विश्रामोपनिषत्

विश्रामोपनिषत्

ॐ पूर्वदले श्वेतवर्णे यदा विश्राम्यते मनः । तदा धैर्यमुदारं च धर्मकीर्तिमतिर्भवेत् ॥ अग्निदले रक्तवर्णे यदा विश्राम्यते मनः । तदा क्रोधश्च कामश्च मन्दबुद्धिर्मतिर्भवेत् ॥ कृष्णवर्णे दक्षिणदले यदा विश्राम्यते मनः । निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् ॥ नैरृतदले नीलवर्णे यदा विश्राम्यते मनः । तदा क्रोधश्च कामश्च मनोभिन्नमतिर्भवेत् ॥ पश्चिमदले कपिलवर्णे यदा विश्राम्यते मनः । तदा हास्यविनोदौ च उत्साहे च मतिर्भवेत् ॥ श्यामवर्णे वायुदले यदा विश्राम्यते मनः । तदा चिन्तोच्चाटनं च वैराग्ये च मतिर्भवेत् ॥ पीतवर्णोत्तरदले यदा विश्राम्यते मनः । तदा श‍ृङ्गारभोगौ च कल्पनायां मतिर्भवेत् ॥ गौरवर्णेशानदले यदा विश्राम्यते मनः । तदा कृतात्मानं धर्मकीर्तिमतिर्भवेत् ॥ सन्धौ सन्धौ मिश्रितानां यदा विश्राम्यते मनः । तदा देहो गृहं राज्यं निर्दोषा च मतिर्भवेत् ॥ श्यामवर्णे मध्यदले यदा विश्राम्यते मनः । तदा सर्वगुण ज्ञान चैतन्य च मतिर्भवेत् ॥ यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते । ये पठन्ति सदा भक्त्या सायुज्यपदमाप्नुयुः ॥ इति विश्रामोपनिषत् सम्पूर्णा । Proofread by Sunder Hattangadi
% Text title            : vishrAmopaniShat
% File name             : vishrAmopaniShat.itx
% itxtitle              : vishrAmopaniShat (sAmAnyavedAnta)
% engtitle              : vishrAmopaniShat
% Category              : upanishhat, vedanta
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned book)
% Latest update         : October 18, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org