आचमनोपनिषत्

आचमनोपनिषत्

ॐ आचमनविधिं व्याख्यास्यामः । जङ्घे पाणिपादौ प्रक्षाल्य प्राङ्मुख उदङ्मुखो वा बद्धशिखो यज्ञोपवीती । ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि भवन्ति अङ्गुल्यग्रे देवतीर्थं कनिष्ठिकामूले आर्षिकं तीर्थं [अङ्गुष्ठतर्जन्योर्मध्ये] पैतृकं तीर्थं अङ्गुष्ठमूले ब्रह्मतीर्थं मध्ये अग्नितीर्थम् । न तिष्ठन्न हसन् न बुद्बुदैर्न च लोमैः गोकर्णाकृतिवत् कृत्वा माषमग्नजलं पिबेत् । तेन त्रिराचामेत् । प्रथमं यः पिबेदृग्वेदः प्रीणातु । द्वितीयं यःपिबेद्यजुर्वेदः प्रीणातु । तृतीयं यः पिबेत् सामवेदः प्रीणातु । लोमाधरोष्ठमथर्ववेदः प्रीणातु । मुखमग्नितृप्तं सर्वं प्रोक्षति । यः पादो प्रोक्षति यश्चक्षुषी यश्चन्द्रमादित्यौ यन्नाभिं तेन पृथिवी यस्ततस्तेन विष्णुः । यच्छिरस्तेन रुद्रः । मूर्ध्नि शतकुबेरः । सर्वदेवत्यास्ते प्रीणन्तु । य एवं वेद । इत्युपनिषत् ॥ इत्याचमनोपनिषत् समाप्ता । Proofread by Sunder Hattangadi
% Text title            : AchamanopaniShat
% File name             : AchamanopaniShat.itx
% itxtitle              : AchamanopaniShat (sAmAnyavedAnta)
% engtitle              : AchamanopaniShat
% Category              : upanishhat, vedanta, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned book)
% Latest update         : October 18, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org