पिण्डोपनिषत्

पिण्डोपनिषत्

पितॄणां हंसरूपाणां यन्ता श्रीमज्जनार्दन । भवतापप्रणुत्यर्थं सततं तमहं श्रये ॥ १॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ॥ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । मृतस्य दीयते पिण्डः कथं गृह्णन्त्य्चेतसः ॥ १॥ भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । हंसस्त्यक्त्वा गतो देहं कस्मिँस्थाने व्यवस्थितः ॥ २॥ त्र्यहं वसति तोयेषु त्र्यहं वसति चाग्निषु । त्र्यहमाकाशगो भूत्वा दिनमेकं तु वायुगः ॥ ३॥ प्रथमेन तु पिण्डेन कलनं तस्य सम्भवः । द्वितीयेन तु पिण्डेन मांसत्वक्षोणितोद्भवः ॥ ४॥ तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते । चतुर्थेन तु पिण्डेन अस्थि मज्जा प्रजायते ॥ ५॥ पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् । षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ॥ ६॥ सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते । अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥ ७॥ नवमेन तु पिण्डेन सर्वेन्द्रियसमाहृतिः । दशमेन तु पिण्डेन भावानां प्लवनं तथा । पिण्डे पिण्डशरीरस्य पिण्डदानेन सम्भवः ॥ ८॥ हरिः ॐ तत्सदित्युपनिषत् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इत्याथर्वणीया पिण्डोपनिषत्समाप्ता ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : Pinda Upanishad
% File name             : piNDopaniShat.itx
% itxtitle              : piNDopaniShat (sAmAnyavedAnta)
% engtitle              : piNDopaniShat
% Category              : upanishhat, vedanta, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description/comments  : Atharva Veda upanishad
% Latest update         : March 21, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org