द्रमिडोपनिषत्सारः

द्रमिडोपनिषत्सारः

श्रीः । श्री वेदान्ताचार्यैः अनुगृहीतः द्रमिडोपनिषत्सारः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ सेवायोग्योऽतिभोग्यः शुभसुभगतनुः सर्वभोग्यातिशायी श्रेयस्तद्धेतुदाता प्रपदनसुलभोऽनिष्टविध्वंसशीलः । भक्तच्छन्दानवर्ती निरुपधिकसुहृत् सत्पदव्यां सहायः श्रीमान् सर्वोचितायामुपनिषदि मिषत्येष गाथाशतैर्नः ॥ १॥ आद्ये पश्यन्नुपायं प्रभुमिह परमप्राप्यभूतं द्वितीये कल्याणोदारमूर्तेर्द्वितयमिदमिति प्रेक्षमाणस्तृतीये । ऐश्वर्यादेश्चतुर्ये विषमधुतुलयाऽनन्यभोग्यत्वमिच्छन् षड्भिः स्वां पञ्चमाद्यैरनितरगतिततामाचचक्षे मुनीन्द्रः ॥ २॥ परं निर्वैषम्यं सुलभमपराधप्रसहनं सुशीलं स्वाराधं सरसभजनं स्वार्जवगुणम् । सुसात्म्यस्वानन्दप्रदमनघविश्राणनपरं मुकुन्दं निध्यायन् मुनिरधिजगावाद्यशतके ॥ ३॥ द्विकाभ्यां द्व्यष्टाङ्घ्रिर्दुरधिगमनीतिस्थपुटिता यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत । तदादौ गाथाभिर्मुनिरधिकविंशाभिभिरिह नः कृती सारग्राहं व्यतरदिह संगृह्य कृपया ॥ ४॥ परत्वाद्यैरित्थं परिचरणसक्तो गुणगणैः प्रभुं सेवायोग्यं प्रथमशतके वीक्ष्य वरदम् । तमेव स्वात्यर्थप्रियमथ च भोक्तुं व्यवसितौ वरेष्कवं तस्य प्रथमवरणीयं प्रथयति ॥ ५॥ छितीयेऽतिक्लेशक्षणविरहमुत्तुङ्गललित भिलत्सर्वारूपादं व्यसनशमनं स्वाप्तिमुदितम् । स्ववैमुख्यत्रस्तं स्वजनसुहृदं मुक्तिरसदं स्वकैकृनर्योद्देश्यं सुभगसविधस्थं निरनिशत् ॥ ६॥ उपायत्वैकान्तं प्रथममिह सेव्यत्वमुदितं ततश्च प्राप्यत्वौपयिकमतिभोग्यत्वमवदत् । द्वयं तत्स्वासाधारणतनुविशित्रस्य गणयन् तृतीये विश्वेशं शुभसुभगरूपं कथयति ॥ ७॥ अनीदृक्यौन्दर्यं तनुविहितसर्शादिसुभं स्वसेवार्थाकारं प्रगुणवपुषं मोहनतनुम् । अपश्यल्लभ्यार्चाविभवमतिदास्यावल्कं सदा दृश्यं स्तुत्याकृ।तेअधविरुद्धाकृतिशिह ॥ ८॥ श्रिया कान्तोऽनन्तः शुमलनुविशिष्टः फलमसौ फलावाप्तहेतुः स्वयप्रिति च निर्धार्य शतकैः । इदानीं घुद्धिस्थक्रमत इह युक्ढ्रया मुनिवरः फलत्वं तस्यैव द्रढयति तदन्येषु विमुखः ॥ ९॥ स्तियैफुवयं तुर्ये रज्ञहजवहभोभ्य निरविशत् मिथस्श्लिञ्छं क्लेशावहसहिनुतुव्य निजजनम् । कृतार्थीकुर्वन्तं प्रणयिभिषजं सद्वदकगुण ख्यहेयस्वोपेक्ष्य स्वमतफलमुञ्चैस्यववगतम् ॥ १०॥ उपायत्वं यत्तत् प्रथमशतकेऽभाव्यत विभोः अनन्योपायस्तत् द्रढयति परं पञ्चमनुखैः । निरीहस्तत्रादौ निरचधिकनिर्हेतुकदया- सरिरस्रोतः पद्मं शरणयति नायदन्य चरणम् ॥ ११॥ दयानिघ्न भक्तैरघविमथनं प्रेमजनकं जगद्रक्षादीक्षं स्मृतिसुप्रमहम्भावविश्वम् । शरण्यं दीनानां स्वररवकृतदास्याभ्युपगमं प्रचख्यौ तं प्राप्तं प्रशकनकृतं पञ्चमशने ॥ १२॥ अन्नाद्यन्तानन्दस्वरसकरुणाकन्दजलितः प्रणेतुर्व्यापारः प्रपदनविपाकार्ह उदितः । तमाचार्योपक्षं चिरविरश्मिख्यात्मघटन- स्फुरच्छक्तिं षष्ठे मुनिरशरणो याति शरणम् ॥ १३॥ गुरुद्वारोपेयं स्वयमभिमतं वौरेघटकं चरित्रैः कर्षन्तं परविघटनं स्वान्वितहरम् । निदानं धृत्यादेर्धटकवशभूतिद्धयमगात् अनर्हद्वैघटथं त्वविकलशरण्यस्थितिमिह ॥ १४॥ तदेवं षष्ठान्तं विक्तिसविशेअग्रपहानः म्लालाभात् खिन्नस्त्वरितहृदयः सप्तमशते । अनिष्टोपन्यासप्रभृतिभिरनिष्टप्रशमने स्वतःसिध्यच्छलि प्रभुमभिमुखं संमुखयति ॥ १५॥ सहन् शाट्याशङ्कनं उपशमितगर्हः प्रकटयन् स्वगोवृणत्वं गुप्तिक्रममखिलजन्तुप्रणयिताम् । श्रिताक्रन्दच्छेत्ता स्मरणविशदश्चित्रविभवः स्तुतौ युञ्जन् स्तोतृमुयसनजिददर्शि प्रभुवरः ॥ १६॥ अथानिष्टान् ख्या स्वयमुपजिहीर्षन्नपि विभुः तदिच्छां बाह्येषु प्रशमयितुकामः क्रमवशात् । निजेच्छार्संसिद्धत्रिविधचिदचिक्कतविततिः श्रितेच्छावैचित्रीवशा इति वदत्यक्ष्मशते ॥ १७॥ दिदृक्षायां दृश्यः प्रभुरगणि निस्सङ्गसुलभः स्वाष्टृश्लेषे कान्तः श्रितविहितपौष्कल्यविभवः । अपेक्षासापेक्षः स्ववितरणसज्जो हृदि रतः स्वदास्यं तन्निष्ठा तदवधिमपीह प्रकटयन् ॥ १८॥ अभीष्टं विश्वस्मिन् विषमफलकाङ्घिण्यविषमं प्रयच्छन्तं दृष्ट्वा परमपुरुषायैकरसिकः । निरस्तान्यापेक्षो निखिलजगदीशस्य नवमे निदानं सिद्धीनां निरुपधिकसुहृत्त्वं गणयति ॥ १९॥ अभाव्येको बन्धुश्चिरकृतदयः शीलजलधिः स्वसबन्धात् गोप्ता स्वगुणगरिमस्मारणपरः । अशक्यो विस्मर्तुं घटकमुखीवस्नभविषयः सुमज्जनिः सिद्ध्यनुछसमय इच्छन्नवसरम् ॥ २०॥ उदन्तैरित्येवं निरुपधिकसौहार्दपिशुनैः उदन्यामुस्तोमुपजनितवन्तं निजपदे । विवर्गाप्तिक्रान्तस्थिरजगरघशवपथगतेः सहायीकुर्वाणश्चरमशतके विन्दनि मुनिः ॥ २१॥ गतिं व्यध्वक्लेशच्छिदमपदशङ्कास्पदरर्सं भजद्भिः सुप्रापं विविधभजनप्रम्लिमिह । फले तीव्रोद्योगं स्वविक्यकृतात्यादरमगात् यदृच्छातुष्टं सत्सराशामपुनर्जन्मसयुजम् ॥ २२॥ परं प्राप्यं पश्यन् परिचरणहेतुं विगणयन् परिष्कुर्वन्नाज्ञामनितरशरण्यः शरणयन् । अनिष्टप्रध्वंसप्रभृतिषु निदानं च कथयन् मुहुर्देवं लक्त्या सहितमिह भेजे मुनिवरः ॥ २३॥ पुरा शोकः श्लोकोऽभवदिति नयादित्यपनिप- न्मुनेः पुण्यश्लोकादजनि परभक्तेः परिणतिः । व्यपोह्य स्वं भावं हरिचरणसन्तानकलिकाम् अविक्षद्योगी यस्तनुमतनुकारुण्यविवशः ॥ २४॥ सतामित्थं सारं द्रमिडनिगमस्यान्वकथयत् बहूनां विद्यानां बहुभतिपद वेङ्कटपतिः । दिशासौधश्रेणीदृढघटितजैत्रध्वजपटी- परामर्शभ्रश्यद्व्यतिमतनिराबाधनिगमः ॥ २५॥ मनुप्रासप्राचेतधृवपरिषदर्हा क्वचिदियं सुभवासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने । निरुव्यडयुः के विन्ध्याचलविकटसन्ध्यानटज्झा- परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ २६॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु द्रमिडोपनिषत्सारः समाप्तः । Proofread by Sunder Hattangadi sunedrh@hotmail.com
% Text title            : dramiDopaniShatsAraH
% File name             : dramiDopaniShatsAra.itx
% itxtitle              : dramiDopaniShatsAraH
% engtitle              : dramiDopaniShatsAra
% Category              : upanishhat, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Vedantacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Latest update         : April 4, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org