॥ श्रीशिवोपनिषत् ॥

कैलासशिखरासीनमशेषामरपूजितम् । कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम् ॥ १-१॥ सम्पूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः । सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १-२॥ ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः । ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात् ॥ १-३॥ एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता । मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १-४॥ महादेव उवाच पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः । देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १-५॥ आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणामिह । तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् ॥ १-६॥ ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः । सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १-७॥ सारादपि महासारं शिवोपनिषदं परम् । अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् ॥ १-८॥ शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः । उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १-९॥ अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः । यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ १-१०॥ गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च । भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १-११॥ पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम् । पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ १-१२॥ सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः । मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् ॥ १-१३॥ षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे । सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ १-१४॥ यस्माच्छिवः सुसम्पूर्णः सर्वज्ञः सर्वगः प्रभुः । तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ १-१५॥ पशुपाशपरः शान्तः परमज्ञानदेशिकः । शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ १-१६॥ एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् । विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १-१७॥ सकृदुच्चारितं येन शिव इत्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ १-१८॥ द्व्यक्षरः शिवमन्त्रो ऽयं शिवोपनिषदि स्मृतः । एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ १-१९॥ नामसंकीर्तणादेव शिवस्याशेषपातकैः । यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्यक्षरः परः ॥ १-२०॥ यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत् । एकाक्षरं वा सततं स याति परमं पदम् ॥ १-२१॥ मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम् । अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम् ॥ १-२२॥ विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः । आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १-२३॥ हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् । हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १-२४॥ पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् । अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् ॥ १-२५॥ कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् । पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १-२६॥ धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः । प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् ॥ १-२७॥ इति दिव्योपचारैश्च सम्पूज्य परमं शिवम् । जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १-२८॥ ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः । मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १-२९॥ तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम् । शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात् ॥ १-३०॥ ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम् । भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १-३१॥ तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः । सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १-३२॥ स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् । ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १-३३॥ विद्या संकीर्तनीया हि येषां कर्म न विद्यते । ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत् ॥ १-३४॥ शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम् । विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १-३५॥ शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः । क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १-३६॥ कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः । लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १-३७॥ ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥
अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् । गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २-१॥ यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः । लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २-२॥ भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः । तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् ॥ २-३॥ भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः । पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् ॥ २-४॥ अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः । ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २-५॥ एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २-६॥ नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः । विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् ॥ २-७॥ गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते । गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् ॥ २-८॥ प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः । भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २-९॥ मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् । गर्भादर्धेन विस्तारमायामं च सुशोभनम् ॥ २-१०॥ गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् । गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २-११॥ जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना । प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २-१२॥ मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता । प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् ॥ २-१३॥ प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् । प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥ २-१४॥ नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ । प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥ २-१५॥ पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् । प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् ॥ २-१६॥ स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् । तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥ २-१७॥ स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् । कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥ २-१८॥ शमीन्धनकुशस्थानमायुधानां च नैरृतम् । सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥ २-१९॥ श्रीमदायतनं शम्भोर्योगिनां विजने वने । शिवस्यायतने यावत्समेताः परमाणवः ॥ २-२०॥ मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे । महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २-२१॥ कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् । लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २-२२॥ पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् । पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥ २-२३॥ अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् । शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २-२४॥ एवं मध्ये ऽवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु । अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २-२५॥ प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् । महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥ २-२६॥ गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् । यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् ॥ २-२७॥ दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् । सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् ॥ २-२८॥ कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् । रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २-२९॥ एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु । कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २-३०॥ कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः । विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः । तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात् ॥ २-३१॥ ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥
अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः । शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् ॥ ३-१॥ गृहस्येशानदिग्भागे कार्यमुत्तरतो ऽपि वा । खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३-२॥ शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः । दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत् ॥ ३-३॥ हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् । चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम् ॥ ३-४॥ गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् । उदगर्वाक्च्छ्रितां(?) किंचिच्चतुःशीर्षकसंयुताम् ॥ ३-५॥ त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम् । तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३-६॥ शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः । मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् ॥ ३-७॥ शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः । स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम् ॥ ३-८॥ षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च । गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत् ॥ ३-९॥ त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने । सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम् ॥ ३-१०॥ सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत् । आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ ३-११॥ वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन् । तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥ ३-१२॥ निर्दोषं सुलभं चैव पूजयेत्सततं बुधः । यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३-१३॥ तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः । प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः । तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३-१४॥ ॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥
अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् । पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४-१॥ तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् । पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४-२॥ द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम् । तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४-३॥ दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् । सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम् ॥ ४-४॥ द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम् । अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४-५॥ गवाक्षकद्वयं कार्यमपिधानं सुशोभनम् । धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४-६॥ आग्नेयभागात्परितः कार्या जालगवाक्षकाः । ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४-७॥ शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः । चतुरश्रवेदि(kA) श्रीमन्मेखलात्रयभूषितम् ॥ ४-८॥ कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् । शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम् ॥ ४-९॥ जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् । बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् ॥ ४-१०॥ ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत् । चतुःप्रेगीवकोपेतम्(?) एकप्रेगीवकेन वा(?) ॥ ४-११॥ सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् । शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् ॥ ४-१२॥ बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा । तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४-१३॥ कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः । द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४-१४॥ अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना । दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४-१५॥ रुद्रमातृगणानां च दिक्पतीनां च सर्वदा । सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् ॥ ४-१६॥ वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका । वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् ॥ ४-१७॥ अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे । व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४-१८॥ प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम् । पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् ॥ ४-१९॥ मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् । भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४-२०॥ शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम् । शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् ॥ ४-२१॥ ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः । धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४-२२॥ गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः । अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत् ॥ ४-२३॥ इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् । अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ४-२४॥ कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः । कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात् ॥ ४-२५॥ नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः । हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४-२६॥ ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः । इच्छया क्रीडते तावद्यावदाभूतसम्प्लवम् ॥ ४-२७॥ ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् । दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् ॥ ४-२८॥ ततः सम्पृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान् । तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात् ॥ ४-२९॥ अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते । पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४-३०॥ सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात् । ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४-३१॥ इत्येतदखिलं कार्यं फलमुक्तं समासतः । उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम् ॥ ४-३२॥ सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम् । कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम् ॥ ४-३३॥ यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता । तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ ४-३४॥ एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् । वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत् ॥ ४-३५॥ यावत्केसरसंख्यानं कुसुमस्यानले हुतम् । तावद्युगसहस्राणि शिवलोके महीयते ॥ ४-३६॥ नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् । यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम् ॥ ४-३७॥ यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः । पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम् ॥ ४-३८॥ हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः । पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम् ॥ ४-३९॥ पलाशाअङ्कुरजारिष्ट- पालाल्यः(?) समिधः शुभाः । पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात् ॥ ४-४०॥ पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत् । तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४-४१॥ तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः । कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४२॥ शमीसमित्फलं देयमब्दानपि च लक्षकम् । शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४-४३॥ तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता(?) यावती भवेत् । तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४४॥ यावत्सुरौषधीरज्ञस्(?) तिलतुल्यफलं स्मृतम् । इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम् ॥ ४-४५॥ लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः । दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४-४६॥ पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् । क्षीरवृक्षसमृद्धे ऽग्नौ फलं सार्धार्धिकं भवेत् ॥ ४-४७॥ असमिद्धे सधूमे च होमकर्म निरर्थकम् । अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४-४८॥ न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत् । शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत् ॥ ४-४९॥ एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात् । तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान् ॥ ४-५०॥ स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च । याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४-५१॥ एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः । सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४-५२॥ अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः । आभूतसम्प्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान् ॥ ४-५३॥ ततश्च प्रलये प्राप्ते सम्प्राप्य ज्ञानमुत्तमम् । प्रसादादीश्वरस्यैव मुच्यते भवसागरात् ॥ ४-५४॥ शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति । सो ऽपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत् ॥ ४-५५॥ शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः । ते ऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४-५६॥ शिवयज्ञमहावेद्या जायते ये न सन्ति वा । ते ऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४-५७॥ पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् । होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४-५८॥ सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम् । प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम्(?) ॥ ४-५९॥ इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत् । दूर्वया बिल्वपत्त्रैर्वा समिधः सम्प्रकीर्तिताः ॥ ४-६०॥ अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा । तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४-६१॥ परिधीनामभावेन शरैर्वंशैश्च कल्पयेत् । इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४-६२॥ गोमयानामभावेन महत्यम्भसि होमयेत् । अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४-६३॥ विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः । छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् ॥ ४-६४॥ स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे । अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४-६५॥ आपत्काले ऽपि यः कुर्याच्छिवाग्नेर्मनसार्चनम् । स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात् ॥ ४-६६॥ प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः । बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४-६७॥ ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥
अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम् । सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् ॥ ५-१॥ अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् । भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् ॥ ५-२॥ यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् । रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५-३॥ यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम्(?) । अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५-४॥ आहारमर्धभुक्तं च कीटकेशादिदूषितम् । तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५-५॥ आरण्यं गोमयकृतं करीषं वा प्रशस्यते । शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५-६॥ स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना । गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५-७॥ सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम्(duHkhopAr) । शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम् ॥ ५-८॥ भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा । मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५-९॥ पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् । शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् ॥ ५-१०॥ जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम् । पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः(?) ॥ ५-११॥ शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च । भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् ॥ ५-१२॥ भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम् । जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम् ॥ ५-१३॥ अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम् । नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५-१४॥ स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् । असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम् ॥ ५-१५॥ त्रिकालं वारुणस्नानादनारोग्यं प्रजायते । आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम् ॥ ५-१६॥ संध्यात्रये ऽर्धरात्रे च भुक्त्वा चान्नविरेचने । शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५-१७॥ भस्मास्तृते महीभागे समे जन्तुविवर्जिते । ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५-१८॥ एकरात्रोषितस्यापि या गतिर्भस्मशायिनः । न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५-१९॥ गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः । यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात् ॥ ५-२०॥ शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत् । हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५-२१॥ गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा । शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत् ॥ ५-२२॥ संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च । यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ ५-२३॥ शिवभस्मनि यावन्तः समेताः परमाणवः । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५-२४॥ एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः । मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५-२५॥ तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान् । ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात् ॥ ५-२६॥ भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम्(?) । अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५-२७॥ भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने । ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् ॥ ५-२८॥ इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम् । त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात् ॥ ५-२९॥ भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने । कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५-३०॥ आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम् । मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् ॥ ५-३१ ॥ आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम् । अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ ५-३२॥ मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् । ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम् ॥ ५-३३॥ गवां खुरपुटोत्खात- पवनोद्धूतरेणुना । कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ ५-३४॥ व्यभ्रे ऽर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः । आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम् ॥ ५-३५॥ उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् । अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५-३६॥ पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च । तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५-३७॥ न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः । पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५-३८॥ आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत । क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५-३९॥ यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम् । यैव योगाभियुक्तानां गतिः सैव क्षमावताम् ॥ ५-४०॥ ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः । निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत् ॥ ५-४१॥ मेध्यामेध्यरसं यद्वदपि वत्स विना करैः । नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५-४२॥ एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत् । अशुद्धभावः स्नातो ऽपि पूजयन्नाप्नुयात्फलम् ॥ ५-४३॥ जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः । ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम् ॥ ५-४४॥ अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम् । तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५-४५॥ यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते । तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम्(?) ॥ ५-४६॥ मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते । करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् ॥ ५-४७॥ वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम् । शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम् ॥ ५-४८॥ देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा । उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५-४९॥ प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा । तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५-५०॥ सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा । प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५-५१॥ पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् । उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम् ॥ ५-५२॥ ॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥
अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् । यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् ॥ ६-१॥ यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् । शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६-२॥ यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् । गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ ६-३॥ श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे । वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् ॥ ६-४॥ कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-५॥ एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् । वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ ६-६॥ एकं वटफलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-७॥ यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् । शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६-८॥ यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् । तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६-९॥ द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् । भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ ६-१०॥ यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् । तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६-११॥ द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च । तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६-१२॥ यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे । अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६-१३॥ बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च । जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६-१४॥ पनसं नारिकेलं वा शिवाय विनिवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-१५॥ पुरुषं च प्रियालं च मधूककुसुमानि च । जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६-१६॥ निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले । दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६-१७॥ क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-१८॥ वालुकात्रपुसादीनि यः फलानि निवेदयेत् । शिवाय गुरवे वापि पक्वं च करमर्दकम् ॥ ६-१९॥ दशवर्षसहस्राणि रुद्रलोके महीयते । बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६-२०॥ दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च । एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६-२१॥ निवेदयति शर्वाय शृणु यत्फलमाप्नुयात् । एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ ६-२२॥ पञ्चवर्षसहस्राणि रुद्रलोके महीयते । गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् ॥ ६-२३॥ निवेदयीत शर्वाय तस्य पुण्यफलं शृणु । यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् ॥ ६-२४॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् ॥ ६-२५॥ गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु । इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६-२६॥ साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् । निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६-२७॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा ॥ ६-२८॥ रसात्सहस्रगुणितं फलं प्राप्नोति मानवः । गुडस्य फलमेकं यः शिवाय विनिवेदयेत् ॥ ६-२९॥ अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते । खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् ॥ ६-३०॥ खण्डात्सहस्रगुणितं शर्कराया निवेदने । मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् ॥ ६-३१॥ कल्पकोटिं नरः साग्रं शिवलोके महीयते । परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् ॥ ६-३२॥ मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात् । अशेषफलदानेन यत्पुण्यं परिकीर्तितम् ॥ ६-३३॥ तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने । पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६-३४॥ निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु । कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६-३५॥ पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते । दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् ॥ ६-३६॥ सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु । महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६-३७॥ तत्पुण्यं सकलं प्राप्य शिवलोके महीयते । यदिष्टमात्मनः किंचिदन्नपानफलादिकम् ॥ ६-३८॥ तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता । न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् ॥ ६-३९॥ किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते । न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् ॥ ६-४०॥ पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् । सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् ॥ ६-४१॥ अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् । तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६-४२॥ तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना । यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् ॥ ६-४३॥ नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् । यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६-४४॥ तावद्वर्षसहस्राणि सुरलोके महीयते । पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥ ६-४५॥ दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात् । यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् ॥ ६-४६॥ तावदब्दायुतानां स लोके भोगानवाप्नुयात् । यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् ॥ ६-४७॥ तावन्ति वर्षलक्षाणि शिवलोके महीयते । यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् ॥ ६-४८॥ ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु । यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् ॥ ६-४९॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् ॥ ६-५०॥ इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् । फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६-५१॥ कामिकेन विमानेन क्रीडते स शिवे पुरे । त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६-५२॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् ॥ ६-५३॥ वर्षकोट्यष्टकं भोगैः शिवलोके महीयते । यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् ॥ ६-५४॥ मोदते स शिवे लोके वर्षकोटीश्चतुर्दश । मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६-५५॥ प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः । माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसम्पुटान् ॥ ६-५६॥ दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते । तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥ ६-५७॥ वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् । पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् ॥ ६-५८॥ मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् । यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् ॥ ६-५९॥ दद्यादाधारपात्राणि शिवलोके स गच्छति । वंशतालादिसंभूतं पुष्पाधारकरण्डकम् ॥ ६-६०॥ इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात् । यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् ॥ ६-६१॥ वर्षकोटिं महाभागैः शिवलोके महीयते । यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् ॥ ६-६२॥ शिवाय गुरवे वापि तस्य पुण्यफलं शृणु । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ६-६३॥ स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः । विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥ ६-६४॥ भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः । मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् ॥ ६-६५॥ गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् । यश्च तं पर्वतवरं शालितण्डुलकल्पितम् ॥ ६-६६॥ शिवायगुरवे वापि तस्य पुण्यफलं शृणु । कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-६७॥ यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् । घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु ॥ ६-६८॥ कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे । समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥ ६-६९॥ तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः । कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् ॥ ६-७०॥ घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् । निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् ॥ ६-७१॥ द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् । अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् ॥ ६-७२॥ मरिचाढेन कुर्वीत(?) मारीचं नाम पर्वतम् । दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् ॥ ६-७३॥ दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् । पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् ॥ ६-७४॥ कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते । कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥ ६-७५॥ ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् । सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् ॥ ६-७६॥ यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते । तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-७७॥ कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् । दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् ॥ ६-७८॥ पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते । न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते ॥ ६-७९॥ कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् । उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥ ६-८०॥ अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् । शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् ॥ ६-८१॥ यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-८२॥ मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् । आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् ॥ ६-८३॥ पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् । कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् ॥ ६-८४॥ कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः । पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् ॥ ६-८५॥ यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-८६॥ दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम् । वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥ ६-८७॥ गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् । निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् ॥ ६-८८॥ हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् । निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥ ६-८९॥ वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम् । कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥ ६-९०॥ यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः । क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु ॥ ६-९१॥ कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः । समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥ ६-९२॥ तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः । आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ६-९३॥ यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः । सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥ ६-९४॥ जन्मकोटिसहस्राणि जन्मकोटिशतानि च । राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् ॥ ६-९५॥ एतदेव फलं ज्ञेयं मकुटाभरणादिषु । रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥ ६-९६॥ दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् । शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥ ६-९७॥ इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः । मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥ ६-९८॥ मसूरमात्रमपि यः पद्मरागं सुशोभनम् । निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥ ६-९९॥ निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् । भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥ ६-१००॥ कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् । शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥ ६-१०१॥ हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् । निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥ ६-१०२॥ क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे । मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥ ६-१०३॥ यथा यथा महारत्नं शोभनं च यथा यथा । तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥ ६-१०४॥ भूमिभागे स(?)विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत् । अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् ॥ ६-१०५॥ तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् । अनेकशिखराकीर्णमशेषामरसंयुतम् ॥ ६-१०६॥ बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् । चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् ॥ ६-१०७॥ चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः । चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् ॥ ६-१०८॥ मेरुप्रासादमित्येवं हेमरत्नविभूषितम् । यः कारयेद्वनोपेतं सो ऽनन्तफलमाप्नुयात् ॥ ६-१०९॥ भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते । शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥ ६-११०॥ कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः । कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥ ६-१११॥ आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः । यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥ ६-११२॥ न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः । सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥ ६-११३॥ यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम्(?) । तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥ ६-११४॥ शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् । वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥ ६-११५॥ शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् । ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् ॥ ६-११६॥ त्रिशूलसव्यहस्तां च वरदाभयदायिकां । सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् ॥ ६-११७॥ पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् । विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् ॥ ६-११८॥ सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् । अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् ॥ ६-११९॥ कुर्यादसंभवे हेम्नस्तारेण विमलेन च । आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् ॥ ६-१२०॥ अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् । कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥ ६-१२१॥ एकां सपरिवारां वा पार्वतीं गणसंयुताम् । प्रतीहारसमोपेतां(?) कुर्यादेवाविकल्पतः ॥ ६-१२२॥ पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् । चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् ॥ ६-१२३॥ पृथक्पृथगनेकानि कारयित्वा मुखानि तु । सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥ ६-१२४॥ नानाभरणयुक्तानि हेमरौप्यकृतानि च । शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् ॥ ६-१२५॥ उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् । कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् ॥ ६-१२६॥ मातुः पितुः सहोपायैर्(?) दशभिर्दशभिः कुलैः । कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥ ६-१२७॥ अयुतेन विमानानां सर्वकामयुतेन च । भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् ॥ ६-१२८॥ मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् । अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः ॥ ६-१२९॥ कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे । सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥ ६-१३०॥ धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे । क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥ ६-१३१॥ एषामेकतमं पुण्यं कृत्वा पापविवर्जितः । शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् ॥ ६-१३२॥ रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः । सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् ॥ ६-१३३॥ रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् । यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् ॥ ६-१३४॥ पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् । कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् ॥ ६-१३५॥ पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् । चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥ ६-१३६॥ लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् । बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् ॥ ६-१३७॥ कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् । पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् ॥ ६-१३८॥ महारथविमाने ऽस्मिन्स्थापयेद्गणसंयुतम् । ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥ ६-१३९॥ मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् । पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् ॥ ६-१४०॥ चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् । दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् ॥ ६-१४१॥ नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः । महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥ ६-१४२॥ भ्रामयेद्राजमार्गेण चतुर्थे ऽहनि तद्रथम् । ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् ॥ ६-१४३॥ अवधार्य जगद्धात्री प्रतिमामवतारयेत् । महाविमानयात्रैषा कर्तव्या पट्टके ऽपि वा ॥ ६-१४४॥ वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम्(?) । वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् ॥ ६-१४५॥ सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् । मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् ॥ ६-१४६॥ कटे ऽस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः । उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् ॥ ६-१४७॥ वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् । नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥ ६-१४८॥ रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् । अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् ॥ ६-१४९॥ कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः । आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् ॥ ६-१५०॥ कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् । तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् ॥ ६-१५१॥ विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् । रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥ ६-१५२॥ महापूजाविशेषैश्च कौतूहलसमन्वितम् । वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् ॥ ६-१५३॥ तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः । ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥ ६-१५४॥ महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् । ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् ॥ ६-१५५॥ शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च । शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥ ६-१५६॥ राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् । धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥ ६-१५७॥ कालवर्षी तु पर्जन्यः सस्यसम्पत्तिरुत्तमा । सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥ ६-१५८॥ दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः । बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥ ६-१५९॥ एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् । अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् ॥ ६-१६०॥ शिवमालां समादाय सदासीपरिचारिकः । फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् ॥ ६-१६१॥ पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः । अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥ ६-१६२॥ ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः । प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥ ६-१६३॥ तोयं यथा घटीसंस्थमजस्रं क्षरते तथा । क्षरते सर्वलोकानां तद्वदायुरहर्निशम् ॥ ६-१६४॥ यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् । तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् ॥ ६-१६५॥ कलत्रपुत्रमित्राणि पिता माता च बान्धवाः । तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥ ६-१६६॥ नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा । यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति ॥ ६-१६७॥ तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् । समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥ ६-१६८॥ उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् । तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥ ६-१६९॥ इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् । ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥ ६-१७०॥ येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी । प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥ ६-१७१॥ ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः । गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् ॥ ६-१७२॥ दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च । तर्पयेच्चानतान्(?) भक्त्या वादित्रध्वजवाहकान् ॥ ६-१७३॥ एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे । शोभया राजमार्गेण तस्य धर्मफलं शृणु ॥ ६-१७४॥ समस्तपापनिर्मुक्तः समस्तकुलसंयुतः । शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥ ६-१७५॥ तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः । कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् ॥ ६-१७६॥ रथस्य यात्रां यः कुर्यादित्येवमुपशोभया । भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः ॥ ६-१७७॥ अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः । कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥ ६-१७८॥ सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः । महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥ ६-१७९॥ इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे । ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥ ६-१८०॥ शिवस्य रथयात्रायामुपवासपरः क्षमी । पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु ॥ ६-१८१॥ अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः । महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते᳚ ॥ ६-१८२॥ ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः । धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥ ६-१८३॥ गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया । सम्पर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥ ६-१८४॥ शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः । प्रसङ्गात्कौतुकाद्वापि ते ऽपि यान्ति शिवं पुरम् ॥ ६-१८५॥ नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च । कुर्वीत रथयात्रायां रमते च विभूषिता ॥ ६-१८६॥ ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः । क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥ ६-१८७॥ महता ज्ञानसङ्घेन तस्माच्छिवरथेन च । पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥ ६-१८८॥ श्रीपर्वते महाकाले वाराणस्यां महालये । जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥ ६-१८९॥ गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे । भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥ ६-१९०॥ एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः । जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥ ६-१९१॥ प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् । श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् ॥ ६-१९२॥ प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् । श्रीपर्वतं महापुण्यं सो ऽपि याति शिवं पुरम् ॥ ६-१९३॥ व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते । पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् ॥ ६-१९४॥ तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः । कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥ ६-१९५॥ तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् । क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् ॥ ६-१९६॥ संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः । पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥ ६-१९७॥ अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः । तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥ ६-१९८॥ दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् । मोदते स शिवे लोके युगकोटिशतं नरः ॥ ६-१९९॥ आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् । अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु ॥ ६-२००॥ यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-२०१॥ मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः । रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ॥ ६-२०२॥ गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः । सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥ ६-२०३॥ निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः । संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२०४॥ दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः । कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥ ६-२०५॥ अपि योजनमात्राय शिबिकां परिकल्पयेत् । गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु ॥ ६-२०६॥ विमानानां सहस्रेण सर्वकामयुतेन च । कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२०७॥ छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् । बालक्रीडनकानेतानित्याद्यानपरानपि ॥ ६-२०८॥ निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् । भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥ ६-२०९॥ मुसलोलूखलाद्यानि गृहोपकरणानि च । दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु ॥ ६-२१०॥ प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः । अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् ॥ ६-२११॥ खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् । दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् ॥ ६-२१२॥ प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् । कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥ ६-२१३॥ सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः । कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः ॥ ६-२१४॥ यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् । भोजयीत यथाशक्त्या शिवलोके महीयते ॥ ६-२१५॥ यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने । स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् ॥ ६-२१६॥ यः समुद्धरते मार्गे मात्रोपकरणासनम् । शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु ॥ ६-२१७॥ कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे । तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् ॥ ६-२१८॥ अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः । कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः ॥ ६-२१९॥ अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् । दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥ ६-२२०॥ पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् । तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥ ६-२२१॥ नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् । राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् ॥ ६-२२२॥ यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् । शिवभक्तो ऽस्य महतः परमं फलमाप्नुयात् ॥ ६-२२३॥ शिवोमां च प्रयत्नेन भक्त्याब्दं यो ऽनुपालयेत् । गवां लक्षप्रदानस्य सम्पूर्णं फलमाप्नुयात् ॥ ६-२२४॥ प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् । दूर्वां च बालवत्सानां(?) तस्य पुण्यफलं शृणु ॥ ६-२२५॥ यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् । तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२२६॥ विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् । आभूतस्सम्प्लवं यावच्छिवलोके महीयते ॥ ६-२२७॥ दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः । त्रिः पृथ्वीं रत्नसम्पूर्णां यद्दत्त्वा तत्फलं लभेत् ॥ ६-२२८॥ विनयव्रतदानानि यानि सिद्धानि लोकतः । तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् ॥ ६-२२९॥ निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च । प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ॥ ६-२३०॥ पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये । सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् ॥ ६-२३१॥ नासिकाशोधनं दद्यात्संदंशं शिवयोगिने । वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६-२३२॥ नखच्छेदनकं दत्त्वा शिवलोके महीयते । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-२३३॥ दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने । भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् ॥ ६-२३४॥ कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने । वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६-२३५॥ दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् । वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥ ६-२३६॥ निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् । वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥ ६-२३७॥ दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-२३८॥ दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् । पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-२३९॥ शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः । क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् ॥ ६-२४०॥ शिवाश्रमोपभोगाय लोहोपकरणं महत् । यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु ॥ ६-२४१॥ यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् । तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥ ६-२४२॥ शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति । धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु ॥ ६-२४३॥ एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम् । वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥ ६-२४४॥ यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् । शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६-२४५॥ यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः । वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥ ६-२४६॥ नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् । शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६-२४७ ॥ यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् । नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६-२४८॥ देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः । न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् ॥ ६-२४९॥ ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् । शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६-२५०॥ यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् । नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६-२५१॥ स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु । यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् ॥ ६-२५२॥ पले पले वर्षकोटिं मोदते स शिवे पुरे । यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् ॥ ६-२५३॥ तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् । दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् ॥ ६-२५४॥ यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् । यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् ॥ ६-२५५॥ स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् । यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् ॥ ६-२५६॥ प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु । तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥ ६-२५७॥ तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे । श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥ ६-२५८॥ चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु । यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥ ६-२५९॥ तावद्युगानि संभोगैः शिवलोके महीयते । शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् ॥ ६-२६०॥ प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु । दिव्यं विमानमारूढः सर्वकामसमन्वितम् ॥ ६-२६१॥ कल्पकोट्ययुतं साग्रं शिवलोके महीयते । शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥ ६-२६२॥ निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् । स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् ॥ ६-२६३॥ शैलजानां तदर्धेन पात्राणां च तदर्धकम् । तालखर्जूरपात्राणां वंशजानां निवेदने ॥ ६-२६४॥ अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् । वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥ ६-२६५॥ नानापर्णपुटाणां च साराणां वा फलार्धकम् । यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥ ६-२६६॥ स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने । ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् ॥ ६-२६७॥ भोजने भोजनाधारं गुरवे तत्फलं शृणु । यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥ ६-२६८॥ तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे । लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥ ६-२६९॥ दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् । यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् ॥ ६-२७०॥ वंशजं दारुजं वापि तस्य पुण्यफलं शृणु । दिव्यस्त्रीभोगसम्पन्नो विमाने महति स्थितः ॥ ६-२७१॥ चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे । भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम् ॥ ६-२७२॥ दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः । संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥ ६-२७३॥ कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु । तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥ ६-२७४॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् ॥ ६-२७५॥ यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा । एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् ॥ ६-२७६॥ शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु । यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥ ६-२७७॥ तावच्चतुर्युगं देही शिवलोके महीयते । यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥ ६-२७८ ॥ तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् । यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं ॥ ६-२७९॥ स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति । कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥ ६-२८०॥ अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्(?) । अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् ॥ ६-२८१॥ आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् । शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥ ६-२८२॥ तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् । अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् ॥ ६-२८३॥ शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः । सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् । दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥ ६-२८४॥ ॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥
अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः । सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् ॥ ७-१॥ शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति । गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् ॥ ७-२॥ नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः । अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् ॥ ७-३॥ शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् । शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥ ७-४॥ गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् । कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥ ७-५॥ न विविक्तमनाचान्तम्(?) चङ्क्रमन्तं तथाकुलम् । समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥ ७-६॥ व्याख्याने तत्समाप्तौ च सम्प्रश्ने स्नानभोजने । भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् ॥ ७-७॥ ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् । सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥ ७-८॥ पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् । शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥ ७-९॥ शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् । प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥ ७-१०॥ पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् । आवार्य पदसम्प्राप्तौ पवित्रे चोपविग्रहे ॥ ७-११॥ उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् । पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् ॥ ७-१२॥ हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् । पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥ ७-१३॥ हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः । न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् ॥ ७-१४॥ प्रतिवाते ऽनुवाते वा न तिष्ठेद्गुरुणा सह । असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥ ७-१५॥ अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः । न शयनो न चासीनः संभास्येद्गुरुणा सह ॥ ७-१६॥ दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् । अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥ ७-१७॥ न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् । न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥ ७-१८॥ न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः । उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥ ७-१९॥ गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ । पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् ॥ ७-२०॥ यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः । पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् ॥ ७-२१॥ न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् । समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥ ७-२२॥ स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् । गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥ ७-२३॥ अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् । नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् ॥ ७-२४॥ गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् । कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥ ७-२५॥ मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् । पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् ॥ ७-२६॥ भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः । आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् ॥ ७-२७॥ गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत् । कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् ॥ ७-२८॥ पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् । गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् ॥ ७-२९॥ यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः । अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥ ७-३०॥ नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् । आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् ॥ ७-३१॥ पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् । क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् ॥ ७-३२॥ अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् । गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥ ७-३३॥ प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् । नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥ ७-३४॥ स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् । तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् ॥ ७-३५॥ गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् । अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥ ७-३६॥ न गुरोरप्रियं कुर्यात्पीडितस्तारितो ऽपि वा । नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् ॥ ७-३७॥ गुरुरेव पिता माता गुरुरेव परः शिवः । यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥ ७-३८॥ आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः । तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् ॥ ७-३९॥ यज्ञस्तपांसि नियमात्तानि वै विविधानि च । गुरुवाक्ये तु सर्वाणि सम्पद्यन्ते न संशयः ॥ ७-४०॥ अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् । शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् ॥ ७-४१॥ इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् । सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ७-४२॥ स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् । दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् ॥ ७-४३॥ रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् । अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् ॥ ७-४४॥ गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः । यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥ ७-४५॥ धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते । प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥ ७-४६॥ न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः । कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् ॥ ७-४७॥ पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् । पात्रास्तरितपादश्च(?) नित्यं भुञ्जीत वाग्यतः ॥ ७-४८॥ न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते । शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् ॥ ७-४९॥ न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च । न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥ ७-५०॥ केशास्थीनि कपालानि कार्पासास्थितुषाणि च । अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥ ७-५१॥ न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् । न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् ॥ ७-५२॥ एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् । न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥ ७-५३॥ न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा । न नखांश्च नखैर्विध्यान्न कण्डूयेन्नखैस्तनुम् ॥ ७-५४॥ मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः । न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥ ७-५५॥ सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया । देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः(?) ॥ ७-५६॥ न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् । न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् ॥ ७-५७॥ न पाणिपादवाक्चक्षुः- श्रोत्रशिश्नगुदोदरैः । चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् ॥ ७-५८॥ न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति । लोककौतूहलं पापं संध्यां च परिवर्जयेत् ॥ ७-५९॥ न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् । न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् ॥ ७-६०॥ नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् । न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् ॥ ७-६१॥ शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् । ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥ ७-६२॥ कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः । शिवमन्त्रं समुच्चार्य प्राङ्मुखो ऽध्यापयेद्गुरुः ॥ ७-६३॥ नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् । हेमरत्नचितं वापि गुरोरासनमुत्तमम् ॥ ७-६४॥ न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते । न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥ ७-६५॥ देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि । प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुमुद्धरेत् ॥ ७-६६॥ वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् । तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥ ७-६७॥ देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु । नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥ ७-६८॥ न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् । न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् ॥ ७-६९॥ तृणकाष्ठादिगहने जन्तुभिश्च समाकुले । स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् ॥ ७-७०॥ अग्निं युगपदानीय धारयेत प्रयत्नतः । ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥ ७-७१॥ शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् । शिवो ऽयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥ ७-७२॥ भोगान्ददाति विपुलान्लिङ्गे सम्पूजितः शिवः । अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥ ७-७३॥ मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् । गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् ॥ ७-७४॥ सर्वपर्वसु यत्नेन ह्येषु सम्पूजयेच्छिवम् । कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥ ७-७५॥ नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते । संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् ॥ ७-७६॥ अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् । भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥ ७-७७॥ पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु । दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् ॥ ७-७८॥ प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः । एवं कृते विशेषेण प्रसीदति महेश्वरः ॥ ७-७९॥ छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् । इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम् ॥ ७-८०॥ अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् । कपालं च भगालं स्यात्परमं मङ्गलं वदेत् ॥ ७-८१॥ ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् । स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् ॥ ७-८२॥ द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् । नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् ॥ ७-८३॥ नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् । सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् ॥ ७-८४॥ न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः । दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् ॥ ७-८५॥ नाधार्मिकनृपाक्रान्ते न दंशमशकावृते । नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् ॥ ७-८६॥ नासनं शयनं पानं नमस्काराभिवादनम् । सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् ॥ ७-८७॥ आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि । वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् ॥ ७-८८॥ यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् । शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् ॥ ७-८९॥ उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् । आसनं शयनं पानं धृतमन्यैर्न धारयेत् ॥ ७-९०॥ पालाशमासनं शय्यां पादुके दन्तधावनम् । वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् ॥ ७-९१॥ संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् । स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् ॥ ७-९२॥ यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः । क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु ॥ ७-९३॥ यावत्तत्पत्त्रकुसुम- कन्दमूलफलानि च । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ७-९४॥ कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने । क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् ॥ ७-९५॥ नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति । करोति च परित्राणं तस्य पुण्यफलं शृणु ॥ ७-९६॥ कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः । मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् ॥ ७-९७॥ तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः । स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ७-९८॥ गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः । मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् ॥ ७-९९॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता । अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् ॥ ७-१००॥ अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः । अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥ ७-१०१॥ दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः । योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥ ७-१०२॥ न विन्दति नरो योगं पुत्रदारादिसंगतः । निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥ ७-१०३॥ मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः । बालैर्बद्धस्तु लोको ऽयं मुसलेनाभिहन्यते ॥ ७-१०४॥ इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना । मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥ ७-१०५॥ सम्पर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः । स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥ ७-१०६॥ कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः । तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् ॥ ७-१०७॥ येनैतद्योजितं गर्भे येन चैव विवर्धितम् । तेनैव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते ॥ ७-१०८॥ न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् । यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् ॥ ७-१०९॥ येन यत्र कृतं कर्म स तत्रैव प्रजायते । पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥ ७-११०॥ न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च । करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥ ७-१११॥ कर्मदायादसंबन्धादुपकारः परस्परम् । दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥ ७-११२॥ ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् । ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥ ७-११३॥ द्वयं देवत्वमोक्षाय ममेति न ममेति च । ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ ७-११४॥ द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥ ७-११५॥ तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः । विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् ॥ ७-११६॥ ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् । कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् ॥ ७-११७॥ न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् । दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् ॥ ७-११८॥ सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि । तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥ ७-११९॥ स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् । याति तेनैव देहेन स मृतस्तप्यते चिरम् ॥ ७-१२०॥ यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् । कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् ॥ ७-१२१॥ यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः । सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥ ७-१२२॥ अनेकदोषदुष्टस्य देहस्यैको महान्गुणह् । यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥ ७-१२३॥ मन्दं परिहरन्कर्म स्वदेहमनुपालयेत् । वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥ ७-१२४॥ न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः । सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥ ७-१२५॥ तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् । यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् ॥ ७-१२६॥ तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् । संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् ॥ ७-१२७॥ विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते । स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् ॥ ७-१२८॥ ये ऽतिरम्याण्यरण्यानि सुजलानि शिवानि तु । विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥ ७-१२९॥ विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् । न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥ ७-१३०॥ इति नामामृतं दिव्यं महाकालादवाप्तवान् । विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः(?) सुनिश्चितम् ॥ ७-१३१॥ प्रज्ञामथा विनिर्मथ्य(?) शिवज्ञानमहोदधिम् । ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् ॥ ७-१३२॥ शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे । यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् ॥ ७-१३३॥ त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् । तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् ॥ ७-१३४॥ नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः । चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् ॥ ७-१३५॥ एतैर्महात्मबिः प्रोक्ताः शिवधर्माः समासतः । सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥ ७-१३६॥ तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः । व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥ ७-१३७॥ ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् । ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥ ७-१३८॥ ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने । ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥ ७-१३९॥ शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् । ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥ ७-१४०॥ ॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥ ॥ इति शिवोपनिषत्समाप्ता ॥
% Text title            : shivopanishhad
% File name             : shivopanishad.itx
% itxtitle              : shivopaniShat
% engtitle              : Siva Upanishad
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Converted by Ulrich Stiehl
% Latest update         : September 7, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP