श्रीशरभसहस्रनामस्तोत्रम् २

श्रीशरभसहस्रनामस्तोत्रम् २

हरिहरविरचितम् - आकशभैरव तन्त्रे श्री गणेशाय नमः ॥ ॐ खें खां खं फट् प्राण ग्रहासि प्राण ग्रहासि हुं फट् सर्व शत्रु संहारणाय शरभ सालुवाय पक्षिराजाय हु फट् स्वाहा ॥ द्विचत्वारिंशद्वर्णः ॐ अस्य श्री शरभ मन्त्रस्य कालाग्नि रुद्र ऋषिर्जगती छन्दः श्री शरभेश्वरो देवता ऊं बीजं स्वाहा शक्ति फट् कीलकं श्री शरभेश्वर प्रीत्यर्थे जपे विनियोगः । शिरसि कालाग्नि रुद्राय ऋषये नमः । मुखे जगती छन्दसे नमः ॥ हृदि शरभेश्वराय देवतायै नमः गुह्ये ऊँ बीजाय नमः । पादयो स्वाहा शक्तये नमः ॥ सर्वाङ्गं हुं फट् कीलकाय नमः ॥ ऊँ खें खां अङ्गुष्ठाभ्यां नमः ॥ खं फट् तर्जनीभ्यां स्वाहा ॥ प्राणग्रहासि प्राणग्रहासि हुं फट् मध्यमाभ्यां वषट् । सर्वशत्रु संहारणाय अनामिकाभ्यां हुम् ॥ शरभ-सालुवाय कनिष्ठिकाभ्यां वौषद् ॥ पक्षिराजाय हुं फट् स्वाहा करतलकर पृष्ठाभ्यां फट्त्र ॥ अथ हृदयादि न्यास ॥ ॐ खें खां हृदयाय नमः ॥ ॐ खं फट् शिरसे स्वाहा ॥ प्राणग्रहासि प्राणग्रहासि हुं फट् शिखायै वषट् ॥ सर्वशत्रु संहारणाय कवचाय हुम् ॥ शरभ सालुवाय नेत्रत्रयाय वौषट् ॥ पक्षिराजाय हुं फट् स्वाहा अस्त्राय फट् ॥ ॥ ध्यानम् ॥ चन्द्रार्कौवह्निदृष्टिः कुलिशवरनखश्चञ्चंलोत्युग्रजिह्वः । काली दुर्गा च पक्षौ हृदयजठरगौभैरवो वाडवाग्निः ॥ ऊरुस्थौ व्याधिमृत्यु शरभवर खगश्चण्ड वातातिवेगः । संहर्ता सर्वशत्रून् स जयति शरभः शालुवः पक्षिराजः ॥ १॥ वर्णसहस्रं जपः ॥ पायसेन घृताक्तेन होमः ॥ अथ सङ्कल्पः । गौरीवल्लभ कामारे कालकूटविषादन । मामुद्धरापदाम्माधेस्त्रिपुरध्नान्त कान्तक ॥ अथ श्रीशरभसहस्रनामस्तोत्रम् ॥ ॐ सर्वभूतात्मभूतस्य रहस्यमित तेजस । अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे श‍ृणु ॥ १॥ यच्छ्रुत्वा मनुज व्याघ्र सर्वान्तामानवाप्यसि । स्थिरः स्थाणुः प्रभुर्भीमः प्रभवो वरदो वरः ॥ २॥ जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान् वचसोऽगोचरो धनः ॥ ४॥ अतिवाधो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवृषोथ प्रच्छन्नः सर्वलोकप्रजापतिः ॥ ५॥ महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ६॥ लोकपालोऽतर्हितात्मा प्रसादो हयगर्दभी । पवित्रश्च महांश्चैव नियमो निगमप्रिय ॥ ७॥ सर्वकर्मा स्वयम्भूश्च आदिसृष्टिकरो निधि । सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥ ८॥ सूर्यचन्द्रगतिः केतुर्ग्रहो ग्रहपतिर्वरः । अदारिद्रघ्नालय कर्ता मृगबाणार्पणोनघः ॥ ९॥ महातपा दीर्घतपा अदीनो दीनसाधनः । संवत्सरकरो मन्त्री प्रमाणं परमं तपः ॥ १०॥ योगी योग्यो महाबीजो महारेता महातपाः । सुवर्णरेताः सर्वज्ञः सुवीजो वृषवाहनः ॥ ११॥ दशबाहुश्च निमिषो नीलकण्ठ उमापतिः । बहुरूपः स्वयंश्रेष्ठो बलिर्वैरोचनो गणः ॥ १२॥ गणकर्त्ता गणपतिर्दिग्वासाः काम एव च । मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः ॥ १३॥ कमण्डलुधरो धन्वी वाणहस्तः कपालवान् । अशिनी शतघ्नी खण्डी पट्टिशश्चायुधी महान् ॥ १४॥ श्रुतिहस्तः सरूपश्च तेजस्तेजस्करो विभुः । उश्नीषी च सुवक्त्रश्च उदग्रो विनयस्तथा ॥ १५॥ दीर्घश्च हरिनेत्रश्च सुतीर्थः कृष्ण एव च । श‍ृगालरूपः सर्वार्थो मुण्डः सर्वकमण्डलुः ॥ १६॥ अजश्च मृगरूपश्च गन्धचारी कपर्दिनः । ऊर्ध्वरेता उर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ १७॥ त्रिजटश्चौरवासी च रुद्रसेनापतिर्विभुः । नक्तञ्चरोतितिग्मश्च अहश्चारी सुवर्चसः ॥ १८॥ गजहा दैत्यहा चैव लोकभ्राता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्मांवरो वरः ॥ १९॥ कालयोगी महाकालः सर्ववासाश्चतुष्पथ । निशाचर प्रेतचारी भूतचारी महेश्वरः ॥ २०॥ बहुरूपो बहुधन सर्वाधारा मनोगतिः । नृत्यप्रियो नृत्यतृप्तो नृत्यकः सर्वमालयः ॥ २१॥ धोषो महातपा ईशो नित्यो गिरिचरो नभः । सहस्रहस्तो विजयो व्यवसायोह्यनिन्दितः ॥ २२॥ अमर्षणो महामर्षी ई यशकामो मनोमयः । दक्षयज्ञापहारी च सुखदो मध्यमस्तथा ॥ २३॥ तेजोपहारी बलहा मुदितोप्यजितो भवः । दम्भी द्वेषी गम्भीरो गम्भीरबलवाहनः ॥ २४॥ न्यग्रोधरूपो न्यग्रोधो वृक्षकर्त्तास्गवृद्विभुः । तीक्ष्णव्वाहुश्च हर्षश्च सहायः सर्वकालवित् ॥ २५॥ विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः । हुताशन सहायश्च प्रशान्तात्मा हुताशनः ॥ २६॥ उग्रतेजा महातेजा जयो (जयो) विजय कालवित् । ज्योतिषामयनः सिद्धिः सन्धिविग्रह एव च ॥ २७॥ शिखी दण्डी जटी ज्वाली मृत्युजिद्दुर्धरो वली । वैष्णवी पणवीताली कालः काटकटङ्करः ॥ २८॥ नक्षत्रविग्रहविधिर्गुणवृद्धिलयोगमः । प्रजापति दिशा वाहु विभागः सर्वतोमुखः ॥ २९॥ वैरोचनो सुरगणो हिरण्यकवचोद्धवः । अप्रज्यो वालचारी च महाचारी स्तुतस्तथा ॥ ३०॥ सर्वतूर्य निनादी च सर्वनाथ परिग्रहः । व्यालरूपो विलावासी हेममाली तरङ्गवित् ॥ ३१॥ त्रिदिशस्त्रिदिशावासी सर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ ३२॥ साक्षात्प्रसादो दुर्वासा सर्वसाधुनिषेवितः । पुस्कन्दनो विभावश्च अतुल्यो यज्ञभागवित् ॥ ३३॥ सर्वचारी सर्ववासो दुर्वासा वाङ्मनोभवः । हेमो हेमकरो यज्ञः सर्ववीरो नरोत्तमः ॥ ३४॥ लोहिताक्षो महोक्षश्च विजयाख्यो विशारदः । सद्ग्रहो विग्रहो कर्मा मोक्षः सर्वनिवासनः ॥ ३५॥ मुख्यो मुक्तश्च देहश्च देहार्थः सर्वकामदः । सर्वकालप्रसादश्च सुवलो वलरूपधृक् ॥ ३६॥ आकाशनिधिरूपश्च निषादी उरगः खगः । रौद्ररूपी पांसुरादीः वसुरग्निः सुवर्चसी ॥ ३७॥ वसुवेगो महावेगो महायक्षो निशाकरः । सर्वभावप्रियावासी उपदेशकरो हरः ॥ ३८॥ मनुरात्मा पतिर्लोकी सम्भोज्यश्च सहस्रशः । पक्षी च पक्षिरूपी च अतिदीप्तो विशाम्पतिः ॥ ३९॥ उन्मादो मदनः कामोह्यास्योर्थकरोयशः । वामदेवश्च रामश्च प्राग्दक्षिणश्च वामनः ॥ ४०॥ सिद्धयोगो महर्षिश्च सिद्धार्थः सिद्धिसाधकः । विष्णुश्च भिक्षुरूपश्च विषध्नो मृदुरव्ययः ॥ ४१॥ महासेनो विशाखश्च वृष्टिभोगो गवां पति । वज्रहस्तश्च विष्कुम्भी च भूस्तम्भन एव च ॥ ४२॥ वृत्तो वृत्तकरः स्थणुर्मधुमधुकरो धनः । वाचस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ॥ ४३॥ ब्रह्मचारी लोकचारी सर्वचारी विचारवित् । ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ॥ ४४॥ निमित्तज्ञो (स्थो) निमत्तश्च नन्दिर्नादकरो हरिः । नदीश्वरश्च नन्दी च नन्दिनो नन्दिवर्द्धनः ॥ ४५॥ भगहारी निहन्ता च कालो ब्रह्मा पितामहः । चतुर्मुखो महालिङ्गश्चतुर्लिङ्गस्थैव च ॥ ४६॥ लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः । बीजाध्यक्षो बीजकर्त्ता अध्यात्मानुगतो बलः ॥ ४७॥ इतिहासः सकल्पश्च गौतमोथ निशाकरः । दभोह्यदभो वैदम्भो वश्यो वश्यकरः कलिः ॥ ४८॥ लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः । अक्षरं परमं ब्रह्म वलटाच्छन्न एव च ॥ ४९॥ नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतिः । बहुप्रसाद सुस्वप्नो दर्पणोथत्वमित्रजित् ॥ ५०। वेदकारो मन्त्रकारो विद्वान्समरमर्दनः । महामोघनिवासी च महाघोरो वशीकरः ॥ ५१॥ अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः । वृषलः शङ्करो नित्यो वर्चसी धूम्रलोचनः ॥ ५२॥ नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः । स्वस्तिदः स्वस्तिभावश्च भोगी भोगकरो लघुः ॥ ५३॥ उत्सङ्गश्च महाङ्गश्च महाभोगो परायणः । कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ॥ ५४॥ महापादो महाहस्तो महाकायो महायशाः । महामूर्द्धा महामात्रो महानेत्रो निशालयः ॥ ५५॥ महान्तको महाकर्णो महोक्षश्च महाहनुः । महाननो महाकंवुर्महाग्रीवः श्मशानभाक् ॥ ५६॥ महावक्षा महोरस्को ह्यन्तरामा मृगालयः । लम्बितो लम्बितोष्टश्च महामाया पयोनिधि ॥ ५७॥ महादन्तो महादंष्ट्रो महाजिह्वो महामुखः । महानखो महारोमा महाकेशो महाजरः ॥ ५८॥ प्रसन्नश्च प्रसादश्च प्रतयो योगिसाधनः । स्नेहनोतिशुभस्नेहः अजितश्च महामुनिः ॥ ५९॥ वृक्षकारो वृक्षकेतुः अनलो वायुवाहनः । मण्डली धामश्च देवाधिपतिरेव च ॥ ६०॥ अथर्वशीर्षः सामास्यः ऋक् साहस्र मितेक्षणः । यजुः पादभुजागुह्यः प्रकाशो जङ्गमस्तथा ॥ ६१॥ अमोधार्थप्रसादश्च अतिगम्यः सुदर्शनः । उपकारप्रियः सर्वः कनकः काञ्चनस्थितः ॥ ६२॥ नाभिर्नदिकरो भावः पुष्करस्य पतिस्थिरः । द्वादशास्त्रमसश्वाघो यज्ञो यज्ञसमाहितः ॥ ६३॥ नक्तं कलिश्च कालश्च ककारः कालपूजितः । सवाणो गणकारश्च भूतवाहनसारथिः ॥ ६४॥ भस्मशायी भस्मगोप्ता भस्मभूतस्तमोगुणः । लोकपालस्तथा लोको महात्मा सर्वपूजितः ॥ ६५॥ शुक्लस्त्रिशुक्लसम्पन्नः शुचिर्भूतनिषेवितः । आश्रमस्थः क्रियावस्थो विश्वकर्मा मतिर्वरः ॥ ६६॥ विशालशाखस्ताम्रोष्टोह्यम्बुजालः सुनिश्चलः । कपिलः कपिलः शुक्ल आयुश्चैव परोवरः ॥ ६७॥ गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः । परश्वधायुधो देव अन्धकारिः सुवान्धवः ॥ ६८॥ तुम्बवीणो महाक्रोध ऊर्ध्वंरेता जलेशयः । उग्रो वंशकरो द्वंशो वंशनादोह्यनिन्दितः ॥ ६९॥ सर्वाङ्गरूपो मायावी सुह्यदोह्यनिलोनलः । बन्धनो बन्धकर्ता च सुबधुरविमोचनः ॥ ७०॥ मेषजारिः सुकर्मारिर्महादंष्ट्रसमो युधि । बहुस्वनिर्मितः सर्वः शङ्करः शङ्करो वरः ॥ ७१॥ अमरेशो महादेवो विश्वदेवः सुरारिहा । निसङ्गश्चाहिर्बुध्य्नश्चाकिताक्षो हरिस्तथा ॥ ७२॥ अजैकपालपालीच त्रिशङ्कुरजितः शिवः । धन्वतरिर्धूम्रकेतुः स्कन्दो वैश्रवणस्तथा ॥ ७३॥ धाता शक्रश्च विश्वश्च मित्रस्त्वष्ठाध्रुवो वसुः । प्रभावः सर्वगो वायुरर्यमासवितारथिः ॥ ७४॥ उग्रदंष्ट्रो विधाता च मान्धाता भूतभावनः । रतिस्तीर्थश्च वाग्मी च सर्वकर्मगुणावह ॥ ७५॥। पद्मवक्रो महावक्रश्चन्द्रवक्रो मनोरमः । वलयान्यश्च शान्तश्च पुराणः पुण्यवर्चसः ॥ ७६॥ कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः । शर्वो सर्वो दर्भशायी सर्वेषां प्राणिनां पतिः ॥ ७७॥ देवदेव सुखाशक्तः सदसत्संवररत्नवित् । कैलासशिखिरावासी हिमवद्गिरिसंश्रयः ॥ ७८॥ कूलहारी कूलकर्त्ता बहुबीजो बहुप्रदः । वनिजो वर्द्धनो दक्षो नकुलश्चदनश्छदः ॥ ७९॥ सारग्रीवी महाजन्तुरत्नकश्च महौषधिः । सिद्धार्थकारी सिद्धार्थः छन्दो व्याकरणानि च ॥ ८०॥ सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः । प्रभावात्मा जरास्तालोल्लोकाहितान्तकः ॥ ८१॥ सारगोऽसुखवक्रान्त केतुमाली स्वभावतः । भूताश्रयो भूतपतिरहोरात्रमनिन्दकः ॥ ८२॥ आसनः सर्वभूतानां निलयः विभुभैरवः । अमोघसर्वभूषास्यो याजनः प्राणहारकः ॥ ८३॥ धृतिमान् ज्ञातिमान् दक्षः सत्कृतश्च युगाधिपः । गोपालो गोपतिर्गोप्ता गोश्चवसनो हरः ॥ ८४॥ हिरण्यबाहुश्च तथा गुहयकालः प्रवेशकः । प्रतिष्ठायां महाहर्षोञ्जितकामो जितेन्द्रियः ॥ ८५॥ गान्धारश्च सुशीलश्च तपः कर्मरतिर्धनः । महागीतो महाब्रह्मार्ह्मक्षरो गणसेवितः ॥ ८६॥ महाकेतुः कर्मधातनैकतानश्चराचरः । अवेदनीय आवेशः सर्वगन्धसुखावहः ॥ ८७॥ तोरणास्तरणो वायुः परिधावति चैतकः । संयोगो वर्द्धनो वृद्धो महावृद्धो गणाधिपः ॥ ८८॥ नित्यो धर्मसहायश्च देवासुरपतिः पतिः । अमुक्तो मुस्तबाहुश्च द्विविधश्च सुपर्वणः ॥ ८९॥ आषाढश्च सुखाढ्यश्च ध्रुवो हरिहयो हरिः । वसुरावर्त्तनो नित्यो वसुश्रेष्ठो महामदः ॥ ९०॥ शिरोहारी च वर्षी च सर्वलक्षणभूषितः । अक्षरश्चाक्षयो योगी सर्वयोगी महावलः ॥ ९१॥ समाम्नायोऽसमाम्नायस्तीर्थदेवो महाद्युतिः । निर्बीजो जीवनो मन्त्रो अनघो बहुकर्कशः ॥ ९२॥ रक्तप्रभूतो रक्ताङ्गो महार्णवनिनादकृत् । मूलो विशाखो यमृतोक्तयक्तोव्यः सनातनः ॥ ९३॥ आरोहणो निरंहश्च शैलहारी महातपाः । सेनाकल्पो महाकल्पो युगो युगङ्करो हरिः ॥ ९४॥ युगरूपो महारूपो पवनो गहनो नगः । न्यायनिर्वापणो नादः पण्डितोह्यचलोपमः ॥ ९५॥ बहुमालो महामालः सुमालो बहुलोचनः । विस्तारो लवणः क्रूरः ऋतुमासफलोदयः ॥ ९६॥ वृषभो वृषभागाङ्गो मणिबन्धुर्जटाधरः । इन्द्रो विसर्गः सुमुखः सुरः सर्वायुधः सहः ॥ ९७॥ निवेशनः सुधन्वा च पूगगन्धो महाहनुः । गन्धमाली च भगवान् सानन्दः सर्वकर्मणाम् ॥ ९८॥ मात्मनो बाहुलो बाहुः सकलः सर्वलोचनः । रुद्रस्तालीकरस्ताली ऊर्ध्वसंहतलोचनः ॥ ९९॥ छत्रपद्मः सुविख्यातः सर्वलोकाश्रयो महान् । मुण्डो विरूपो बहुलो दण्डी मुण्डो विकुण्डलः ॥ १००॥ हर्यक्षः ककुभोक वज्री दीप्तावर्चः सहस्रपात् । सहस्रमूर्द्धा देवेद्रः सर्वभूतमयो हरि ॥ १०१॥ सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वकर्मकृत् । पवित्रः स्निग्धयुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १०२॥ ब्रह्मदण्डविनिर्वातः शरघ्नः शरतापधृक् । पद्मगर्भो महागर्भो पद्मगर्भो जलोद्भव ॥ १०३॥ गभस्तिर्ब्रह्मकृत् ब्रह्म ब्रह्मकृद् ब्राह्मणो गति । अनन्तरूपो नैकात्मा तग्मतेजात्मसम्भवः ॥ १०४॥ ऊर्ध्वगात्मा पशुपतिः वीतुरङ्गा मनोजवः । वन्दनी पद्ममाली च गुणज्ञो स्वगुणोत्तरः ॥ १०५॥ कर्णिकारो महास्रग्वी नीलमौली पिनाकधृक् । उमापतिरुमाकान्तो जाह्नवीहृदयङ्गमः ॥ १०६॥ वीरो वराहो वरदो वरेशश्च महामना । महाप्रभावस्त्वनघः शत्रुहा श्वेतपिङ्गलः ॥ १०७॥ प्रीतात्मा प्रयत्तात्मा च संयतात्मा प्रधानधृक् । सर्वपार्श्वस्तुतस्तार्क्ष्यो धर्मः साधारणो वरः ॥ १०८॥ चराचरात्मा सूक्ष्मात्मा गोवृषो गोवृषेश्चरः । साध्यर्षिर्वसुरादित्यो विवस्वान् सविता मृगः ॥ १०९॥ व्यासः सर्वस्य सङ्क्षेपो विस्तारः पर्ययोनयः । ऋतुः संवत्सरो मासः पक्षः सङ्ख्या परायणः ॥ ११०॥ कला काष्टा लयो मात्रा मुहूर्तः पक्षपाक्षणः । विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ १११॥ सद्व्यवतमव्यक्त पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ११२॥ निर्वाणं ज्ञानदं चैव ब्रह्मलोक परागतिः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ ११३॥ देवासुरमहामात्रो देवासुरसमाश्रय । देवासुरगणाध्यक्षो देवासुरगणाधिपः ॥ ११४॥ देवासुरेश्वरो देवो देवासुरमहेश्वरः । सर्वदेवमयो चिन्त्यो देवानामात्मसम्भवः ॥ ११५॥ उद्भिज्जस्त्रिक्रमो वैद्यो विराजो वरदो वरः । ईज्यो हस्तिमुखो व्याघ्री देवसिंहो नरर्षभः ॥ ११६॥ विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः । गुरुः कान्तो निजः सर्वः पवित्रः सर्ववाहनः ॥ ११७॥ प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः । भृगी भृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ ११८॥ अविरामः सुशरणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेहो हारिणो ब्रह्मवर्चसी ॥ ११९॥ स्थावराणां पतिश्चैव नियमेन्द्रियवर्द्धनः । सिद्धार्थः सर्वसिद्धार्थोनित्यः सत्यव्रतः शुचिः ॥ १२०॥ व्रतादिर्यत्परं ब्रह्म मुक्तानां परमागतिः । विमुक्तो दीर्घतेजाश्च श्रीमान् श्रीवर्द्धनो जगत् ॥ १२१॥ यथा प्रसादो भगवानिति भक्त्या स्तुतो मया । यन्न ब्रह्मादयो देवा विदुर्यन्न महर्षयः ॥ १२२॥ तंस्तवीम्यहमाद्यं च कस्तोष्यति जगत्प्रभुम् । भक्तिश्चैव पुरस्कृत्य मया यज्ञपतिर्वसुः ॥ १२३॥ ततोऽनुज्ञापयामासस्तुतो मतिमतां गतिः । शिव एवं स्तुतो देवैः नामभिः पुष्टिवर्द्धनैः ॥ १२४॥ नित्ययुक्तः शुचिर्भूत्वा प्राप्न्योत्यात्मानमात्मनः । एतद्धिपरमं ब्रह्मा स्वयङ्गीतं स्वयम्भुवा ॥ १२५॥ ऋषयश्चैव देवाश्च स्तुवन्त्येते नु तत्परम् । स्तूयमानो महादेवः प्रीयते चात्मनापतिः ॥ १२६॥ भक्तानुकम्पी भगवानात्मसंस्थान् करोति तान् । तथैव च मनुष्येषु यत्र कुत्र प्रधानतः ॥ १२७॥ आस्तिकः श्रद्दधानश्च बहुभिर्जन्मभिः स्तवैः । जाग्रतोथ स्वपतश्च व्रजन्तो गतिसंस्थिताः ॥ १२८॥ स्तुवन्ति स्तूयमाने च चतुष्पथि रमन्ति च । जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १२९॥ जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते । उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १३०॥ एतद्देवेषु दुःप्रापो मानुषेषु न लभ्यते । निर्विघ्ना निश्चला भद्रे भक्तिरव्यभिचारिणी ॥ १३१॥ तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृप । यया याति परां सिद्धिं तद्भागवतमानसः ॥ १३२॥ ये सर्वभावोपहताः परत्वेनानुभाविताः । प्रपन्नवत्सला देवः संसारात्तान् समुद्धरेत् ॥ १३३॥ एवमन्येपि कुर्वन्ति देवाः संसारमोचनम् । मनुष्याणां महादेवादन्यत्रापि तपोबलात् ॥ १३४॥ इति तेनेदं कल्यायाय भगवान् सदसत् पतिः । कृत्तिवासा धुवं पूर्वं ताडिता शुद्धबुद्धयः ॥ १३५॥ स्तवमेनं भगवति ब्रह्मो स्वयमधारयत् । ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १३६॥ मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागयत् । महता तपसा प्राप्तस्तण्डिना ब्रह्म सम्मतिः ॥ १३७॥ स्तण्डीः प्रोवाच शुक्राय गौतमायाह भार्गवः । वैवस्वताय भगवान् गौतमः प्राह साधवे ॥ १३८॥ नारायणाय साध्याय मनुरिष्टाय धीमते । यमाय प्राह भगवान् साध्यो नारायणोव्ययः ॥ १३९॥ नाचिकेताय भगवानाह वैवस्वतो यमः । मार्कण्डेयाय वार्ष्णेय नाचिकेताभ्यभाषत ॥ १४०॥ तथाप्यहममित्रघ्नस्तावन्द्धाद्य विश्रुतम् । स्वर्ग्यमारोगयमायुष्यं धन्यं वेदैश्च सम्मितम् ॥ १४१॥ नास्य विघ्नानि कुर्वन्ति दानवा यक्षराक्षसाः । पिशाचा यातुधान्ताश्च गुह्यका भुजगा अपि ॥ १४२॥ य पठेत्प्रयतः प्रातर्ब्रह्माचारी जितेन्द्रिय । अभिन्नयोगो वर्षन्तु अश्वमेधफलं लभेत् ॥ १४३॥ इयाकाश भैरवतन्त्रे हरिहरब्रह्मविरचिते । शरभसहस्रनामस्तोत्रं सम्पूर्णम् ॥ १४४॥ ॥ इति आकाशभैरवतन्त्रे हरिहरविरचितम् श्रीशरभसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by DPD, Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : sharabheshvarasahasranAmastotram 2
% File name             : sharabhasahasranAmastotra.itx
% itxtitle              : sharabhasahasranAmastotram 2 (sharabhatantrAntargatam hariharavirachitam sarvabhUtAtmabhUtasya)
% engtitle              : sharabhasahasranAmastotram 2
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : harihara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : sharabhatantra, Akashabhairava tantra
% Latest update         : August 22
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org