श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम्

श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम्

श्रीवैद्येश्वरमन्दिरस्थित (कुम्भघोणनगरस्य निकटवर्ति (तमिळ् नाडु) वैत्तीश्वरन् कोविल्) मुत्तुक्कुमारन् सुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम् Sahasranama is on Lord Subrahmanya at Vaitheeswaran Koil. ॥ध्यानम् ॥ षड्वक्त्रं शिखिवाहनं त्रिनयनं वल्लीशसेनापतिं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं शिवं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ गाङ्गेयं वह्निबीजं शरवणजनितं ज्ञानशक्तिं कुमारं ब्रह्माणं स्कन्ददेवं गुहमचलभिदं रौद्रतेजःस्वरूपम् । सेनान्यं तारकघ्नं गजमुखसहितं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजसहितमजं देवदेवं नमामि ॥ ॥ॐ श्रीगणेशाय नमः ॥ अथ श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम् । अनन्तश्चामलोऽनादिरमरोऽनन्तसद्गुणः । अच्युतश्चानघोऽनन्तस्वरूपो निष्कलद्युतिः ॥ १॥ अनन्तफलदोऽखण्डरूपोऽनन्तोदरोऽतुलः । आनुकूल्योऽनन्तसौख्यः सुन्दरश्चामराधिपः ॥ २॥ १० षण्मातृनन्दनः स्वर्णभूषणः षण्मुखोऽमृतः । हरसूनुः पिता चाष्टादशार्णश्चादिदेशिकः ॥ ३॥ अगजाकुचपीयूषभोक्ताऽऽखण्डलार्तहृत् । अनेकासुरसंहारी तारकब्रह्मदेशिकः ॥ ४॥ सच्चिदानन्दरूपी च विधीन्द्रसुरवन्दितः । कुमारः शङ्करसुतः हारकेयूरभूषितः ॥ ५॥ षट्किरीटधरो ब्रह्मा आधारश्च परात्परः । आदित्यसोमभौमादिग्रहदोषविभञ्जनः ॥ ६॥ श्रीमान् शिवगिरीशश्च भक्तसंस्तुतवैभवः । अगस्त्यमुनिसम्बोद्धा अमरार्तिप्रभञ्जनः ॥ ७॥ मुकुन्दभागिनेयश्च द्विषण्णेत्रो द्विषड्भुजः । चन्द्रार्ककोटिसदृशः शचीमाङ्गल्यरक्षकः ॥ ८॥ हिमाचलसुतासूनुः सर्वजीवसुखप्रदः । आत्मज्योतिश्शक्तिपाणिर्भक्तसंरक्षणोद्यतः ॥ ९॥ चातुर्वर्ण्येष्टफलदः वल्लीशो दुःखनाशकः । सर्वमोक्षप्रदः पुण्यदृश्यो भक्तदयानिधिः ॥ १०॥ कोटिकन्दर्पलावण्य इच्छाज्ञानक्रियान्वितः । हरिब्रह्मेन्द्रमौल्यग्रछन्नपादाम्बुजद्वयः ॥ ११॥ वल्लीभाषणसुप्रीतो दिव्याङ्गवनमालिकः । इष्टार्थदायको बालः बालचन्द्रकलाधरः ॥ १२॥ शिष्टहृत्पद्मनिलयो दुष्टचोरकुलान्तकः । कोटिकोटिमहासिद्धमुनिवन्दितपादुकः ॥ १३॥ ७० ईशश्चेशाधिपश्चेशदेशिकश्चेश्वरात्मजः । ईशानादिमध्यान्तब्रह्मप्रणवषण्मुखः ॥ १४॥ ईशाग्रो लयभीतिघ्नः विघ्नराजसहोदरः । इन्द्रवारुणकौबेरविरिञ्च्यादिसुखप्रदः ॥ १५॥ ईशकैलासनिलय ईशसंस्तुतवैभवः । कल्पवृक्षादिकौदार्यस्सर्ववेदाग्रवासभूः ॥ १६॥ सर्वसिद्धिप्रदः सर्वसुखदः कीर्तिमान् विभुः । इन्दिरारमणप्रीतः मृत्युभीत्यादिनाशकः ॥ १७॥ सर्वशत्रुकुलारण्यज्वालाकुलदवानलः । अणिमाद्यष्टसिद्धीशो विधिविष्ण्वीश्वराधिपः ॥ १८॥ षडाधाराम्बुजगतसर्वदेवस्वरूपकः । श्रीनीपकुसुमप्रीत ईतिबाधाविनाशकः ॥ १९॥ सर्वपुण्यस्वरूपी च दातॄणां फलदायकः । देवेन्द्रकल्पको गौरीसुतो हृत्कमलालयः ॥ २०॥ तारकप्राणहरण उग्रशक्त्यायुधाधिपः । सर्वात्मनायकः कुम्भसम्भूतप्रियबोधकः ॥ २१॥ १०० चन्द्रकोटिप्रभोल्लासी हुम्फट्कारोत्सुकस्तथा । देवेश्वरो नागभूष उद्यद्भास्करकुण्डलः ॥ २२॥ उद्दण्डधीरो गम्भीरः कृपासागरलोचनः । एककालोदितानेककोटिबालरविप्रभः ॥ २३॥ जयन्तादिसुरानेककारागृहविमोचकः । रुद्राधिप उग्रबालो रक्ताम्बुजपदद्वयः ॥ २४॥ विरिञ्चिकेशवेन्द्रादिसर्वदेवाभयप्रदः । वल्लीन्द्रतनयादक्षवामालङ्कृतसुन्दरः ॥ २५॥ नतकुम्भोद्भवानेकभक्तसङ्घप्रियङ्करः । सत्याचलस्थितः शम्भुविज्ञानसुखबोधकः ॥ २६॥ गौरीशङ्करमध्यस्थो देवसङ्घामृतप्रदः । उमामहेशनयनपद्माकररविप्रभः ॥ २७॥ var दिवाकरः रणरङ्गरमाप्रोक्तजयश्रवणकौतुकः । अहङ्कृतमनोदूरो दैत्यतूलधनञ्जयख् ॥ २८॥ भक्तचित्तामृताम्बोधिः मौनानन्तसुखप्रदः । अनेकक्षेत्रनिलयो वाचिकामृतदायकः ॥ २९॥ पराद्रिस्थोऽर्णवक्षेत्रनिलयो देवपूजितः । अनेकशैलनिलयो फलभूधरनायकः ॥ ३०॥ शिवाचलनिवासी च शिवक्षेत्राधिनायकः । मानसीकपुराधीशः श्रीशैलालयसंस्थितः ॥ ३१॥ मूलाधाराम्बुजगतो स्वाधिष्ठाननिकेतनः । मणीपूरकपद्मस्थ अनाहतसुमस्थितः ॥ ३२॥ विशुद्धिकमलारूढ आज्ञाचक्रान्तरस्थितः । परमाकाशरूपी च नादब्रह्ममयाकृतिः ॥ ३३॥ महाशक्तिर्महोनाथः सर्वलोकात्मविग्रहः । महावल्लीप्रियस्सर्वरूपी सर्वान्तरस्थितः ॥ ३४॥ शिवार्थः सर्वसञ्जीवी समस्तभुवनेश्वरः । सर्वसंरक्षकस्सर्वसंहारकरताण्डवः ॥ ३५॥ चतुर्मुखशिरोदेशमुष्टिताडनविक्रमः । ब्रह्मोपदेष्टा ब्रह्मादिसुरलोकसुखप्रदः ॥ ३६॥ यज्ञदिव्यहविर्भोक्ता वरदस्सर्वपालकः । दीनसंरक्षकोऽव्याजकरुणापूरवारिधिः ॥ ३७॥ सर्वलक्षणसम्पन्नस्सच्चिदानन्दविग्रहः । ब्रह्मानन्दाब्धिशीतांशुः करुणापूर्णलोचनः ॥ ३८॥ एकाक्षरमयश्चैव एकाक्षरपरार्थदः । एकाक्षरपरञ्ज्योतिरेकान्तमतिबोधकः ॥ ३९॥ एकार्थदायकश्चैकपरश्चैकाम्रनायकः । एकान्तमौनफलदो वल्लीमोहनतत्परः ॥ ४०॥ १८० सप्तर्षिवन्दितपदो ब्रह्मातीतो मुनिस्तुतः । वल्लीदर्शनसन्तुष्टो भक्ताभीष्टवरप्रदः ॥ ४१॥ उमाशङ्करमध्यस्थो महावृषभसंस्थितः । सम्पूर्णस्सर्वलोकात्मा नीपमाल्यविभूषितः ॥ ४२॥ १९० कल्मषघ्नो गिरिशयः पापघ्नो दीनरक्षकः । सर्वाभरणभूषाङ्को वज्रशक्त्यादिधारकः ॥ ४३॥ पञ्चाक्षरस्थः पञ्चास्यः कण्ठीरवमुखान्तकः । पञ्चभूतात्मभृत्पञ्चभूतेशः शचिवन्दितः ॥ ४४॥ पञ्चवर्णः पञ्चबाणकरः पञ्चतरुप्रभुः । ऐङ्काररूपः क्लीङ्कारः सौःकारकरुणानिधिः ॥ ४५॥ अकारादिक्षकारान्तमयश्चैरावतार्चितः । ऐरावतगजारूढस्सर्वभक्तप्रियङ्करः ॥ ४६॥ ऐरावतात्मजावल्लीनायिकाप्राणवल्लभः । चतुष्षष्टिकलानाथो द्वात्रिंशल्लक्षणोज्ज्वलः ॥ ४७॥ मदनातीतसौन्दर्यः पाषण्डजनदूरगः । पञ्चेन्द्रियप्रेरकश्च पञ्चकृत्यादिदायकः ॥ ४८॥ २२० पञ्चकृत्येश्वरः पञ्चमूर्तये पञ्चामृतप्रियः । एकार्थश्चैव निर्नाशः प्रणवार्थद एव च ॥ ४९॥ सर्वज्योतिप्रकाशी च रहःकेलिकुतूहलः । दिव्यज्योतिर्वेदमयः वेदमूलोऽर्थसङ्ग्रहः ॥ ५०॥ एकानेकस्वरूपी च रव्यादिद्युतिदायकः । ऐरावताधिपसुतानयनानन्दसुन्दरः ॥ ५१॥ चिदाकारः परञ्ज्योतिः लयोत्पत्तिविवर्जितः । सर्वशत्रुहरो मेषवरारूढो विनायकः ॥ ५२॥ एकातपत्रसाम्राज्यदायकः सुमुखानुजः । मृगीपरशुचापासिशक्त्याद्यायुधभृत्करः ॥ ५३॥ शरत्कालघनानीकमहोदारद्विषट्करः । श्रीवल्लीवामपार्श्वस्थो रव्यादिग्रहदोषभिद् ॥ ५४॥ पादकिङ्किणिकानाददैत्यविभ्रमदायकः । ओङ्कारज्योतिरोङ्कारवाचकातीतवैभवः ॥ ५५॥ ओङ्कारचित्सभासंस्थ ओङ्काराद्भुतमन्दिरः । ओङ्कारमनुसन्दाता ओङ्कारगिरिसंस्थितः ॥ ५६॥ ओङ्कारनादश्रवण ओङ्कारातीतविग्रहः । ओङ्कारनादान्तगतः ओन्नित्यादिषडक्षरः ॥ ५७॥ ओङ्कारपीठकान्तस्थ ओङ्कारमुकुटाग्रगः । ओङ्कारमूलसम्भूत ओङ्काराद्यन्तमध्यगः ॥ ५८॥ ओङ्कारमूलबीजार्थ ओङ्कारपरशक्तिमान् । ओङ्कारबिन्दुरोङ्कारचित्त ओङ्कारचित्पुरः ॥ ५९॥ २७० ओङ्कारफलसत्सार ओङ्कारज्ञानकोविदः । ओङ्कारसच्चिदानन्द ओङ्कारपरमात्मकः ॥ ६०॥ ओङ्कारसम्भूतसप्तकोटिमन्त्राधिनायकः । ओङ्कारप्रणवाकार अकारादिकलात्मकः ॥ ६१॥ २८० षडक्षरो द्वादशार्णः प्रणवाग्रार्णसंयुतः । महेशस्तुतिसन्तुष्टो शिवशक्त्यक्षरान्वितः ॥ ६२॥ पराक्षरकलोपेतो शिवबीजकलाश्रयः । औङ्कारनादकरुण औदासीनजनान्तकः ॥ ६३॥ औदुम्बराश्वत्थनीपबिल्वादिसमिदाहुतः । दुष्टक्रुद्धमनोदूरो शिष्टसङ्घसमाश्रितः ॥ ६४॥ अकाराद्यक्षरप्राण अकारद्यक्षरार्थकः । उदारसद्गुणोपेतो भक्तैश्वर्यप्रदायकः ॥ ६५॥ अकारादिक्षकारान्तकलाकल्पितविग्रहः । श्रीकुम्भसम्भवादीनां सर्वज्ञानोपदेशकृत् ॥ ६६॥ षडर्णमन्त्रस्मरणभक्ताभीष्टप्रदायकः । स्कन्दमूर्तिश्च गाङ्गेयो कलिकल्मषनाशनः ॥ ६७॥ भक्तसन्निहितोऽक्षोभ्यो शङ्खपाणिमुखस्तुतः । ओंश्रींह्रींसौंशरवणभवः शङ्करानन्द एव च ॥ ६८॥ शतलक्षेन्दुसङ्काशः शान्तः शशिधरात्मजः । शत्रुनाशकरश्शम्भुः शचीपतिवरप्रदः ॥ ६९॥ शक्तिमान् शक्तिहस्तश्च शान्तसर्वप्रकाशकः । शरभः शङ्खचक्रादिधरः शङ्करबोधकः ॥ ७०॥ कृत्तिकातनयः कृष्णो शङ्खपद्मनिधिप्रदः । शक्तिवज्रादिसम्पन्नद्विषट्करसरोरुहः ॥ ७१॥ शङ्कुकर्णमहाकर्णघण्टाकर्णादिवन्दितः । मूलादिद्वादशान्तस्थपद्ममध्यनिकेतनः ॥ ७२॥ सद्गुणः शङ्करः साक्षी सदानन्दः सदाशिवः । ज्ञानेश्वरः सृष्टिकर्ता सर्ववश्यप्रदायकः ॥ ७३॥ विचित्रवेषः समरविजयायुधधारकः । क्रौञ्चासुररिपुः शङ्खपतिः सर्वगणेश्वरः ॥ ७४॥ णकारतुर्यमन्त्रार्णो णकारार्णस्वरूपकः । णकारमूलमन्त्राग्रो णकाररवसंस्थितः ॥ ७५॥ णकारशिखरारूढो णकाराक्षरमध्यगः । णद्वितीयो णत्रितीयः णचतुर्थो णपञ्चमः ॥ ७६॥ णषष्ठवर्णो णार्णादिमन्त्रषड्भेदभासुरः । णकारपीठनिलयो नलिनोद्भवशिक्षकः ॥ ७७॥ नादान्तकूटस्थश्चैव नारदप्रिय एव च । नागाशनरथारूढो नान्दात्मा नागभूषणः ॥ ७८॥ नागाचलपतिर्नागो नवतत्त्वो नटप्रियः । नवग्रहादिदोषघ्नो णकारस्तम्भनिष्क्रियः ॥ ७९॥ णकाराक्षो णकारेशः णकारवृषवाहनः । तत्त्वबोद्धा दैवमणिः धनधान्यादिदायकः ॥ ८०॥ वल्लीपतिः शुद्धान्तरस्तत्त्वातीतो हरिप्रियः । तत्परः कमलारूढो षडाननसरोरुहः ॥ ८१॥ भगवान् भयहन्ता च भर्गो भयविमोचकः । भानुकोपादिदैत्यघ्नो भद्रो भागीरथीसुतः ॥ ८२॥ भवाचलमहावज्रो भवारण्यदवानलः । भवतापसुधावृष्टिर्भवरोगमहौषधः ॥ ८३॥ भानुचन्द्राग्निनयनो भावनातीतविग्रहः । भक्तचित्ताम्बुजारूढो भरतोक्तक्रियाप्रियः ॥ ८४॥ भक्तदेवो भयार्तिघ्नो भकारोच्चाटनक्रियः । भारतीशमुकुन्दादिवाङ्मनोऽतीतवैभवः ॥ ८५॥ विचित्रपक्षाश्वारूढो भुजङ्गेशो दयानिधिः । ईशफालाक्षिसम्भूतो वीरः षट्समयाधिपः ॥ ८६॥ महाव्रतो महादेवो भूतेशः शिववल्लभः । महामायी यज्ञभोक्ता मन्त्रस्थो यक्षराट्प्रियः ॥ ८७॥ सर्वश्रेष्ठो महामृत्युरूपासुरविनाशकः । रागाब्जमालिकाभूषो रागी रागाम्बरप्रियः ॥ ८८॥ रागद्वेषादिदोषघ्नो रागरत्नविभूषणः । रावणस्तुतिसन्तुष्टो रतीनायकवन्दितः ॥ ८९॥ रम्भादिनाट्यसुप्रीतो राजीवदललोचनः । रवचापधरो रक्षोवृन्दतूलहुताशनः ॥ ९०॥ रविचन्द्रादिसम्पूज्यो रथारोहकुतूहलः । रवकाञ्चीवरधरो रवयुक्ताङ्घ्रिभूषणः ॥ ९१॥ रव्युद्भवसमानेकहारकेयूरभूषितः । रविकोटिसमानाभो रत्नहाटकदायकः ॥ ९२॥ शिखीन्द्रश्चोरगाकारः निशादिनविवर्जितः । रमावाण्यादिसम्पूज्यो लक्षवीरभटस्तुतः ॥ ९३॥ वीरभूतगणस्तुत्यो श्रीरामश्चारुणो रविः । वरदो वज्रहस्तश्च वामदेवादिवन्दितः ॥ ९४॥ वलारितनयानाथो वरदाभयसत्करः । वल्लीश्वरीपतिर्वाग्मी वल्लीकल्याणसुन्दरः ॥ ९५॥ वलारिमुख्यविबुधवृन्ददुःखविमोचकः । वातरोगहरो वर्मरहितो वासवेश्वरः ॥ ९६॥ वाचकस्थो वासुदेववन्दितो वकुलप्रियः । वासनाङ्कितताम्बूलपूरिताननपङ्कजः ॥ ९७॥ वचनागमनातीतो वामाङ्गो वन्दिमोहनः । वल्लीमनोहरः साधुः देवेन्द्रप्राणदायकः ॥ ९८॥ दिगन्तवल्लभानन्तमदनोज्ज्वलरूपभृत् । सौन्दर्यार्णवपीयूषस्सर्वावयवसुन्दरः ॥ ९९॥ शिशुः कृपालुः कादम्बधरः कौबेरनायकः । धर्माधारस्सर्वधर्मस्वरूपो धर्मरक्षकः ॥ १००॥ सर्वधर्मेश्वरो बन्धुस्तीक्ष्णोऽनन्तकलान्वितः । अनन्तवेदसंवेद्यः स्वामी कनकसुप्रभः ॥ १०१॥ सर्वसाक्षी सर्वकलाश्रवणः करुणालयः । वासवस्सर्वकर्ता च कामः कपिलसंस्तुतः ॥ १०२॥ कामदः कालसंहर्ता कालः कामारिसम्भवः । कामायुधः कामधरो श्रीकृष्णः शिखिवाहनः ॥ १०३॥ ४९० कृपानिधिः कृपासिन्धुः गिरिराट् कृत्तिकाप्रियः । कीर्तिप्रदः कीर्तिधरो गीतनाट्यादिकप्रियः ॥ १०४॥ नर्क्कीरस्तोत्रसन्तुष्टस्तीर्थेशः कुलविद्गुहः । कौमारस्सर्वगुप्तश्च क्रौञ्चासुरविमर्दनः ॥ १०५॥ इन्द्रपुण्यः कुलोत्तुङ्ग अतितीक्ष्णायुधो नटः । कूटस्थः श्रीकरः कूटेशान्तकान्तकसम्भवः ॥ १०६॥ वल्लीभाषणसुप्रीतो गम्भीरो भक्तनायकः । सर्वदेवालयान्तस्थो निश्शोको निरुपद्रवः ॥ १०७॥ ५२० केदारो मदनाधीशो लयघ्नः श्रवणान्वितः । पद्महस्तो देवनुतः भक्तार्थो द्वादशायुधः ॥ १०८॥ कैवल्यो रजताद्रीशो महाराट् गोकर्णाधिपः । शूरमायाम्रतरुभिद् खण्डितासुरमण्डलः ॥ १०९॥ जयदुर्गातिसन्तुष्टो सर्वदेवस्तवाङ्कितः । हितः कोलाहलश्चित्रो नन्दितश्च वृषापतिः ॥ ११०॥ ५४० निगमाग्र्यो महाघोरास्त्रनाथो गव्यमोदिनि । सर्वेशः सुगुणश्चण्डो दिव्यकौस्तुभसन्निभः ॥ १११॥ चण्डप्रचण्डः समरविजयी निरहङ्कृतिः । सर्वस्वामी चण्डहर्ता षड्वक्त्रश्शाम्भवः सुखी ॥ ११२॥ साङ्गः सायुज्यदः सारः सामः साम्राज्यदायकः । सिद्धः शिवश्चिद्गुणश्च चिन्मयश्चित्स्वरूपकः ॥ ११३॥ श‍ृङ्गाररससम्पूर्णश्चित्तस्थः सामपारगः । शिवलोकेश्वरः सिद्धवरः सिद्धवरार्चितः ॥ ११४॥ सर्वजीवस्वरूपी च श्रीदः श्रीधरवन्दितः । शुद्धः शीतः स्वयञ्ज्योतिः सुब्रह्मण्यः शुभप्रदः ॥ ११५॥ श्रुतिज्ञः सुलभः शूरः शुद्धधीरश्च शूरहा । शूरात्मशोधकः शूरस्मर्ता च विभवप्रदः ॥ ११६॥ सर्वैश्वर्यप्रदः सर्वजयदो ब्रह्मसम्भवः । जयधीरः श्रीकरश्च सिन्धुक्षेत्रः सलक्षणः/सुलक्षणः ॥ ११७॥ अभक्तकालो रक्ताभशेखरोऽतुलविक्रमः । शैवाधिपः शैवमणिः शैवधन्यश्शिवात्परः ॥ ११८॥ चैतन्यः क्रौञ्चभेदी च गिरीशो निगमेश्वरः । स्वर्गाधिपस्सुरूपी च स्वर्गलोकादिसौख्यदः ॥ ११९॥ स्वच्छः स्वयम्भूर्भौमाख्यस्सोमधृत्कुक्कुटध्वजः । ज्योतिर्हल्लकशैलस्थः सोमः शोकभयापहः ॥ १२०॥ हितः पशुपतिः सौम्यो नतसौभाग्यदायकः । सौवर्णबीजः सौन्दर्यो दण्डपाणिर्धनप्रदः ॥ १२१॥ एकदेवः सर्वपिता धनिको द्राविडप्रियः । चण्डारिस्तारकः स्थाणुः सर्वधान्यप्रदायकः ॥ १२२॥ मातृभूतस्तारकारिर्दिव्यमाल्यविभूषितः । चित्सभेशो दिशान्नाथः धनुर्हस्तो महाभुजः ॥ १२३॥ ६४० महागुणो महाशौर्यः सर्वदारिद्र्यनाशकः । दीर्घो दिगम्बरस्तीर्थः सर्वतीर्थफलप्रदः ॥ १२४॥ रोगघ्नो दुष्टहर्ता च सर्वदुष्टभयङ्करः । आत्मज्योतिः पवित्रश्च हृद्गतश्च सहायकृत् ॥ १२५॥ कारणस्थूलसूक्ष्मान्तोऽमृतवर्षी चिदम्बरः । परमाकाशरूपी च प्रलयानलसन्निभः ॥ १२६॥ देवो दक्षिणकैलासवासी वल्लीकराञ्चितः । दृढो दिव्योऽमृतकरो देवेशो दैवतप्रभुः ॥ १२७॥ कदम्बमालापीयूषाप्लुतवक्षस्थलान्वितः । देवसेनापतिर्देवधन्यो देवगिरिस्थितः ॥ १२८॥ सर्वज्ञो देशिको धैर्यः सुरवैरिकुलान्तकः । वटुकानन्दनायोद्यद्वाद्यघोषामितप्रियः ॥ १२९॥ पुष्यर्क्षः कुण्डलधरो नित्यो दोषविभञ्जनः । प्रारब्धसञ्चितागाम्यपातकादिप्रभञ्जनः ॥ १३०॥ महाजयो महाभूतो वीरबाह्वादिवन्दितः । चोरारिः सत्त्वमार्गस्थः अलक्ष्मीमलनाशकः ॥ १३१॥ स्तुतिमालालङ्कृताढ्यो नन्दीकेशो हरप्रियः । सर्वसौख्यप्रदाता च नववीरसमावृतः ॥ १३२॥ परमेशो महारुद्रो महाविष्णुः प्रजापतिः । वीणाधरमुनिस्तुत्यश्चतुर्वर्गफलप्रदः ॥ १३३॥ निर्गुणश्च निरालम्बो निर्मलो विष्णुवल्लभः । निरामयो नित्यशुद्धो नित्यमङ्गलविग्रहः ॥ १३४॥ शिखण्डी नीपबाहुश्च नीतिर्नीराजनद्युतिः । निष्कोपश्च महोद्यानः सूक्ष्मो मेर्वादिमन्दिरः ॥ १३५॥ सूक्ष्मातिसूक्ष्मो भालाक्षो महान् सर्वोपदेशकः । सर्ववेषकलातीत उपवीती शतक्रतुः ॥ १३६॥ ७२० वेदागमपुराणज्ञो नूपुराङ्घ्रिसरोरूहः । हृत्पूर्णः पञ्चभूतस्थो कृपामार्गोऽम्बुजाश्रयः ॥ १३७॥ सन्निधिः प्रीतचित्तोऽथ निष्प्रीतिश्चात्मसंस्थितः । औपम्यरहितः प्रीतचित्तगो नैमिशाश्रयः ॥ १३८॥ नैमिशारण्यनिवसन्मुनीन्द्रनिकरस्तुतः । घण्टारवप्रीतमनाः दयाचित्तो सताङ्गतिः ॥ १३९॥ ७४० सर्वापदान्निहन्ता च सद्योऽभीष्टवरप्रदः । सर्वजीवान्तरज्योतिश्छन्दस्सारो महौषधिः ॥ १४०॥ पञ्चाक्षरपरञ्ज्योतिः सूक्ष्मपञ्चेन्द्रियद्युतिः । ज्ञानचक्षुर्गतज्योतिः सौङ्कारपरमद्युतिः ॥ १४१॥ परश्च फलशैलस्थः बालरूपः पराङ्गकः । परमेष्ठी परन्धाम पापनाशी परात्परः ॥ १४२॥ गोक्षीरधवलप्रख्यः पार्वतीप्रियनन्दनः । कटाक्षकरुणासिन्धुर्यमवृक्षकुठारिकः ॥ १४३॥ प्रभुः कपर्दी ब्रह्मेशः ब्रह्मविद् पिङ्गलप्रभः । स्वाधिष्ठानपुराधीशः सर्वव्याधिविनाशकः ॥ १४४॥ वैभवः कनकाभासः भीषणो निगमासनः । भीतिघ्नस्सर्वदेवेड्यः पुण्यस्सत्त्वगुणालयः ॥ १४५॥ पुण्याधिपः पुष्कराक्षः पुण्डरीकपुराश्रयः । पुराणः पुङ्गवः पूर्णः भूधरो भूतिधारकः ॥ १४६॥ ७८० प्राचीनः पुष्पसद्गन्धः रक्तपुष्पप्रियङ्करः । वृद्धो महामतिकरः महोल्लासो महागुणः ॥ १४७॥ मोक्षदायी वृषाङ्कस्थः यजमानस्वरूपभृत् । अभेद्यो मौनरूपी च ब्रह्मानन्दो महोदरः ॥ १४८॥ भूतप्रेतपिशाचघ्नः शिखी साहस्रनामकः । किराततनयापाणिपद्मग्रहणलोलुपः ॥ १४९॥ नीलोत्पलधरो नागकङ्कणः स्वर्णपङ्कजः । सुवर्णपङ्कजारूढः सुवर्णमणिभूषणः ॥ १५०॥ सुवर्णशैलश‍ृङ्गस्थः सुवर्णागदशोभितः । कालज्ञानी महाज्ञानी अमराचलनायकः ॥ १५१॥ लयसम्भवनिर्मुक्तः कमलोद्भवदण्डकः । सप्ताब्धिशोषकृदष्टकुलाचलविभेदकः ॥ १५२॥ मन्त्रबीजो वराबीजो मन्त्रात्मा मन्त्रनायकः । मन्त्रालयो मयूरस्थो मयूराचलनायकः ॥ १५३॥ ८२० मायाधरो महामन्त्रो महादेवो महाबुधः । मायापरो महामायी महासेनो महाप्रभुः ॥ १५४॥ अग्रबुद्धिरग्रगण्यो मिथ्यावादिकुलान्तकः । मुक्तिग्रहः कल्मषघ्नः सर्वदेवजरापहः ॥ १५५॥ सर्वदेवाङ्कुरो मुक्त अतिबालो मुनीश्वरः । दिगम्बरो भक्तिनिधिः सर्वदेवाग्रगण्यकः ॥ १५६॥ अच्युतः सर्वसम्पूर्णो महाविष्णुसुसंस्तुतः । मूर्तिर्ब्रह्माण्डकूटस्थो मूलभूतस्त्रिमूर्तिभृत् ॥ १५७॥ नामपारायणपरभक्ताभीष्टप्रदायकः । चिद्रूपः षट्क्रमानन्दो महासारस्वतप्रदः ॥ १५८॥ ज्योतिर्मयो गिरिशयः नवदुर्गाभिवन्दितः । मुकुटाङ्गदकेयूरकाञ्चीकिङ्किणिभूषितः ॥ १५९॥ नारायणविरिञ्च्यादिदेवाभीतिप्रदायकः । मेषारूढः पञ्चवर्णः सर्ववाद्यप्रियङ्करः ॥ १६०॥ मौनेश्वरो मोक्षनाथः द्वादशान्तःपुरेश्वरः । देवावृतो दीनबन्धुर्वल्लीलीलामनोहरः ॥ १६१॥ वन्दारुमहदैश्वर्यदायको वन्दनप्रियः । वकाराच्छत्रुसंहर्ता वकाराच्छत्रुपीडकः ॥ १६२॥ वकाराच्छत्रुवाक्स्तम्भो वकारात्कलिनाशकः । वकाराच्छत्रुसंहारी सकाराच्छत्रुवञ्चकः ॥ १६३॥ वकाराद्भूतपैशाचप्रेतादिभयमोचकः । वकाराद्ग्रहदोषघ्नो वकाराच्चोरनाशनः ॥ १६४॥ वकारात्सिंहसर्पाश्वव्याघ्रादिभयमोचकः । वकारान्निन्दकश्रोत्रनेत्रवाक्स्तम्भनोद्यतः ॥ १६५॥ वकारान्मृत्युसंहर्ता वकारकुलिशायुधः । वकारार्णमहारुद्रो वकारार्णमहासिकः ॥ १६६॥ वकाराद्वैरिनरराट्चोरचित्तादिविभ्रमः । वचस्यो वटुको वह्निर्वरुणो वाचको वसुः ॥ १६७॥ ८९० वश्यो वसुप्रदो दाता वामनो वचनात्परः । वागीशो वामनयनो वामः सामपरायणः ॥ १६८॥ वामक्रमार्चनप्रीतो विशाखो विमलो विधुः । विद्रुमाभो धनो बीजोऽनन्तसौदामिनीप्रभः ॥ १६९॥ निरन्तरो मन्दिरश्च नववीरनुताङ्घ्रिकः । वीरो भीमः किरातश्च सदाभक्तमनोहरः ॥ १७०॥ सर्वालयो रथारूढ अनन्तप्रलयाधिपः । नामरूपगुणक्षेत्रभेदावस्थाविवर्जितः ॥ १७१॥ सर्वपुण्याध्वरफलः सर्वकर्मफलप्रदः । सर्वागमपुराणादिपाठकृत्फलदायकः ॥ १७२॥ सर्वसम्पत्प्रदः सत्यो राजभोगसुखप्रदः । एकः प्रभुः सभानाथो निष्कलोऽनन्तवल्लभः ॥ १७३॥ ओङ्कारसिन्धुनादाग्रनटनानन्दवैभवः । षडक्षरजपोद्युक्तप्रारब्धादिप्रभेदकः ॥ १७४॥ अनन्तभुवनाधीश आदिमध्यान्तवर्जितः । इन्द्राणीमुखमाङ्गल्यरक्षकश्चेप्सितार्थदः ॥ १७५॥ उद्यत्कोटिरविप्रख्य ऊरुदण्डकरद्वयः । रुद्रकोटिसमाकीर्णलतामण्डपमध्यगः ॥ १७६॥ एलादिवासनाप्रीत ऐरावतगजस्थितः । ओङ्कारचित्सभानाथ औदार्यगुणदायकः ॥ १७७॥ अम्बिकाहृदयानन्द अच्युतेशविधिस्तुतः । करुणारसनिष्यन्दसम्पूर्णद्वादशेक्षणः ॥ १७८॥ खादिपृध्व्यन्तभूतात्मा गण्डमण्डलशोभितः । घटसम्भवसुप्रीतः सुन्दरश्चन्द्रभूषणः ॥ १७९॥ छत्रवर्यधरो जम्भभेत्तृसर्वेष्टदायकः । झलज्झलितझङ्कारकालीकङ्कणभूषितः ॥ १८०॥ ज्ञानसागरपूर्णेन्दु टङ्कशूलादिधारकः । ठकारमध्यगो डम्भगम्भीरगुणसम्भ्रमः ॥ १८१॥ ९६० ढक्काशूलधरानेकवटुकादिमसेवितः । णकारमूलनिलयस्ताटङ्काभरणोज्ज्वलः ॥ १८२॥ स्थाणुर्दयालुर्धनदो नववीरादिसंवृतः । पापाचलमहावज्रो फणिभुग्वाहनस्थितः ॥ १८३॥ बलिप्रियो भयार्तिघ्नो वरषट्चक्रमध्यगः । यक्षाधिपेशो राजीवलोचनो लक्षणोज्ज्वलः ॥ १८४॥ वल्मीकेशो शरवणभवस्तथा षण्मुखसुन्दरः । समस्तजगदाधारो हस्तद्वादशपङ्कजः ॥ १८५॥ लकारतत्त्वरूपी च क्षमासम्पूर्णवारिधिः । ज्ञानशक्तिधरः स्कन्दः अग्निभूर्बाहुलेयकः ॥ १८६॥ कुमारः षण्मुखश्चैव कृत्तिकासुत एव च । शक्त्यायुधधरः शरसम्भवः शरवणोद्भवः ॥ १८७॥ गाङ्गेयस्तारकारिश्च देवसेनापतिर्गुहः । ब्रह्मचारी शिवज्योतिः क्रौञ्चधारी शिखिस्थितः ॥ १८८॥ १००० विद्याप्रदो विजयदो बलदः सर्वरक्षकः । स्वाश्रितश्रीकरः स्वर्णवर्णाङ्गः सौख्यदायकः ॥ १८९॥ भवस्यदेवस्यसुतः सर्वस्यदेवस्यसुतः । ईशानस्यदेवस्यसुतः पशुपतेर्देवस्यसुतः ॥ १९०॥ रुद्रस्यदेवस्यसुतः उग्रस्यदेवस्यसुतः । भीमस्यदेवस्यसुतः महतोदेवस्यसुतः ॥ १९१॥ श्रीवल्लीदेवसेनसमेतश्रीकुमारसुब्रह्मण्यमूर्तये नमः । १०१६ ॥ इति श्रीकुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ ॐ नमोभगवतेसुब्रह्मण्याय ॥ Encoded and proofread by Psa Easwaran psaeaswaran at gmail.com
% Text title            : shrI kumArasubrahmaNyamUrtisahasranAmastotram
% File name             : kumArasubrahmaNyamUrtisahasranAmastotra.itx
% itxtitle              : kumArasubrahmaNyamUrtisahasranAmastotram
% engtitle              : kumArasubrahmaNyamUrtisahasranAmastotram
% Category              : sahasranAma, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Subcategory
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran, Sivakumar Thyagarajan
% Proofread by          : PSA Easwaran, Sivakumar Thyagarajan
% Latest update         : October 9, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org