याजुषी मृत्युलाङ्गूलविद्योपनिषत्

याजुषी मृत्युलाङ्गूलविद्योपनिषत्

ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शांतिः । शांतिः ॥ शांतिः ॥। ॐ एकदा महाकैलासे सुखासीनं महादेवमुपगम्य प्रणिपत्य भो भगवन् मृत्युलाङ्गूलविद्यामनुब्रूहीत्युवाच वसिष्ठः । अथाह भगवान्महादेवो मृत्युलाङ्गुलविद्यां वक्ष्यामीति । मृत्योस्समयावबोधनात् मृत्युलाङ्गुलमित्युच्यते । अस्याः श्रीमृत्युलाङ्गूलविद्यायाः उलूकनाङ्गनो भगवानृषिः । अनुष्टुप्छन्दः । मृत्युलाङ्गूलो देवता । क्लामित्यादिन्यासाः । ॥ ध्यानम् ॥ नीलपर्वतसङ्काश रुद्रकोपसमुद्भव । कालदण्डधर श्रीमन्वैवस्वत नमोऽस्तु ते ॥ अथातो योगविन्यासो मधुवादिनी अहङ्कारो नाहङ्कारस्य ॥ ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् । ऊध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥ लमित्यादिपञ्चपूजा । इयं विद्या सायम्प्रातः सन्ध्ययोरुपस्थानात्पूर्वं विस्तृताङ्गुष्ठतर्जनीमुद्रया सव्यं पाणिं भूमौ विन्यस्य दक्षिणाभिमुखं शिष्टैर्जप्यते । स्वान्त्यकाल ज्ञानमपि सुकरमस्या जपानुष्ठानेन इत्यप्याहुश्च मान्त्रिकाः ॥ ॥ मूलमन्त्रः ॥ ॐ नमो भगवते उमापतये वरवृषभ फेनकपोलाय पशुपतये नमो नमः ॥ इति स्मृते मृत्युलाङ्गूले ब्रह्महाऽब्रह्महा भवति । स्वर्णस्तेयी अस्तेयी भवति । सुरापायी अपायी भवति । गुरुतल्पगामी अगामी भवति । अब्रह्मचारी सुब्रह्मचारी भवति । एकवारेण जपित्वा अष्टोत्तर शतसहस्रलक्ष गायत्री जप फलानि भवन्ति । अष्टौ ब्राह्मणान् सम्यक्ग्राहयित्वा- ब्रह्म लोकमवाप्रोति । यदि कश्चिन्न ब्रूयात् - कुष्ठी कुनखी भवति । दीयमानो न गृह्णीयात् अन्धो भवति । षड्भिर्मासैः प्रमुच्यते । स्त्रीणां योनौ - अहरहः प्रयुञ्जानः सर्वात्पापात्पूतो भवति । मृत्युः प्रीयताम् । मृत्युर्नीलकण्ठः । अपरिमितमायुर्भवति । शतवर्षाणि जीवन्ति । नश्यति मन्त्रो नश्यति तन्त्रो नश्यति यन्त्रः । न च पुनरावृत्या । यदि पुनरावृत्या ऋषीणां कुले महामेधावी भवति । इत्याह भगवान्महादेवो वसिष्ठायेत्युपनिषत् ॥ ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शांतिः । शांतिः ॥ शांतिः ॥। Proofread by DPD
% Text title            : mRRityulAngUlavidyopaniShad
% File name             : mRRityulAngUlavidyopaniShat.itx
% itxtitle              : mRityulANgUlavidyopaniShat yAjuShI
% engtitle              : yAjuShI mRityulAngUlavidyopaniShat
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, help from Alex
% Proofread by          : DPD
% Latest update         : March 6, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org