॥ नीलरुद्रोपनिषत् दीपिकासमेता ॥

ॐ तत्सद्ब्रह्मणे नमः । नारायणविरचितदीपिकासमेता । नीलरुद्रोपनिपदि षोडश्यां खण्डकत्रयम् ॥ श्रुतिरूपेण तं देवं स्तौत्यपश्यमिति क्रमात् ॥ १॥ अस्पर्शयोगमुक्त्वा तत्सम्प्रदायप्रवर्तकं परमगुरुं योगसिद्धिप्रदं नीलरुद्रं स्तौति- ॐ अपश्यं त्वाऽवरोहन्तं दिवितः पृथिवीमवः ॥ अपश्यमस्यन्तं रुद्रं नीलग्रीवं शिखण्डिनम् ॥ दिव उग्रोऽवारुक्षत्प्रत्यष्ठाद्भूम्यामधि ॥ अपश्यमिति । दिवितो दिवः । पृथिवीं भूमिमवोऽवस्तादवरोहन्तं त्वामहमपश्यमिति मन्त्रद्रष्टुर्वचः । अस्यन्तम् । असु क्षेपणे । क्षिपन्तं दुष्टान् । अनेनावतारप्रयोजनमुक्तम् । अयं ब्रह्मणः पुत्रः सनकादिषु सृष्टिमकुर्वत्सु ब्रह्मणः क्रोधादुत्पन्नः कुमारो रुरोद तेनाऽऽश्वास्य रुद्र इति नाम दत्तं तत एकादश स्थाना- न्येकादश नामान्येकादश पत्नीश्च ददौ तत्सृष्टानां रुद्राणामसङ्ख्याततां दृष्ट्वा तं भयात्तपसे न्ययोजयत्स भुवि तपश्चचारेतीतिहासः । शिखण्डिनम् शिखण्डो बर्हचूडयोः इति विश्वः । तयोरन्यतरदस्यास्तीति शिखण्डी तं दिवः सकाशादुग्रो रुद्रोऽवारुक्षदवतीर्णवान् । प्रत्यष्ठात् । प्रतिष्ठां स्थितिं कृतवान् । भूम्यामधि । अधिरीश्वर इत्यधिः कर्मप्रवचनीयः । यस्मादधिकं यस्य चेश्वरवचनमिति सप्तमी । भूमेरीश्वर इत्यर्थः । जनासः पश्यतेमं नीलग्रीवं विलोहितम् ॥ एष एत्यवीरहा रुद्रो जलासभेषजीः ॥ वि तेऽक्षेममनीनशद्वातीकारोऽप्येतु ते ॥ जनास । आज्जसेरसुक् । संवोधने चेति प्रथमा । एत्यागच्छति । न वीरहाऽवीरहा सौम्यः । यद्वाऽवीराणि पापानि हन्त्यवीरहा । एत्याऽऽगत्य वीरान्दैत्यान्हन्तीति वा । जल आसः क्षेपो यासां ता जलासाश्च ता भेषज्यश्च ता एतीत्यन्वयः । जलक्षिप्तानामोषधीनाममङ्गलनाशकत्वं रुद्रसन्निधानादेव । यद्वा समुद्रमथनावसरे समुद्रे क्षिप्तानामोषधीनामुद्भूतं विषं पातुमवतीर्णत्वादेवमुक्तम् । ते तव लोकस्याक्षेमं व्यनीनशत् । अनेन क्षेमकारित्वमुक्तम् । अलब्धलाभो योगस्तत्कारित्वमप्याह । वातीकार इति । वातिः प्राप्तिः । अप्राप्तं प्राप्तं करोतीति वातीकारः सोऽपि ते तवापूर्वलाभकरोऽप्येत्वागच्छतु । योगक्षेमकरोऽभिषेकजले सन्निहितो भवत्वित्यर्थः । मन्त्रलिङ्गादभिषेके विनियोगः । नमस्ते भव भामाय नमस्ते भव मन्यवे ॥ नमस्ते अस्तु वाहुभ्यामुतोत इषवे नमः ॥ भामः क्रोधः । मन्युस्तत्पूर्वावस्था । उतापि । उतेषवे बाणरूपाय । अस्तवे । असु क्षेपणे तवेन्प्रत्ययस्तुमर्थे । अस्तु क्षेप्तुमित्यर्थः । यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ॥ शिवां गिरित्र तां कृणु मा हिंसीः पुरुषान्मम ॥ कं क्षेप्तुं गिरिशन्तं श्यति श्यन्गीरे श्यन्गिरिश्यन्सम्बन्धसामान्ये षष्ठ्या समासः । तं गिरिशन्तम् । छान्दसो यमलोपः । यद्वा कंशम्भ्ंया वभयुस्तितुतयसः । शमस्यास्ति शन्तो ?? kaMshambhMyA गिरिणा शन्तः सुखी पर्वतोत्पन्नत्वादिषोः । हे गिरित्र गिरिरक्षक तां शिवां कल्याणीं कुरु । शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ या त इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो मृड जीवसे ॥ अच्छा वदामसि । अच्छ निर्मलं वदामः । अच्छशब्दस्य निपातस्य चेति दीर्घः । इदन्तो मसि । इदनर्थको निपातः । अयक्ष्मं नीरोगम् । सुमनाः सुमनस्कम् । असद्भवेत् । लिङर्थे लेट् । तिप् । इतश्च लोपः परस्मैपदेषु । लेटोऽडाटावित्यट् । शरव्या शरसन्धात्री ज्या शरो दध्यग्रबाणयोः इति विश्वः । शरमर्हति यत् । अव्शरस्य चेत्यवादेशः । शरुशब्दाद्वा सिद्धम् । शरुरायुधकोपयोः । उगवादिभ्यो यत् । जीवसे जीवितुं मृड मोदय । यद्वा हे मृड तया तन्वा नोऽस्माञ्जीवसे जीवयसि । या ते रुद्र शिवा तनूरघोरा पापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशत् ॥ असौ यस्ताम्रो अरुण उत बभ्रुर्विलोहितः । ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो वैषां हेड ईमहे ॥ १॥ शन्तमया । अतिशयेन शं शन्तमा तया । अभिचाकशत् । कशेर्यङ्लुङन्ताल्लेट्ति- पट् । अतिशयेन प्रकाशयत्विति प्रार्थना । बभ्रूः पिङ्गलो वैषां ह ईडे स्तुतये । ईमहे कामयामहे । विष्णुपक्ष आभीराः ॥ १॥ अदृश्यं त्वाऽवरोहन्तं नीलग्रीवं विलोहितम् ॥ उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ॥ उतो त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः ॥ गोपा गोपाला अदृशन्नपश्यन् । उदहार्यः पानीयहारिण्यः । विश्वा विश्वानि भूतानि । अदृशन् । योगिनाप्यदृश्यं त्वां कृपयाऽऽविर्भवन्तमादित्यवत्प्रकाशमानं पामरा अपि ददृशुरित्यर्थः । नमोऽस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ॥ अथो ये अस्य सत्त्वानस्तेभ्योऽहमकरं नमः ॥ वाजिनेऽन्नवते बाणरूपाय वा । सीदन्ति सत्त्वानो गणाः । नमांसि त आयुधायानातताय धृष्णवे । उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने ॥ प्रमुञ्च धन्वनस्त्वमुभयो राज्ञोर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥ नमांसि नमस्काराः । नाऽऽततायानातताय । धृष्णवे प्रगल्भाय । बाहुभ्यां कृत्वा धन्वने नमोऽकरवमित्यर्थः । उभयोररिप्रत्यरिभूतयो राज्ञोर्धन्वनोर्ज्यां परिप्रमुञ्चानाततां कुरु । राज्ञोर्विग्रहे लोकानां क्लेशो भवति ततस्तं शमयेति भावः । हे भगवो यास्ते हल इषवो बाणास्ताः परा वप पराङ्मुखान्मुञ्च । त्वमपि कोपं लोकेषु मा कृथा इति भावः । इन्द्ररूपेण जगद्रक्षेति प्रार्थयते- अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः शम्भुराभर ॥ विज्यं धनुः शिखण्डिनो विशल्यो बाणवाꣳ उत । अनेशन्नस्येषवः शिवो अस्य निषङ्गतिः ॥ अवतत्येति । अधिज्यं कृत्वा । सहस्राक्ष शक्ररूप । शतमिषुधयस्तूणा यज्ञरूपा यस्य तत्सम्बोधनम् । निशीर्य तीक्ष्णीकृत्य मुखा मुखानि नोऽस्माञ्शिवः कल्याणरूपः शम्भुः सुखहेतुः सन्नाभर धारय पोषय । बाणवांस्तूणीरो विशल्योऽस्तु । शल्यरहितो भवतु । वैरिषु हतेषु तत्प्रयोजनाभावात् । अनेशन्नदृभ्या अभूवन् । नशिमन्योरलिट्येत्वमिति वार्तिकेन लुङि पुषाद्यङ्येत्वम् । निषङ्गतिः । निषङ्गः । परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मिन्निधेहि तम् ॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तया त्वं विश्वतो अस्मानयक्ष्मया परिभुज ॥ विश्वतः सर्वतोऽस्मान्परिवृणक्तु परिवृत्य रक्षतु । अरे सम्बोधने । अथो पश्चाद्रक्षणानन्तरं यस्तवेषुधिरस्मिन्निषुधौ तां हेतिं बाणं निधेहि स्थापय । हे मीढुष्टम मीढवत्तमेत्यर्थः । सेचकतम । अयक्ष्मया सज्जया तया हेत्या परिभुज परिपालय । नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ ये चामी रोचने दिवि ये च सूर्यस्य रश्मिषु । येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा वनस्पतीनाम् । ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ २॥ सदस्कृतं गृहं कृतम् । यातुधानानां रक्षसां वनस्पतीनां चेषवः सर्पास्ते हि जनान्दशन्ति । अवटेषु गर्तेषु ॥ २॥ केदाराधीशमहिषस्वरूपं स्तौति- यः स्वजनान्नीलग्रीवो यः स्वजनाꣳ हरिरुत । कल्माषपुच्छमोषधे जम्भयाऽऽश्वरुन्धति ॥ य इति । यः शिवः स्वजनान्भक्तान्प्रति नीलग्रीवः । यश्च स्वजनान्भक्तान्प्रति हरिर्हरितवर्णो भक्तवत्सलो न भवति । महिषस्य हि तादृग्रूपं सम्भवति । यद्वा नीलग्रीवो रुद्रो हरिर्विप्णुश्च भवति । अनेन हरिहरयोरेकरूपतोक्ता । हे ओषधे । अरुन्धति रोधरहिते तं कल्माषपुच्छं कृष्णपाण्डुरपुच्छम् । आशु शीघ्रं जम्भय स्ववीर्येण वीर्यवन्तं कुरुषे । औषधीनां पशुभ्यो बलप्रदत्वात् । कल्माषो राक्षसे कृष्णे कल्माषः कृष्णपाण्डुरे इति विश्वः । केदारेश्वरस्य महिषरूपत्वात्पुच्छवत्ता सम्भवति । बभ्रुश्च बभ्रुकर्णश्चनीलागलशीलाः शिवः । पश्य सर्वेण नीलशिखण्डेन भवेन मरुतां पिता ॥ विरूपाक्षेण बभ्रुणा वाचं वदिष्यतो हतः । सर्वनीलशिखण्डेन वीर कर्मणि कर्मणि ॥ बभ्रुः क्वचिदवयवे पिङ्गलवर्णः । बभ्रुकर्णः पिङ्गलवर्णकर्णः । नीलागलशीलाः शिव इत्यत्र नीलग्रीवश्च यः शिव इति पाठो युक्तः । पितेति । तृतीयार्थे प्रथमा पित्रेत्यर्थः । अथ वाचं वदिष्यतः पिता देहिमात्रस्य जनको ब्रह्मा येनेश्वरेण हतस्तं त्वं पश्येत्यन्वयः । हे वीर कर्मणि कर्मणि विहितनिषिद्धरूपे । इमामस्य प्राशं जहि येनेदं विभजामहे । नमो भवाय नमः शर्वाय नमः कुमाराय शत्रवे ॥ नमो नीलशिखण्डाय नमः सभाप्रपादिने ॥ इमामस्य जनस्य । प्राशं पृच्छतीति प्राट्तां प्राशं प्रच्छिकां वाचम् । जहि वेदविहितं निषिद्धकर्मविषयं संशयं निराकुर्वित्यर्थः । येन कर्मणेदं जगद्विभजामहे कर्मभूमिभोगभूमिरूपेण विभक्तं कुर्महे । कुमाराय कालानभिभूताय स्कन्दरूपाय वा । शत्रवे संहर्त्रे । सभाप्रपादिने सभां प्रपद्यते तच्छील सभाप्रपादी तस्मै सभ्यायेत्यर्थः । यस्य हरी अश्वतरौ गर्दभावभितःसरौ । तस्मै नीलशिखण्डाय नमः सभाप्रपादिने नमः सभाप्रपादिन इति ॥ ३॥ इत्यथर्ववेदे नीलरुद्रोपनिषत्समाप्ता ॥ १८॥ अश्वतरौ ईषदूनमश्वत्वं ययोस्तावश्वतरौ गर्दभादश्वायां जातौ । अभितःसरावभितः सरत इत्यभितःसरौ गर्दभौ वर्तेते । यथा पुरुषोत्तमक्षेत्रस्य नीलमाधवोऽधिष्ठातैवं केदारक्षेत्रस्य नीलरुद्रः । द्विरुक्तिः समाप्त्यर्था ॥ ३॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां नीलरुद्रस्य दीपिका ॥ १॥ इति नारायणविरचिता नीलरुद्रोपनिषद्दीपिका समाप्ता ॥ २४॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com
% Text title            : nIlarudropaniShat with commentary
% File name             : nIlarudropaniShat.itx
% itxtitle              : nIlarudropaniShat dIpikAsametA
% engtitle              : nIlarudropaniShat with commentary
% Category              : upanishhat, stotra
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : stotra
% Author                : nArAyaNavirachitadIpikA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Source                : Unpublished Upanishads, Adyar Library Atharva Veda - Shaiva upanishad
% Indexextra            : (scanned book)
% Latest update         : August 22, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP