बाष्कलमन्त्रोपनिषत् सवृत्तिका
अथ बाष्कलमन्त्रोपनिषत् ।
मेधातिथिं काण्वमिन्द्रो जहार द्या मेषभूयोपगतो विदानः ।
तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १॥
को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति ।
सुशेवमिच्चङ्क्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २॥
नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति ।
तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवद्ब्रह्म रिषा मयस्वि ॥
इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसासहिस्तपसा मा विचक्षे ।
स इद्देवो ऋतमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४॥
कुहेव मावशमितो नयातै कुहेव ते चित्रतमप्रतिष्ठा ।
कुहाचिदेष स्वपिता पिता नो यो न वेद न हृतं हरन्तम् ॥ ५॥
प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा ।
न मामिमे नूनमित्था पथो विदुर्ये मा न यन्ति मिथु चाकशानाः ॥ ६॥
परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः ।
न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७॥
अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् ।
अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८॥
मम प्रतिष्ठा भुव आण्डकोशा वि चैमि सं च हि नु यो विरश्पी ।
अहं न्वहिं पर्वते शिश्रियाणमुग्रो न्वहं तवसावस्युरद्धा ॥ ९॥
प्रवङ्क्षणा अभिदं पर्वतानां यत्सीमिन्द्रा अकरोदनीकैः।
को अद्धा वेद क इह प्रवोचत् को अश्नवदभिमातिं विजघ्नुषः ॥ १०॥
को मे अवो दाशुषो विष्वगूतीरित्था ददश्रे भुवनाधि विश्वा ।
रूपं रूपं जनुषा बोभवीमि मायाभिरेको अभिचाकशानः ॥ ११॥
विश्वं विचक्षे यमयन्नभीको नेशे मे कश्च महिमानमन्यः ।
अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२॥
अहमु ह प्रवतिं यज्ञियामियां
अहं वेद भुवनस्य नाभिम् ।
आपिः पिता सूरहमस्य विष्वङ्
अहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३॥
अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् ।
अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य मध्ये ॥ १४॥
अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकं पृणैधीत् ।
यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५॥
अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः ।
अहमिन्नु दिद्युतानो दिवे दिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६॥
अहं दिश प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् ।
अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः प्रजाः ॥ १७॥
अह चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः ।
यो मा वेद निहितं गुहा चित् स इदित्था शेभवीदाशयध्यै ॥ १८॥
अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र ।
मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९॥
न मामश्नोति जरिता न कश्चन न मामश्नोति परि गोभिराभिः ।
न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व इन्मामुपयन्ति विश्वतः ॥ २०॥
क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि ।
यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥ २१॥
यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे ।
ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२॥
अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् ।
अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व विचिकित्सीर्म ऋज्वा ॥ २३॥
विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः ।
हंसो विशोको अजरः पुराण ऋतीयमानो अहमस्मि नाम ॥ २४॥
अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः ।
अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥ २५॥
इति बाष्कलमन्त्रोपनिषत् समाप्ता ।
अथ बाष्कलमन्त्रोपनिषत् सवृत्तिका ।
मेधातिथिं काण्वमिन्द्रो जहार इत्याद्या बाष्कलानां मन्त्रोपनिषत् ।
तस्याश्चेयमल्पाक्षरा वृत्तिरारभ्यते । मेधातिथिनामानमृषिं
कण्वस्य पुत्रं सामवेदब्राह्मणप्रसिद्धमिन्द्रः जहार । द्या
मेषभूयोपगतो विदानः । मेषभूयं मेषभावम् । भुवः क्यप् ।
उपगतः प्राप्तः । सामवेदब्राह्मणप्रसिद्धाख्यायिकः । द्याः स्वर्गलोकान्
प्रतीति विवक्षितं जहार हृतवान् । विदानः ज्ञानी ॥ तमन्य
इत्तमनं परिप्राट् । तं इन्द्रं अन्यः मेधातिथिः इदिति निरर्थको
निपातः । तमनं हरणेन ग्लानिपदम् । परिपृच्छतीति परिप्राट् ।
मेधातिथिः पद एनं नियुयुजे परस्मिन् ॥ १॥
परस्मिन् पदे ज्ञेये तत्स्वरूपे पदार्थे नियुयुजे नियुक्तवान् ।
विलक्षणमेषीभूतेन्द्रकर्तृकविलक्षणक्रियादर्शनात्
आपाततो विलक्षणः परो देवः कश्चिन्न तु मे मेष इति
तात्विकतत्स्वरूपज्ञानाय वक्ष्यमाणप्रश्नेन परं पदं ज्ञेयं
स्वस्वरूपं कथयेति प्रश्नेन नियोजितवानित्यर्थः । प्रश्नमेवाह
श्रुतिः । को ह स्मैष भवसि व्यवायः । ह इति पूर्ववृत्तावद्योतको
निपातः । स्मेति निरर्थकम् । एष प्रत्यक्षः । व्यवायो ज्ञेयः ।
व्यवपूर्वस्यैतेर्घञि रूपम् । कच्चित् ज्ञातुं योग्यस्त्वमसि ।
नावायो म इह शश्वदस्ति । मे मम शश्वदिति ध्रुवार्थं आवायो ज्ञानं
नास्ति कस्त्वमिति । दृश्यमाने मेषस्वरूपे कथमेवं संशय इति
चेत् । तत्राह । सुशेवमिच्चङ्क्रमसि । शोभनमेव चङ्क्रमणं
करोषि । प्रपश्यन् इत्था न कश्चोरणमाचचक्षे ॥ २॥
इत्था न । हरथमिव । नकार इवार्थः । को वा इत्थं क्रममाणं
प्रपश्यन् उरणं मेषं आचचक्षे । उक्तवान् । दृष्टवान् वा । इत्थं
क्रममाण उरणो न केनचिद्दृष्ट इति भावः क्रमेण वैलक्षण्यमेवाह ।
नेमामस्पृक्षदिदुदस्यमानः । इमां पृथिवीं उदस्यमानः । इत् एवार्थे ।
कूर्दन्नेव न अस्पृक्षत् न स्पृशतीति लकारव्यत्ययः । नैतावता
वैलक्षण्यमत आह । को अद्धामूमभिचङ्क्रमीति । अद्धा साक्षात् ।
अनेनैव शरीरेण । अमूं द्याम् । कः अभिचङ्क्रमीति अभिक्रामति ।
प्रश्नमुपसंहरति । तदिच्छाधि यो असि सर्ववित्तमः । तत् तस्मात्
शाधि । इदित्यनर्थकम् । शिक्षय यस्त्वं सर्ववित्तमः सर्वज्ञतमः
असि तत्स्वरूपं कथयेति भाव । अकयनेऽनिष्ट सभाव्यते । तन्मा
भवत्वित्याह । न त्वाश्नवद्ब्रह्म रिषा मयस्वि ॥ ३॥
मयस्वि तेजस्वि ब्रह्म ब्राह्मण्य रिषा क्रोधन त्वा त्वा न अश्नवत् न
अश्नोति न व्याप्नोत् । अस्मदीयक्रोधव्यापागविपया मा भूदित्यभिप्रायः ।
कुतस्तवैव बलमत आह । इन्द्रो नृचक्षा वृषभस्तुरापाट् ।
इन्द्र परमेश्वर नृचक्षा सर्वजगत्कर्मसाक्षी वृषभ
कामप्रदस्तुरपाट् तुर परबल सहत अभिभवतीति सहे छन्दसीति
ण्वि । प्रसासहिस्तपसा मा विचक्षे । प्रसासहि प्रसहनशील । तपसा
उपलक्षणे तृतीया । मा मा विचक्ष पश्यति । अत सत्यमकथयत
ईश्वराद्भयमप्याह । स इहेवो ऋतप्रन्वयन्तम् । इत एवार्थे । स इत
स एव देव ऋत सत्य अनु लक्षीकृत्य अयन्त अगच्छट सत्येन पथा
अगच्छन्त सत्यमब्रुवाणमिति यावत् ।
प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४॥
अपविद्धात् क्षिप्तात् तवसो वक्त्रात प्रभी प्रकृष्ट भय
मा अक कार्षीत् । प्रष्टव्यमाह । कुहेव मावशमितो नयातै ।
कुत्रेव मा मा अवशा इत अस्मात् स्थानात् नयात नायसि । किं
च । कुहेव ते चित्रतमप्रतिष्ठा । स्पष्टम् । ईदृक्लष्टे
कायवाङ्मनानिर्निषवितमीश्वर स्मरति । कुहाचिदेष स्वपिता पिता नः ।
एष मानसप्रत्यक्षा न पिता ईश्वर कुहाचित् कुत्र स्वपिता स्वपिति ।
यो न वेद न हृत हरन्तम् ॥ ५॥
य हृत मा न वेद न वा हरन्त वदत्यन्वय । किं च इतर
प्यातन्मनिषविता देवा न मत्सहाया इत्याह । प्रत्यङ्ङ्वाङ्प्राङ्तरा
च नेह । पञ्चसु दिक्षु तत्र तत्र वर्तमाना प्राणपञ्चका-
धिष्टातारो देवा लक्ष्यन्त । इतरा चत्यन्तेषु । सर्वत्र सप्तम्यर्थो
बोध्य । वर्तमाना इति च शेष । तेऽत्र देवा अपि किं नेह सन्ति ।
पक्षान्तरमाह । नाहमेनाननुपस्थिरद्धा । एना देवान् । जद्वा सत्येन ।
अह नोपतस्थि नोपस्थाता इति न । अपि तु उपस्थातव । किं च ।
न मामिमे नूनमित्था पथो विदुः । नून निश्चितोऽयमर्थ । इमे देवा
मा इत्था इत्थभूत न विदु । ये मा न यन्ति मिथु चाकशानाः ॥ ६॥
ये पथो मार्गात् मा मा न नयन्ति । कीदृश मिथु मिथ चाकशाना
भासमाना । अत परमिन्द्रम्य मेषवेषधारिण प्रतिवचनमुपक्रमते ।
परः स्मियानो अविवरस्य शूकम् । पर इन्द्र स्मियान हसन् अस्य मेधातिथे
शूक शङ्का अविव विवृतवान् । किं सीमिच्छरणं मन्यमानः । सीमिति
निरर्थको निपात । इत् प्रश्ने । किं शरण रक्षक मन्यमान असीति
शेष । इत्थम्भूतस्त्वं किं शरण मन्यस इत्यर्थ । पुनरिन्द्र
आह-- न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७॥
हेत्यैतिह्यार्थ । त्वा त्वा स्वविष्ठा स्वस्थान अप्रणीय अप्रापय्य इत्था
इत्थभूत अज्ञानपङ्कनिमग्न न जहामि शपमानमिन्नु शपमानमपि ।
तथा च त्वामज्ञानपङ्कादुद्धृत्य स्वस्थानमात्मस्वरूप यावन्न
प्रापयामि तावन्न त्वा मुञ्चामीति फलितोऽर्थ । तदिच्छाधि यो असि
सर्ववित्तम इत्यस्योत्तरमाह । अहमस्मि जरितॄणामु दावा । अह उ इति
निश्चये । जरितॄणा यजमानाना ``जरिता वै यजमान'' इति
श्रुते । दावा दाता फलस्येति शेष । अस्मि भवामि । यागादिफल-
प्रदोऽहमेव । अहमाशिरम् । सोमसस्कारक पय तदप्यहमेव ।
अहमिदं दधग्वान् । इद हवि दधग्वान् दाहक । एतस्य हविषो
दाहकश्चाहमेवेत्यर्थ । किं च । अहं विश्वा भुवना विचक्षन्नहं
देवानामासन्नवोऽदः ॥ ८॥
विश्वा भुवनानि विश्वेषा भुवनाना विचक्षन् साक्षी सन्नह देवाना
आसन् आस्ये अव अन्नाद्य अद ददामि । कुहेव ते चित्रतमप्रतिष्ठा
इत्यस्योत्तरमाह । मम प्रतिष्ठा ध्रुव आण्डकोशाः । भुव उत्पादकस्य
मम आण्डकोशा ब्रह्माण्डानि प्रतिष्ठा ``तत्सृष्ट्वा'' इति श्रुते ।
वि चैमि सं च हि नु यो विरश्पी । योऽह व्येमि वियुक्तो भवामि
समेमि सङ्गतश्च भवामि ससारेऽस्मिन् विरश्पी विविध रपति शब्द
करोतीति विरश्पी रपधातो शिनिन् । शब्दवान् वेदप्रवक्तेति यावत् ।
अह न्वहि पर्वते शिश्रियाणम् । नु इति निश्चये । अहमेव नान्य ।
अहि वृत्रासुर पर्वते शिश्रियाण पर्वताश्रित अहनम् । उग्रो न्वहं
तवसावस्युरद्धा ॥ ९॥
उग्र क्रूरकर्मा नु निश्चित अहमेव । तवसा वज्रेण अद्धा निश्चितम् ।
अवस्यु अन्नेच्छ । ऐश्वर्येच्छुरिति यावत् । सोऽप्यहमेव ।
प्रवङ्क्षणानभिदं पर्वतानाम् । प्रवङ्क्षणान् पक्षान् पर्वताना अभिद
भेदितवानस्मि । यत्सीमिन्द्रो अकरोदनीकैः । यत् पुरुषसाध्य कर्मेन्द्र
अनीकै अकरोत्तत् अहमेवाकरवमिति वाक्यशष । सीमिति निरर्थको निपात ।
को अद्धा वेद क इह प्रवोचत् । अद्धा सत्य मम स्वरूपमिति शेष ।
को वेद क वेत्ता । को वा प्रवक्ता ।
को अश्नवदभिमातिं विजघ्नुष ॥ १०॥
किं च अभिमाति अरिसैन्य विजघ्नुष हतवतो मम मामित्यर्थ । क
अश्नवत् क अश्नोत् । मयि व्यापकता कर्तुं न कोऽपि समर्थ इत्यर्थ ।
को मे अवो दाशुषो विष्ह्वगूतीरित्था ददश्रे भुवनाधि विश्वा । अवोऽन्न
दाशुषो दत्तवत मे ऊती शक्ती विश्वा भुवनान्यधि । अधिरीश्वर इति
कर्मप्रवचनीयता । सर्वेषु भुवनेषु क ददश्रे क ददर्श । किं
च । रूपंरूपं जनुषा बोभवीमि । जनुषा शरीरग्रहणमत रूपरूप
अनेकरूप बोभवीमि भवामि शुद्धस्य तव कथ शरीरग्रहणमत आह ।
मायाभिरेको अभिचाकशानः ॥ ११॥
अनेकाभिर्विचित्रशक्तिमिर्मायाभि एकोऽपि अभित चाकशान भासमान
मायाप्रतिबिम्बित इति यावत् । किं च । विश्वं विचक्षे यमयन्नभीक ।
अभीको निर्भय विश्व यमयन् । अन्तर्यामिस्वरूपेण अधितिष्ठन् ।
विचक्षे पश्यामि । किं च । नेशे मे कश्च महिमानमन्यः । महिमान
प्राप्तुमिति शेष । स्पष्टम् । किं च । अहं द्यावापृथिवी आततानो
बिभर्मि धर्ममवसे जनानाम् ॥ १२॥
द्यावापृथिवी आततानस्तन्वन्नह जनाना अवसे जनाना अवितु
धर्मं महावीरं यज्ञशिरो बिभर्मि । इदमुपलक्षणम् ।
कर्ममार्गप्रवर्तनेनापि लोकरक्षक इति फलितोऽर्थ ।
``आहुत्याप्यायते सोम'' इत्यादिस्मृते । अहमु ह प्रवतिं
यज्ञियामियाम् । अह उ ह यज्ञिया प्रवति यज्ञसबन्धिन काममहमियाम् ।
कर्मफलप्रदोऽप्यहमेवेति भाव । अहं वेद भुवनस्य नाभिम् ।
त्रैलोक्यवर्तिपदार्थमात्र नाभिपदेनोपलक्ष्यते । आपिः पिता
सूरहमस्य विष्वङ् । आपि पितामह पिता जनक सूर्माता अहमेव अस्य
विश्वस्य । किं च । अहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३॥
दिव्या आन्तरिक्ष्याश्च तुका बिन्दून् अह वह वहामि । लकारव्यत्यय
अडागमाभावश्च छान्दस । वृष्टिकर्ताप्यहमेवेत्यर्थ । अहं
वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् । सर्वत्र कर्मणि
षष्ठी अविद वेद्मि । अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य
गव्ये ॥ १४॥
परस्य सरस समुद्रस्य मध्ये यत् इत् उदर्थे । उदेतीव । उदय
बडबानलस्वरूपेण उदय प्राप्नोतीति यावत् । तत् बडबानलस्वरूप तेज
अहमेव सन् सरिरस्य सलिलस्य कर्मणि षष्ठी सलिलमहमेव पचामि ।
अहमिन्न्नु परमो जातवेदा यमध्वर्युरभिलोकम्पृणैधीत् । अहमिन्नु
परम पवित्रतमो जातवेदा अग्नि य जातवेदस अध्वर्यु अभिलोकं पृणा
लोकपृणामिष्टकामभि लक्षीकृत्य अध्वर्यु ऐधीत् समिद्ध चकार ।
यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽऋतोमुतश्च ॥ १५॥
यमध्वर्युमनु लक्ष्यीकृत्य नभसो न पक्षी नभस पक्षीव
नकार इवार्थे गोभिर्वाग्भि । इत अमुतश्च काष्ठा दिश भिन्दन्
अन्वाह शसति । होतेति शेष । अहमु यन्नपतता रथेन द्विषडारेण
प्रधिनैकचक्रः । अह उ । द्विषडारेण द्वादशारेण द्वादशमासात्मकेन
संवत्सररूपेण अन्तरिक्षेऽपि अपतता रथेन प्रधिना चक्रधारया
उपलक्षितेन यन् गच्छन् य सोऽहमेवेत्यन्वय । कीदृशोऽह
एकचक्र । न खल्वन्योऽहमिव एकेन चक्रेण याति । एव सूर्यरूपेण
प्रस्तूय चन्द्ररूपेण स्तौति । अहमिन्नु दिद्युतानो दिवेदिवे तन्वं
पुपुष्यानमृतं वहामि ॥ १६॥
अहमव निवेदिवे प्रतितिन तन्व शरीर पुपुण्यान् पोपयन् अमृत वहामि
प्रापयामि प्रजाभ्य इति शप । कीदृश दिद्युतान प्रकाशमान । अथ
वायुरूपेण स्तौति । अहं दिशः प्रदिश आदिशश्च विष्वक् पुनानः
पर्येमि लोकम् । स्पष्टम् । अथ पृथिवीरूपेण स्तौति । अहं विश्वा
ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्वाशुपः प्रजाः ॥ १७॥
विश्वा सर्वा ओषधी अन्नानि । आधा दध । दाशुप यजमानस्य
प्रजा याभिरोषधीभि इद विश्व धिनुयु प्रीणयन्ति ।
अथ सकलजीवरूपतामाह । अहं चरामि भुवनस्य मध्ये
पुनरुच्चावचं व्यश्नुवानः । उच्चावच ऊर्ध्वमधश्च ।
आब्रह्मस्तम्बपर्यन्तजीवरूपोऽहमेवेति भाव । यो मा वेद निहित गुहा
चित्स इदित्था बोभबीदाशययै ॥ १८॥
यो मा मा गुहा गुहायामन्तःकरण निहित
हृत्कमलान्तर्वर्तिनमेतदुक्तरूपाभेदेन वेद उपास्त स इत्था इत्थ
आशय यै आशयितु आशय कर्तु बोभवीति भवति । इत्थमशया
ब्रह्मज्ञानी मत्तुयो भवतीति यावत् । चिदिति निरर्थकम् । अहं
पञ्चधा दशधा चैकधा च सहस्रधा नेकधा चासमत्र । अत्र
विश्वस्मिन् । एष स्पष्टाम् । मया ततमितीदमश्नुते तदन्यथासद्यदि
मे असद्विदु ॥ १९॥
मया ततमिदं विश्वमिति । (अमु अमु प्रकार) अश्नुत प्राप्नोति । तत्
तदेतत् मदुक्तम् । अन्यथा असत् अन्यथा स्यात् । यदि एव कऽपि ब्रयुरिति
शेष । तर्हि त असद्विदु । स्पष्टम् । न मामश्नोति जरिना कश्चन
न माश्नोति परि गोभिराभिः । कश्चित् जरिता यजमान मा न अश्नोति
न प्राप्नोति । ``न कर्मणा न प्रजया धनेन'' इति श्रुते ।
आभिर्गोभिवाग्भि वेदरिति वावत् । न मा परि अश्नोति परिप्राप्नोति ।
परीति सामस्त्यार्थम् । तथा च ``नायमात्मा प्रवचनेन लभ्य''
इति श्रुतिसमानार्थमेतत् । न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व
इन्मामुपयन्ति विश्वतः ॥ २०॥
मे मा कर्मणि षष्ठी । अनाश्वान् अनशनव्रती न अजग्रभीत् । न
गृह्णाति । दाश्वान् दाता । दानानाशकयोरपि ``यज्ञेन दानेन
तपसानाशकेन'' इति श्रुत्या लोकप्राप्ति हेतुत्वस्यैवोक्ते । न
चाहमेकस्मिन्नेव लोके नियत । अतो ज्ञानिन सर्व एव इदेवार्थे
मा विश्वत विश्वस्मिन्नुपयन्ति उपगच्छन्ति । क्व शरारुः क्व
सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि । शरारु व्याघ्रादि
सृमर वृकश्च क्वेति क्वचित् प्रत्येक उरण मेष सर्वमिदं त्वत्
त्वत् त्वच्छब्द अन्यपर्याय । अन्यदन्यच्च इत अनया दिशा अनेन
सृष्टिप्रकारेण तसिल सर्वविभक्तिकत्वोक्ते । वहामि । सर्वमपीति
भाव । अतश्च पुनरप्याह । यन्मदिमे बिभ्यति तन्म एकम् । यत्
मत् मत्त इमे व्याघ्रादयो बिभ्यति भय प्राप्नुवन्ति । व्याघ्रादिभ्यो
भूयासो बिभ्यति । व्याघ्रादयोऽपि बहुभ्यो बिभ्यति । यस्माच्च
व्याघ्रादयो बिभ्यति सोऽहमेव । तदेतदाह । तन्म एक तत्सर्वमपि
मे मम एकमेव । एवमैक्ये स्वस्य तदपेक्षया विशेषमाह । मे ते
अक्षन्नहमु ताननुक्षम् ॥ २१॥
ते मे मा न अक्षन् न भक्षयन्ति अदेर्घस्युपधालोप । उ इति
अनर्थकम् । अहमु तान् अनुक्ष भक्षयामि अडागमाभाव छान्दस ।
यत्तप्यथा बहुधा मे पुरा चित् । यत् बहुधा मदर्थ पुरा पूर्व
तप्यथा तप्तवानसि । चिदित्यनर्थकम् । तन्नु भुवेऽह उरणो बोभुवे ।
तत् तस्मादेव हेतो नु निश्चयेन । भुवे भवाय सत्तायै ज्ञानेन
तवैव सत्स्वस्वरूपावाप्तय इति यावत् । उरणो मेष । बोभुवे अभवम् ।
अत परमुपसहरन्नाह । ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स
मे ऋतस्य सत्यस्य पन्था पन्थान प्रपन्नोऽसि । स त्व मे मम
एक सत्यमित् सत्यमेव । न त्वन्यत् किमपि सांसारिक ऐहिक प्राप्नुहि ।
पुन शुद्ध स्वस्वरूपमाह ॥ २२॥
अहं ज्योतिरहममृतं विनद्धिः । नद्धि बन्धनम् । तद्रहितम् ।
स्पष्टम् । स्वविवर्तत्वेन विश्वय स्वामदमाह । अहं जातं
जनि जनिष्यमाणम् । जनि जायमानम् । स्पष्टम् । मेधातिथे
स्वामदमुपदर्शयन्नाह । अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व ।
अहं त्वमेव । अहं दृश्यमानश्चेत् प्रतिबिम्बवत् त्वम् । तर्हि कदाचित्
मम मिथ्याभूतत्व प्रतिबिम्बवत् स्यादत आह । अहं चाहमेव । न
प्रतिबिम्बवन्मिथ्याभूत इत्यर्थ । तर्हि तवैव प्रतिबिबवन्मिथ्याभूत
कदाचित् स्यादत आह । त्वमिन्नु त्वमहं चक्ष्व ॥ त्वमपि त्वमेव
अहं चेति च्क्ष्व जानीहि । विचिकित्सीर्म ऋज्वा ॥ २३॥
ऋज्वा ऋजु साम्प्रत न तथाऽपक्वकपायोऽब्रह्मज्ञश्चेति मा
विचिकित्सा मा संशय कार्षी । कुत सन्देहे सन् । मा इत्यत्र ऋत्यक
इति ह्रस्व ॥ विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः
प्रजापतिः । विधरण जगद्वारकत्वात् । प्रणीती जगत्प्रणेतृत्वात्
अन्तर्यामिस्वरूपेणेति भाव । तमन शमन । यमस्वरूपत्वात् ।
स्पष्टम् । हंसो विशोको अजरः पूरणो ऋतीयमानो अहमस्मि नाम ॥ २४॥
हंसो विवेचकत्वसामान्यात् ऋतीयमानत्व सर्वत्र घृणावत्त्वेन
निर्लेपत्वम् । ऋति सात्रा घृणार्य प्रसिद्ध । ऋच्छतत्रियतेर्वा
ल्युट् । अहमस्मि दरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः ।
जरिता यजमान इति व्याख्यात प्राक । पयारण व्यापक । नृचक्षा साक्षी ।
अहं विःवङ्ङहमस्मि प्रसत्वानहमेको अस्मि यदिद नु किञ्च ॥ २५॥
विश्वङ् व्यापकत्वात् प्रसत्वान् साक्षी । स्पष्टम् ।
इति बाष्कलमन्त्रोपनिषत् ।
इति बाष्कलमन्त्रोपनिषत् सवृत्तिका समाप्ता ।
Proofread by Sunder Hattangadi