श्रीरामकृष्ण परमहंसोपनिषत्

श्रीरामकृष्ण परमहंसोपनिषत्

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ अथ श्रीरामकृष्ण परमहंसोपनिषदं व्याख्यास्यामः । सैषाऽपरोक्षानुभवरूढा साधनप्रधाना च ॥ १॥ निर्गुणं निराकारं च परं ब्रह्म । तदेव भक्तजनानां शीतल भक्तेः प्रभावात् सगुणः साकारः परमेश्वरो भवति हिममिव जलात् शैत्यात् । स एव परमेश्वरो निखिलजगदंतर्यामी च ॥ २॥ राम-कृष्ण-शिव-विष्णु-गाॅडल्लेत्यादि विविधनामभिर्निर्दिष्टं परंतत्त्वमपि स एव । स एव लक्ष्मी-दुर्गा-काली-सरस्वतीत्यादि देवीनामभिरपि निर्दिश्यते ॥ ३॥ व्यवहारदशायां यत्र पुरुषोऽज्ञो द्वैतमिव पश्यति तदा काल्यादि देव्यः परस्यैव ब्रह्मणः शक्तय इति मन्तव्यम् । दाहिकशक्तिर्यथाग्नेः । वस्तुतस्तु तयोरत्यंतमभेदः एव ॥४॥ परमेश्वरदर्शनमेव मानव जीवनस्य चरमोद्देशः । तथैव मुक्तेः साध्यत्वात् । परमेश्वरस्तु द्रष्टुं स्प्रष्टुं च शक्यः । तेन सहालापोऽपि साध्यः । सर्वे धर्माः समानास्तमेव गमयंति च ॥ ५॥ अपि तु मायाजवनिकाच्छन्नः स सुखेन द्रष्टुं न लभ्यः । कामकांचन कामनैव माया । तदपगमे सः स्वयमेवाविर्भवति मेघापायेंऽशुमानिव । ज्ञानमिश्रित भक्तिश्च मायानाशोपायः । स एव सर्वमित्यतो दीनदरिद्ररोग्यज्ञादीनां नारायणदृष्ट्या सेवाऽप्यद्यतनकालेऽ- अनुत्तमोपायश्चित्तशुद्धिद्वारा तं साक्षात्कर्तुम् ॥ ६॥ कथंचित्तं ज्ञात्वा दृष्ट्वा स्पृष्ट्वा भवबन्धनाद्विमुक्ता भवत । विमुक्ता भवतेत्युपनिषत् ॥ ७॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ इति स्वामी हर्षानन्दकृत उपनिशत्समाप्ता ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : rAmakRiShNa paramaha.nsopaniShadaM
% File name             : raamakrishnopanishat.itx
% itxtitle              : rAmakRiShNa paramaha.nsopaniShat
% engtitle              : Shriramakrishna Paramahansopanishadam
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Swami Harshananda Puri
% Language              : Sanskrit
% Subject               : Religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : modern inspired upanishat by Swami Harshananda Puri
% Latest update         : Dec. 26, 1997
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org