॥ ईशोपनिषद्भाष्यम् ॥

अथ वाजसनेयिनां संहितोपनिषदं व्याख्यास्यामः । ॐ ईशावास्यमिदं सर्वं यत् किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥ जगत्यां प्रपञ्चे यत् किं च जगत् गतिमत् प्राणवदिति यावत् । तदिदं सर्वं ईशा सर्वशक्तेन परमात्मना वास्यमाच्छाद्यम् व्याप्यमित्यर्थः । तेन जगदंशेन त्यक्तेन परित्यक्तेन अविषयीकृतेनेति यावत् । भुञ्जीथाः अनुभव ईश्वरमिति शेषः । घटे कम्बुग्रीववत्वादेर्विकारांशस्य परित्यागेन मृदनुभववत् जगत्यां नामरूपादिविकारांशपरित्यागेन कारणभूत- सदनुभवः सिध्यतीति तात्पर्यम् । एवमनया त्रिपाद्या ज्ञानयोग उक्त्ः । उत्तरया पञ्चपाद्या कर्मयोगमाह मा गृधो मा कामं कृथाः । धनं कस्यस्विन्न कस्यचिदित्यर्थः । कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ इह लोके कर्माणि विहितानि कुर्वन्नेव शतं समाश्चिरं जिजीविषेत् जीवितुमिच्छेत् । शाश्वतमेवात्र (जीवितं) विवक्षितं कर्मयोगफल- भूतम् । एवं त्वयि नरे कर्म न लिप्यते सङ्गाय न भवति । इतो मार्गादन्यथा नास्ति । निष्कामविहितकर्माचरणादन्यो मार्गो नास्ति कर्मलेपाभावायेत्यर्थः । असुर्या नाम ते लोका अन्धेन तमसावृताः । ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥ अन्धेन तमसा वृताः ज्ञानशक्तिप्रविलयनात् । असून् प्राणान् रान्त्यपहरन्त्यपगतप्रज्ञान् कुर्वन्तीति प्रज्ञापरिपन्थिनो भावाः असुरा उच्यन्ते । तद्धितत्वादसुर्या नाम तेऽस्मद्दृष्टिपरोक्षाः लोकाः सन्तीति शेषः । ये के चात्महनः प्रकरणादात्मज्ञानशून्यत्वात् कर्मलेपत्वाच्च हेतुभ्यां शरीराद्विज्ञानमयस्य पृथक्करणाभावादन्तकाले आत्मनो हन्तारः प्रज्ञापरिच्युतेः स्थावरसाम्यमिता इत्यर्थः । ते तान् पूर्वोक्तानसुर्यांल्लोकान् प्रेत्याभिगच्छन्ति । मूर्छितस्य यादृशो लोकस्तादृशा एषां लोका इति विज्ञायते । ज्ञानयोगीत्विहैवात्मानमनुभवति । कर्मयोगि त्वलिप्तत्वाद् अन्ततः प्राप्नोत्यमृतत्वम् । अपरस्त्वात्महाजुगुप्सितगतिर्भवतीति पर्यवसन्नं तात्पर्यम् । अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥ एकं सर्वोपादानत्वात् सर्वात्मकमिति केवलं किमपि वस्तु । अनेजत् स्वभावादचञ्चलम् । मनसो जवीयो वेगवत्तरं धर्मभूतज्ञानद्वारा । पूर्वमर्षद्गच्छदेनद्देवानाप्नुवन् पश्चान्न प्रापुः । तत्तिष्ठदचञ्चलमेव धावतो- ऽन्यानत्येति अतिलङ्घते । तस्मिन् मातरिश्वा निजक्रियाशक्तिरूपो वायुरपोरसन्दधाति धारयति । यदलेपत्वात् सूक्ष्मातिसूक्ष्मत्वात् सर्वातिगत्वाच्चान्याभिर्विभूतिभिरस्पृश्यमासीत्तत्र मातरिश्वना निमित्तेन रसः सूक्ष्मो भूत्वा प्राणात्मको ध्रियमाणो योगं प्रापेत्यर्थः । तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥ तदेजति तन्नैजति प्रागुक्तरीत्या । तद्दूरे सूर्यमण्डलान्तर्वर्तित्वात् । तदन्तिके हृदयान्तर्वर्तित्वात् । तदस्य सर्वस्यान्तर्न केवलं मण्डल- हृदययोः । तदस्य सर्वस्य बाह्यतः । पूर्णमित्युक्तं भवति । द्विरुः पादपूरणः । यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥ यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । आत्मानं च सर्वभूतेषु । ततोऽनुभवान्न विजुगुप्सते न कस्मिँश्चिद्वस्तुनि जुगुप्सावान् भवति । सर्वत्रात्मदर्शनात् । अस्यानुभवस्तु तेन त्यक्तेनेत्येव । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥ विजानत आत्मज्ञानिनो यस्मिन् दशाविशेषे सर्वाणि भूतान्यात्मैवाभूत् अपृथग्भावेन दर्शनात् । तत्र दशाविशेषे एकत्वमनुपश्यतः पुरुषस्य को मोहः कः शोकः । मोहशोकौ न स्यातामित्यर्थः । पूर्वत्र विकारांश- त्यागेन ब्रह्मानुभूतिर्विवक्षिता । अत्र सर्वस्यापि ब्रह्मत्वेन दर्शनं विवक्षितम् । विकाराणां विषयत्वेन सेवासंसारः । विभूतित्वेनोपासनं तु पूर्णानुभूत्यप्रतिद्वन्द्वीति । स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् । कविर्मनीषीपरिभूः स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधा- च्छाश्वतीभ्यः समाभ्यः ॥ ८॥ स मुक्तः पुरुषोऽकायमशरीरं अव्रणमभेद्यत्वात् अस्नाविरमभौतिक- त्वात् । शुद्धममलिनम् । अपापविद्धं असङ्गत्वात् । शुक्रममृतं ज्योतिर्मयं दिव्यं वपुः पर्यगात् प्राप । कविर्मन्त्रदर्शी मनीषी मनस ईशः परिभूः सर्वात्मभावेन व्याप्तः स्वयंभूरमृते दिव्ये वपुषि स्वयमाविर्भावात् । स पुरुषोऽर्थान् वेदितव्यानंशान् याथातथ्यतः सत्यतया शाश्वतीभ्यः समाभ्यः चिरं लोके जिज्ञासूनामर्थे स्थितये व्यदधाद्रचयामास । अभि- दधावित्यर्थः । ऋषेरात्मान्वितैव परोक्षवदेषोक्तिः । ईश्वराधि- कारोऽयमित्येके । अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ ९॥ ये अविद्यां केवलां निद्रामित्यर्थः । सा ह्यविद्या केवला । यतस्तदा न किञ्चिद्विजानाति । ते अन्धं तमः प्रविशन्ति ज्ञानशून्यत्वात् । ये विद्यायां केवलायां त्रय्यादिविद्यायां लोकज्ञानात्मिकायां चरताः सक्ताः । ते ततः पूर्वोक्तात्तमसः भूय इव तमः प्रविशन्ति । विकाराविज्ञानेनासमुच्चितं विज्ञानं कदाचिन्न ब्रह्मज्ञाने । भेदेन विकारग्रहः । अभेदेन ब्रह्मानुभव इति परस्परविरोधात् । नैवं विभूत्युपासनोच्छेदः । तत्र विकाराणां पृथक्त्वेनाग्रहणादविद्यैवेति । उः पादपूरणः । अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥ विद्यया वक्ष्यमाणया अन्यदेव फलमाहुः । अविद्यया वक्ष्यमाणया अन्यत्फलमाहुः । ये नस्तत् प्रकरणं विचचक्षिरे तेषां धीराणां सकाशादिति शेषः । इति पूर्वोक्तप्रकारेण शुश्रुम श्रुतवन्तः स्मः । यद्यप्यविद्याविद्ये निष्फले केवले तथापि ते प्रकारान्तरेण समुच्चिते फलदे इति भावः । विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥ विद्यां चाविद्यां चोभयं तत्सह समुच्ययेन यो वेद युगपद्विद्वानविद्वाँश्च भवतीत्यर्थः । कस्य विद्वान् कस्याविद्वानिति चेत् ईश्वरस्य विद्वान् पार्थक्येन विकाराणामविद्वानिति व्याख्यास्यामः । स चाविद्यया पार्थक्येन विकाराणामपरिज्ञानेन निमित्तेन मृत्युं प्रमादं तीर्त्वा विद्ययेश्वरानुभूत्या अमृतं शाश्वतं ब्रह्मभावेन स्थितिमश्नुते प्राप्नोति । जगद्यः पृथग्भावेन जानन्ननुभवति स ईश्वरं लक्षणतो जानन्नपि नैवानुभवति । अत एव केवलां विद्यां न्यषेधत् । ईश्वरस्याविद्वान् प्रपञ्चमविजानन्नपि न समाधिस्थः । तं तु निद्रितमेव पश्यामः । अतः केवलामविद्यां निनिन्द । अविद्याविद्ययोः प्रागुक्तरीत्या समुच्चयः स समाधिरेव । अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥ १२॥ ये असम्भूतिं सम्भूतिप्रतिद्वन्द्विनं विनाशमुपासते केवलं म्रियन्त इति यावत् । ते अन्धं तमः प्रविशन्ति । ये सम्भूत्यां रताः जन्म प्राप्ता इति यावत् । ते ततो भूय इव तमः प्रविशन्ति । केवलेभ्यो मृतेभ्यो जाताः केवला अधिके तमसि प्रविष्टा इति भावः । अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥ सम्भवादन्यदेव फलमाहुर्वक्ष्यमाणात् । असम्भवाद्विनाशादन्यदेव फलमाहुर्वक्ष्यमाणात् । ये नः (अस्मभ्यं) तत् प्रकरणं विचचक्षिरे । तेषां धीराणां सकाशादिति शेषः । इति पूर्वोक्तप्रकारेण शुश्रुम श्रुतवन्तः स्मः । यद्यपि मरणजन्मनी केवले तमः प्रविशहेतू तथापि प्रकारान्तरेण समुच्चिते फलदे इति भावः । सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह । विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥ सम्भूतिं च विनाशं च तदुभयं सह समुच्चयेन यो वेदानुभवति युगपज्जातो मृतश्च भवतीत्यर्थः । अभिमानत्यागादत्र शरीरे मृतः । तपसाऽऽभ्यन्तरे ज्योतिषि तादात्म्याज्जात इति विवेकः । स च विनाशेन देहाभिमानत्यागेनात्र शरीरे मरणेन मृत्युं प्रमादं तीर्त्वा । सम्भूत्याऽऽभ्यान्तरे ज्योतिषि तादात्म्याद्दिव्येन जन्मनाऽमृतं ब्रह्मभावमश्नुते पाप्नोति । हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥ सत्यस्य प्रत्यगात्मनो मुखं भ्रूमण्डलवर्ति दिव्यमान्तरं चक्षुर्हिरण्मयेन पात्रेणाक्ष्णोरुपरिभागेन पात्राकारत्वादेष भागः पात्रं हिरण्मयमिति रूपितः । अपिहितमाच्छादितम् । अतो वयमन्तरन्धाः । पूषन् सूर्यमण्डलान्तर्वर्तिन् पुरुष त्वं तदपावृणु कुर्वपावृतम् । कस्मै प्रयोजनाय सत्यधर्माय प्रत्यगात्मधर्माय दृष्टये प्रतीच्यै दृष्टय इति भावः । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह । तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥ पूषन् पोषक एकर्षे सर्वमन्त्राणां द्रष्टः । यम नियामक प्राजापत्य प्रजापतेरखण्डात्मनो हिरण्यगर्भात्मना मण्डले प्रादुर्भूतसूर्य- भगवन्, व्यूह सन्नाहय रश्मीन् किरणान् । समूह एकीकुरु । मम प्राणानां सर्वेषां सजातीयानामनुग्रहायेति भावः । रश्मयो हि प्राणा अध्यात्मम् । तेजस्तेजोमयं यत्ते कल्याणतमं रूपं तत्ते पश्यामि । योऽसौ असौ पुरुषः सोऽहमस्मि । साक्षात्कारादन्तरमिदमुच्यते । वायुरनिलममृतमथेदं भस्मान्तँ शरीरम् । ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥ १७॥ वायुरनिलं निलयनरहितममृतं वस्तु । सङ्गरहित इति यावत् । अथेदं शरीरं भस्मान्तं नश्वरमित्यर्थः । मातरिश्वन एवैषा स्तुतिर्भवति । ॐ प्रणवरूपक्रतो सर्वक्रियाकारिन् वायो स्मर मामिति शेषः । कृतं मया कृतं पुण्यं स्मर । वाक्यस्य द्विर्वचनं प्रार्थनायामादरातिशयार्थम् । अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥ द्युस्थानमन्तरिक्षस्थानं च दैवते प्रार्थिते । अथ पृथिवीस्थानं प्रार्थयते । अग्ने देव अस्मान् राये सम्पदे विश्वानि सर्वाणि वयुनानि स्थानानि विद्वान् त्वं सुपथा शोभनेन मार्गेण नय । अस्मन् मत्तो जुहुराणं लज्जाकरमेनो युयोधि पृथक्कुरु । ते तुभ्यं भूयिष्ठां नम उक्तिं विधेम । यदीशोपक्रम्य सूर्यवायुवैश्वानराणां स्तुत्योपसंहरति । तत् ज्ञापयत्युपनिषत् ईशस्तिस्र एता देवता विभूतय इति विभूतय इति । अत्रायं श्लोको भवति । संहितान्तानुवाकोऽयं गोप्यो वाजसनेयिनाम् । भाष्येण लधुनाऽनेन दीपेनेव प्रकाशितः ॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनो- र्गणपतेः कृतिर्वाजसनेयिसंहितोपनिषद्भाष्यं समाप्तम् ॥ Proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Ishopanishadbhashyam
% File name             : ishabhashyaGM.itx
% itxtitle              : IshopaniShadbhAShyam
% engtitle              : Ishopanishadbhashya - Ganapati Muni
% Category              : upanishhat, gaNapati-muni
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Vasishtha Ganapati Muni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Indexextra            : Ganapati Muni
% Latest update         : July 21, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP