छागलेयोपनिषत्

छागलेयोपनिषत्

ॐ ऋषयो वै सरस्वत्यां सत्रमासत । तेऽथ कवषमैलूषं दास्याः पुत्र इति दीक्षाया आच्छिदन् । ते होचुः । अप वा एतदृग्यजुषादप साम्न इति । स होवाच । भगवन्तो यदिदं सत्रमाध्वै यदृचोऽधीध्वै यद्यजूंषि यत्सामानि कस्यायं महिमेति । ते होचुर्ब्राह्मणा वाव स्मस्तेषामेवमिति ॥ स होवाच । यदिदमिच्छाचिदिच्छाचिदीक्षध्वै किं तद्येन ब्राह्मण इति । ते होचुर्यदिदमृग्यजुषैरेवोपवत्वन्नो जुहुवुर्यद्वैनमुपाघ्रासिषुर्यदुपानेषतैतद्वाह्मणा इति । स हाविदूर एव शवशयितमात्रेयमच्छावदमुपदर्शयन्नुवाच । यदिदमृग्यजुषैरुपवत्वं जुहोपाघ्रासीदथोपानेष्ट नैतदत्यगादिति । किं तदिति होचुः ॥ स होवाच । नैमिषेऽमी शुनकाः सत्रमासत । तेषामात्रेयोऽच्छावदः सर्वाण्येवावर्तयद्यद्याज्या यदनुवाक्या यत्प्रातरनुवाको यत्प्र‍उगं यदाज्यं यन्मरुत्वतीयमित्यथ यन्महावीरसम्भरणानि यदग्नेरभिवर्तनानि यद्राजाभिक्रयणानि यदभिषावित्राणि यदौपयामानि यदुपमन्त्रणान्यथ यत्त्रिवृत्पञ्चदशः सप्तदश एकविंश इति । क्वास्य तदगादिति । तेहामुहन् । अथैते सर्व एवोपसमेत्योचुरुप नो नयस्वेम एव त इति । स ह स्मयमान उवाच । सम्पश्यध्वा एव मा प्रमदत । न होत्तमानधम उपनेतेति । ते होचुर्मैव स्मोपनथा गतिस्तु त्वमिदिति ॥ स होवाच । कुरुक्षेत्रं एवोपसमेत्य ये बालिशास्तानुपाध्वै । ते व इदं प्रवक्ष्यन्तीति । ते ह तत एवोपसमेत्य कुरुक्षेत्रमुपजग्मुः । ते ह बालिशानेवोपासदन् । तानिम उपसीदत एव विदाञ्चक्रुरिति कामुका इति । ते होचुर्यत्किमिव बालिशानुपासदत महाशाला वै महाश्रोत्रिया वर्षीयांसः सन्तः यन्महाशाला महाश्रोत्रिया वर्षीयांसः कुरुक्षेत्रमध्यासत इति । ते हान्योन्यस्याभिसमीक्षामासुः । ते हापश्यन्न हास्मान्मिथुचिदेवासाववोचद्बालिशानेव चैतान्विचक्षतेति । ते होचुर्नमस्यानतीव वचो रेचयिष्यथ यदन्तर्नोऽसाविह प्राहैयात् । यथैव तु स्मोपसन्ना अथानसूयवो यथोपश्रद्धिन इति ॥ ते होचुः । किं वा अस्मत्प्रतीच्छथेति । ते होचुः । नैमिषेऽमी शुनकाः सत्रमासत । तेषामात्रेयोऽच्छावदः सर्वाण्येवावर्तयत् । यद्याज्या यदनुवाक्या यत्प्रातरनुवाको यत्प्र‍उगं यदाज्यं यन्मरुत्वतीयमित्यथ यन्महावीरसम्भरणानि यदग्नेरभिवर्तनानि यद्राजाभिक्रयणानि यदभिषावित्राणि यदौपयामानि यदुपमन्त्रणान्यथ यत्त्रिवृत्पञ्चदशः सप्तदश एकविंश इति । क्वास्य तदगाद्यदयं शवशयितमशयिष्टेति । ते होचुर्नहासंवत्सरवासिनामनुब्रूयादिति खलु नः पूर्वेऽन्वशिषन् । यत्संवत्सरं वत्स्यथाथ वेदिष्यथेति । ते ह संवत्सरमूषुः ॥ ततो ह बालिशा ऊचुरवात्त वा संवत्सरमिमे ब्राह्मणाः । हन्तैषामनुब्रवामेति । ते ह गृहीत्वैवैनान् पथोऽभिसमीयुः । ते ह सङ्क्रीडत एव कूबरिणो रथकट्यामविन्दन् । ते होचुः सम्पश्यध्वमिति । किं हीति । कूबरिणमेव सौम्या इति । तथेति । कथमिवेति । यथैवोपसृत्वरो वार्धिस्तिर्यगुल्ललन्तीभिरिव वीचिभिः शफाभिरेवोपस्कन्दन्नुत्प्लवेदेवं हैवैषोभिसृत्वराणामेव धुर्याणां चक्रमतामरीणामुत्प्लवतीति । यथैवासौ प्रतिसृत्वरेण समः समेव क्रीडेदेवं हैष सङ्क्रीडतीति । यथैवासावितश्चेतोऽमुतश्चामुतश्च सम्प्रद्रवत इवोपशुप्यत इवोपस्कन्दमभिमृद्गात्यभिपातयेदेवं हैष इतश्चेतश्चामुतश्च सम्प्रद्रवत इवोपशुप्यत इवोपस्कन्दमभिमृद्गात्यभिपातयति । यथैवासौ राजानं वा राजपुरुषं वा निलयनं प्रायेदेवं हैवैष यन्ता निलयनं प्रापयतीति । ते होचुरपीदं साधीय इति । साधीय इति होचुः । ते ह तस्यैव पन्थानमनुप्रातिष्ठन्नन्तं ह सायाहन्येवोपसम्पादयामासुः ॥ तं यदावसायाश्वांस्तक्षापोह्यापागादथ बालिशा व्यलिष्ट । अहीदृशत् । कथमिवेति । ते होचुर्यथैतं काष्ठभारमानद्धमनुपश्यामस्तथैवावशो भूस्थः स्पन्दते । नेङ्गते न विवर्तते न च वीत इति । ते ह बालिशा ऊचुर्यदयमीदृगभूत् किमस्यापागादिति । तक्षैवेति । तथैवैतत् सौम्या इति । आत्मा वा अस्य प्रचोदयिता करणान्यश्वाः शिरा नद्धयोऽस्थीन्युपग्रहा असृगाञ्जनं कर्म प्रतोदो वाक्यं क्वाणनं त्वगुपानह इति । स यथा प्रचोदयित्रापोज्झितो नेङ्गेन्न रुरुवीतैवं हैष प्राज्ञेनात्मनापोज्झितो न ब्रूते न चैत्यपि न श्वसत्यपि पूयत्यपि श्वान उपधावन्त्यपि काकाः पतन्त्यपि गृध्रा आस्कन्दन्नपि शिवा जिघत्सन्निति । ते तत एव द्रागिव व्यज्ञासिषुः । ते ह पादयोरेवाभिमर्श्य बालिशानूचुः । न ह वाव नस्तद्येन निष्कुर्म इममेवेत्यञ्जलिं कृत्वोपास्थिषतेत्याह भगवान् छागलेयस्त इमे श्लोकाः- यथैतत्कूबरस्तक्ष्णापोज्झितो नेङ्गते मनाक् । परित्यक्तोऽयमात्मा नस्तद्वद्देहो विरोचते ॥ १॥ यदस्य प्रधयश्चक्रा युगमक्षो वरत्रिका । प्रतोदश्चर्मकील..... ॥ २॥ एतावानेवोपलब्धः (सामान्यवेदान्त-उपनिषदः) इति छागलयोपनिषत् समाप्ता । Proofread by Sunder Hattangadi, Radim Navyan radimnavyan at gmail.com, Kasturi navya sahiti
% Text title            : ChagaleyopaniShad
% File name             : ChAgaleyopaniShat.itx
% itxtitle              : ChAgaleyopaniShat (sAmAnyavedAnta)
% engtitle              : ChAgaleya upaniShad
% Category              : upanishhat, vedanta
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi Radim Navyan radimnavyan at gmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned book)
% Latest update         : November 3, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org