श्रीसुब्रह्मण्यहृदयस्तोत्रम्

श्रीसुब्रह्मण्यहृदयस्तोत्रम्

अस्य श्री सुब्रह्मण्य हृदय स्तोत्रमहामन्त्रस्य, परब्रह्म ऋषिः । देवी गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । सौः बीजम् । प्रीं शक्तिः । श्रीसुब्रह्मण्येश्वरः कीलकम् । श्री सुब्रह्मण्येश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ ॐ सुब्रह्मण्याय अङ्गुष्टाभ्यां नमः । षण्मुखाय तर्जनीभ्यां नमः । शक्तिधराय मध्यमाभ्यां नमः । षड्त्रिंशत्कोणाय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतल करपृष्ठाभ्यां नमः ॥ ॥ हृदयादि न्यासः ॥ ॐ सुब्रह्मण्याय हृदयाय नमः । षण्मुखाय शिरसे स्वाहा । शक्तिधराय शिखायै वषट् । षड्त्रिंशत्कोणाय कवचाय हुम् । सर्वतोमुखाय अस्त्राय फट् । तारकान्तकाय भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ ध्यानम्- षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥ लमित्यादि पञ्चपूजा । सत्यलोके सदानन्दे मुनिभिः परिवेष्टितम् । पप्रच्छुर्मुनयः सर्वे ब्रह्माणं जगतां गुरुम् ॥ १॥ भगवन्सर्वलोकेश सर्वज्ञ कमलासन । सदानन्द ज्ञानमूर्ते सर्वभूतहिते रत ॥ २॥ बहुधा प्रोक्तमेतस्य गुहस्य चरितं महत् । हृदयं श्रोतुमिच्छामः तस्यैव क्रौञ्चभेदिनः ॥ ३॥ ब्रह्मोवाच- श‍ृण्वान्तु मुनयः सर्वे गुह्याद्गुह्यतरं महत् । सुब्रह्मण्यस्य हृदयं सर्वभूतहितोदयम् ॥ ४॥ सर्वार्थसिद्धिदं पुण्यं सर्वकार्यैक साधनम् । धर्मार्थकामदं गुह्यं धनधान्यप्रवर्धनम् ॥ ५॥ रहस्यमेतद्देवानां अदेयं यस्य कस्यचित् । सर्वमित्रकरं गोप्यं तेजोबलसमन्वितम् ॥ ६॥ प्रवक्ष्यामि हितार्थं वः परितुष्टेन चेतसा । हृत्पद्मकर्णिकामध्ये ध्यायेत्सर्वमनोहरम् ॥ ७॥ सुवर्णमण्टपन्दिव्यं रत्नतोरणराजितम् । रत्नस्तम्भ सहस्रैश्च शोभितं परमात्भुतम् ॥ ८॥ परमानन्दनिलयं भास्वत्सूर्यसमप्रभम् । देवदानवगन्धर्वगरुडैर्यक्षकिन्नरैः । ॥ ९॥ सेवार्थमागतैस्सिद्धैः साध्यैरध्युषितं सदा । महायोगीन्द्र संसेव्यं मन्दारतरुमण्डितम् ॥ १०॥ माणिक्य विद्रुमैश्चैव महा श्रीभिरुञ्चितम् । तन्मध्येऽनन्तरत्नश्री जटामकुट शोभितम् ॥ ११॥ रत्नसिंहासनं दिव्यं रविकोटिसमप्रभम् । सर्वाश्चर्यामयं पुण्यं सर्वरत्न परिष्कृतम् ॥ १२॥ तन्मध्येष्टदलम्पद्मं उद्यत्सूर्या प्रभोदरम् । निगामागमरोलम्बं लम्बकं चित्स्वरूपिणिम् ॥ १३॥ विद्या ज्योतिर्मयं दिव्यं देवताभिर्नमस्कृतम् । देदीप्यमाना रुचिभिर्विशाखं सुमनोहरम् ॥ १४॥ तन्मध्ये सर्वलोकेशं ध्यायेत्सर्वाङ्गसुन्दरम् । अनन्तादित्यसङ्काश माश्रिताभीष्टदायकम् ॥ १५॥ अचिन्त्यज्ञानविज्ञानतेजोबलसमार्जितम् । सर्वायुध धरं वीरं सर्वाश्चर्यामयं गुहम् ॥ १६॥ महर्ह रत्नखचितं षट्किरीटविराजितम् । शशाङ्गार्ध कलारम्य समुद्यद्मौलिभूषणम् ॥ १७॥ सम्पूर्ण चन्द्रसाहस्र समुद्यद्वदनोज्वलम् । विशाल फाल ललितं विलोलालक भूषणम् ॥ १८॥ मदनोज्वल कोदण्ड मङ्गल भ्रू विराजितम् । विस्तीर्णरूपतेजसं विलसत्द्वादशेक्षणम् ॥ १९॥ चारुश्रीवर्ण सम्पूर्ण कर्णशोभाभिभासुरम् । मणि प्रभा मयूर श्री स्फुरन्मकरकुण्डलम् ॥ २०॥ लसत् दर्पण दर्पघ्न गण्डस्थल विराजितम् । नव्यकाञ्चन पुष्पश्री नासा पुटविराजितम् ॥ २१॥ मन्दहास प्रभाजाल मधुराधर शोभितम् । सर्वलक्षण लक्ष्मीश कम्बुसुन्दर कन्धरम् ॥ २२॥ महनीय महारत्न दिव्यहार विराजितम् । उदग्रनाग केयूर सन्नद्धशुभकुण्डलम् ॥ २३॥ रत्नकङ्कण संशोभि कराग्र श्रीमहोज्वलम् । महामाणिक्य पर्यङ्क वक्षस्थल विराजितम् ॥ २४॥ समस्त जगदाधारं स्वर्णवर्णशुभोदरम् । अतिगाम्भीर्य सम्भाव्य नाभीनव सरोरुहम् ॥ २५॥ रत्नश‍ृङ्खलिका बन्धलसन्मध्यप्रदेशिकम् । कनत् कनक संवीत पीताम्बरसमावृतम् ॥ २६॥ श‍ृङ्गाररस सम्पूर्ण रत्नस्तम्भोपमोरुकम् । रत्नमञ्जीर सन्नद्ध मणिदीप पदाम्बुजम् ॥ २७॥ भक्ताभीष्टप्रदं देवं ब्रह्मविष्ण्वादिसंस्तुतम् । कटकाक्षवीक्षणैः स्निग्धस्तोषयत्नञ्जगत्पतिम् ॥ २८॥ सदानन्दं ज्ञानमूर्तिं सर्वलोकप्रियङ्करम् । शङ्करं सात्मजं देवं ध्यायेत् शरवणोत्भवम् ॥ २९॥ अनतादिव्यचन्द्राग्नि तेजसम्पूर्णविग्रहम् । सर्वलोकवनरतं सर्वतत्वाद्य तत्त्वगम् ॥ ३०॥ सर्वेश्वरं सर्वविभुं सर्वभूतहितेरतम् । एवञ्जपित्वा हृदयं षण्मुखस्यमहात्मनः ॥ ३१॥ सर्वान् कामानवाप्नोति सम्यज्ञानङ्चविन्दति । शुचौ देवशे समासीनः शुद्धात्मा च कृताह्निकः ॥ ३२॥ प्राङ्मुखौ यतचित्तश्च जपेद्-हृदयमुत्तमम् । सकृदेततन्मनन्जप्त्वा सम्प्राप्नोत्यखिलं शुभम् ॥ ३३॥ सर्वाघहरणं मॄत्युदारिद्रस्यचनाशनम् । सर्व सम्पत्करम्पुण्यं सर्वरोग निवारणम् ॥ ३४॥ सर्व शर्म करं दिव्यं सर्वाभीष्टार्थदायकम् । सर्वकामप्रदं गुह्यं अपवर्गैक कारणम् ॥ ३५॥ प्रजाकरं राज्यकरं भाग्यदं बहुपुण्यदम् । गुह्यात् गुह्यतरं भूयो देवानामपि दुर्लभा ॥ ३६॥ इदन्तुनातपस्काय नाभक्ताय कदाचन । नचा शूश्रूषवेदेयं मदान्धायनकर्हिचित् ॥ ३७॥ सच्छिष्याय सुशीलाय स्कन्दभक्तिरतायच । सर्वदाभिरतायेदं दातव्यं जयवर्धनम् ॥ ३८॥ ॥ इति श्री सुब्रह्मण्यहृदयस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by antaratma at Safe-mail.net
% Text title            : shrii subrahmaNyahRidayastotram
% File name             : subrahridayastotra.itx
% itxtitle              : subrahmaNyahRidayastotram
% engtitle              : subrahmaNyahRidaya stotram
% Category              : hRidaya, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma antaratma at Safe-mail.net
% Latest update         : March 15, 2006, November 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org