गोपीचन्दनोपनिषत्

गोपीचन्दनोपनिषत्

गोपिकास्वान्तसंलीनं श्रीकृष्णाख्यं परं महः । ब्रह्मानन्दस्वरूपं तत्स्वमात्रमिति चिन्तये ॥ १॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ गोपी का नाम । संरक्षणी । कुतः संरक्षणी । लोकस्य नरकान्मृत्योर्भयाच्च संरक्षणी । चन्दनं तुष्टिकारणं च । किं तुष्टिकारणम् । ब्रह्मानन्दकारणम् । य एवंविद्वानेतदाख्यापयेद्य एतच्च धारयेद्गोपीचन्दनमृत्तिकाया निरुक्त्या धारणमात्रेण च ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ॥ १॥ गोप्यो नाम विष्णुपत्न्यः स्युस्तासां चन्दनमाह्लादनम् । कश्चाह्लादः । एष ब्रह्मानन्दरूपः । काश्च विष्णुपत्न्यो गोप्यो नाम । या आत्मना ब्रह्मानन्दैकरूपं कृष्णाख्यं परं धामाजयंस्ता जगत्सृष्टिस्थित्यन्तकारिण्यः प्रकृतिमहदहमाद्या महामायाः । कश्च विष्णुः । परं ब्रह्मैव विष्णुः । कश्चाह्लादः । गोपीचन्दनसंसक्त- मानुषाणां पापसंहरणाच्छुद्धान्तकरणानां ब्रह्मज्ञानप्राप्तिश्च । य एवं वेदेत्युपनिषत् ॥ २॥ गोपीत्यग्र उच्यतां चन्दनं तु ततः पश्चात् । गोपीत्यक्षरद्वयं चन्दनं तु त्रियक्षरं तस्मादक्षरपञ्चकम् । य एवंविद्वान् गोपीचन्दनं धारयेदक्षयं पदमाप्नोति पञ्चत्वं न स पश्यति ततोऽमृतत्वमश्नुते ततोऽमृतमश्नुत इति ॥ ३॥ अथ मायाशबलितं ब्रह्मासीत्ततश्च महदाद्या ब्रह्मणो महामायासम्मिलितात् । पञ्चभूतेषु गन्धवतीयं पृथिव्यासीत् । पृथिव्याश्च वैभवाद्वर्णभेदाः । पीतवर्णा मृदो जायन्ते लोकानुग्रहार्थम् । मायासहितब्रह्मसम्भोगवशादस्य चन्दनस्य वैभवम् । य एवंविद्वान्यतिहस्ते दद्यादनुपप्लवः सर्वमायुरेति । ततः प्राजापत्यं रायस्पोषं गौष्पत्यं च । य एतद्रहस्यं सायं प्रातर्ध्यायेदहोरात्रकृतं पापं नाशयति मृतो मोक्षमश्नुत इति ॥ ४॥ गोपीचन्दनपङ्केन ललाटं यस्तु लेपयेत् । एकदण्डी त्रिदण्डी वा स वै मोक्षं समश्नुते ॥ १॥ गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा । तं तं पूतं विजानीयाद्राजभिः सत्कृतो भवेत् ॥ २॥ ब्रह्महन्ता कृतघ्नश्च गोघ्नश्च गुरु तल्पगः । तेषां पापानि नश्यन्ति गोपीचन्दनधारणात् ॥ ३॥ गोपीचन्दनलिप्ताङ्गो म्रियते यत्र कुत्रचित् । अभिव्याप्यायतो भूत्वा देवेन्द्रपदमश्नुते ॥ ४॥ गोपीचन्दनलिप्ताङ्गं पुरुषं य उपासते । एवं ब्रह्मादयो देवास्तन्मुखास्तानुपासते ॥ ५॥ गोपीचन्दनलिप्ताङ्गः पुरुषो येन पूज्यते । विष्णुपूजितभूतित्वाद्विष्णुलोके महीयते ॥ ६॥ सदाचारः शुभाकल्पो मिताहारो जितेन्द्रियः । गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् ॥ ७॥ गोपीचन्दनलिप्ताङ्गो व्रतं यस्तु समाचरेत् । ततः कोटिगुणं पुण्यमित्येवं मुनिरब्रवीत् ॥ ८॥ गोपीचन्दनलिप्ताङ्गैर्जपदानादि यत्कृतम् । न्यूनं सम्पूर्णतां याति विधानेन विशेषतः ॥ ९॥ गोपीचन्दनमायुष्यं बलारोग्यविवर्धनम् । कामदं मोक्षदं चैव इत्येवं मुनयोऽब्रुवन् ॥ १०॥ अग्निष्टोमसहस्राणि वाजपेय शतानि च । तेषां पुण्यमवाप्नोति गोपीचन्दनधारणात् ॥ ११॥ गोपीचन्दनदानस्य नाश्वमेधकृतः फलम् । न गङ्गया समं तीर्थं न शुद्धिर्गोपिचन्दनात् ॥ १२॥ बहुमाऽत्र किमुक्तेन गोपीचन्दनमण्डनम् । न तत्तुल्यं भवेल्लोके नात्र कार्या विचारणा ॥ १३॥ चन्दनं चापि गोपीनां केलिकुङ्कुमसम्भवम् । मण्डनात्पावनं नॄणां भुक्तिमुक्तिफलप्रदम् ॥ १४॥ कृष्णगोपीरतोद्भूतं पापघ्नं गोपिचनदनम् । तत्प्रसादात्सर्वदैव चतुर्वर्गफलप्रदम् । तिलमात्रप्रदानेन काञ्चनाद्रिसमं फलम् ॥ १५॥ कुङ्कुमं कृष्णगोपीनां जलक्रीडासु सम्भृतम् । गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ॥ १६॥ कृष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् । तिलमात्रं प्रदायेदं पुनात्या दशमं कुलम् ॥ १७॥ गोपीचन्दनखण्डं तु चक्राकारं सुलक्षणम् । विष्णुरूपमिदं पुण्यं पावनं पातवर्णकः ॥ १८॥ आपो वा अग्र आसन् । तत्र प्रजापतिर्वायुर्भूत्वाऽश्राम्यतेदं सृजेयमिति । स तपोऽतप्यत । तत ओङ्कारमपश्यत् । ततो व्याहृतीस्ततो गायत्रीम् । गायत्र्या वेदास्तैरिदमसृजत । धूममार्गविस्तृतं हि वेदार्थमभिसन्धाय चतुर्दश लोकानसृजत । तत उपनिषदः श्रुतय आविर्बभूवुः । अर्चिमार्गविस्तृतं वेदार्थमभिसन्धाय सर्वान्वेदासरहस्योपनिषदङ्गान्ब्रह्मलोके स्थापयामास । ताश्चोपादिशद्वैवस्वतेऽन्तरे सगुणं ब्रह्म चिद्घनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां वसुदेवसद्मन्याविर्भविष्यति । तत्र भवत्यः सर्वलोकोत्कृष्टसौन्दर्यक्रीडाभोगा गोपिकास्वरूपैः परब्रह्मानन्दैकरूपं कृष्णं भजिष्यथ । तत्र श्लोकाः ---इति ब्रह्मवरं लब्ध्वा श्रुतयो ब्रह्मश्लोकगाः । कृष्णमाराधयामासुर्गोकुले धर्मसङ्कुले ॥ १९॥ श्रीकृष्णाख्यं परं ब्रह्म गोपिकाः श्रुतयोऽभवन् । एतत्सम्भोगसम्भूतं चन्दनं गोपीचन्दनं चन्दनं गोपीचन्दनमित्युपनिषत् ॥ २०॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इत्याथर्वणीया गोपीचन्दनोपनिषत्समाप्ता ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : Gopichandana Upanishad
% File name             : gopIchandanopaniShat.itx
% itxtitle              : gopIchandanopaniShat
% engtitle              : gopIchandanopaniShat
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description/comments  : Atharva Veda upanishad
% Latest update         : March 21, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org