श्रीअरविन्दोपनिषत्
ॐ । एकमेवाद्वितीयं ब्रह्म सदसद्रूपं सदसदतीतं
नान्यत् किञ्चिदस्ति त्रिकालधृतं त्रिकालातीतं वा सर्वन्तु खलु
ब्रह्मैकं यत् किञ्च जगत्यामणु वा महद्वोदारं वानुदारं वा ब्रह्मैव
तद् ब्रह्मैव जगदपि ब्रह्म सत्यं न मिथ्या ।
स एव परात्परः पुरुषस्त्रिकालातीतः सकलभुवनातीतः
सकलभुवनप्रविष्टः सदतीतोऽसदतीतः सन्मयः चिन्मय
आनन्दमयोऽनाद्यन्तः सनातनो भगवान् ।
स निर्गुणो गुणान् धत्ते सगुणोऽनन्तगुणो निर्गुणत्वं भुङ्क्ते
स्वयञ्चातिवर्तते निर्गुणत्वञ्च सगुणत्वञ्च न निर्गुणो न गुणी
केवल एव यः ।
स भुवनातीतो भुवनानि धारयति भुवनभूतो भुवनानि
प्रविशति कालातीतः कालो भवत्यनन्तः सान्तः प्रकाशत एको
बहवोऽरूपो रूपी विद्याविद्यामय्या चिच्छक्त्या ।
स्वयन्तु न धर्ता न धार्यो नानन्तः न सान्तो नैको न
बहुः नारूपो न रूपी केवल एव यः ।
सर्वाणि त्वेतानि नामानि यदेकत्वञ्च बहुत्वञ्चानन्तञ्च
सान्तञ्च प्रकाशन्त एव चिदात्मनि चिन्मये जगति ।
ॐ तत्सत् यच्च सच्चिदेव तच्चिन्मयं जगत् भासते
चिदात्मनि सत्यप्रकाशः सत्यस्य भगवतः ।
यथा सूर्यस्य प्रतिबिम्ब एकः शान्ते जले बहवश्चले सत्यः
सूर्यः सत्यः प्रतिबिम्बः सत्यप्रकाशः सतः सूर्यस्य न स स्वप्नः
सतः प्रकाशस्तु सः, यथा वा सूर्यस्य ज्योतिः सौरं जगत् स्वशक्त्या
धावदिव पूरयत् प्रकाशते सत्यं ज्योतिः सत्यप्रकाशः सतः सूर्यस्य
न सोऽलीका भातिः सतः सत्यप्रकाशस्तु सः, यथा वा सूर्यस्य ज्वालामयं
बिम्बं न स्वयं सूर्यः सूर्यस्य तु सूर्यत्वं प्रकाशयत्येतदन्नमयं
रूपमन्नाश्रिते ज्ञाने तद्रूपातीतस्तु सूर्यः सत्यः सूर्यः सत्यं रूपं
बिम्बाकृति सत्यप्रकाशः सतः सूर्यस्य न स मायान्वितः सतः
सत्यप्रकाशस्तु सः, तथेह जगद्ब्रह्म सत्यप्रकाशो भगवतः न स्वप्रः
न मायान्वितं नालीका भातिः सतः सत्यप्रकाशस्तु तद् न स्वयं
भगवान् तथापि स्वयमेव सः । एषा परा मायैषा योगमाहात्म्यं
रहस्यमयस्य योगेश्वरस्य कृष्णस्यैषा चिच्छक्त्या आनन्दमयी लीला
परस्यातर्क्या गतिः ।
सर्वमिदमर्थतः सत्यं परार्थतः असत्यमिति मनस्तुष्ट्यर्थं
विज्ञानार्थमुच्यतां न हि किञ्चिदप्यसत्यं सत्ये ब्रह्मणि ।
एवं यत् प्रकाशते जगदानन्द एव तत् ।
ओं तत्सत् यच्च सच्चिदेव तद्यच्च चित् स आनन्दः । यत्तु
निरानन्दमिति भासते दुः खमिति दुर्बलमित्यज्ञानमिति
तदानन्दस्य विकार आनन्दस्य क्रीडा ।
यो हि जीवः स आनन्दमयः प्रच्छन्नो भगवान् स्वप्रकाशमयं
जगद्ब्रह्म भोक्तुमवतीर्णः । य एष दुःखभोगः स भोग
एवानन्दमयस्तस्यानन्दमेवानन्दमयो भुङ्क्ते ।
को हि निरानन्दं भोक्तुमुत्सहेत यः सर्वानन्दमयः स एवोत्सहते
निरान्दमयस्तु निरानन्दं भुञ्जानः न भुञ्जीतानन्दं विना प्रणश्येत्
। को दुर्बलो भवितुं शक्नुयाद्यः सर्वशक्तिमान् स एव शक्नुयाद्
दुर्बलो ह्याक्रान्तो दुर्बलत्वेन न तिष्ठेच्छक्तिं विना प्रणश्येत् ।
कोऽज्ञानं प्रवेष्टुं समर्थो यः सर्वज्ञानमयः स एव समर्थोऽज्ञस्तु
तस्मिंस्तिमिरे न ध्रियेतासत्त्वसदेव भवेद् ज्ञानं विना प्रणश्येत् ।
ज्ञानस्य क्रीडाज्ञानं स्वस्मिन्नात्मगोपनं शक्तेः क्रीडा दौर्बल्यं
निरानन्दमानन्दस्य क्रीडात्मगोपनं स्वात्मनि ।
सानन्दं हसति जीवः सानन्दं क्रन्दत्यश्रूणि मुञ्चति तमोमय
आनन्दे भासमान इव यातनाभिश्चेष्टमानः सानन्दं स्फुरति सानन्दं
स्फुरति चेष्टमानः प्रचण्डाभी रतिभिः । पूर्णभोगार्थं तस्यानन्दस्य
तामसस्यांशस्य तामसो भूत्वानन्दं गोपयति ।
अज्ञानं मूलमेतस्य भावस्य सान्त एवाहमित्यशक्तो
दुर्बलो दुःखी मया कर्तव्यं ज्ञातव्यं लब्धव्यं प्रयासेन तपः क्षयेण
मृत्युना स त्वमेषोऽहं यत्त्वं न तदहं यत्तव शुभं तन्ममाशुभं
येन तव लाभस्तेन मम हानिः त्वामेव हन्यां सुखी भविष्यामि
नैव सात्त्विकोऽहं त्वामेव सुखिनं करोमि स्वदुःखेन स्वहान्या
स्वमृत्युनेत्याद्यज्ञानस्य स्वरूपं मनसि ।
अहङ्कार एव बीजमहङ्कारमोक्षादज्ञानमोक्षः
अज्ञानमोक्षाद् दुःखान्मुच्यते आनन्दमयोऽहं
सोऽहमेकोऽहमनन्तोऽहं सर्वोऽहमिति विज्ञायानन्दमयो
भवत्यानन्दो भवति ।
एष एव मोक्षः । स मुक्तः सर्वेषां भोगान् भुङ्क्ते
सर्वानानन्दाननन्तं भुञ्जानो न सान्तैर्वियुज्यते सान्तानि भुञ्जानो
नानन्तेन हीयते स एको भवति बहुर्भवति स ह्यजो जायत इव
जायमानोऽपि न जायते न बध्यते न जन्म तस्य विद्यते
आत्मन्यात्मात्मना प्रकाशयाम्यात्मानमिति ज्ञानाद् विमुक्तः क्रीडते ।
लीलार्थं हि जगदानन्दार्थं लीलामय इति लीलां
कुरुतानन्दस्य पुत्राः युक्ताः क्रीडतानन्दं भुङ्घ्वमेकं भोग्यं
भगवन्तं प्राप्य भुङ्घ्वं सर्ववस्तुषु ।
आनन्दं हि प्रवक्ष्यामि भगवतादिष्टः ।
तामसमपावृत्यानन्दः प्रकाशतां तस्य पुत्राः ।
Encoded and proofread by P. R. Kannan prkannanvashi at yahoo.com
See the link for Tamil commentary by P.R. KANNAN