बाष्कलमन्त्रोपनिषत् सवृत्तिका

बाष्कलमन्त्रोपनिषत् सवृत्तिका

अथ बाष्कलमन्त्रोपनिषत् । मेधातिथिं काण्वमिन्द्रो जहार द्या मेषभूयोपगतो विदानः । तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १॥ को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति । सुशेवमिच्चङ्क्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २॥ नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति । तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवद्ब्रह्म रिषा मयस्वि ॥ इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसासहिस्तपसा मा विचक्षे । स इद्देवो ऋतमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४॥ कुहेव मावशमितो नयातै कुहेव ते चित्रतमप्रतिष्ठा । कुहाचिदेष स्वपिता पिता नो यो न वेद न हृतं हरन्तम् ॥ ५॥ प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा । न मामिमे नूनमित्था पथो विदुर्ये मा न यन्ति मिथु चाकशानाः ॥ ६॥ परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः । न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७॥ अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् । अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८॥ मम प्रतिष्ठा भुव आण्डकोशा वि चैमि सं च हि नु यो विरश्पी । अहं न्वहिं पर्वते शिश्रियाणमुग्रो न्वहं तवसावस्युरद्धा ॥ ९॥ प्रवङ्क्षणा अभिदं पर्वतानां यत्सीमिन्द्रा अकरोदनीकैः। को अद्धा वेद क इह प्रवोचत् को अश्नवदभिमातिं विजघ्नुषः ॥ १०॥ को मे अवो दाशुषो विष्वगूतीरित्था ददश्रे भुवनाधि विश्वा । रूपं रूपं जनुषा बोभवीमि मायाभिरेको अभिचाकशानः ॥ ११॥ विश्वं विचक्षे यमयन्नभीको नेशे मे कश्च महिमानमन्यः । अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२॥ अहमु ह प्रवतिं यज्ञियामियां अहं वेद भुवनस्य नाभिम् । आपिः पिता सूरहमस्य विष्वङ् अहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३॥ अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् । अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य मध्ये ॥ १४॥ अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकं पृणैधीत् । यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५॥ अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः । अहमिन्नु दिद्युतानो दिवे दिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६॥ अहं दिश प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् । अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः प्रजाः ॥ १७॥ अह चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः । यो मा वेद निहितं गुहा चित् स इदित्था शेभवीदाशयध्यै ॥ १८॥ अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र । मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९॥ न मामश्नोति जरिता न कश्चन न मामश्नोति परि गोभिराभिः । न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व इन्मामुपयन्ति विश्वतः ॥ २०॥ क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि । यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥ २१॥ यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे । ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२॥ अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् । अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व विचिकित्सीर्म ऋज्वा ॥ २३॥ विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः । हंसो विशोको अजरः पुराण ऋतीयमानो अहमस्मि नाम ॥ २४॥ अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः । अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥ २५॥ इति बाष्कलमन्त्रोपनिषत् समाप्ता । अथ बाष्कलमन्त्रोपनिषत् सवृत्तिका । मेधातिथिं काण्वमिन्द्रो जहार इत्याद्या बाष्कलानां मन्त्रोपनिषत् । तस्याश्चेयमल्पाक्षरा वृत्तिरारभ्यते । मेधातिथिनामानमृषिं कण्वस्य पुत्रं सामवेदब्राह्मणप्रसिद्धमिन्द्रः जहार । द्या मेषभूयोपगतो विदानः । मेषभूयं मेषभावम् । भुवः क्यप् । उपगतः प्राप्तः । सामवेदब्राह्मणप्रसिद्धाख्यायिकः । द्याः स्वर्गलोकान् प्रतीति विवक्षितं जहार हृतवान् । विदानः ज्ञानी ॥ तमन्य इत्तमनं परिप्राट् । तं इन्द्रं अन्यः मेधातिथिः इदिति निरर्थको निपातः । तमनं हरणेन ग्लानिपदम् । परिपृच्छतीति परिप्राट् । मेधातिथिः पद एनं नियुयुजे परस्मिन् ॥ १॥ परस्मिन् पदे ज्ञेये तत्स्वरूपे पदार्थे नियुयुजे नियुक्तवान् । विलक्षणमेषीभूतेन्द्रकर्तृकविलक्षणक्रियादर्शनात् आपाततो विलक्षणः परो देवः कश्चिन्न तु मे मेष इति तात्विकतत्स्वरूपज्ञानाय वक्ष्यमाणप्रश्नेन परं पदं ज्ञेयं स्वस्वरूपं कथयेति प्रश्नेन नियोजितवानित्यर्थः । प्रश्नमेवाह श्रुतिः । को ह स्मैष भवसि व्यवायः । ह इति पूर्ववृत्तावद्योतको निपातः । स्मेति निरर्थकम् । एष प्रत्यक्षः । व्यवायो ज्ञेयः । व्यवपूर्वस्यैतेर्घञि रूपम् । कच्चित् ज्ञातुं योग्यस्त्वमसि । नावायो म इह शश्वदस्ति । मे मम शश्वदिति ध्रुवार्थं आवायो ज्ञानं नास्ति कस्त्वमिति । दृश्यमाने मेषस्वरूपे कथमेवं संशय इति चेत् । तत्राह । सुशेवमिच्चङ्क्रमसि । शोभनमेव चङ्क्रमणं करोषि । प्रपश्यन् इत्था न कश्चोरणमाचचक्षे ॥ २॥ इत्था न । हरथमिव । नकार इवार्थः । को वा इत्थं क्रममाणं प्रपश्यन् उरणं मेषं आचचक्षे । उक्तवान् । दृष्टवान् वा । इत्थं क्रममाण उरणो न केनचिद्दृष्ट इति भावः क्रमेण वैलक्षण्यमेवाह । नेमामस्पृक्षदिदुदस्यमानः । इमां पृथिवीं उदस्यमानः । इत् एवार्थे । कूर्दन्नेव न अस्पृक्षत् न स्पृशतीति लकारव्यत्ययः । नैतावता वैलक्षण्यमत आह । को अद्धामूमभिचङ्क्रमीति । अद्धा साक्षात् । अनेनैव शरीरेण । अमूं द्याम् । कः अभिचङ्क्रमीति अभिक्रामति । प्रश्नमुपसंहरति । तदिच्छाधि यो असि सर्ववित्तमः । तत् तस्मात् शाधि । इदित्यनर्थकम् । शिक्षय यस्त्वं सर्ववित्तमः सर्वज्ञतमः असि तत्स्वरूपं कथयेति भाव । अकयनेऽनिष्ट सभाव्यते । तन्मा भवत्वित्याह । न त्वाश्नवद्ब्रह्म रिषा मयस्वि ॥ ३॥ मयस्वि तेजस्वि ब्रह्म ब्राह्मण्य रिषा क्रोधन त्वा त्वा न अश्नवत् न अश्नोति न व्याप्नोत् । अस्मदीयक्रोधव्यापागविपया मा भूदित्यभिप्रायः । कुतस्तवैव बलमत आह । इन्द्रो नृचक्षा वृषभस्तुरापाट् । इन्द्र परमेश्वर नृचक्षा सर्वजगत्कर्मसाक्षी वृषभ कामप्रदस्तुरपाट् तुर परबल सहत अभिभवतीति सहे छन्दसीति ण्वि । प्रसासहिस्तपसा मा विचक्षे । प्रसासहि प्रसहनशील । तपसा उपलक्षणे तृतीया । मा मा विचक्ष पश्यति । अत सत्यमकथयत ईश्वराद्भयमप्याह । स इहेवो ऋतप्रन्वयन्तम् । इत एवार्थे । स इत स एव देव ऋत सत्य अनु लक्षीकृत्य अयन्त अगच्छट सत्येन पथा अगच्छन्त सत्यमब्रुवाणमिति यावत् । प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४॥ अपविद्धात् क्षिप्तात् तवसो वक्त्रात प्रभी प्रकृष्ट भय मा अक कार्षीत् । प्रष्टव्यमाह । कुहेव मावशमितो नयातै । कुत्रेव मा मा अवशा इत अस्मात् स्थानात् नयात नायसि । किं च । कुहेव ते चित्रतमप्रतिष्ठा । स्पष्टम् । ईदृक्लष्टे कायवाङ्मनानिर्निषवितमीश्वर स्मरति । कुहाचिदेष स्वपिता पिता नः । एष मानसप्रत्यक्षा न पिता ईश्वर कुहाचित् कुत्र स्वपिता स्वपिति । यो न वेद न हृत हरन्तम् ॥ ५॥ य हृत मा न वेद न वा हरन्त वदत्यन्वय । किं च इतर प्यातन्मनिषविता देवा न मत्सहाया इत्याह । प्रत्यङ्ङ्वाङ्प्राङ्तरा च नेह । पञ्चसु दिक्षु तत्र तत्र वर्तमाना प्राणपञ्चका- धिष्टातारो देवा लक्ष्यन्त । इतरा चत्यन्तेषु । सर्वत्र सप्तम्यर्थो बोध्य । वर्तमाना इति च शेष । तेऽत्र देवा अपि किं नेह सन्ति । पक्षान्तरमाह । नाहमेनाननुपस्थिरद्धा । एना देवान् । जद्वा सत्येन । अह नोपतस्थि नोपस्थाता इति न । अपि तु उपस्थातव । किं च । न मामिमे नूनमित्था पथो विदुः । नून निश्चितोऽयमर्थ । इमे देवा मा इत्था इत्थभूत न विदु । ये मा न यन्ति मिथु चाकशानाः ॥ ६॥ ये पथो मार्गात् मा मा न नयन्ति । कीदृश मिथु मिथ चाकशाना भासमाना । अत परमिन्द्रम्य मेषवेषधारिण प्रतिवचनमुपक्रमते । परः स्मियानो अविवरस्य शूकम् । पर इन्द्र स्मियान हसन् अस्य मेधातिथे शूक शङ्का अविव विवृतवान् । किं सीमिच्छरणं मन्यमानः । सीमिति निरर्थको निपात । इत् प्रश्ने । किं शरण रक्षक मन्यमान असीति शेष । इत्थम्भूतस्त्वं किं शरण मन्यस इत्यर्थ । पुनरिन्द्र आह-- न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७॥ हेत्यैतिह्यार्थ । त्वा त्वा स्वविष्ठा स्वस्थान अप्रणीय अप्रापय्य इत्था इत्थभूत अज्ञानपङ्कनिमग्न न जहामि शपमानमिन्नु शपमानमपि । तथा च त्वामज्ञानपङ्कादुद्धृत्य स्वस्थानमात्मस्वरूप यावन्न प्रापयामि तावन्न त्वा मुञ्चामीति फलितोऽर्थ । तदिच्छाधि यो असि सर्ववित्तम इत्यस्योत्तरमाह । अहमस्मि जरितॄणामु दावा । अह उ इति निश्चये । जरितॄणा यजमानाना ``जरिता वै यजमान'' इति श्रुते । दावा दाता फलस्येति शेष । अस्मि भवामि । यागादिफल- प्रदोऽहमेव । अहमाशिरम् । सोमसस्कारक पय तदप्यहमेव । अहमिदं दधग्वान् । इद हवि दधग्वान् दाहक । एतस्य हविषो दाहकश्चाहमेवेत्यर्थ । किं च । अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८॥ विश्वा भुवनानि विश्वेषा भुवनाना विचक्षन् साक्षी सन्नह देवाना आसन् आस्ये अव अन्नाद्य अद ददामि । कुहेव ते चित्रतमप्रतिष्ठा इत्यस्योत्तरमाह । मम प्रतिष्ठा ध्रुव आण्डकोशाः । भुव उत्पादकस्य मम आण्डकोशा ब्रह्माण्डानि प्रतिष्ठा ``तत्सृष्ट्वा'' इति श्रुते । वि चैमि सं च हि नु यो विरश्पी । योऽह व्येमि वियुक्तो भवामि समेमि सङ्गतश्च भवामि ससारेऽस्मिन् विरश्पी विविध रपति शब्द करोतीति विरश्पी रपधातो शिनिन् । शब्दवान् वेदप्रवक्तेति यावत् । अह न्वहि पर्वते शिश्रियाणम् । नु इति निश्चये । अहमेव नान्य । अहि वृत्रासुर पर्वते शिश्रियाण पर्वताश्रित अहनम् । उग्रो न्वहं तवसावस्युरद्धा ॥ ९॥ उग्र क्रूरकर्मा नु निश्चित अहमेव । तवसा वज्रेण अद्धा निश्चितम् । अवस्यु अन्नेच्छ । ऐश्वर्येच्छुरिति यावत् । सोऽप्यहमेव । प्रवङ्क्षणानभिदं पर्वतानाम् । प्रवङ्क्षणान् पक्षान् पर्वताना अभिद भेदितवानस्मि । यत्सीमिन्द्रो अकरोदनीकैः । यत् पुरुषसाध्य कर्मेन्द्र अनीकै अकरोत्तत् अहमेवाकरवमिति वाक्यशष । सीमिति निरर्थको निपात । को अद्धा वेद क इह प्रवोचत् । अद्धा सत्य मम स्वरूपमिति शेष । को वेद क वेत्ता । को वा प्रवक्ता । को अश्नवदभिमातिं विजघ्नुष ॥ १०॥ किं च अभिमाति अरिसैन्य विजघ्नुष हतवतो मम मामित्यर्थ । क अश्नवत् क अश्नोत् । मयि व्यापकता कर्तुं न कोऽपि समर्थ इत्यर्थ । को मे अवो दाशुषो विष्ह्वगूतीरित्था ददश्रे भुवनाधि विश्वा । अवोऽन्न दाशुषो दत्तवत मे ऊती शक्ती विश्वा भुवनान्यधि । अधिरीश्वर इति कर्मप्रवचनीयता । सर्वेषु भुवनेषु क ददश्रे क ददर्श । किं च । रूपंरूपं जनुषा बोभवीमि । जनुषा शरीरग्रहणमत रूपरूप अनेकरूप बोभवीमि भवामि शुद्धस्य तव कथ शरीरग्रहणमत आह । मायाभिरेको अभिचाकशानः ॥ ११॥ अनेकाभिर्विचित्रशक्तिमिर्मायाभि एकोऽपि अभित चाकशान भासमान मायाप्रतिबिम्बित इति यावत् । किं च । विश्वं विचक्षे यमयन्नभीक । अभीको निर्भय विश्व यमयन् । अन्तर्यामिस्वरूपेण अधितिष्ठन् । विचक्षे पश्यामि । किं च । नेशे मे कश्च महिमानमन्यः । महिमान प्राप्तुमिति शेष । स्पष्टम् । किं च । अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२॥ द्यावापृथिवी आततानस्तन्वन्नह जनाना अवसे जनाना अवितु धर्मं महावीरं यज्ञशिरो बिभर्मि । इदमुपलक्षणम् । कर्ममार्गप्रवर्तनेनापि लोकरक्षक इति फलितोऽर्थ । ``आहुत्याप्यायते सोम'' इत्यादिस्मृते । अहमु ह प्रवतिं यज्ञियामियाम् । अह उ ह यज्ञिया प्रवति यज्ञसबन्धिन काममहमियाम् । कर्मफलप्रदोऽप्यहमेवेति भाव । अहं वेद भुवनस्य नाभिम् । त्रैलोक्यवर्तिपदार्थमात्र नाभिपदेनोपलक्ष्यते । आपिः पिता सूरहमस्य विष्वङ् । आपि पितामह पिता जनक सूर्माता अहमेव अस्य विश्वस्य । किं च । अहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३॥ दिव्या आन्तरिक्ष्याश्च तुका बिन्दून् अह वह वहामि । लकारव्यत्यय अडागमाभावश्च छान्दस । वृष्टिकर्ताप्यहमेवेत्यर्थ । अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् । सर्वत्र कर्मणि षष्ठी अविद वेद्मि । अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य गव्ये ॥ १४॥ परस्य सरस समुद्रस्य मध्ये यत् इत् उदर्थे । उदेतीव । उदय बडबानलस्वरूपेण उदय प्राप्नोतीति यावत् । तत् बडबानलस्वरूप तेज अहमेव सन् सरिरस्य सलिलस्य कर्मणि षष्ठी सलिलमहमेव पचामि । अहमिन्न्नु परमो जातवेदा यमध्वर्युरभिलोकम्पृणैधीत् । अहमिन्नु परम पवित्रतमो जातवेदा अग्नि य जातवेदस अध्वर्यु अभिलोकं पृणा लोकपृणामिष्टकामभि लक्षीकृत्य अध्वर्यु ऐधीत् समिद्ध चकार । यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽऋतोमुतश्च ॥ १५॥ यमध्वर्युमनु लक्ष्यीकृत्य नभसो न पक्षी नभस पक्षीव नकार इवार्थे गोभिर्वाग्भि । इत अमुतश्च काष्ठा दिश भिन्दन् अन्वाह शसति । होतेति शेष । अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः । अह उ । द्विषडारेण द्वादशारेण द्वादशमासात्मकेन संवत्सररूपेण अन्तरिक्षेऽपि अपतता रथेन प्रधिना चक्रधारया उपलक्षितेन यन् गच्छन् य सोऽहमेवेत्यन्वय । कीदृशोऽह एकचक्र । न खल्वन्योऽहमिव एकेन चक्रेण याति । एव सूर्यरूपेण प्रस्तूय चन्द्ररूपेण स्तौति । अहमिन्नु दिद्युतानो दिवेदिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६॥ अहमव निवेदिवे प्रतितिन तन्व शरीर पुपुण्यान् पोपयन् अमृत वहामि प्रापयामि प्रजाभ्य इति शप । कीदृश दिद्युतान प्रकाशमान । अथ वायुरूपेण स्तौति । अहं दिशः प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् । स्पष्टम् । अथ पृथिवीरूपेण स्तौति । अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्वाशुपः प्रजाः ॥ १७॥ विश्वा सर्वा ओषधी अन्नानि । आधा दध । दाशुप यजमानस्य प्रजा याभिरोषधीभि इद विश्व धिनुयु प्रीणयन्ति । अथ सकलजीवरूपतामाह । अहं चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः । उच्चावच ऊर्ध्वमधश्च । आब्रह्मस्तम्बपर्यन्तजीवरूपोऽहमेवेति भाव । यो मा वेद निहित गुहा चित्स इदित्था बोभबीदाशययै ॥ १८॥ यो मा मा गुहा गुहायामन्तःकरण निहित हृत्कमलान्तर्वर्तिनमेतदुक्तरूपाभेदेन वेद उपास्त स इत्था इत्थ आशय यै आशयितु आशय कर्तु बोभवीति भवति । इत्थमशया ब्रह्मज्ञानी मत्तुयो भवतीति यावत् । चिदिति निरर्थकम् । अहं पञ्चधा दशधा चैकधा च सहस्रधा नेकधा चासमत्र । अत्र विश्वस्मिन् । एष स्पष्टाम् । मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदु ॥ १९॥ मया ततमिदं विश्वमिति । (अमु अमु प्रकार) अश्नुत प्राप्नोति । तत् तदेतत् मदुक्तम् । अन्यथा असत् अन्यथा स्यात् । यदि एव कऽपि ब्रयुरिति शेष । तर्हि त असद्विदु । स्पष्टम् । न मामश्नोति जरिना कश्चन न माश्नोति परि गोभिराभिः । कश्चित् जरिता यजमान मा न अश्नोति न प्राप्नोति । ``न कर्मणा न प्रजया धनेन'' इति श्रुते । आभिर्गोभिवाग्भि वेदरिति वावत् । न मा परि अश्नोति परिप्राप्नोति । परीति सामस्त्यार्थम् । तथा च ``नायमात्मा प्रवचनेन लभ्य'' इति श्रुतिसमानार्थमेतत् । न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व इन्मामुपयन्ति विश्वतः ॥ २०॥ मे मा कर्मणि षष्ठी । अनाश्वान् अनशनव्रती न अजग्रभीत् । न गृह्णाति । दाश्वान् दाता । दानानाशकयोरपि ``यज्ञेन दानेन तपसानाशकेन'' इति श्रुत्या लोकप्राप्ति हेतुत्वस्यैवोक्ते । न चाहमेकस्मिन्नेव लोके नियत । अतो ज्ञानिन सर्व एव इदेवार्थे मा विश्वत विश्वस्मिन्नुपयन्ति उपगच्छन्ति । क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि । शरारु व्याघ्रादि सृमर वृकश्च क्वेति क्वचित् प्रत्येक उरण मेष सर्वमिदं त्वत् त्वत् त्वच्छब्द अन्यपर्याय । अन्यदन्यच्च इत अनया दिशा अनेन सृष्टिप्रकारेण तसिल सर्वविभक्तिकत्वोक्ते । वहामि । सर्वमपीति भाव । अतश्च पुनरप्याह । यन्मदिमे बिभ्यति तन्म एकम् । यत् मत् मत्त इमे व्याघ्रादयो बिभ्यति भय प्राप्नुवन्ति । व्याघ्रादिभ्यो भूयासो बिभ्यति । व्याघ्रादयोऽपि बहुभ्यो बिभ्यति । यस्माच्च व्याघ्रादयो बिभ्यति सोऽहमेव । तदेतदाह । तन्म एक तत्सर्वमपि मे मम एकमेव । एवमैक्ये स्वस्य तदपेक्षया विशेषमाह । मे ते अक्षन्नहमु ताननुक्षम् ॥ २१॥ ते मे मा न अक्षन् न भक्षयन्ति अदेर्घस्युपधालोप । उ इति अनर्थकम् । अहमु तान् अनुक्ष भक्षयामि अडागमाभाव छान्दस । यत्तप्यथा बहुधा मे पुरा चित् । यत् बहुधा मदर्थ पुरा पूर्व तप्यथा तप्तवानसि । चिदित्यनर्थकम् । तन्नु भुवेऽह उरणो बोभुवे । तत् तस्मादेव हेतो नु निश्चयेन । भुवे भवाय सत्तायै ज्ञानेन तवैव सत्स्वस्वरूपावाप्तय इति यावत् । उरणो मेष । बोभुवे अभवम् । अत परमुपसहरन्नाह । ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे ऋतस्य सत्यस्य पन्था पन्थान प्रपन्नोऽसि । स त्व मे मम एक सत्यमित् सत्यमेव । न त्वन्यत् किमपि सांसारिक ऐहिक प्राप्नुहि । पुन शुद्ध स्वस्वरूपमाह ॥ २२॥ अहं ज्योतिरहममृतं विनद्धिः । नद्धि बन्धनम् । तद्रहितम् । स्पष्टम् । स्वविवर्तत्वेन विश्वय स्वामदमाह । अहं जातं जनि जनिष्यमाणम् । जनि जायमानम् । स्पष्टम् । मेधातिथे स्वामदमुपदर्शयन्नाह । अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व । अहं त्वमेव । अहं दृश्यमानश्चेत् प्रतिबिम्बवत् त्वम् । तर्हि कदाचित् मम मिथ्याभूतत्व प्रतिबिम्बवत् स्यादत आह । अहं चाहमेव । न प्रतिबिम्बवन्मिथ्याभूत इत्यर्थ । तर्हि तवैव प्रतिबिबवन्मिथ्याभूत कदाचित् स्यादत आह । त्वमिन्नु त्वमहं चक्ष्व ॥ त्वमपि त्वमेव अहं चेति च्क्ष्व जानीहि । विचिकित्सीर्म ऋज्वा ॥ २३॥ ऋज्वा ऋजु साम्प्रत न तथाऽपक्वकपायोऽब्रह्मज्ञश्चेति मा विचिकित्सा मा संशय कार्षी । कुत सन्देहे सन् । मा इत्यत्र ऋत्यक इति ह्रस्व ॥ विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः । विधरण जगद्वारकत्वात् । प्रणीती जगत्प्रणेतृत्वात् अन्तर्यामिस्वरूपेणेति भाव । तमन शमन । यमस्वरूपत्वात् । स्पष्टम् । हंसो विशोको अजरः पूरणो ऋतीयमानो अहमस्मि नाम ॥ २४॥ हंसो विवेचकत्वसामान्यात् ऋतीयमानत्व सर्वत्र घृणावत्त्वेन निर्लेपत्वम् । ऋति सात्रा घृणार्य प्रसिद्ध । ऋच्छतत्रियतेर्वा ल्युट् । अहमस्मि दरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः । जरिता यजमान इति व्याख्यात प्राक । पयारण व्यापक । नृचक्षा साक्षी । अहं विःवङ्ङहमस्मि प्रसत्वानहमेको अस्मि यदिद नु किञ्च ॥ २५॥ विश्वङ् व्यापकत्वात् प्रसत्वान् साक्षी । स्पष्टम् । इति बाष्कलमन्त्रोपनिषत् । इति बाष्कलमन्त्रोपनिषत् सवृत्तिका समाप्ता । Proofread by Sunder Hattangadi
% Text title            : bAShkalpaniShat with Commentary
% File name             : bAShkalpaniShat.itx
% itxtitle              : bAShkalpaniShat savRittikA (sAmAnyavedAnta)
% engtitle              : bAShkalpaniShat with Commentary
% Category              : upanishhat, vedanta, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned book)
% Latest update         : October 7, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org