श्रीदण्डायुधपाणिस्वामी सुप्रभातम्
उत्तिष्ठोत्तिष्ठ गाङ्गेय उत्तिष्ठ शिखिवाहन ।
उत्तिष्ठ करुणासिन्धो त्रैलोक्यं मङ्गलं कुरु ॥ १॥
श्रीपार्वतीवदनपद्मदिवाकर श्रीशम्भोर्ललाटनयनोद्भव रक्तवर्ण ।
श्रीहंसवाहन जनार्दनवन्दनीय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ २॥
श्रीपञ्चवक्त्रपरमेश्वरवामभागाऽलङ्कारयोषिदवलम्बनपूर्णरूप ।
गङ्गासुतप्रिय वरप्रद दानशील श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ३॥
बालार्कभास पवनासन बाहुलेय धातुस्स्वदर्पहर तारकदैत्यहारिन् ।
ॐकारसारपरमेश्वरबोधनीय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ४॥
ज्ञानार्णवाभिध शिवोद्भवपूर्णचन्द्र ज्ञानप्रभाभिरभिभासितलोकमूर्ते ।
श्रीचूतमुक्तफलमाप्तुमितस्थितोऽसि श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ५॥
बालेन्दुमौलिपरमेश्वरपूजकस्य पद्मासुरस्य मलपाशविमोचनाय ।
कल्याणदानकरुणार्णवपूर्णरूप श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ६॥
लक्ष्मीनिवासनयनोद्भवकन्यकाभ्यां वल्ली महेन्द्रतनयापरिशोभनाङ्ग ।
श्रीमच्छिवे गिरिवरेऽपि विराजमान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ७॥
कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते मन्दारमुख्यबहुपुष्पसुपूजिताङ्घ्रे ।
मन्दस्मितेन परिपूर्णकृपाप्रदान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ८॥
सिन्दूरवर्ण शिवभस्मविलेपिताङ्ग दिव्यैर्विचित्रनवरत्नसुवर्षिताङ्घ्रे । सुभूषिताङ्घ्रे
कौपीनदण्टधरहस्तविराजमान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ९॥
पादारविन्दपतितं निजभक्तमस्मिन् लोकत्रयेऽपि परिपूजितपीठवेशिन् ।
धर्मार्थकामपुरुषार्थफलप्रदान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १०॥
ॐकाररूप परिदिव्यविलासमूर्ते चन्द्रार्धरोधिपरिनादतदन्तरूप ।
शक्तेर्वियापिनि परे समनोन्मनान्त श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ११॥
प्रातर्निदर्शसमये निजबालरूप मध्याह्न विप्रजनवेषसुरूपधारिन् ।
सायह्न राजधृतवेष सुयोगि रात्रौ श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १२॥
कालत्रयेऽपि तनुतां करुणाभिवृष्ट लोकत्रयेऽपि विनुत त्रिदशैश्च नित्यम् ।
तत्त्वत्रयोपरिनिविष्टविभूतिदेय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १३॥
भक्ताग्रभूतमरुणाचलनामधेयं मुक्ताद्यनेकविविधस्तुवितं दयालो ।
बद्घात्मसौख्यवरदत्त महाप्रभो मे श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १४॥
विश्वार्तिभञ्जन विशालसुलोचन श्रीकोणं कुरुष्व कृपया पतिताय मह्यम् ।
लोकोद्धराय परमाद्भुतभूरिमूर्ते श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ९५॥
विना दण्डपाणिं न नाथो न नाथस्सदा दण्डपाणिं स्मरामि स्मरामि ।
प्रभो दण्डपाणे प्रसीद प्रसीद प्रियं दण्डपाणे प्रयच्छ प्रयच्छ ॥ १६॥
अहं त्वा दिनादौ नमस्कृत्य नित्यं तवैवाश्रितस्सर्वकार्यं करोमि ।
त्वमेवासि मामुद्धराय प्रवृत्तस्त्वमेवासि सर्वं सुकर्तुं च भोक्तुम् ॥ १७॥
गिरौ सन्निविष्टस्सुरेशानपुत्रस्सदा दण्डहस्तश्चिदानन्दगात्र ।
मुदा राजवेषः परानन्दहासस्स नः पातु देवो गुहो बालरूपः ॥ १८॥
शुभं रक्तवर्णं शिवं शम्भुसूनुं कराम्भोजयुग्मान्वितं पङ्कजस्थम् ।
शिवानन्दसन्दोहबद्धं प्रपद्ये भवाम्बोधिपारं गुहं षण्मुखाख्यम् ॥ १९॥
हरिब्रह्मदेवेन्द्रवन्द्यं सुरेशं निधिवृन्दसंसेवितस्यात्मजापम् ।
गुरुं ग्रामपालप्रियं तारकारिं भजे भुक्तिमुक्तिप्रदं भीतिनाशम् ॥ २०॥
गिरिजाकरपल्लव सल्ललितं गिरिजोद्भवमूलसुविग्रहगम् ।
गुरुमूर्तिमनन्तवरं ददतं करुणाजलधिं भज दण्डधरम् ॥ २१॥
शिवभोगसमुद्भवकीर्तिधरं शुभयोगवरप्रदमूर्तिवरम् ।
परिपालितधर्मकुलं वरदं करुणाजलधिं भज दण्डधरम् ॥ २२॥
प्रणवान्तरनादकलादिवरं प्रणतार्तिहरं प्रणतां विहितम् ।
फलदं बलदं वरसन्निहितं करुणाजलधिं भज दण्डधरम् ॥ २३॥
विधिवद्विनुतैर्विधिवद्विनुतं विविधा विनुतैर्विविधा विनुतम् ।
परितुल्यफलप्रदतं करुणाजलधिं भज दण्डधरम् ॥ २४॥
स्तवराजशिवार्चितपादयुगं स्तुतिराजसुकीर्तनवाक्यगतम् ।
निजबालकुटुम्बसुपालवरं करुणाजलधिं भज दण्डधरम् ॥ २५॥
कल्पवृक्षाय नमतां करुणासगराय च ।
कौपीनदण्डहस्ताय कन्दर्पायुतभासिने ॥ २६॥
ईतिभीतिनिवाराय चान्धकारनिरोधिने ।
ज्ञानप्रदाय शान्ताय श्रीस्कन्दगुरवे नमः ॥ २७॥
स्वामिने कामिनां कामपूरणाय कलौ युगे ।
वरदामलकारण्यवासमानाय मङ्गलम् ॥ २८॥
परिपूर्णतनुस्थाय कदम्बवनवासिने ।
पळणीगिरिवासाय भासमानाय मङ्गलम् ॥ २९॥
भाग्यप्रदाय ते बालसुब्रह्मण्यनुताय च ।
भूरिभोगप्रदानाय भोगपूज्याय मङ्गलम् ॥ ३०॥
वरदानकराब्जाय वासिने शिवपर्वते ।
भयपीडितभक्तैश्च वन्दितायास्तु मङ्गलम् ॥ ३१॥
सर्वमङ्गलरूपाय सर्वमङ्गलकारिणे ।
ज्ञानमङ्गलरूपाय ज्ञानस्कन्दाय मङ्गलम् ॥ ३२॥
Composition of Sri KS Balasubrahmanya Sivachariyar from Pazhani, TN on
Lord Subrahmanya
Encoded by Shree Devi Kumar.
Proofread by Shree Devi Kumar, PSA Easwaran