श्रीषण्मुखध्यानम्

श्रीषण्मुखध्यानम्

ॐ श्रीगणेशाय नमः । षडाननं त्रिषण्णेत्रं विद्रुमाभं द्विपादकम् । खड्गाभयगदाशक्तिखेटं दक्षिणबाहुभिः ॥ १॥ वरपद्मधनुःशूलवज्रान् वामेन धारिणम् । वज्रप्रवाळवैडूर्यप्रत्युप्तमकुटान्वितम् ॥ २॥ पीताम्बरविभूषाढ्यं दिव्यगन्धानुलेपनम् । रत्नाद्याभरणैर्युक्तं प्रसन्नवदनान्वितम् ॥ ३॥ मयूरेशसमासीनं सर्वाभरणभूषितम् । गुहं षोडशवेतानं षण्मुखं च विभावयेत् ॥ ४॥ पूर्वमुखध्यानं वचद्भुवं शशाङ्काभं एकवक्त्रं त्रिलोचनम् । चतुर्भुजसमायुक्तं वराभयसमन्वितम् ॥ स्वये चान्ये दण्डयुतं ऊरूहस्तं च वामके । रुद्राक्षमालाभरणं भस्मपुण्ड्राङ्गितं क्रमात् ॥ पुरश्चूडासमायुक्तं मौञ्जीकौपीनधारिणम् । अक्षमालासमायुक्तं पादुकाद्वयभूषितम् ॥ काषायवस्त्रसंयुक्तं वचद्भुवं विभावयेत् ॥ दक्षिणमुखध्यानम् । जगद्भूतं भृङ्गवर्णं एकवक्त्रं वराभयम् । शक्तिशूलसमायुक्तं करण्डमकुटान्वितम् ॥ मयुरेशसमासीनं भावये च विशेषतः ॥ नैरृतिमुखध्यानम् विश्वभुवं च रक्ताभं एकवक्त्रं त्रिलोचनम् । वराभयकरोपेतं खड्गकेटकसम्युतम् ॥ मयूरवाहनारूढं भावयेत्सततं मुदा ॥ पश्चिममुखध्यानम् । शुक्लवर्णं ब्रह्मभुवं एकवक्त्रं त्रिलोचनम् । वराभयसमायुक्तं घण्डानादसमन्वितम् ॥ मयूरेशसमासीनं भावये च विशेषतः ॥ उत्तरमुखध्यानम् । हेमवर्णञ्चाग्निभुवं त्रिनेत्रं चैकवक्त्रकम् । वराभयसमायुक्तं गदाध्वजसमन्वितम् ॥ मयूरवाहनारूढं भावयेद्वह्निसम्भवम् ॥ ईशानमुखध्यानम् । बृहद्भुवं च स्फटिकवर्णाभं चैकवक्त्रकम् । वराभयसमायुक्तं त्रिनेत्रं यज्ञसूत्रकम् ॥ मयूरेशसमासीनं बृहद्भुवं विभावयेत् ॥ ॐ नमो भगवते सुब्रह्मण्याय । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran psaeaswaran at gmail.com
% Text title            : ShaNmukhadhyAnam
% File name             : ShaNmukhadhyAnam.itx
% itxtitle              : ShaNmukhadhyAnam
% engtitle              : ShaNmukhadhyAnam
% Category              : subrahmanya, dhyAnam
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Description-comments  : To be used for ShaNmukhasahasranAmAvalI
% Latest update         : January 7, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org