श्रीकुमारस्तवः
श्रीगणेशाय नमः ।
अव्यादपारकरुणं तरुणारुणाभ-
मव्याजसुन्दरमनन्तगुणाभिरामम् ।
अम्भोजशक्त्यभयकुक्कुटशोभिहस्त-
मम्बातपःफलमपत्यमिहैश्वरं नः ॥ १॥
आचार्यमागमरहस्यमहामनूना-
माचान्तवारिनिधिदेशिकमाम्बिकेयम् ।
आखण्डलाद्यमरवन्दितमात्मरूप-
मालम्बते मम मनः शरणं कुमारम् ॥ २॥
इन्दीवरायतविलोचनमिन्द्रसेना-
नेतारमिन्दुमुखमिन्दुकलावतंसम् ।
इन्द्रानुजार्चितमहर्निशमिन्दिराया
जामातरं हृदयमिङ्गतु मे कुमारम् ॥ ३॥
ईशानधर्मसुतमीश्वरमीश्वराणा-
मीशित्वमुख्यफलदं गतिमीयुषः स्वम् ।
ईहानुजातजगदण्डकमीक्षितार-
मीडेऽहमीप्सितसुपर्वतरुं कुमारम् ॥ ४॥
उद्यन्निशारमणवक्त्रमुपेन्द्रकन्या-
मुद्वोढुमादृतमनोज्ञपुलिन्दवेषम्
उन्मूलनार्थमुररीकृतादिव्यरूप-
मुद्वृत्तदैत्यविततेरुपयामि देवम् ॥ ५॥
ऊरीकृतस्वचरणैकपरायणं तं
दूरीकृतात्मविमुखात्मजनं भजामः ।
ऊहस्वरूपमुपगीतमकृत्रिमाणां
मूर्धस्थितैरपि गिरां वचनैः कुमारम् ॥ ६॥
ऋक्सामवर्णितपदं यजुपानुगीत-
मृष्यादियुक्तनिजमन्त्रजपैकतानान् ।
ऋद्धास्पदं गमयितारमृतस्वरूप-
मृच्छाम्यहं शरणमात्मजमिन्दुमौलेः ॥ ७॥
एकान्तभक्तिसुलभं जगदेकनाथ-
मेकातपत्रविभवप्रदमाश्रितानाम् ।
एकाग्रगम्यपदमेकरदानुजात-
मेधामहे शरवणोद्भवमेयिवांसः ॥ ८॥
ऐश्वर्यसिद्धिमथवा सुखमैहिकं वा-
प्यैकाधिपत्यमवनेरपि वामरत्वम् ।
ऐतुं यदीच्छसि मनः शरणं भजेथा
ऐशानमङ्गजमुमागुरुभागधेयम् ॥ ९॥
ओङ्कारमन्त्रपदवाच्यमजं वदन्त-
मोजोमदादपरथा प्रविवेश्य काराम्
लोकान् ससर्ज निखिलान्निजयैव शक्त्या
यो योगिनं तमजरं गुहमाश्रयामः ॥ १०॥
औदार्यवारिनिधिमास्पदमौचितीना-
मौद्धत्यवद्दितिसुतौघभिदापटिष्ठम् ।
औन्नत्यमाशु ददतं सकृदानताना-
मौपम्यहीनचरितं गुहमानमामः ॥ ११॥
कल्याणभूमिधरकार्मुकपुण्यपाकः
कन्दर्पकोटिकमनीयकलेवरश्रीः ।
कल्पद्रुकल्पकरकल्पितशक्तिशाली
कामान् ममाशु सफलीकुरुतां कुमारः ॥ १२॥
खेदं परित्यज मनः खलसेवनोत्थं
खेलाशु खण्डपरशोः सुकृते कुमारे ।
खेलाविधूतखलदानवयूथपोऽयं
खेदं न जातु सहते स्वपदाश्रितानाम् ॥ १३॥
गाङ्गेयकुङ्कुमजपारुणचारुगात्रं
गङ्गाधराननसरोजसरोजबन्धुम् ।
गाङ्गेयमाश्रय मनो बहुचिन्तयालं
गङ्गातरङ्गवदयं श्रिततापहारी ॥ १४॥
घोरालिकार्पितलिपिर्विधिनेति चेतो
घूर्णस्यजस्रमयि किं गुहमाश्रयेथाः ।
घूकं दिनेश इव कोटरमेष देवः
कारागृहान्तमनयत्खलु तं विरिञ्चम् ॥ १५॥
ङित्प्रत्यये सति परे गुणवृद्ध्यभावः
स्यात्सार्वधातुकपिता यदि न व्यवायः ।
जन्तोः कथं बलवती विधिदुर्लिपिः स्यात्
सर्वातिगो यदि गुहो हृदयं प्रविष्टः ॥ १६॥
चक्रायुधप्रियसुतामुखचञ्चरीक-
श्चन्द्रावतंसिचरणायुधचारुहस्तः ।
चेतो भवानिकुचकोरकपूर्णचन्द्र-
श्चित्ते चकास्तु धृतचन्द्रकभृत्कुमारः ॥ १७॥
छिन्नाखिलाघशमले स्वपदाश्रितानां
छायातरौ भवमहोष्मविशोषितानाम् ।
छन्दानुरूपफलदे सुरसैन्यनाथे
छन्दोमये मम मनो रमतां नितान्तम् ॥ १८॥
जानामि धर्ममयि तत्र न तु प्रवर्ते
जानाम्यधर्ममपि नैव ततो निवर्ते ।
जानासि सर्वहृदयं जगदन्तरात्मन्
जातं ममापचरितं सकलं क्षमेथाः ॥ १९॥
ज्ञाताखिलागमरहस्यतमार्थमेतं
ज्ञात्वा समाश्रय गुहं शरणं शरण्यम् ।
ज्ञानं ददीत तदयं हृदयाशु तुभ्य-
मेवंविधो न भविता तव येन मोहः ॥ २०॥
झञ्झासमीरणमघौघघनच्छटानां
सिद्धौषधं भवभयामयविह्वलानाम् ।
चिन्तामणिं प्रणमतां करुणाम्बुराशिं
गौरीसुतं गुहमहं शरणं प्रपद्ये ॥ २१॥
टङ्कायमाननिजकोपमशेषलोक-
बाधाकरासुरमहोपलजालकानाम् ।
क्रौञ्चाद्रिभेदपरिगुप्तसमस्तलोक-
मञ्चामि किञ्चन हृदा शिवभागधेयम् ॥ २२॥
ठूत्कारमाशु परिपातय तं कठोरं
मद्वैरिकण्ठकुहरेषु गुहाविषह्यम् ।
यः प्रागुदस्थितभवद्भुजशक्तिविद्ध-
क्रौञ्चाद्रिभेदसमये दितिजाद्रिवज्रः ॥ २३॥
डम्भापहारिचरितं दनुजेश्वराणां
जम्भारिराज्यदमडम्भजनानुकूलम् ।
सम्भावयामि शरकाननसम्भवं तं
पक्वं फलं हृदि पुरारिपुराकृतानाम् ॥ २४॥
ढङ्के समस्तहृदयाब्जगुहाशयं तं
पश्यामि पातकमहागजपञ्चवक्त्रम् ।
पञ्चायुधारिमृदुलाङ्ककृताधिवासं
क्रौञ्चारिमद्य शरणं मनसा शरण्यम् ॥ २५॥
णान्तं वनं भवति मानसचत्वरं चेत्-
तस्मिन् सरस्तदुदरे कमलं तदन्तः ।
किंञ्चिन्महास्त्रनवषड्युगवक्त्रदृग्दो-
स्तद्भेषजं भवरुजो भज गुह्यमेतत् ॥ २६॥
तत्कालतप्ततपनीयमयं किरीटं
ताराधिपार्धमणिमौक्तिकशोभितान्तम्
तारावलीशशिपरीवृतमेरुशङ्कां
तन्वत्तनोतु कुशलं मम तारकारेः ॥ २७॥
स्थेयः शिवं दिशतु मे स्थिरधन्वसूनोः
कोटीरनद्धनवरत्नमरीचिविद्धम् ।
इन्द्रायुधोपमितमिन्दुकलावदातं
लोलम्बलोलदलकोल्लसितं ललाटम् ॥ २८॥
दैन्यं ममापहरतां दहनोद्भवस्य
कारुण्यवेल्लननियन्त्रितसर्वलोकम् ।
दिव्यं भ्रुवोर्युगलमीषदरालिरम्यं
दूरास्तदर्पकशरासनदर्पभारम् ॥ २९॥
धून्वन्तु मे दुरितमाशु दिशन्तु सौख्यं
धीरस्य धूर्जटिसुतस्य कटाक्षमालाः ।
धूतारविन्दरुचयः करुणामरन्द-
धारातिमात्रशिशिराः कमलानिवासाः ॥ ३०॥
नासापुटं नलिननाभसहोदरस्य
नासीरनेतुरनिशं कुशलानि कुर्यात् ।
निम्नोन्नतं नवतिलप्रसवाभिरामं
नीचैस्तरीकृतसुचम्पककोरकाभम् ॥ ३१॥
पातां परस्परसमौ गुरुपद्मराग-
पाषाणदर्पणसमानरुची कपोलौ
पर्यन्तलम्बिमणिकुण्डलमण्डितान्तौ
पाटीरशैलपवमानसखारिसूनोः ॥ ३२॥
फुल्लारविन्दसदृशं फलतु श्रियं मे
फालान्तलोचनभवस्य मुखं प्रसन्नम् ।
स्फारस्फुरद्दशनमौक्तिकमन्दहासं
श्मश्रुप्ररोहमधरोष्ठपुटप्रवालम् ॥ ३३॥
बर्हीन्द्रकेतनरतस्य मुखाब्जनालो
बुद्धिप्रदोऽस्तु शुभदो मम कम्बुकण्ठः ।
बन्धूकवर्णरुचिभिन्नरुचिप्रवाल-
बन्धू भवद्विशदमौक्तिकहारहारी ॥ ३४॥
भद्राङ्कभद्रतनयस्य भुजा भवेयु-
र्भद्राय मे भुवनरक्षणजागरूकाः ।
भास्वत्सुवर्णवलयाङ्गदकाङ्गुलीया
भक्ताखिलेष्टफलदानसुरद्रुशाखाः ॥ ३५॥
मन्दारमाल्यमकरन्दमिलद्विरेफ-
मालामनोहरमुरो हरनन्दनस्य ।
माङ्गल्यमावहतु माधवकन्यकाया
माणिक्यहारिकुचकुङ्कुमपङ्कशोणम् ॥ ३६॥
यज्ञेश्वरस्य यजमानतनोर्गुहस्य
योगेश्वरस्य जठरं जगतां निधानम् ।
युक्तेन योजयतु मां त्रिवलीविरूढ-
रोमावलीलसितवृत्तगभीरनाभम् ॥ ३७॥
रत्नानुविद्धरमणीयसुवर्णकाञ्ची-
रेखापिनद्धकनकान्तदुकूलकान्तम् ।
रामावलीहृदयसंवननं सदा मां
रक्षेत्पुलिन्दरमणीरमणस्य मध्यम् ॥ ३८॥
लक्ष्मीविलासभवनं कदलीकमेत-
ल्लीलानुकारि ललितान्तरमूरुयुग्मम् ।
लावण्यशालि लघयेन्मम दैन्यभारं
लोकोत्तरस्य ललिताकुलनन्दनस्य ॥ ३९॥
वाचामगोचरमनोहरवामरूपं
वामार्धजानिजनुषः किल जानुयुग्मम् ।
वन्दे वरेण्यमणिदर्पणमञ्जुवृत्तं
वन्दारुवाञ्छितवरप्रददिव्यरत्नम् ॥ ४०॥
शम्भोः सुतस्य शतपत्रशरासतूणी-
शङ्कावहे शबरराजसुताभिकस्य ।
शश्वत्कराब्जमृदिते शतमन्युपुत्र्या
शृङ्गारिते शमयतां शमलं सुजङ्घे ॥ ४१॥
षड्युग्मषड्भुजमुखस्य पदारविन्दे
षड्वैरिवर्गशमने मम जीव एषः ।
षड्भिः समेत्य करणैः सह षट्पदत्वं
षट्पङ्कजोपरि गतो रमतां सुखेन ॥ ४२॥
स्कान्दं सदा स्फुरतु मे मनसि स्वरूपं
सर्वाङ्गसुन्दरतरं सरसं समग्रम् ।
सच्चिन्मयं सकलसत्त्वहिते निविष्टं
साक्षात्सदाकृतसदाशिवभागधेयम् ॥ ४३॥
हेरम्बसोदर हिरण्मयकुण्डलाय
हेमाङ्गदाय हिमशैलसुतासुताय ।
हेतोः समस्तजगतां हितचेष्टिताय
हे शूरपद्मकुलकाल नमो नमस्ते ॥ ४४॥
क्षोणीधरक्षितिपभूरमणान्ववाय-
क्षीरार्णवोदरभवक्षणदाकरेण ।
क्षन्तव्यमेव भवता गुह साहसं मे
क्षुद्रस्य तावकगुणस्तवनाय जातम् ॥ ४५॥
इति श्रीकुमारस्तवं समाप्तम् ।
॥ ॐ श्रीसुब्रह्मण्याय नमः ॥
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran