शिवलोचनस्तुतिः
श्रीगणेशाय नमः ॥
जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियप्रणतौ ।
धनुषि स्मरेण निहितः सकण्टकः केतकेपुरिव ॥ १॥
सानन्दा गणगायके सपुलका गौरीमुखाम्भोरुहे
सक्रोधा कुसुमायुधे सकरुणा पादानते वज्रिणि ।
सस्मेरा गिरिजासखीषु सनया शैलाधिनाथे वहन्-
भूमीन्द्र प्रदिशन्तु शर्म विपुलं शम्भोः कटाक्षच्छटाः ॥ २॥
एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् ।
अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं
शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ ३॥
पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन् ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।
अर्चिर्निष्टप्तचूडाशशिगणितसुधाघोरझाङ्कारकोणं
तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ ४॥
इति शिवलोचनस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran