हिमाम्बुवर्षगङ्गिकं नटोल्लसत्सुगङ्गिकम् ॥ ९॥
नमामि तं नटप्रियं नमामि चित्सभेश्वरम् ।
नमामि सृष्टिमण्डलं नमाम्युमामहेश्वरम् ॥ १०॥
उमेश्वराय मङ्गलं नटोत्तमाय मङ्गलम् ।
सुताण्डवाय मङ्गलं चिदम्बराय मङ्गलम् ॥ ११॥
शिवस्य ताण्डवस्तवं गुरुप्रसादकीर्तितम् ।
विकासपुष्पवासनं भवापहं भगप्रदम् ॥ १२॥
शिवस्य सत्कृपालयं सुगालयं मनोलयम् ।
सदा पठेद् वरप्रदं सदा सुमङ्गलावहम् ॥ १३॥
मङ्गलं चित्सभेशाय शक्तिनाथाय मङ्गलम् ।
मङ्गलं नटराजाय त्यागराजाय मङ्गलम् ॥ १४॥
त्यागराजगुरुस्वामिशिष्यापुष्पाप्रकीर्तितम् ।
नटराजस्तवस्तोत्रं नटराजकृपावहम् ॥ १५॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः
श्रीनटराजस्तवः गुरौ समर्पितः ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan