परमात्माष्टकम्
श्रीगणेशाय नमः ॥
परमात्मँस्तव प्राप्तौ कुशलोऽस्मि न संशयः ।
तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ १॥
यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम् ।
तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ २॥
भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो ।
तव स्मृतिर्यदाऽऽयाति तदा भाति बहिर्मुखम् ॥ ३॥
प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः ।
तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥ ४॥
शोकमोहौ मानमदौ तवाज्ञ्नाद्भवन्ति वै ।
यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥ ५॥
कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा ।
मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम् ॥ ६॥
मायया ते विमूढोऽस्मि न पश्यामि हिताहितम् ।
संसारपारपाथोधौ पतितं मां समुद्धर ॥ ७॥
परमात्मँस्त्वयि सदा मम स्यान्निश्चला मतिः ।
संसारदुःखगहनात्त्वं सदा रक्षको मम ॥ ८॥
परमात्मन इदं स्तोत्रं मोहविच्छेदकारकम् ।
ज्ञानदं च भवेन्नॄणां योगानन्देन निर्मितम् ॥ ९॥
इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं सम्पूर्णम् ॥
Proofread by PSA Easwaran