श्रीसदाशिवप्रमाणिका
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ सदाशिवाय विद्महे । गङ्गाधराय धीमहि ।
तन्नो भद्रः प्रचोदयात् ।
अथ श्रीसदाशिवप्रमाणिका ।
सदाशिवं मुदामयं सुधाकरप्रभासकम् ।
सदा भजे सुगङ्गिकं स्वरात्मकं स्वरासरम् ॥ १॥
सुपञ्चवक्त्रगारसं गुरुप्रगीतकीर्तनम् ।
सुपञ्चवारिवासनं गुरुप्रगेयरासकम् ॥ २॥
सुनृत्यलासगालयं शिवामयं शिवासहम् ।
सुशङ्करं वशङ्करं भयापहं यमापहम् ॥ ३॥
कुकालवैरिणं भवं भवाब्धितारिणं भगम् ।
सुरामनामतन्मयं सुनामकीर्तनालयम् ॥ ४॥
सरीगमापधानिसासुसप्तनादमोदितम्।
नमामि तं शिवात्मकं वरप्रदं शुभप्रदम् ॥ ५॥
सुपुष्पमालिकार्पणं सुपुष्पनादसौरभम्।
प्रमाणपुष्पवर्षणं प्रमाणितातिमङ्गलम् ॥ ६॥
सदाशिवप्रमाणिका सदाशिवप्रचोदिता।
सदाप्रमोददायिका सदाशिवा सुमङ्गला ॥ ७॥
सदाशिवाय मङ्गलं उमावराय मङ्गलम्।
स्वरोदयाय मङ्गलं सुभेषजाय मङ्गलम् ॥ ८॥
सद्गुरुत्यागराजार्यशिष्यापुष्पासुगीतिका ।
सदाशिवगुरुप्रीता सदामङ्गलदायिका ॥ ९॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता
श्रीसदाशिवप्रमाणिका गुरौ समर्पिता ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan