श्रीताण्डवेश्वरीताण्डवेश्वर सम्मेलनाष्टोत्तरशतनामानि

श्रीताण्डवेश्वरीताण्डवेश्वर सम्मेलनाष्टोत्तरशतनामानि

चिदम्बररहस्योक्तानि ॥ श्रीगणेशाय नमः ॥ ॥ पूर्वपीठिका ॥ श्रीसूतः । श‍ृणुध्वं मुनयस्सर्वे रहस्यातिरहस्यकम् । पुरा व्यासेन कथितं विविक्ते मां प्रति प्रियात् ॥ १॥ नारायणात् समालब्धं स्मरणात् पठनात् सकृत् । इष्टार्थदं हि सर्वेषामन्ते कैवल्यदं शुभम् ॥ २॥ सम्मेलनसभानाथपारमेश्वरताण्डवम् । अष्टोत्तरशतं वक्ष्ये तथा ध्यानपुरस्सरम् ॥ ३॥ ॥ इति पूर्वपीठिका ॥ ध्यानम् - शय्यापस्मारपृष्ठे स्थितपदविलसद्वाममुद्धृत्य पादं ज्वालामालासु मध्ये नटनमहिपतिं व्याघ्रपादादिसेव्यम् । भस्मालेपाक्षमालाभरणविलसितं वह्निडोलाभयाङ्कं हस्तैर्ढक्कां दधानं भज हृदि सततं साम्बिकं ताण्डवेशम् ॥ ॐ सदाशिवताण्डवायै नमः । ॐ सदाशिवताण्डवाय नमः । १ ॐ महेशताण्डवायै नमः । ॐ महेशताण्डवाय नमः । २ ॐ रौद्रताण्डवायै नमः । ॐ रौद्रताण्डवाय नमः । ३ ॐ ओङ्कारताण्डवायै नमः । ॐ ओङ्कारताण्डवाय नमः । ४ ॐ विष्णुहृद्ब्रह्मताण्डवायै नमः । ॐ विष्णुहृद्ब्रह्मताण्डवाय नमः । ५ ॐ ब्रह्मशीर्षोर्ध्वताण्डवायै नमः । ॐ ब्रह्मशीर्षोर्ध्वताण्डवाय नमः । ६ ॐ आनन्दताण्डवायै नमः । ॐ आनन्दताण्डवाय नमः । ७ ॐ चिन्महाव्योमताण्डवायै नमः । ॐ चिन्महाव्योमताण्डवाय नमः । ८ ॐ सत्त्वचिद्घनताण्डवायै नमः । ॐ सत्त्वचिद्घनताण्डवाय नमः । ९ ॐ गौरीताण्डवायै नमः । ॐ गौरीताण्डवाय नमः । १० ॐ सन्ध्याताण्डवायै नमः । ॐ सन्ध्याताण्डवाय नमः । ११ ॐ अजपाताण्डवायै नमः । ॐ अजपाताण्डवाय नमः । १२ ॐ कालीताण्डवायै नमः । ॐ कालीताण्डवाय नमः । १३ ॐ दहराकाशताण्डवायै नमः । ॐ दहराकाशताण्डवाय नमः । १४ ॐ त्रिपुरताण्डवायै नमः । ॐ त्रिपुरताण्डवाय नमः । १५ ॐ अनवरतताण्डवायै नमः । ॐ अनवरतताण्डवाय नमः । १६ ॐ हंसताण्डवायै नमः । ॐ हंसताण्डवाय नमः । १७ ॐ उन्मत्तताण्डवायै नमः । ॐ उन्मत्तताण्डवाय नमः । १८ ॐ पारावततरङ्गताण्डवायै नमः । ॐ पारावततरङ्गताण्डवाय नमः । १९ ॐ महाकुक्कुटताण्डवायै नमः । ॐ महाकुक्कुटताण्डवाय नमः । २० ॐ भृङ्गिताण्डवायै नमः । ॐ भृङ्गिताण्डवाय नमः । २१ ॐ कमलाताण्डवायै नमः । ॐ कमलाताण्डवाय नमः । २२ ॐ हंसपादताण्डवायै नमः। ॐ हंसपादताण्डवाय नमः । २३ ॐ सुन्दरताण्डवायै नमः । ॐ सुन्दरताण्डवाय नमः२४ ॐ सदाऽभयप्रदताण्डवायै नमः । ॐ सदाऽभयप्रदताण्डवाय नमः । २५ ॐ मूर्तिताण्डवायै नमः । ॐ मूर्तिताण्डवाय नमः । २६ ॐ कैवल्यताण्डवायै नमः। ॐ कैवल्यताण्डवाय नमः । २७ ॐ मोक्षताण्डवायै नमः । ॐ मोक्षताण्डवाय नमः । २८ ॐ हालास्यताण्डवायै नमः । ॐ हालास्यताण्डवाय नमः । २९ ॐ शाश्वतताण्डवायै नमः । ॐ शाश्वतताण्डवाय नमः । ३० ॐ रूपताण्डवायै नमः । ॐ रूपताण्डवाय नमः । ३१ ॐ निश्चलताण्डवायै नमः । ॐ निश्चलताण्डवाय नमः । ३२ ॐ ज्ञानताण्डवायै नमः । ॐ ज्ञानताण्डवाय नमः । ३३ ॐ निरामयताण्डवायै नमः । ॐ निरामयताण्डवाय नमः । ३४ ॐ जगन्मोहनताण्डवायै नमः । ॐ जगन्मोहनताण्डवाय नमः । ३५ ॐ हेलाकलितताण्डवायै नमः । ॐ हेलाकलितताण्डवाय नमः । ३६ ॐ वाचामगोचरताण्डवायै नमः । ॐ वाचामगोचरताण्डवाय नमः । ३७ ॐ अखण्डाकारताण्डवायै नमः । ॐ अखण्डाकारताण्डवाय नमः । ३८ ॐ षट्चक्रताण्डवायै नमः । ॐ षट्चक्रताण्डवाय नमः । ३९ ॐ सर्पताण्डवायै नमः । ॐ सर्पताण्डवाय नमः । ४० ॐ दक्षाध्वरध्वंसताण्डवायै नमः । ॐ दक्षाध्वरध्वंसताण्डवाय नमः । ४१ ॐ सप्तलोकैकताण्डवायै नमः । ॐ सप्तलोकैकताण्डवाय नमः । ४२ ॐ अपस्मारहरताण्डवायै नमः । ॐ अपस्मारहरताण्डवाय नमः । ४३ ॐ आद्यताण्डवायै नमः । ॐ आद्यताण्डवाय नमः । ४४ ॐ गजसंहारताण्डवायै नमः- ॐ गजसंहारताण्डवाय नमः । ४५ ॐ तिल्वारण्यताण्डवायै नमः । ॐ तिल्वारण्यताण्डवाय नमः । ४६ ॐ अष्टकाताण्डवायै नमः । ॐ अष्टकाताण्डवाय नमः । ४७ ॐ चित्सभामध्यताण्डवायै नमः । ॐ चित्सभामध्यताण्डवाय नमः । ४८ ॐ चिदम्बरताण्डवायै नमः। ॐ चिदम्बरताण्डवाय नमः । ४९ ॐ त्रैलोक्यसुन्दरताण्डवायै नमः । ॐ त्रैलोक्यसुन्दरताण्डवाय नमः । ५० ॐ भीमताण्डवायै नमः । ॐ भमिताण्डवाय नमः । ५१ ॐ पुण्डरीकाक्षदृष्टपादताण्डवायै नमः । ॐ पुण्डरीकाक्षदृष्टपादताण्डवाय नमः । ५२ ॐ व्याघ्रताण्डवायै नमः । ॐ व्याघ्रताण्डवाय नमः । ५३ ॐ कुञ्चितताण्डवायै नमः । ॐ कुञ्चितताण्डवाय नमः । ५४ ॐ अघोरताण्डवायै नमः । ॐ अघोरताण्डवाय नमः । ५५ ॐ विश्वरूपताण्डवायै नमः। ॐ विश्वरूपताण्डवाय नमः । ५६ ॐ महाप्रलयताण्डवायै नमः । ॐ महाप्रलयताण्डवाय नमः । ५७ ॐ हुङ्कारताण्डवायै नमः । ॐ हुङ्कारताण्डवाय नमः । ५८ ॐ विजयताण्डवायै नमः । ॐ विजयताण्डवाय नमः । ५९ ॐ भद्रताण्डवायै नमः । ॐ भद्रताण्डवाय नमः । ६० ॐ भैरवानन्दताण्डवायै नमः । ॐ भैरवानन्दताण्डवाय नमः । ६१ ॐ महाट्टहासताण्डवायै नमः । ॐ महाट्टहासताण्डवाय नमेः ६२ ॐ अहङ्कारताण्डवायै नमः । ॐ अहङ्कारताण्डवाय नमः । ६३ ॐ प्रचण्डताण्डवायै नमः । ॐ प्रचण्डताण्डवाय नमः । ६४ ॐ चण्डताण्डवायै नमः। ॐ चण्डताण्डवाय नमः । ६५ ॐ महोग्रताण्डवायै नमः । ॐ महोग्रताण्डवाय नमः । ६६ ॐ युगान्तताण्डवायै नमः । ॐ युगान्तताण्डवाय नमः । ६७ ॐ मन्वन्तरताण्डवायै नमः । ॐ मन्वन्तरताण्डवाय नमः । ६८ ॐ कल्पताण्डवायै नमः । ॐ कल्पताण्डवाय नमः । ६९ ॐ रत्नसंसत्ताण्डवायै नमः । ॐ रत्नसंसत्ताण्डवाय नमः । ७० ॐ चित्रसंसत्ताण्डवायै नमः । ॐ चित्रसंसत्ताण्डवाय नमः । ७१ ॐ ताम्रसंसत्ताण्डवायै नमः । ॐ ताम्रसंसत्ताण्डवाय नमः । ७२ ॐ रजतश्रीसभाताण्डवायै नमः । ॐ रजतश्रीसभाताण्डवाय नमः । ७३ ॐ स्वर्णसभाश्रीचक्रताण्डवायै नमः । ॐ स्वर्णसभाश्रीचक्रताण्डवाय नमः । ७४ ॐ कामगर्वहरताण्डवायै नमः । ॐ कामगर्वहरताण्डवाय नमः । ७५ ॐ नन्दिताण्डवायै नमः । ॐ नन्दिताण्डवाय नमः । ७६ ॐ महादोर्दण्डताण्डवायै नमः। ॐ महादोर्दण्डताण्डवाय नमः । ७७ ॐ परिभ्रमणताण्डवायै नमः । ॐ परिभ्रमणताण्डवाय नमः । ७८ ॐ उद्दण्डताण्डवायै नमः । ॐ उद्दण्डताण्डवाय नमः । ७९ ॐ भ्रमरायितताण्डवायै नमः । ॐ भ्रमरायितताण्डवाय नमः । ८० ॐ शक्तिताण्डवायै नमः । ॐ शक्तिताण्डवाय नमः । ८१ ॐ निशानिश्चलताण्डवायै नमः । ॐ निशानिश्चलताण्डवाय नमः । ८२ ॐ अपसव्यताण्डवायै नमः । ॐ अपसव्यताण्डवाय नमः । ८३ ॐ ऊर्जितताण्डवायै नमः । ॐ ऊर्जितताण्डवाय नमः । ८४ ॐ कराब्जधृतकालाग्निताण्डवायै नमः । ॐ कराब्जधृतकालाग्निताण्डवाय नमः । ८५ ॐ कृत्यपञ्चकताण्डवायै नमः । ॐ कृत्यपञ्चकताण्डवाय नमः । ८६ ॐ पतञ्जलिसुसन्दृष्टताण्डवायै नमः । ॐ पतञ्जलिसुसन्दृष्टताण्डवाय नमः । ८७ ॐ कङ्कालताण्डवायै नमः । ॐ कङ्कालताण्डवाय नमः । ८८ ॐ ऊर्ध्वताण्डवायै नमः । ॐ ऊर्ध्वताण्डवाय नमः । ८९ ॐ प्रदोषताण्डवायै नमः । ॐ प्रदोषताण्डवाय नमः । ९० ॐ मृत्युमथनताण्डवायै नमः । ॐ मृत्युमथनताण्डवाय नमः । ९१ ॐ वृषश‍ृङ्गाग्रताण्डवायै नमः । ॐ वृषश‍ृङ्गाग्रताण्डवाय नमः । ९२ ॐ बिन्दुमध्यताण्डवायै नमः । ॐ बिन्दुमध्यताण्डवाय नमः । ९३ ॐ कलारूपताण्डवायै नमः । ॐ कलारूपताण्डवाय नमः । ९४ ॐ विनोदताण्डवायै नमः । ॐ विनोदताण्डवाय नमः । ९५ ॐ प्रौढताण्डवायै नमः । ॐ प्रौढताण्डवाय नमः । ९६ ॐ भिक्षाटनताण्डवायै नमः । ॐ भिक्षाटनताण्डवाय नमः । ९७ ॐ विराड्रूपताण्डवायै नमः । ॐ विराड्रूपताण्डवाय नमः । ९८ ॐ भुजङ्गत्रासताण्डवायै नमः । ॐ भुजङ्गत्रासताण्डवाय नमः । ९९ ॐ तत्त्वताण्डवायै नमः । ॐ तत्त्वताण्डवाय नमः । १०० ॐ मुनिताण्डवायै नमः । ॐ मुनिताण्डवाय नमः । १०१ ॐ कल्याणताण्डवायै नमः । ॐ कल्याणताण्डवाय नमः । १०२ ॐ मनोज्ञताण्डवायै नमः । ॐ मनोज्ञताण्डवाय नमः । १०३ ॐ आर्भटीताण्डवायै नमः । ॐ आर्भटीताण्डवाय नमः । १०४ ॐ भुजङ्गललितताण्डवायै नमः । ॐ भुजङ्गललितताण्डवाय नमः । १०५ ॐ कालकूटभक्षणताण्डवायै नमः । ॐ कालकूटभक्षणताण्डवाय नमः । १०६ ॐ पञ्चाक्षरमहामन्त्रताण्डवायै नमः । ॐ पञ्चाक्षरमहामन्त्रताण्डवायै नमः । १०७ ॐ परमानन्दताण्डवायै नमः । ॐ परमानन्दताण्डवाय नमः । १०८ ॐ भवस्य देवस्य पत्न्यै नमः । ॐ भवाय देवाय नमः । १०९ ॐ शर्वस्य देवस्य पत्न्यै नमः । ॐ शर्वाय देवाय नमः । ११० ॐ पशुपतेर्देवस्य पत्न्यै नमः । ॐ पशुपतये देवाय नमः । १११ ॐ रुद्रस्य देवस्य पत्न्यै नमः । ॐ रुद्राय देवाय नमः । ११२ ॐ उग्रस्य देवस्य पत्न्यै नमः । ॐ उग्राय देवाय नमः । ११३ ॐ भीमस्य देवस्य पत्न्यै नमः । ॐ भीमाय देवाय नमः । ११४ ॐ महतो देवस्य पत्न्यै नमः । ॐ महते देवाय नमः । ११५ ॥ इति श्रीताण्डवेश्वरीताण्डवेश्वरसम्मेलनाष्टोत्तरशतनामावलिः समाप्ता ॥ ॥ इति शिवम् ॥ इत्येवं कथितं विप्राः ताण्डवाष्टोत्तरं शतम् । पदान्ते ताण्डवं योज्यं स्त्रीपुल्लिङ्गक्रमेणतु ॥ सुगन्धैः कुसुमैर्बिल्वपत्रैर्द्रोणार्कचम्पकैः । सम्पूज्य श्रीशिवं देवीं नित्यं कालत्रयेष्वपि ॥ एककालं द्विकालं वा त्रिपक्षं वा सर्वपापनिवारकम् । सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते । ॥ इति उत्तरपीठिका ॥ ॥ इति श्रीचिदम्बररहस्ये महेतिहासे प्रथमांशे श्रीताण्डवेश्वरीताण्डवेश्वरसम्मेलनाष्टोत्तरशतनाम स्तोत्रन्नाम चतुर्विंशोऽध्यायः ॥ ॥ ॐ नटराजायविद्महे ताण्डवेश्वराय धीमहि तन्नो चिदम्बरः प्रचोदयात् ॥ Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, DPD, PSA Easwaran
% Text title            : tANDaveshvarItANDaveshvarAShTottarashatanAmAvalI
% File name             : tANDaveshvarItAnDaveshvara108.itx
% itxtitle              : tANDaveshvarItANDaveshvarAShTottarashatanAmAvaliH (chidambararahasyAntargatam)
% engtitle              : 108 Names of tANDaveshvarI and tANDaveshvara
% Category              : aShTottarashatanAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, DPD, PSA Easwaran
% Source                : Chidambararahasya
% Latest update         : February 11, 2017, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org