|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-४, ६) प्रथमादिचतुर्‌ऋचाम् षष्ट्याश्चानुष्टप्, (५, ७) पञ्चमीसप्तम्योश्च पतिश्छन्दसी ||
1 त्वाम॑ग्ने ह॒विष्म᳚न्तो दे॒वं मर्ता᳚स ईळते |

मन्ये᳚ त्वा जा॒तवे᳚दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ||{4.1.1.1}, {5.9.1}, {5.1.9.1}
2 अ॒ग्निर्होता॒ दास्व॑तः॒ क्षय॑स्य वृ॒क्तब॑र्हिषः |

सं य॒ज्ञास॒श्चर᳚न्ति॒ यं सं वाजा᳚सः श्रव॒स्यवः॑ ||{4.1.1.2}, {5.9.2}, {5.1.9.2}
3 उ॒त स्म॒ यं शिशुं᳚ यथा॒ नवं॒ जनि॑ष्टा॒रणी᳚ |

ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{4.1.1.3}, {5.9.3}, {5.1.9.3}
4 उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा᳚म् |

पु॒रू यो दग्धासि॒ वनाग्ने᳚ प॒शुर्न यव॑से ||{4.1.1.4}, {5.9.4}, {5.1.9.4}
5 अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्सं॒यन्ति॑ धू॒मिनः॑ |

यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते᳚व॒ धम॑ति॒ शिशी᳚ते ध्मा॒तरी᳚ यथा ||{4.1.1.5}, {5.9.5}, {5.1.9.5}
6 तवा॒हम॑ग्न ऊ॒तिभि᳚र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः |

द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या᳚नाम् ||{4.1.1.6}, {5.9.6}, {5.1.9.6}
7 तं नो᳚ अग्ने अ॒भी नरो᳚ र॒यिं स॑हस्व॒ आ भ॑र |

स क्षे᳚पय॒त्स पो᳚षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{4.1.1.7}, {5.9.7}, {5.1.9.7}
[2] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-३, ५-६) प्रथमादितृचस्य पञ्चमीषष्ठ्योर्‌ऋचोश्चानुष्टप् (४, ७) चतुर्थीसप्तम्योश्च पतिश्छन्दसी ||
8 अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो |

प्र नो᳚ रा॒या परी᳚णसा॒ रत्सि॒ वाजा᳚य॒ पन्था᳚म् ||{4.1.2.1}, {5.10.1}, {5.1.10.1}
9 त्वं नो᳚ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना᳚ |

त्वे अ॑सु॒र्य१॑(अ॒)मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ||{4.1.2.2}, {5.10.2}, {5.1.10.2}
10 त्वं नो᳚ अग्न एषां॒ गयं᳚ पु॒ष्टिं च॑ वर्धय |

ये स्तोमे᳚भिः॒ प्र सू॒रयो॒ नरो᳚ म॒घान्या᳚न॒शुः ||{4.1.2.3}, {5.10.3}, {5.1.10.3}
11 ये अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः |

शुष्मे᳚भिः शु॒ष्मिणो॒ नरो᳚ दि॒वश्चि॒द्येषां᳚ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना᳚ ||{4.1.2.4}, {5.10.4}, {5.1.10.4}
12 तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज᳚न्तो यन्ति धृष्णु॒या |

परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा᳚ज॒युः ||{4.1.2.5}, {5.10.5}, {5.1.10.5}
13 नू नो᳚ अग्न ऊ॒तये᳚ स॒बाध॑सश्च रा॒तये᳚ |

अ॒स्माका᳚सश्च सू॒रयो॒ विश्वा॒ आशा᳚स्तरी॒षणि॑ ||{4.1.2.6}, {5.10.6}, {5.1.10.6}
14 त्वं नो᳚ अग्ने अङ्गिरः स्तु॒तः स्तवा᳚न॒ आ भ॑र |

होत᳚र्विभ्वा॒सहं᳚ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{4.1.2.7}, {5.10.7}, {5.1.10.7}
[3] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | जगती छन्दः ||
15 जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से |

घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा᳚ द्यु॒मद्वि भा᳚ति भर॒तेभ्यः॒ शुचिः॑ ||{4.1.3.1}, {5.11.1}, {5.1.11.1}
16 य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी᳚धिरे |

इन्द्रे᳚ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता᳚ य॒जथा᳚य सु॒क्रतुः॑ ||{4.1.3.2}, {5.11.2}, {5.1.11.2}
17 अस᳚म्मृष्टो जायसे मा॒त्रोः शुचि᳚र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः |

घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते᳚ के॒तुर॑भवद्दि॒वि श्रि॒तः ||{4.1.3.3}, {5.11.3}, {5.1.11.3}
18 अ॒ग्निर्नो᳚ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे |

अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ||{4.1.3.4}, {5.11.4}, {5.1.11.4}
19 तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं᳚ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे |

त्वां गिरः॒ सिन्धु॑मिवा॒वनी᳚र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय᳚न्ति च ||{4.1.3.5}, {5.11.5}, {5.1.11.5}
20 त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा᳚ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने᳚वने |

स जा᳚यसे म॒थ्यमा᳚नः॒ सहो᳚ म॒हत्त्वामा᳚हुः॒ सह॑सस्पु॒त्रम᳚ङ्गिरः ||{4.1.3.6}, {5.11.6}, {5.1.11.6}
[4] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
21 प्राग्नये᳚ बृह॒ते य॒ज्ञिया᳚य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ |

घृ॒तं न य॒ज्ञ आ॒स्ये॒३॑(ए॒) सुपू᳚तं॒ गिरं᳚ भरे वृष॒भाय॑ प्रती॒चीम् ||{4.1.4.1}, {5.12.1}, {5.1.12.1}
22 ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः |

नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ||{4.1.4.2}, {5.12.2}, {5.1.12.2}
23 कया᳚ नो अग्न ऋ॒तय᳚न्नृ॒तेन॒ भुवो॒ नवे᳚दा उ॒चथ॑स्य॒ नव्यः॑ |

वेदा᳚ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं᳚ सनि॒तुर॒स्य रा॒यः ||{4.1.4.3}, {5.12.3}, {5.1.12.3}
24 के ते᳚ अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑ |

के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ||{4.1.4.4}, {5.12.4}, {5.1.12.4}
25 सखा᳚यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ सन्तो॒ अशि॑वा अभूवन् |

अधू᳚र्षत स्व॒यमे॒ते वचो᳚भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ||{4.1.4.5}, {5.12.5}, {5.1.12.5}
26 यस्ते᳚ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा᳚त्यरु॒षस्य॒ वृष्णः॑ |

तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे᳚तु प्र॒सर्स्रा᳚णस्य॒ नहु॑षस्य॒ शेषः॑ ||{4.1.4.6}, {5.12.6}, {5.1.12.6}
[5] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
27 अर्च᳚न्तस्त्वा हवाम॒हेऽर्च᳚न्तः॒ समि॑धीमहि |

अग्ने॒ अर्च᳚न्त ऊ॒तये᳚ ||{4.1.5.1}, {5.13.1}, {5.1.13.1}
28 अ॒ग्नेः स्तोमं᳚ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑ |

दे॒वस्य॑ द्रविण॒स्यवः॑ ||{4.1.5.2}, {5.13.2}, {5.1.13.2}
29 अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा |

स य॑क्ष॒द्दैव्यं॒ जन᳚म् ||{4.1.5.3}, {5.13.3}, {5.1.13.3}
30 त्वम॑ग्ने स॒प्रथा᳚ असि॒ जुष्टो॒ होता॒ वरे᳚ण्यः |

त्वया᳚ य॒ज्ञं वि त᳚न्वते ||{4.1.5.4}, {5.13.4}, {5.1.13.4}
31 त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा᳚ वर्धन्ति॒ सुष्टु॑तम् |

स नो᳚ रास्व सु॒वीर्य᳚म् ||{4.1.5.5}, {5.13.5}, {5.1.13.5}
32 अग्ने᳚ ने॒मिर॒राँ इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि |

आ राध॑श्चि॒त्रमृ᳚ञ्जसे ||{4.1.5.6}, {5.13.6}, {5.1.13.6}
[6] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्द ||
33 अ॒ग्निं स्तोमे᳚न बोधय समिधा॒नो अम॑र्त्यम् |

ह॒व्या दे॒वेषु॑ नो दधत् ||{4.1.6.1}, {5.14.1}, {5.1.14.1}
34 तम॑ध्व॒रेष्वी᳚ळते दे॒वं मर्ता॒ अम॑र्त्यम् |

यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{4.1.6.2}, {5.14.2}, {5.1.14.2}
35 तं हि शश्व᳚न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता᳚ |

अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ||{4.1.6.3}, {5.14.3}, {5.1.14.3}
36 अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन्दस्यू॒ञ्ज्योति॑षा॒ तमः॑ |

अवि᳚न्द॒द्गा अ॒पः स्वः॑ ||{4.1.6.4}, {5.14.4}, {5.1.14.4}
37 अ॒ग्निमी॒ळेन्यं᳚ क॒विं घृ॒तपृ॑ष्ठं सपर्यत |

वेतु॑ मे शृ॒णव॒द्धव᳚म् ||{4.1.6.5}, {5.14.5}, {5.1.14.5}
38 अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |

स्वा॒धीभि᳚र्वच॒स्युभिः॑ ||{4.1.6.6}, {5.14.6}, {5.1.14.6}
[7] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसो धरुण ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
39 प्र वे॒धसे᳚ क॒वये॒ वेद्या᳚य॒ गिरं᳚ भरे य॒शसे᳚ पू॒र्व्याय॑ |

घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो᳚ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो᳚ अ॒ग्निः ||{4.1.7.1}, {5.15.1}, {5.2.1.1}
40 ऋ॒तेन॑ ऋ॒तं ध॒रुणं᳚ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो᳚मन् |

दि॒वो धर्म᳚न्ध॒रुणे᳚ से॒दुषो॒ नॄञ्जा॒तैरजा᳚ताँ अ॒भि ये न॑न॒क्षुः ||{4.1.7.2}, {5.15.2}, {5.2.1.2}
41 अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो᳚ म॒हद्दु॒ष्टरं᳚ पू॒र्व्याय॑ |

स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ||{4.1.7.3}, {5.15.3}, {5.2.1.3}
42 मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं᳚जनं॒ धाय॑से॒ चक्ष॑से च |

वयो᳚वयो जरसे॒ यद्दधा᳚नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ||{4.1.7.4}, {5.15.4}, {5.2.1.4}
43 वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं᳚ ध॒रुणं᳚ देव रा॒यः |

प॒दं न ता॒युर्गुहा॒ दधा᳚नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ||{4.1.7.5}, {5.15.5}, {5.2.1.5}
[8] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पूरुषिः, अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
44 बृ॒हद्वयो॒ हि भा॒नवेऽर्चा᳚ दे॒वाया॒ग्नये᳚ |

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता᳚सो दधि॒रे पु॒रः ||{4.1.8.1}, {5.16.1}, {5.2.2.1}
45 स हि द्युभि॒र्जना᳚नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः |

वि ह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒ न वार॑मृण्वति ||{4.1.8.2}, {5.16.2}, {5.2.2.2}
46 अ॒स्य स्तोमे᳚ म॒घोनः॑ स॒ख्ये वृ॒द्धशो᳚चिषः |

विश्वा॒ यस्मि᳚न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ||{4.1.8.3}, {5.16.3}, {5.2.2.3}
47 अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना᳚ |

तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो᳚ बभूवतुः ||{4.1.8.4}, {5.16.4}, {5.2.2.4}
48 नू न॒ एहि॒ वार्य॒मग्ने᳚ गृणा॒न आ भ॑र |

ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{4.1.8.5}, {5.16.5}, {5.2.2.5}
[9] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पुरु ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
49 आ य॒ज्ञैर्दे᳚व॒ मर्त्य॑ इ॒त्था तव्यां᳚समू॒तये᳚ |

अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी᳚ळी॒ताव॑से ||{4.1.9.1}, {5.17.1}, {5.2.3.1}
50 अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से |

तं नाकं᳚ चि॒त्रशो᳚चिषं म॒न्द्रं प॒रो म॑नी॒षया᳚ ||{4.1.9.2}, {5.17.2}, {5.2.3.2}
51 अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा |

दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच᳚न्त्य॒र्चयः॑ ||{4.1.9.3}, {5.17.3}, {5.2.3.3}
52 अ॒स्य क्रत्वा॒ विचे᳚तसो द॒स्मस्य॒ वसु॒ रथ॒ आ |

अधा॒ विश्वा᳚सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ||{4.1.9.4}, {5.17.4}, {5.2.3.4}
53 नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑ |

ऊर्जो᳚ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{4.1.9.5}, {5.17.5}, {5.2.3.5}
[10] (१-५) पञ्चर्चस्य सूक्तस्य मृक्तवाहा आत्रेयो द्वित ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
54 प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः |

विश्वा᳚नि॒ यो अम॑र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य॑ति ||{4.1.10.1}, {5.18.1}, {5.2.4.1}
55 द्वि॒ताय॑ मृ॒क्तवा᳚हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना᳚ |

इन्दुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ||{4.1.10.2}, {5.18.2}, {5.2.4.2}
56 तं वो᳚ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना᳚म् |

अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ||{4.1.10.3}, {5.18.3}, {5.2.4.3}
57 चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये |

स्ती॒र्णं ब॒र्हिः स्व᳚र्णरे॒ श्रवां᳚सि दधिरे॒ परि॑ ||{4.1.10.4}, {5.18.4}, {5.2.4.4}
58 ये मे᳚ पञ्चा॒शतं᳚ द॒दुरश्वा᳚नां स॒धस्तु॑ति |

द्यु॒मद॑ग्ने॒ महि॒ श्रवो᳚ बृ॒हत्कृ॑धि म॒घोनां᳚ नृ॒वद॑मृत नृ॒णाम् ||{4.1.10.5}, {5.18.5}, {5.2.4.5}
[11] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो वव्रिआ षः, अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्गायत्री, (३-४) तृतीयाचतुओरनुष्टुप्।, (५) पञ्चम्याश्च विराड्रूपा छन्दांसि ||
59 अ॒भ्य॑व॒स्थाः प्र जा᳚यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत |

उ॒पस्थे᳚ मा॒तुर्वि च॑ष्टे ||{4.1.11.1}, {5.19.1}, {5.2.5.1}
60 जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा᳚न्ति |

आ दृ॒ळ्हां पुरं᳚ विविशुः ||{4.1.11.2}, {5.19.2}, {5.2.5.2}
61 आ श्वै᳚त्रे॒यस्य॑ ज॒न्तवो᳚ द्यु॒मद्व॑र्धन्त कृ॒ष्टयः॑ |

नि॒ष्कग्री᳚वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा᳚ज॒युः ||{4.1.11.3}, {5.19.3}, {5.2.5.3}
62 प्रि॒यं दु॒ग्धं न काम्य॒मजा᳚मि जा॒म्योः सचा᳚ |

घ॒र्मो न वाज॑जठ॒रोऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ||{4.1.11.4}, {5.19.4}, {5.2.5.4}
63 क्रीळ᳚न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः |

ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं᳚शिता व॒क्ष्यो᳚ वक्षणे॒स्थाः ||{4.1.11.5}, {5.19.5}, {5.2.5.5}
[12] (१-४) चतुरृचस्य सूक्तस्यात्रेयाः प्रयस्वन्त (ऋषयः) अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टप्, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
64 यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् |

तं नो᳚ गी॒र्भिः श्र॒वाय्यं᳚ देव॒त्रा प॑नया॒ युज᳚म् ||{4.1.12.1}, {5.20.1}, {5.2.6.1}
65 ये अ॑ग्ने॒ नेरय᳚न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः |

अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ||{4.1.12.2}, {5.20.2}, {5.2.6.2}
66 होता᳚रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् |

य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ||{4.1.12.3}, {5.20.3}, {5.2.6.3}
67 इ॒त्था यथा᳚ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे |

रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो᳚ वी॒रैः स्या᳚म सध॒मादः॑ ||{4.1.12.4}, {5.20.4}, {5.2.6.4}
[13] (१-४) चतुरृचस्य सूक्तस्य आत्रेयः सस ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्याऋचश्च पतिश्छन्दसी ||
68 म॒नु॒ष्वत्त्वा॒ नि धी᳚महि मनु॒ष्वत्समि॑धीमहि |

अग्ने᳚ मनु॒ष्वद᳚ङ्गिरो दे॒वान्दे᳚वय॒ते य॑ज ||{4.1.13.1}, {5.21.1}, {5.2.7.1}
69 त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री᳚त इ॒ध्यसे᳚ |

स्रुच॑स्त्वा यन्त्यानु॒षक्सुजा᳚त॒ सर्पि॑रासुते ||{4.1.13.2}, {5.21.2}, {5.2.7.2}
70 त्वां विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दू॒तम॑क्रत |

स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{4.1.13.3}, {5.21.3}, {5.2.7.3}
71 दे॒वं वो᳚ देवय॒ज्यया॒ग्निमी᳚ळीत॒ मर्त्यः॑ |

समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ||{4.1.13.4}, {5.21.4}, {5.2.7.4}
[14] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वसामा ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्या ऋचश्च पतिश्छन्दसी ||
72 प्र वि॑श्वसामन्नत्रि॒वदर्चा᳚ पाव॒कशो᳚चिषे |

यो अ॑ध्व॒रेष्वीड्यो॒ होता᳚ म॒न्द्रत॑मो वि॒शि ||{4.1.14.1}, {5.22.1}, {5.2.8.1}
73 न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं॒ दधा᳚ता दे॒वमृ॒त्विज᳚म् |

प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ||{4.1.14.2}, {5.22.2}, {5.2.8.2}
74 चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता᳚स ऊ॒तये᳚ |

वरे᳚ण्यस्य॒ तेऽव॑स इया॒नासो᳚ अमन्महि ||{4.1.14.3}, {5.22.3}, {5.2.8.3}
75 अग्ने᳚ चिकि॒द्ध्य१॑(अ॒)स्य न॑ इ॒दं वचः॑ सहस्य |

तं त्वा᳚ सुशिप्र दम्पते॒ स्तोमै᳚र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु᳚म्भ॒न्त्यत्र॑यः ||{4.1.14.4}, {5.22.4}, {5.2.8.4}
[15] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वचर्षा णधर्म ऋषिः | अग्निर्देवता | (१३) प्रथमादितृचस्यानुष्टप, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
76 अग्ने॒ सह᳚न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा᳚ र॒यिम् |

विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सा वाजे᳚षु सा॒सह॑त् ||{4.1.15.1}, {5.23.1}, {5.2.9.1}
77 तम॑ग्ने पृतना॒षहं᳚ र॒यिं स॑हस्व॒ आ भ॑र |

त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ||{4.1.15.2}, {5.23.2}, {5.2.9.2}
78 विश्वे॒ हि त्वा᳚ स॒जोष॑सो॒ जना᳚सो वृ॒क्तब॑र्हिषः |

होता᳚रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या᳚ पु॒रु ||{4.1.15.3}, {5.23.3}, {5.2.9.3}
79 स हि ष्मा᳚ वि॒श्वच॑र्षणिर॒भिमा᳚ति॒ सहो᳚ द॒धे |

अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ||{4.1.15.4}, {5.23.4}, {5.2.9.4}
[16] (१-४) चतुरृचस्य सूक्तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विपब्र न्धुश्च गौपायना लौपायना वा क्रमेणर्षयः, अग्निर्देवता | द्विपदा विराट् छन्दः ||
80 अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ||{4.1.16.1}, {5.24.1}, {5.2.10.1}
81 वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा᳚ नक्षि द्यु॒मत्त॑मं र॒यिं दाः᳚ ||{4.1.16.2}, {5.24.2}, {5.2.10.2}
82 स नो᳚ बोधि श्रु॒धी हव॑मुरु॒ष्या णो᳚ अघाय॒तः स॑मस्मात् ||{4.1.16.3}, {5.24.3}, {5.2.10.3}
83 तं त्वा᳚ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी᳚महे॒ सखि॑भ्यः ||{4.1.16.4}, {5.24.4}, {5.2.10.4}
[17] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव (ऋषयः) अग्निर्देवता | अनुष्टुप् छन्दः ||
84 अच्छा᳚ वो अ॒ग्निमव॑से दे॒वं गा᳚सि॒ स नो॒ वसुः॑ |

रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा᳚ पर्षति द्वि॒षः ||{4.1.17.1}, {5.25.1}, {5.2.11.1}
85 स हि स॒त्यो यं पूर्वे᳚ चिद्दे॒वास॑श्चि॒द्यमी᳚धि॒रे |

होता᳚रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि᳚र्वि॒भाव॑सुम् ||{4.1.17.2}, {5.25.2}, {5.2.11.2}
86 स नो᳚ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या |

अग्ने᳚ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि᳚र्वरेण्य ||{4.1.17.3}, {5.25.3}, {5.2.11.3}
87 अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |

अ॒ग्निर्नो᳚ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ||{4.1.17.4}, {5.25.4}, {5.2.11.4}
88 अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मम् |

अ॒तूर्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚ ||{4.1.17.5}, {5.25.5}, {5.2.11.5}
89 अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ |

अ॒ग्निरत्यं᳚ रघु॒ष्यदं॒ जेता᳚र॒मप॑राजितम् ||{4.1.18.1}, {5.25.6}, {5.2.11.6}
90 यद्वाहि॑ष्ठं॒ तद॒ग्नये᳚ बृ॒हद॑र्च विभावसो |

महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी᳚रते ||{4.1.18.2}, {5.25.7}, {5.2.11.7}
91 तव॑ द्यु॒मन्तो᳚ अ॒र्चयो॒ ग्रावे᳚वोच्यते बृ॒हत् |

उ॒तो ते᳚ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना᳚ दि॒वः ||{4.1.18.3}, {5.25.8}, {5.2.11.8}
92 ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम |

स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष᳚न्ना॒वेव॑ सु॒क्रतुः॑ ||{4.1.18.4}, {5.25.9}, {5.2.11.9}
[18] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव ऋषयः (१-८) प्रथमाद्यष्टर्चामग्निः, (९) नवम्याश्च लिङ्गोक्ता देवताः | गायत्री छन्दः ||
93 अग्ने᳚ पावक रो॒चिषा᳚ म॒न्द्रया᳚ देव जि॒ह्वया᳚ |

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ||{4.1.19.1}, {5.26.1}, {5.2.12.1}
94 तं त्वा᳚ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश᳚म् |

दे॒वाँ आ वी॒तये᳚ वह ||{4.1.19.2}, {5.26.2}, {5.2.12.2}
95 वी॒तिहो᳚त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि |

अग्ने᳚ बृ॒हन्त॑मध्व॒रे ||{4.1.19.3}, {5.26.3}, {5.2.12.3}
96 अग्ने॒ विश्वे᳚भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा᳚तये |

होता᳚रं त्वा वृणीमहे ||{4.1.19.4}, {5.26.4}, {5.2.12.4}
97 यज॑मानाय सुन्व॒त आग्ने᳚ सु॒वीर्यं᳚ वह |

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{4.1.19.5}, {5.26.5}, {5.2.12.5}
98 स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा᳚णि पुष्यसि |

दे॒वानां᳚ दू॒त उ॒क्थ्यः॑ ||{4.1.20.1}, {5.26.6}, {5.2.12.6}
99 न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् |

दधा᳚ता दे॒वमृ॒त्विज᳚म् ||{4.1.20.2}, {5.26.7}, {5.2.12.7}
100 प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः |

स्तृ॒णी॒त ब॒र्हिरा॒सदे᳚ ||{4.1.20.3}, {5.26.8}, {5.2.12.8}
101 एदं म॒रुतो᳚ अ॒श्विना᳚ मि॒त्रः सी᳚दन्तु॒ वरु॑णः |

दे॒वासः॒ सर्व॑या वि॒शा ||{4.1.20.4}, {5.26.9}, {5.2.12.9}
[19] (१-६) षळृर्चस्य सूक्तस्य त्रैवष् णज्यरुणः पौरुकुत्स्यस्त्रसदस्यु रतोऽश्चमेधश्च राजानो भोमौऽत्रिर्वा ऋषिः | (१-५) प्रथमादिपञ्चर्चामग्निः, (६) षष्ठ्याश्चेन्द्राग्नी देवते | (१-३) प्रथमतृचस्य त्रिष्टुप्, (४-६) द्वितीयतृचस्य चानुष्टुप्, छन्दसी ||
102 अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ |

त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा᳚नर॒ त्र्य॑रुणश्चिकेत ||{4.1.21.1}, {5.27.1}, {5.2.13.1}
103 यो मे᳚ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी᳚ च यु॒क्ता सु॒धुरा॒ ददा᳚ति |

वैश्वा᳚नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ||{4.1.21.2}, {5.27.2}, {5.2.13.2}
104 ए॒वा ते᳚ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः |

यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ||{4.1.21.3}, {5.27.3}, {5.2.13.3}
105 यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये᳚ |

दद॑दृ॒चा स॒निं य॒ते दद᳚न्मे॒धामृ॑ताय॒ते ||{4.1.21.4}, {5.27.4}, {5.2.13.4}
106 यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |

अश्व॑मेधस्य॒ दानाः॒ सोमा᳚ इव॒ त्र्या᳚शिरः ||{4.1.21.5}, {5.27.5}, {5.2.13.5}
107 इन्द्रा᳚ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य᳚म् |

क्ष॒त्रं धा᳚रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर᳚म् ||{4.1.21.6}, {5.27.6}, {5.2.13.6}
[20] (१-६) षळृर्चस्य सूक्तस्यात्रेयी विश्ववारा (ऋषिका) अग्निर्देवता | (१, ३) प्रथमर्चस्तृतीयायाश्च त्रिष्टुप्, (२) द्वितीयाया जगती, (४) चतुर्थ्या अनुष्टुप्, (५-६) पञ्चमीषष्ठ्योश्च गायत्री छन्दांसि ||
108 समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा᳚ति |

एति॒ प्राची᳚ वि॒श्ववा᳚रा॒ नमो᳚भिर्दे॒वाँ ईळा᳚ना ह॒विषा᳚ घृ॒ताची᳚ ||{4.1.22.1}, {5.28.1}, {5.2.14.1}
109 स॒मि॒ध्यमा᳚नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं᳚ सचसे स्व॒स्तये᳚ |

विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ||{4.1.22.2}, {5.28.2}, {5.2.14.2}
110 अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु |

सं जा᳚स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां᳚सि ||{4.1.22.3}, {5.28.3}, {5.2.14.3}
111 समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय᳚म् |

वृ॒ष॒भो द्यु॒म्नवाँ᳚ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ||{4.1.22.4}, {5.28.4}, {5.2.14.4}
112 समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर |

त्वं हि ह᳚व्य॒वाळसि॑ ||{4.1.22.5}, {5.28.5}, {5.2.14.5}
113 आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे |

वृ॒णी॒ध्वं ह᳚व्य॒वाह॑नम् ||{4.1.22.6}, {5.28.6}, {5.2.14.6}
[21] (१-१५) पञ्चदशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | तत्रापि (९) नवम्या ऋचः प्रथमपादस्योशना वा देवता | त्रिष्टुप् छन्दः ||
114 त्र्य᳚र्य॒मा मनु॑षो दे॒वता᳚ता॒ त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त |

अर्च᳚न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ||{4.1.23.1}, {5.29.1}, {5.2.15.1}
115 अनु॒ यदीं᳚ म॒रुतो᳚ मन्दसा॒नमार्च॒न्निन्द्रं᳚ पपि॒वांसं᳚ सु॒तस्य॑ |

आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ||{4.1.23.2}, {5.29.2}, {5.2.15.2}
116 उ॒त ब्र᳚ह्माणो मरुतो मे अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः |

तद्धि ह॒व्यं मनु॑षे॒ गा अवि᳚न्द॒दह॒न्नहिं᳚ पपि॒वाँ इन्द्रो᳚ अस्य ||{4.1.23.3}, {5.29.3}, {5.2.15.3}
117 आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे᳚ मृ॒गं कः॑ |

जिग॑र्ति॒मिन्द्रो᳚ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ||{4.1.23.4}, {5.29.4}, {5.2.15.4}
118 अध॒ क्रत्वा᳚ मघव॒न्तुभ्यं᳚ दे॒वा अनु॒ विश्वे᳚ अददुः सोम॒पेय᳚म् |

यत्सूर्य॑स्य ह॒रितः॒ पत᳚न्तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ||{4.1.23.5}, {5.29.5}, {5.2.15.5}
119 नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्सा॒कं वज्रे᳚ण म॒घवा᳚ विवृ॒श्चत् |

अर्च॒न्तीन्द्रं᳚ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ||{4.1.24.1}, {5.29.6}, {5.2.15.6}
120 सखा॒ सख्ये᳚ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा᳚ महि॒षा त्री श॒तानि॑ |

त्री सा॒कमिन्द्रो॒ मनु॑षः॒ सरां᳚सि सु॒तं पि॑बद्वृत्र॒हत्या᳚य॒ सोम᳚म् ||{4.1.24.2}, {5.29.7}, {5.2.15.7}
121 त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां᳚सि म॒घवा᳚ सो॒म्यापाः᳚ |

का॒रं न विश्वे᳚ अह्वन्त दे॒वा भर॒मिन्द्रा᳚य॒ यदहिं᳚ ज॒घान॑ ||{4.1.24.3}, {5.29.8}, {5.2.15.8}
122 उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया᳚तं गृ॒हमि᳚न्द्र जूजुवा॒नेभि॒रश्वैः᳚ |

व॒न्वा॒नो अत्र॑ स॒रथं᳚ ययाथ॒ कुत्से᳚न दे॒वैरव॑नोर्ह॒ शुष्ण᳚म् ||{4.1.24.4}, {5.29.9}, {5.2.15.9}
123 प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा᳚या॒न्यद्वरि॑वो॒ यात॑वेऽकः |

अ॒नासो॒ दस्यूँ᳚रमृणो व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्मृ॒ध्रवा᳚चः ||{4.1.24.5}, {5.29.10}, {5.2.15.10}
124 स्तोमा᳚सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर᳚न्धयो वैदथि॒नाय॒ पिप्रु᳚म् |

आ त्वामृ॒जिश्वा᳚ स॒ख्याय॑ चक्रे॒ पच᳚न्प॒क्तीरपि॑बः॒ सोम॑मस्य ||{4.1.25.1}, {5.29.11}, {5.2.15.11}
125 नव॑ग्वासः सु॒तसो᳚मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः |

गव्यं᳚ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना अप᳚ व्रन् ||{4.1.25.2}, {5.29.12}, {5.2.15.12}
126 क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या᳚ मघव॒न्या च॒कर्थ॑ |

या चो॒ नु नव्या᳚ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते᳚ वि॒दथे᳚षु ब्रवाम ||{4.1.25.3}, {5.29.13}, {5.2.15.13}
127 ए॒ता विश्वा᳚ चकृ॒वाँ इ᳚न्द्र॒ भूर्यप॑रीतो ज॒नुषा᳚ वी॒र्ये᳚ण |

या चि॒न्नु व॑ज्रिन्कृ॒णवो᳚ दधृ॒ष्वान्न ते᳚ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः᳚ ||{4.1.25.4}, {5.29.14}, {5.2.15.14}
128 इन्द्र॒ ब्रह्म॑ क्रि॒यमा᳚णा जुषस्व॒ या ते᳚ शविष्ठ॒ नव्या॒ अक᳚र्म |

वस्त्रे᳚व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा᳚ अतक्षम् ||{4.1.25.5}, {5.29.15}, {5.2.15.15}
[22] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयो वभ ऋषिः | (१-११) प्रथमायेकादशचामिन्द्रः, (१२-१५) द्वादश्यादिचतसृणाञ्च ऋणञ्चयेन्द्रौ देवते | त्रिष्टुप् छन्दः ||
129 क्व१॑(अ॒) स्य वी॒रः को अ॑पश्य॒दिन्द्रं᳚ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् |

यो रा॒या व॒ज्री सु॒तसो᳚ममि॒च्छन्तदोको॒ गन्ता᳚ पुरुहू॒त ऊ॒ती ||{4.1.26.1}, {5.30.1}, {5.2.16.1}
130 अवा᳚चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा᳚यमि॒च्छन् |

अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो᳚ बुबुधा॒ना अ॑शेम ||{4.1.26.2}, {5.30.2}, {5.2.16.2}
131 प्र नु व॒यं सु॒ते या ते᳚ कृ॒तानीन्द्र॒ ब्रवा᳚म॒ यानि॑ नो॒ जुजो᳚षः |

वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ||{4.1.26.3}, {5.30.3}, {5.2.16.3}
132 स्थि॒रं मन॑श्चकृषे जा॒त इ᳚न्द्र॒ वेषीदेको᳚ यु॒धये॒ भूय॑सश्चित् |

अश्मा᳚नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा᳚मू॒र्वमु॒स्रिया᳚णाम् ||{4.1.26.4}, {5.30.4}, {5.2.16.4}
133 प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् |

अत॑श्चि॒दिन्द्रा᳚दभयन्त दे॒वा विश्वा᳚ अ॒पो अ॑जयद्दा॒सप॑त्नीः ||{4.1.26.5}, {5.30.5}, {5.2.16.5}
134 तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्च᳚न्त्य॒र्कं सु॒न्वन्त्यन्धः॑ |

अहि॑मोहा॒नम॒प आ॒शया᳚नं॒ प्र मा॒याभि᳚र्मा॒यिनं᳚ सक्ष॒दिन्द्रः॑ ||{4.1.27.1}, {5.30.6}, {5.2.16.6}
135 वि षू मृधो᳚ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा᳚ मघवन्संचका॒नः |

अत्रा᳚ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ||{4.1.27.2}, {5.30.7}, {5.2.16.7}
136 युजं॒ हि मामकृ॑था॒ आदिदि᳚न्द्र॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |

अश्मा᳚नं चित्स्व॒र्य१॑(अ॒) अंवर्त॑मानं॒ प्र च॒क्रिये᳚व॒ रोद॑सी म॒रुद्भ्यः॑ ||{4.1.27.3}, {5.30.8}, {5.2.16.8}
137 स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा᳚ करन्नब॒ला अ॑स्य॒ सेनाः᳚ |

अ॒न्तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्रः॑ ||{4.1.27.4}, {5.30.9}, {5.2.16.9}
138 समत्र॒ गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् |

सं ता इन्द्रो᳚ असृजदस्य शा॒कैर्यदीं॒ सोमा᳚सः॒ सुषु॑ता॒ अम᳚न्दन् ||{4.1.27.5}, {5.30.10}, {5.2.16.10}
139 यदीं॒ सोमा᳚ ब॒भ्रुधू᳚ता॒ अम᳚न्द॒न्नरो᳚रवीद्वृष॒भः साद॑नेषु |

पु॒रं॒द॒रः प॑पि॒वाँ इन्द्रो᳚ अस्य॒ पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् ||{4.1.28.1}, {5.30.11}, {5.2.16.11}
140 भ॒द्रमि॒दं रु॒शमा᳚ अग्ने अक्र॒न्गवां᳚ च॒त्वारि॒ दद॑तः स॒हस्रा᳚ |

ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ||{4.1.28.2}, {5.30.12}, {5.2.16.12}
141 सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां᳚ स॒हस्रै᳚ रु॒शमा᳚सो अग्ने |

ती॒व्रा इन्द्र॑मममन्दुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ||{4.1.28.3}, {5.30.13}, {5.2.16.13}
142 औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा᳚नाम् |

अत्यो॒ न वा॒जी र॒घुर॒ज्यमा᳚नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा᳚ ||{4.1.28.4}, {5.30.14}, {5.2.16.14}
143 चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे᳚ष्वग्ने |

घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒ विप्राः᳚ ||{4.1.28.5}, {5.30.15}, {5.2.16.15}
[23] (१-१३) त्रयोदशर्चस्य सूक्तस्यात्रेय अवस्य ऋषिः | (१-७, ८, १०-१३) प्रथमादिसप्तर्चामष्टम्याः प्रथमद्वितीयपादयोर्दशम्यादिचतसृणाञ्चेन्द्रः (८) अष्टम्यास्तृतीयपादस्येन्द्रः कत्सो वा, चतुथर्प दिस्येन्द्र उशना वा, (९) नवम्याश्चेन्द्राकुत्सौ देवताः | त्रिष्टुप् छन्दः ||
144 इन्द्रो॒ रथा᳚य प्र॒वतं᳚ कृणोति॒ यम॒ध्यस्था᳚न्म॒घवा᳚ वाज॒यन्त᳚म् |

यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा᳚सन् ||{4.1.29.1}, {5.31.1}, {5.2.17.1}
145 आ प्र द्र॑व हरिवो॒ मा वि वे᳚नः॒ पिश᳚ङ्गराते अ॒भि नः॑ सचस्व |

न॒हि त्वदि᳚न्द्र॒ वस्यो᳚ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ||{4.1.29.2}, {5.31.2}, {5.2.17.2}
146 उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा᳚ |

प्राचो᳚दयत्सु॒दुघा᳚ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो᳚ऽवः ||{4.1.29.3}, {5.31.3}, {5.2.17.3}
147 अन॑वस्ते॒ रथ॒मश्वा᳚य तक्ष॒न्त्वष्टा॒ वज्रं᳚ पुरुहूत द्यु॒मन्त᳚म् |

ब्र॒ह्माण॒ इन्द्रं᳚ म॒हय᳚न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ||{4.1.29.4}, {5.31.4}, {5.2.17.4}
148 वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा᳚णो॒ अदि॑तिः स॒जोषाः᳚ |

अ॒न॒श्वासो॒ ये प॒वयो᳚ऽर॒था इन्द्रे᳚षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ||{4.1.29.5}, {5.31.5}, {5.2.17.5}
149 प्र ते॒ पूर्वा᳚णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ |

शक्ती᳚वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय᳚न्न॒पो मन॑वे॒ दानु॑चित्राः ||{4.1.30.1}, {5.31.6}, {5.2.17.6}
150 तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः |

शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ᳚रसेधः ||{4.1.30.2}, {5.31.7}, {5.2.17.7}
151 त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः᳚ पा॒र इ᳚न्द्र |

उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा᳚मु॒शनार᳚न्त दे॒वाः ||{4.1.30.3}, {5.31.8}, {5.2.17.8}
152 इन्द्रा᳚कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे᳚ वहन्तु |

निः षी᳚म॒द्भ्यो धम॑थो॒ निः ष॒धस्था᳚न्म॒घोनो᳚ हृ॒दो व॑रथ॒स्तमां᳚सि ||{4.1.30.4}, {5.31.9}, {5.2.17.9}
153 वात॑स्य यु॒क्तान्सु॒युज॑श्चि॒दश्वा᳚न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः |

विश्वे᳚ ते॒ अत्र॑ म॒रुतः॒ सखा᳚य॒ इन्द्र॒ ब्रह्मा᳚णि॒ तवि॑षीमवर्धन् ||{4.1.30.5}, {5.31.10}, {5.2.17.10}
154 सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं᳚ कर॒दुप॑रं जूजु॒वांस᳚म् |

भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं᳚ नः ||{4.1.31.1}, {5.31.11}, {5.2.17.11}
155 आयं ज॑ना अभि॒चक्षे᳚ जगा॒मेन्द्रः॒ सखा᳚यं सु॒तसो᳚ममि॒च्छन् |

वद॒न्ग्रावाव॒ वेदिं᳚ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति ||{4.1.31.2}, {5.31.12}, {5.2.17.12}
156 ये चा॒कन᳚न्त चा॒कन᳚न्त॒ नू ते मर्ता᳚ अमृत॒ मो ते अंह॒ आर॑न् |

वा॒व॒न्धि यज्यूँ᳚रु॒त तेषु॑ धे॒ह्योजो॒ जने᳚षु॒ येषु॑ ते॒ स्याम॑ ||{4.1.31.3}, {5.31.13}, {5.2.17.13}
[24] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो गात ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
157 अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम᳚र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः |

म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ||{4.1.32.1}, {5.32.1}, {5.2.18.1}
158 त्वमुत्साँ᳚ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं᳚ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् |

अहिं᳚ चिदुग्र॒ प्रयु॑तं॒ शया᳚नं जघ॒न्वाँ इ᳚न्द्र॒ तवि॑षीमधत्थाः ||{4.1.32.2}, {5.32.2}, {5.2.18.2}
159 त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑ |

य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ||{4.1.32.3}, {5.32.3}, {5.2.18.3}
160 त्यं चि॑देषां स्व॒धया॒ मद᳚न्तं मि॒हो नपा᳚तं सु॒वृधं᳚ तमो॒गाम् |

वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे᳚ण व॒ज्री नि ज॑घान॒ शुष्ण᳚म् ||{4.1.32.4}, {5.32.4}, {5.2.18.4}
161 त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚ वि॒ददिद॑स्य॒ मर्म॑ |

यदीं᳚ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ||{4.1.32.5}, {5.32.5}, {5.2.18.5}
162 त्यं चि॑दि॒त्था क॑त्प॒यं शया᳚नमसू॒र्ये तम॑सि वावृधा॒नम् |

तं चि᳚न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो᳚ अप॒गूर्या᳚ जघान ||{4.1.32.6}, {5.32.6}, {5.2.18.6}
163 उद्यदिन्द्रो᳚ मह॒ते दा᳚न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतम् |

यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ||{4.1.33.1}, {5.32.7}, {5.2.18.7}
164 त्यं चि॒दर्णं᳚ मधु॒पं शया᳚नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः |

अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्मृ॒ध्रवा᳚चम् ||{4.1.33.2}, {5.32.8}, {5.2.18.8}
165 को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना᳚ भरते॒ अप्र॑तीतः |

इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा᳚ जिहाते ||{4.1.33.3}, {5.32.9}, {5.2.18.9}
166 न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा᳚य गा॒तुरु॑श॒तीव॑ येमे |

सं यदोजो᳚ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने᳚ क्षि॒तयो᳚ नमन्त ||{4.1.33.4}, {5.32.10}, {5.2.18.10}
167 एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने᳚षु |

तं मे᳚ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र᳚म् ||{4.1.33.5}, {5.32.11}, {5.2.18.11}
168 ए॒वा हि त्वामृ॑तु॒था या॒तय᳚न्तं म॒घा विप्रे᳚भ्यो॒ दद॑तं शृ॒णोमि॑ |

किं ते᳚ ब्र॒ह्माणो᳚ गृहते॒ सखा᳚यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ||{4.1.33.6}, {5.32.12}, {5.2.18.12}
[25] (१-१०) दशर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
169 महि॑ म॒हे त॒वसे᳚ दीध्ये॒ नॄनिन्द्रा᳚ये॒त्था त॒वसे॒ अत᳚व्यान् |

यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने᳚ सम॒र्य॑श्चि॒केत॑ ||{4.2.1.1}, {5.33.1}, {5.3.1.1}
170 स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी᳚णां वृष॒न्योक्त्र॑मश्रेः |

या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो᳚ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ||{4.2.1.2}, {5.33.2}, {5.3.1.2}
171 न ते त॑ इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् |

तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे᳚व यमसे॒ स्वश्वः॑ ||{4.2.1.3}, {5.33.3}, {5.3.1.3}
172 पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे᳚ च॒कर्थो॒र्वरा᳚सु॒ युध्य॑न् |

त॒त॒क्षे सूर्या᳚य चि॒दोक॑सि॒ स्वे वृषा᳚ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ||{4.2.1.4}, {5.33.4}, {5.3.1.4}
173 व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो᳚ जज्ञा॒ना या॒ताश्च॒ रथाः᳚ |

आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ||{4.2.1.5}, {5.33.5}, {5.3.1.5}
174 प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो᳚ नृ॒म्णानि॑ च नृ॒तमा᳚नो॒ अम॑र्तः |

स न॒ एनीं᳚ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान᳚म् ||{4.2.2.1}, {5.33.6}, {5.3.1.6}
175 ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू᳚र का॒रून् |

उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः᳚ ||{4.2.2.2}, {5.33.7}, {5.3.1.7}
176 उ॒त त्ये मा᳚ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा᳚णाः |

वह᳚न्तु मा॒ दश॒ श्येता᳚सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ||{4.2.2.3}, {5.33.8}, {5.3.1.8}
177 उ॒त त्ये मा᳚ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा᳚मघासो वि॒दथ॑स्य रा॒तौ |

स॒हस्रा᳚ मे॒ च्यव॑तानो॒ ददा᳚न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ||{4.2.2.4}, {5.33.9}, {5.3.1.9}
178 उ॒त त्ये मा᳚ ध्व॒न्य॑स्य॒ जुष्टा᳚ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता᳚नाः |

म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे᳚र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ||{4.2.2.5}, {5.33.10}, {5.3.1.10}
[26] (१-९) नवर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
179 अजा᳚तशत्रुम॒जरा॒ स्व᳚र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी᳚यते |

सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ||{4.2.3.1}, {5.34.1}, {5.3.2.1}
180 आ यः सोमे᳚न ज॒ठर॒मपि॑प्र॒ताम᳚न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः |

यदीं᳚ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना᳚ व॒धं यम॑त् ||{4.2.3.2}, {5.34.2}, {5.3.2.2}
181 यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं᳚ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ |

अपा᳚प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ||{4.2.3.3}, {5.34.3}, {5.3.2.3}
182 यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते |

वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ||{4.2.3.4}, {5.34.4}, {5.3.2.4}
183 न प॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒ नासु᳚न्वता सचते॒ पुष्य॑ता च॒न |

जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे᳚व॒युं भ॑जति॒ गोम॑ति व्र॒जे ||{4.2.3.5}, {5.34.5}, {5.3.2.5}
184 वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु᳚न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः |

इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ||{4.2.4.1}, {5.34.6}, {5.3.2.6}
185 समीं᳚ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे᳚ भजति सू॒नरं॒ वसु॑ |

दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ||{4.2.4.2}, {5.34.7}, {5.3.2.7}
186 सं यज्जनौ᳚ सु॒धनौ᳚ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ |

युजं॒ ह्य१॑(अ॒)'न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं᳚ सृजते॒ सत्व॑भि॒र्धुनिः॑ ||{4.2.4.3}, {5.34.8}, {5.3.2.8}
187 स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः |

तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि᳚न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ||{4.2.4.4}, {5.34.9}, {5.3.2.9}
[27] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्चामनुष्टुप्, (८) अष्टम्याश्च पतिश्छन्दसी ||
188 यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र |

अ॒स्मभ्यं᳚ चर्षणी॒सहं॒ सस्निं॒ वाजे᳚षु दु॒ष्टर᳚म् ||{4.2.5.1}, {5.35.1}, {5.3.3.1}
189 यदि᳚न्द्र ते॒ चत॑स्रो॒ यच्छू᳚र॒ सन्ति॑ ति॒स्रः |

यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ||{4.2.5.2}, {5.35.2}, {5.3.3.2}
190 आ तेऽवो॒ वरे᳚ण्यं॒ वृष᳚न्तमस्य हूमहे |

वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ||{4.2.5.3}, {5.35.3}, {5.3.3.3}
191 वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ |

स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि᳚न्द्र॒ पौंस्य᳚म् ||{4.2.5.4}, {5.35.4}, {5.3.3.4}
192 त्वं तमि᳚न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः |

स॒र्व॒र॒था श॑तक्रतो॒ नि या᳚हि शवसस्पते ||{4.2.5.5}, {5.35.5}, {5.3.3.5}
193 त्वामिद्वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब॑र्हिषः |

उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव᳚न्ते॒ वाज॑सातये ||{4.2.6.1}, {5.35.6}, {5.3.3.6}
194 अ॒स्माक॑मिन्द्र दु॒ष्टरं᳚ पुरो॒यावा᳚नमा॒जिषु॑ |

स॒यावा᳚नं॒ धने᳚धने वाज॒यन्त॑मवा॒ रथ᳚म् ||{4.2.6.2}, {5.35.7}, {5.3.3.7}
195 अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं᳚ध्या |

व॒यं श॑विष्ठ॒ वार्यं᳚ दि॒वि श्रवो᳚ दधीमहि दि॒वि स्तोमं᳚ मनामहे ||{4.2.6.3}, {5.35.8}, {5.3.3.8}
[28] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-२, ४६) प्रथमाद्वितीययो[चोश्चतुर्थ्यादितृचस्य च त्रिष्टुप्, (३) तृतीयायाश्च जगती छन्दसी ||
196 स आ ग॑म॒दिन्द्रो॒ यो वसू᳚नां॒ चिके᳚त॒द्दातुं॒ दाम॑नो रयी॒णाम् |

ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ||{4.2.7.1}, {5.36.1}, {5.3.4.1}
197 आ ते॒ हनू᳚ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे |

अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन्गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे᳚ ||{4.2.7.2}, {5.36.2}, {5.3.4.2}
198 च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो᳚ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः |

रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो᳚षन्मघवन्पुरू॒वसुः॑ ||{4.2.7.3}, {5.36.3}, {5.3.4.3}
199 ए॒ष ग्रावे᳚व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं᳚ बृ॒हदा᳚शुषा॒णः |

प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे᳚नः ||{4.2.7.4}, {5.36.4}, {5.3.4.4}
200 वृषा᳚ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् |

स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा᳚ वज्रि॒न्भरे᳚ धाः ||{4.2.7.5}, {5.36.5}, {5.3.4.5}
201 यो रोहि॑तौ वा॒जिनौ᳚ वा॒जिनी᳚वान्त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट |

यूने॒ सम॑स्मै क्षि॒तयो᳚ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ||{4.2.7.6}, {5.36.6}, {5.3.4.6}
[29] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
202 सं भा॒नुना᳚ यतते॒ सूर्य॑स्या॒जुह्वा᳚नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः᳚ |

तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा᳚य सु॒नवा॒मेत्याह॑ ||{4.2.8.1}, {5.37.1}, {5.3.5.1}
203 समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा᳚वा सु॒तसो᳚मो जराते |

ग्रावा᳚णो॒ यस्ये᳚षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु᳚म् ||{4.2.8.2}, {5.37.2}, {5.3.5.2}
204 व॒धूरि॒यं पति॑मि॒च्छन्त्ये᳚ति॒ य ईं॒ वहा᳚ते॒ महि॑षीमिषि॒राम् |

आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ||{4.2.8.3}, {5.37.3}, {5.3.5.3}
205 न स राजा᳚ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् |

आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ||{4.2.8.4}, {5.37.4}, {5.3.5.4}
206 पुष्या॒त्क्षेमे᳚ अ॒भि योगे᳚ भवात्यु॒भे वृतौ᳚ संय॒ती सं ज॑याति |

प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा᳚य सु॒तसो᳚मो॒ ददा᳚शत् ||{4.2.8.5}, {5.37.5}, {5.3.5.5}
[30] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
207 उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो |

अधा᳚ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ||{4.2.9.1}, {5.38.1}, {5.3.6.1}
208 यदी᳚मिन्द्र श्र॒वाय्य॒मिषं᳚ शविष्ठ दधि॒षे |

प॒प्र॒थे दी᳚र्घ॒श्रुत्त॑मं॒ हिर᳚ण्यवर्ण दु॒ष्टर᳚म् ||{4.2.9.2}, {5.38.2}, {5.3.6.2}
209 शुष्मा᳚सो॒ ये ते᳚ अद्रिवो मे॒हना᳚ केत॒सापः॑ |

उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ||{4.2.9.3}, {5.38.3}, {5.3.6.3}
210 उ॒तो नो᳚ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् |

अ॒स्मभ्यं᳚ नृ॒म्णमा भ॑रा॒स्मभ्यं᳚ नृमणस्यसे ||{4.2.9.4}, {5.38.4}, {5.3.6.4}
211 नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म᳚ञ्छतक्रतो |

इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ||{4.2.9.5}, {5.38.5}, {5.3.6.5}
[31] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
212 यदि᳚न्द्र चित्र मे॒हनास्ति॒ त्वादा᳚तमद्रिवः |

राध॒स्तन्नो᳚ विदद्वस उभयाह॒स्त्या भ॑र ||{4.2.10.1}, {5.39.1}, {5.3.7.1}
213 यन्मन्य॑से॒ वरे᳚ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र |

वि॒द्याम॒ तस्य॑ ते व॒यमकू᳚पारस्य दा॒वने᳚ ||{4.2.10.2}, {5.39.2}, {5.3.7.2}
214 यत्ते᳚ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् |

तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं᳚ दर्षि सा॒तये᳚ ||{4.2.10.3}, {5.39.3}, {5.3.7.3}
215 मंहि॑ष्ठं वो म॒घोनां॒ राजा᳚नं चर्षणी॒नाम् |

इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ||{4.2.10.4}, {5.39.4}, {5.3.7.4}
216 अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा᳚य॒ शंस्य᳚म् |

तस्मा᳚ उ॒ ब्रह्म॑वाहसे॒ गिरो᳚ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ||{4.2.10.5}, {5.39.5}, {5.3.7.5}
[32] (१-९) नवर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामाचामिन्द्रः (५) पञ्चम्याः सूयः (६-९) षष्ठ्यादिचतसृणाञ्चात्रिदेवताः | (१-३) प्रथमादितृचस्योष्णिक्, (४, ६-८) चतुर्थ्याः षष्ठ्यादितृचस्य च त्रिष्टुप्, (५, ९) पञ्चमीनवम्योश्चानष्टप छन्दांसि ||
217 आ या॒ह्यद्रि॑भिः सु॒तं सोमं᳚ सोमपते पिब |

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{4.2.11.1}, {5.40.1}, {5.3.8.1}
218 वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚ अ॒यं सु॒तः |

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{4.2.11.2}, {5.40.2}, {5.3.8.2}
219 वृषा᳚ त्वा॒ वृष॑णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{4.2.11.3}, {5.40.3}, {5.3.8.3}
220 ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा᳚ वृत्र॒हा सो᳚म॒पावा᳚ |

यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं᳚दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ||{4.2.11.4}, {5.40.4}, {5.3.8.4}
221 यत्त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अक्षे᳚त्रवि॒द्यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ||{4.2.11.5}, {5.40.5}, {5.3.8.5}
222 स्व॑र्भानो॒रध॒ यदि᳚न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् |

गू॒ळ्हं सूर्यं॒ तम॒साप᳚व्रतेन तु॒रीये᳚ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ||{4.2.12.1}, {5.40.6}, {5.3.8.6}
223 मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा᳚रीत् |

त्वं मि॒त्रो अ॑सि स॒त्यरा᳚धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा᳚ ||{4.2.12.2}, {5.40.7}, {5.3.8.7}
224 ग्राव्णो᳚ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा᳚ दे॒वान्नम॑सोप॒शिक्ष॑न् |

अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ||{4.2.12.3}, {5.40.8}, {5.3.8.8}
225 यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॑(अ॒)'न्ये अश॑क्नुवन् ||{4.2.12.4}, {5.40.9}, {5.3.8.9}
[33] (१-२०) विंशत्यृचस्य सूक्तस्य भौमोऽत्रिषिः, विश्वे देवा देवताः | (११५, १८-१९) प्रथमादिपञ्चदशर्चामष्टादश्येकोनविंश्योश्च त्रिष्टुप्, (१६-१७) षोडशीसप्तदश्योरतिजगती, (२०) विंश्याश्चैकपदा विराट् छन्दांसि ||
226 को नु वां᳚ मित्रावरुणावृता॒यन्दि॒वो वा᳚ म॒हः पार्थि॑वस्य वा॒ दे |

ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी᳚थां नो यज्ञाय॒ते वा᳚ पशु॒षो न वाजा॑न् ||{4.2.13.1}, {5.41.1}, {5.3.9.1}
227 ते नो᳚ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो᳚ जुषन्त |

नमो᳚भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं᳚ रु॒द्राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ ||{4.2.13.2}, {5.41.2}, {5.3.9.2}
228 आ वां॒ येष्ठा᳚श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ |

उ॒त वा᳚ दि॒वो असु॑राय॒ मन्म॒ प्रान्धां᳚सीव॒ यज्य॑वे भरध्वम् ||{4.2.13.3}, {5.41.3}, {5.3.9.3}
229 प्र स॒क्षणो᳚ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो᳚ अ॒ग्निः |

पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो᳚जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ||{4.2.13.4}, {5.41.4}, {5.3.9.4}
230 प्र वो᳚ र॒यिं यु॒क्ताश्वं᳚ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः |

सु॒शेव॒ एवै᳚रौशि॒जस्य॒ होता॒ ये व॒ एवा᳚ मरुतस्तु॒राणा᳚म् ||{4.2.13.5}, {5.41.5}, {5.3.9.5}
231 प्र वो᳚ वा॒युं र॑थ॒युजं᳚ कृणुध्वं॒ प्र दे॒वं विप्रं᳚ पनि॒तार॑म॒र्कैः |

इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं᳚धी॒र्वस्वी᳚र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ||{4.2.14.1}, {5.41.6}, {5.3.9.6}
232 उप॑ व॒ एषे॒ वन्द्ये᳚भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः |

उ॒षासा॒नक्ता᳚ वि॒दुषी᳚व॒ विश्व॒मा हा᳚ वहतो॒ मर्त्या᳚य य॒ज्ञम् ||{4.2.14.2}, {5.41.7}, {5.3.9.7}
233 अ॒भि वो᳚ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा᳚रं॒ ररा᳚णः |

धन्या᳚ स॒जोषा᳚ धि॒षणा॒ नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे᳚ ||{4.2.14.3}, {5.41.8}, {5.3.9.8}
234 तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः |

प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा᳚ नो॒ वर्धा᳚न्नः॒ शंसं॒ नर्यो᳚ अ॒भिष्टौ᳚ ||{4.2.14.4}, {5.41.9}, {5.3.9.9}
235 वृष्णो᳚ अस्तोषि भू॒म्यस्य॒ गर्भं᳚ त्रि॒तो नपा᳚तम॒पां सु॑वृ॒क्ति |

गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के᳚शो॒ नि रि॑णाति॒ वना᳚ ||{4.2.14.5}, {5.41.10}, {5.3.9.10}
236 क॒था म॒हे रु॒द्रिया᳚य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा᳚य |

आप॒ ओष॑धीरु॒त नो᳚ऽवन्तु॒ द्यौर्वना᳚ गि॒रयो᳚ वृ॒क्षके᳚शाः ||{4.2.15.1}, {5.41.11}, {5.3.9.11}
237 शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी᳚याँ इषि॒रः परि॑ज्मा |

शृ॒ण्वन्त्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो᳚ बबृहा॒णस्याद्रेः᳚ ||{4.2.15.2}, {5.41.12}, {5.3.9.12}
238 वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा᳚म दस्मा॒ वार्यं॒ दधा᳚नाः |

वय॑श्च॒न सु॒भ्व१॑(अ॒) आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ||{4.2.15.3}, {5.41.13}, {5.3.9.13}
239 आ दैव्या᳚नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचम् |

वर्ध᳚न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा᳚ उ॒दा व॑र्धन्ताम॒भिषा᳚ता॒ अर्णाः᳚ ||{4.2.15.4}, {5.41.14}, {5.3.9.14}
240 प॒देप॑दे मे जरि॒मा नि धा᳚यि॒ वरू᳚त्री वा श॒क्रा या पा॒युभि॑श्च |

सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्सू॒रिभि॑रृजु॒हस्त॑ ऋजु॒वनिः॑ ||{4.2.15.5}, {5.41.15}, {5.3.9.15}
241 क॒था दा᳚शेम॒ नम॑सा सु॒दानू᳚नेव॒या म॒रुतो॒ अच्छो᳚क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो᳚क्तौ |

मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा᳚द॒स्माकं᳚ भूदुपमाति॒वनिः॑ ||{4.2.16.1}, {5.41.16}, {5.3.9.16}
242 इति॑ चि॒न्नु प्र॒जायै᳚ पशु॒मत्यै॒ देवा᳚सो॒ वन॑ते॒ मर्त्यो᳚ व॒ आ दे᳚वासो वनते॒ मर्त्यो᳚ वः |

अत्रा᳚ शि॒वां त॒न्वो᳚ धा॒सिम॒स्या ज॒रां चि᳚न्मे॒ निरृ॑तिर्जग्रसीत ||{4.2.16.2}, {5.41.17}, {5.3.9.17}
243 तां वो᳚ देवाः सुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः |

सा नः॑ सु॒दानु᳚र्मृ॒ळय᳚न्ती दे॒वी प्रति॒ द्रव᳚न्ती सुवि॒ताय॑ गम्याः ||{4.2.16.3}, {5.41.18}, {5.3.9.18}
244 अ॒भि न॒ इळा᳚ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी᳚ वा गृणातु |

उ॒र्वशी᳚ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू᳚र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ||{4.2.16.4}, {5.41.19}, {5.3.9.19}
245 सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ||{4.2.16.5}, {5.41.20}, {5.3.9.20}
[34] (१-१८) अष्टादशर्चस्य सूक्तस्य भौमोऽत्रिषिः (१-१०, १२-१८) प्रथमादिदशर्चाम् द्वादश्यादिसप्तानाञ्च विश्वे देवाः, (११) एकादश्याश्च रुद्रो देवताः | (१-१६, १८) प्रथमादिषोडशर्चामष्टादश्याश्च त्रिष्टुप्, (१७) सप्तदश्याश्चैकपदा विराट छन्दसी ||
246 प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः |

पृष॑द्योनिः॒ पञ्च॑होता शृणो॒त्वतू᳚र्तपन्था॒ असु॑रो मयो॒भुः ||{4.2.17.1}, {5.42.1}, {5.3.10.1}
247 प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं᳚ सु॒शेव᳚म् |

ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ||{4.2.17.2}, {5.42.2}, {5.3.10.2}
248 उदी᳚रय क॒वित॑मं कवी॒नामु॒नत्तै᳚नम॒भि मध्वा᳚ घृ॒तेन॑ |

स नो॒ वसू᳚नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ||{4.2.17.3}, {5.42.3}, {5.3.10.3}
249 समि᳚न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति |

सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां᳚ सुम॒त्या य॒ज्ञिया᳚नाम् ||{4.2.17.4}, {5.42.4}, {5.3.10.4}
250 दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इन्द्रो᳚ वृ॒त्रस्य॑ सं॒जितो॒ धना᳚नाम् |

ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं᳚धि॒रव᳚न्तु नो अ॒मृता᳚सस्तु॒रासः॑ ||{4.2.17.5}, {5.42.5}, {5.3.10.5}
251 म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू᳚र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ |

न ते॒ पूर्वे᳚ मघव॒न्नाप॑रासो॒ न वी॒र्य१॑(अ॒) अंनूत॑नः॒ कश्च॒नाप॑ ||{4.2.18.1}, {5.42.6}, {5.3.10.6}
252 उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं᳚ सनि॒तारं॒ धना᳚नाम् |

यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ||{4.2.18.2}, {5.42.7}, {5.3.10.7}
253 तवो॒तिभिः॒ सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा᳚नः सु॒वीराः᳚ |

ये अ॑श्व॒दा उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ||{4.2.18.3}, {5.42.8}, {5.3.10.8}
254 वि॒स॒र्माणं᳚ कृणुहि वि॒त्तमे᳚षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः |

अप᳚व्रतान्प्रस॒वे वा᳚वृधा॒नान्ब्र᳚ह्म॒द्विषः॒ सूर्या᳚द्यावयस्व ||{4.2.18.4}, {5.42.9}, {5.3.10.9}
255 य ओह॑ते र॒क्षसो᳚ दे॒ववी᳚तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या᳚त |

यो वः॒ शमीं᳚ शशमा॒नस्य॒ निन्दा᳚त्तु॒च्छ्यान्कामा᳚न्करते सिष्विदा॒नः ||{4.2.18.5}, {5.42.10}, {5.3.10.10}
256 तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ |

यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ||{4.2.19.1}, {5.42.11}, {5.3.10.11}
257 दमू᳚नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी᳚र्न॒द्यो᳚ विभ्वत॒ष्टाः |

सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती᳚र्वरिवस्यन्तु शु॒भ्राः ||{4.2.19.2}, {5.42.12}, {5.3.10.12}
258 प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं᳚ भरे॒ नव्य॑सीं॒ जाय॑मानाम् |

य आ᳚ह॒ना दु॑हि॒तुर्व॒क्षणा᳚सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ||{4.2.19.3}, {5.42.13}, {5.3.10.13}
259 प्र सु॑ष्टु॒तिः स्त॒नय᳚न्तं रु॒वन्त॑मि॒ळस्पतिं᳚ जरितर्नू॒नम॑श्याः |

यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा᳚णः ||{4.2.19.4}, {5.42.14}, {5.3.10.14}
260 ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा᳚ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |

कामो᳚ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ||{4.2.19.5}, {5.42.15}, {5.3.10.15}
261 प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः |

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{4.2.19.6}, {5.42.16}, {5.3.10.16}
262 उ॒रौ दे᳚वा अनिबा॒धे स्या᳚म ||{4.2.19.7}, {5.42.17}, {5.3.10.17}
263 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{4.2.19.8}, {5.42.18}, {5.3.10.18}
[35] (१-१७) सप्तदशर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | विश्वे देवा देवताः | (१-१५, १७) प्रथमादिपञ्चदश! सप्तदश्याश्च त्रिष्टुप्, (१६) षोडश्याश्चैकपदा विराट् छन्दसी ||
264 आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा᳚ |

म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो᳚ मयो॒भुवो᳚ जरि॒ता जो᳚हवीति ||{4.2.20.1}, {5.43.1}, {5.3.11.1}
265 आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा᳚य पृथि॒वी अमृ॑ध्रे |

पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे᳚भरे नो य॒शसा᳚वविष्टाम् ||{4.2.20.2}, {5.43.2}, {5.3.11.2}
266 अध्व᳚र्यवश्चकृ॒वांसो॒ मधू᳚नि॒ प्र वा॒यवे᳚ भरत॒ चारु॑ शु॒क्रम् |

होते᳚व नः प्रथ॒मः पा᳚ह्य॒स्य देव॒ मध्वो᳚ ररि॒मा ते॒ मदा᳚य ||{4.2.20.3}, {5.43.3}, {5.3.11.3}
267 दश॒ क्षिपो᳚ युञ्जते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा᳚ सु॒हस्ता᳚ |

मध्वो॒ रसं᳚ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ||{4.2.20.4}, {5.43.4}, {5.3.11.4}
268 असा᳚वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा᳚य बृह॒ते मदा᳚य |

हरी॒ रथे᳚ सु॒धुरा॒ योगे᳚ अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा᳚नः ||{4.2.20.5}, {5.43.5}, {5.3.11.5}
269 आ नो᳚ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह᳚व्याम् |

मधो॒र्मदा᳚य बृह॒तीमृ॑त॒ज्ञामाग्ने᳚ वह प॒थिभि॑र्देव॒यानैः᳚ ||{4.2.21.1}, {5.43.6}, {5.3.11.6}
270 अ॒ञ्जन्ति॒ यं प्र॒थय᳚न्तो॒ न विप्रा᳚ व॒पाव᳚न्तं॒ नाग्निना॒ तप᳚न्तः |

पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय᳚न्नसादि ||{4.2.21.2}, {5.43.7}, {5.3.11.7}
271 अच्छा᳚ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग᳚न्त्व॒श्विना᳚ हु॒वध्यै᳚ |

म॒यो॒भुवा᳚ स॒रथा या᳚तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि᳚म् ||{4.2.21.3}, {5.43.8}, {5.3.11.8}
272 प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि |

या राध॑सा चोदि॒तारा᳚ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ||{4.2.21.4}, {5.43.9}, {5.3.11.9}
273 आ नाम॑भिर्म॒रुतो᳚ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः |

य॒ज्ञं गिरो᳚ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे᳚ गन्त मरुतो॒ विश्व॑ ऊ॒ती ||{4.2.21.5}, {5.43.10}, {5.3.11.10}
274 आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् |

हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ||{4.2.22.1}, {5.43.11}, {5.3.11.11}
275 आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम् |

सा॒दद्यो᳚निं॒ दम॒ आ दी᳚दि॒वांसं॒ हिर᳚ण्यवर्णमरु॒षं स॑पेम ||{4.2.22.2}, {5.43.12}, {5.3.11.12}
276 आ ध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा᳚णो॒ विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |

ग्ना वसा᳚न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ||{4.2.22.3}, {5.43.13}, {5.3.11.13}
277 मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो᳚ रास्पि॒रासो᳚ अग्मन् |

सु॒शेव्यं॒ नम॑सा रा॒तह᳚व्याः॒ शिशुं᳚ मृजन्त्या॒यवो॒ न वा॒से ||{4.2.22.4}, {5.43.14}, {5.3.11.14}
278 बृ॒हद्वयो᳚ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो᳚ मिथु॒नासः॑ सचन्त |

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{4.2.22.5}, {5.43.15}, {5.3.11.15}
279 उ॒रौ दे᳚वा अनिबा॒धे स्या᳚म ||{4.2.22.6}, {5.43.16}, {5.3.11.16}
280 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{4.2.22.7}, {5.43.17}, {5.3.11.17}
[36] (१-१५) पञ्चदशर्चस्य सूक्तस्य काश्यपोऽवत्सारो लिङ्गोक्ताश्च (ऋषयः) विश्वे देवा देवताः | (१-१३) प्रथमादित्रयोदशर्चाम् जगती, (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
281 तं प्र॒त्नथा᳚ पू॒र्वथा᳚ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता᳚तिं बर्हि॒षदं᳚ स्व॒र्विद᳚म् |

प्र॒ती॒ची॒नं वृ॒जनं᳚ दोहसे गि॒राशुं जय᳚न्त॒मनु॒ यासु॒ वर्ध॑से ||{4.2.23.1}, {5.44.1}, {5.3.12.1}
282 श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व᳚र्वि॒रोच॑मानः क॒कुभा᳚मचो॒दते᳚ |

सु॒गो॒पा अ॑सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि॑रृ॒त आ᳚स॒ नाम॑ ते ||{4.2.23.2}, {5.44.2}, {5.3.12.2}
283 अत्यं᳚ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता᳚ सहो॒भरिः॑ |

प्र॒सर्स्रा᳚णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो᳚ वि॒स्रुहा᳚ हि॒तः ||{4.2.23.3}, {5.44.3}, {5.3.12.3}
284 प्र व॑ ए॒ते सु॒युजो॒ याम᳚न्नि॒ष्टये॒ नीची᳚र॒मुष्मै᳚ य॒म्य॑ ऋता॒वृधः॑ |

सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा᳚नि प्रव॒णे मु॑षायति ||{4.2.23.4}, {5.44.4}, {5.3.12.4}
285 सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं᳚ वया॒किनं᳚ चि॒त्तग॑र्भासु सु॒स्वरुः॑ |

धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी᳚र॒भि जी॒वो अ॑ध्व॒रे ||{4.2.23.5}, {5.44.5}, {5.3.12.5}
286 या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया᳚ दधिरे सि॒ध्रया॒प्स्वा |

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो᳚ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ||{4.2.24.1}, {5.44.6}, {5.3.12.6}
287 वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः |

घ्रं॒सं रक्ष᳚न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ||{4.2.24.2}, {5.44.7}, {5.3.12.7}
288 ज्यायां᳚सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते |

या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया᳚ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं᳚ करत् ||{4.2.24.3}, {5.44.8}, {5.3.12.8}
289 स॒मु॒द्रमा᳚सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता |

अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा᳚ म॒तिर्वि॒द्यते᳚ पूत॒बन्ध॑नी ||{4.2.24.4}, {5.44.9}, {5.3.12.9}
290 स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः᳚ |

अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं᳚ वि॒दुषा᳚ चि॒दर्ध्य᳚म् ||{4.2.24.5}, {5.44.10}, {5.3.12.10}
291 श्ये॒न आ᳚सा॒मदि॑तिः क॒क्ष्यो॒३॑(ओ॒) मदो᳚ वि॒श्ववा᳚रस्य यज॒तस्य॑ मा॒यिनः॑ |

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं᳚ परि॒पान॒मन्ति॒ ते ||{4.2.25.1}, {5.44.11}, {5.3.12.11}
292 स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो᳚ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो᳚ वः॒ सचा᳚ |

उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति॑ च॒ यदीं᳚ ग॒णं भज॑ते सुप्र॒याव॑भिः ||{4.2.25.2}, {5.44.12}, {5.3.12.12}
293 सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः |

भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो᳚ऽनुब्रुवा॒णो अध्ये᳚ति॒ न स्व॒पन् ||{4.2.25.3}, {5.44.13}, {5.3.12.13}
294 यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा᳚नि यन्ति |

यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{4.2.25.4}, {5.44.14}, {5.3.12.14}
295 अ॒ग्निर्जा᳚गार॒ तमृचः॑ कामयन्ते॒ऽग्निर्जा᳚गार॒ तमु॒ सामा᳚नि यन्ति |

अ॒ग्निर्जा᳚गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{4.2.25.5}, {5.44.15}, {5.3.12.15}
[37] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयः सदापृण ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
296 वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या उ॒षसो᳚ अ॒र्चिनो᳚ गुः |

अपा᳚वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ᳚वः ||{4.2.26.1}, {5.45.1}, {5.4.1.1}
297 वि सूर्यो᳚ अ॒मतिं॒ न श्रियं᳚ सा॒दोर्वाद्गवां᳚ मा॒ता जा᳚न॒ती गा᳚त् |

धन्व᳚र्णसो न॒द्य१॑(अ॒)ः खादो᳚अर्णाः॒ स्थूणे᳚व॒ सुमि॑ता दृंहत॒ द्यौः ||{4.2.26.2}, {5.45.2}, {5.4.1.2}
298 अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो᳚ म॒हीनां᳚ ज॒नुषे᳚ पू॒र्व्याय॑ |

वि पर्व॑तो॒ जिही᳚त॒ साध॑त॒ द्यौरा॒विवा᳚सन्तो दसयन्त॒ भूम॑ ||{4.2.26.3}, {5.45.3}, {5.4.1.3}
299 सू॒क्तेभि᳚र्वो॒ वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॑(अ॒)ग्नी अव॑से हु॒वध्यै᳚ |

उ॒क्थेभि॒र्हि ष्मा᳚ क॒वयः॑ सुय॒ज्ञा आ॒विवा᳚सन्तो म॒रुतो॒ यज᳚न्ति ||{4.2.26.4}, {5.45.4}, {5.4.1.4}
300 एतो॒ न्व१॑(अ॒)द्य सु॒ध्यो॒३॑(ओ॒) भवा᳚म॒ प्र दु॒च्छुना᳚ मिनवामा॒ वरी᳚यः |

आ॒रे द्वेषां᳚सि सनु॒तर्द॑धा॒माया᳚म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ||{4.2.26.5}, {5.45.5}, {5.4.1.5}
301 एता॒ धियं᳚ कृ॒णवा᳚मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः |

यया॒ मनु᳚र्विशिशि॒प्रं जि॒गाय॒ यया᳚ व॒णिग्व॒ङ्कुरापा॒ पुरी᳚षम् ||{4.2.27.1}, {5.45.6}, {5.4.1.6}
302 अनू᳚नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः |

ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा᳚नि स॒त्याङ्गि॑राश्चकार ||{4.2.27.2}, {5.45.7}, {5.4.1.7}
303 विश्वे᳚ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रङ्गि॑रसो॒ नव᳚न्त |

उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा᳚ विद॒द्गाः ||{4.2.27.3}, {5.45.8}, {5.4.1.8}
304 आ सूर्यो᳚ यातु स॒प्ताश्वः॒ क्षेत्रं॒ यद॑स्योर्वि॒या दी᳚र्घया॒थे |

र॒घुः श्ये॒नः प॑तय॒दन्धो॒ अच्छा॒ युवा᳚ क॒विर्दी᳚दय॒द्गोषु॒ गच्छ॑न् ||{4.2.27.4}, {5.45.9}, {5.4.1.9}
305 आ सूर्यो᳚ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो᳚ वी॒तपृ॑ष्ठाः |

उ॒द्ना न नाव॑मनयन्त॒ धीरा᳚ आशृण्व॒तीरापो᳚ अ॒र्वाग॑तिष्ठन् ||{4.2.27.5}, {5.45.10}, {5.4.1.10}
306 धियं᳚ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्दश॑ मा॒सो नव॑ग्वाः |

अ॒या धि॒या स्या᳚म दे॒वगो᳚पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ||{4.2.27.6}, {5.45.11}, {5.4.1.11}
[38] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः प्रतिक्षत्र ऋषिः | (१-६) प्रथमादिषण्णां विश्वे देवाः, (७-८) सप्तम्यष्टम्योश्च देवपत्नयो देवताः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च जगती, (२, ८) द्वितीयाष्टम्योश्च त्रिष्टुप् छन्दसी ||
307 हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव᳚म् |

नास्या᳚ वश्मि वि॒मुचं॒ नावृतं॒ पुन᳚र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने᳚षति ||{4.2.28.1}, {5.46.1}, {5.4.2.1}
308 अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य᳚न्त॒ मारु॑तो॒त वि॑ष्णो |

उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ||{4.2.28.2}, {5.46.2}, {5.4.2.2}
309 इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः |

हु॒वे विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं᳚ सवि॒तार॑मू॒तये᳚ ||{4.2.28.3}, {5.46.3}, {5.4.2.3}
310 उ॒त नो॒ विष्णु॑रु॒त वातो᳚ अ॒स्रिधो᳚ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् |

उ॒त ऋ॒भव॑ उ॒त रा॒ये नो᳚ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ||{4.2.28.4}, {5.46.4}, {5.4.2.4}
311 उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे᳚ |

बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो᳚ यमद्वरू॒थ्य१॑(अ॒) अंवरु॑णो मि॒त्रो अ᳚र्य॒मा ||{4.2.28.5}, {5.46.5}, {5.4.2.5}
312 उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो᳚ न॒द्य१॑(अ॒)स्त्राम॑णे भुवन् |

भगो᳚ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव᳚म् ||{4.2.28.6}, {5.46.6}, {5.4.2.6}
313 दे॒वानां॒ पत्नी᳚रुश॒तीर॑वन्तु नः॒ प्राव᳚न्तु नस्तु॒जये॒ वाज॑सातये |

याः पार्थि॑वासो॒ या अ॒पामपि᳚ व्र॒ते ता नो᳚ देवीः सुहवाः॒ शर्म॑ यच्छत ||{4.2.28.7}, {5.46.7}, {5.4.2.7}
314 उ॒त ग्ना व्य᳚न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒ राट् |

आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी᳚नाम् ||{4.2.28.8}, {5.46.8}, {5.4.2.8}
[39] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः प्रतिरथ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
315 प्र॒यु॒ञ्ज॒ती दि॒व ए᳚ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय᳚न्ती |

आ॒विवा᳚सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ||{4.3.1.1}, {5.47.1}, {5.4.3.1}
316 अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो᳚ अ॒मृत॑स्य॒ नाभि᳚म् |

अ॒न॒न्तास॑ उ॒रवो᳚ वि॒श्वतः॑ सीं॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति॒ पन्थाः᳚ ||{4.3.1.2}, {5.47.2}, {5.4.3.2}
317 उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं᳚ पि॒तुरा वि॑वेश |

मध्ये᳚ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ᳚ ||{4.3.1.3}, {5.47.3}, {5.4.3.3}
318 च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं᳚ च॒रसे᳚ धापयन्ते |

त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो᳚ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ||{4.3.1.4}, {5.47.4}, {5.4.3.4}
319 इ॒दं वपु᳚र्नि॒वच॑नं जनास॒श्चर᳚न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ |

द्वे यदीं᳚ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॑(आ॒) सब᳚न्धू ||{4.3.1.5}, {5.47.5}, {5.4.3.5}
320 वि त᳚न्वते॒ धियो᳚ अस्मा॒ अपां᳚सि॒ वस्त्रा᳚ पु॒त्राय॑ मा॒तरो᳚ वयन्ति |

उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो᳚ य॒न्त्यच्छ॑ ||{4.3.1.6}, {5.47.6}, {5.4.3.6}
321 तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् |

अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो᳚ दि॒वे बृ॑ह॒ते साद॑नाय ||{4.3.1.7}, {5.47.7}, {5.4.3.7}
[40] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिभानु ऋषिः | विश्वे देवा देवताः | जगती छन्दः ||
322 कदु॑ प्रि॒याय॒ धाम्ने᳚ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् |

आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी᳚ ||{4.3.2.1}, {5.48.1}, {5.4.4.1}
323 ता अ॑त्नत व॒युनं᳚ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ |

अपो॒ अपा᳚ची॒रप॑रा॒ अपे᳚जते॒ प्र पूर्वा᳚भिस्तिरते देव॒युर्जनः॑ ||{4.3.2.2}, {5.48.2}, {5.4.4.2}
324 आ ग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ |

श॒तं वा॒ यस्य॑ प्र॒चर॒न्स्वे दमे᳚ संव॒र्तय᳚न्तो॒ वि च॑ वर्तय॒न्नहा᳚ ||{4.3.2.3}, {5.48.3}, {5.4.4.3}
325 ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी᳚कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः |

सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा᳚ति॒ भर॑हूतये वि॒शे ||{4.3.2.4}, {5.48.4}, {5.4.4.4}
326 स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा᳚नो॒ वरु॑णो॒ यत᳚न्न॒रिम् |

न तस्य॑ विद्म पुरुष॒त्वता᳚ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य᳚म् ||{4.3.2.5}, {5.48.5}, {5.4.4.5}
[41] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिप्रभ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
327 दे॒वं वो᳚ अ॒द्य स॑वि॒तार॒मेषे॒ भगं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः |

आ वां᳚ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ||{4.3.3.1}, {5.49.1}, {5.4.5.1}
328 प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्सू॒क्तैर्दे॒वं स॑वि॒तारं᳚ दुवस्य |

उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः ||{4.3.3.2}, {5.49.2}, {5.4.5.2}
329 अ॒द॒त्र॒या द॑यते॒ वार्या᳚णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः |

इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा᳚नि भ॒द्रा ज॑नयन्त द॒स्माः ||{4.3.3.3}, {5.49.3}, {5.4.5.3}
330 तन्नो᳚ अन॒र्वा स॑वि॒ता वरू᳚थं॒ तत्सिन्ध॑व इ॒षय᳚न्तो॒ अनु॑ ग्मन् |

उप॒ यद्वोचे᳚ अध्व॒रस्य॒ होता᳚ रा॒यः स्या᳚म॒ पत॑यो॒ वाज॑रत्नाः ||{4.3.3.4}, {5.49.4}, {5.4.5.4}
331 प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा᳚चः |

अवै॒त्वभ्वं᳚ कृणु॒ता वरी᳚यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ||{4.3.3.5}, {5.49.5}, {5.4.5.5}
[42] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | विश्वे देवा देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च पतिश्छन्दसी ||
332 विश्वो᳚ दे॒वस्य॑ ने॒तुर्मर्तो᳚ वुरीत स॒ख्यम् |

विश्वो᳚ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे᳚ ||{4.3.4.1}, {5.50.1}, {5.4.6.1}
333 ते ते᳚ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे᳚ |

ते रा॒या ते ह्या॒३॑(आ॒)पृचे॒ सचे᳚महि सच॒थ्यैः᳚ ||{4.3.4.2}, {5.50.2}, {5.4.6.2}
334 अतो᳚ न॒ आ नॄनति॑थी॒नतः॒ पत्नी᳚र्दशस्यत |

आ॒रे विश्वं᳚ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ||{4.3.4.3}, {5.50.3}, {5.4.6.3}
335 यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्यः॑ प॒शुः |

नृ॒मणा᳚ वी॒रप॒स्त्योऽर्णा॒ धीरे᳚व॒ सनि॑ता ||{4.3.4.4}, {5.50.4}, {5.4.6.4}
336 ए॒ष ते᳚ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः |

शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो᳚ मनामहे देव॒स्तुतो᳚ मनामहे ||{4.3.4.5}, {5.50.5}, {5.4.6.5}
[43] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | (१-३, ८-१५) प्रथमादितृचस्याष्टम्याद्यष्टर्चाञ्च विश्वे देवाः, (४, ६-७) चतुर्थ्याः षष्ठीसप्तम्योश्चेन्द्रवाय, (५) पञ्चम्याश्च वायुर्देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री, (५-१०) पञ्चम्यादिषण्णामुष्णिक्, (११-१३) एकादश्यादितृचस्य जगती त्रिष्टुब् वा, (१४-१५) चतुर्दशीपञ्चदश्योश्चानुष्टप् छन्दांसि ||
337 अग्ने᳚ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे᳚भि॒रा ग॑हि |

दे॒वेभि॑र्ह॒व्यदा᳚तये ||{4.3.5.1}, {5.51.1}, {5.4.7.1}
338 ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् |

अ॒ग्नेः पि॑बत जि॒ह्वया᳚ ||{4.3.5.2}, {5.51.2}, {5.4.7.2}
339 विप्रे᳚भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि |

दे॒वेभिः॒ सोम॑पीतये ||{4.3.5.3}, {5.51.3}, {5.4.7.3}
340 अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते |

प्रि॒य इन्द्रा᳚य वा॒यवे᳚ ||{4.3.5.4}, {5.51.4}, {5.4.7.4}
341 वाय॒वा या᳚हि वी॒तये᳚ जुषा॒णो ह॒व्यदा᳚तये |

पिबा᳚ सु॒तस्यान्ध॑सो अ॒भि प्रयः॑ ||{4.3.5.5}, {5.51.5}, {5.4.7.5}
342 इन्द्र॑श्च वायवेषां सु॒तानां᳚ पी॒तिम॑र्हथः |

ताञ्जु॑षेथामरे॒पसा᳚व॒भि प्रयः॑ ||{4.3.6.1}, {5.51.6}, {5.4.7.6}
343 सु॒ता इन्द्रा᳚य वा॒यवे॒ सोमा᳚सो॒ दध्या᳚शिरः |

नि॒म्नं न य᳚न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ||{4.3.6.2}, {5.51.7}, {5.4.7.7}
344 स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚ स॒जूः |

आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ||{4.3.6.3}, {5.51.8}, {5.4.7.8}
345 स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे᳚न॒ विष्णु॑ना |

आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ||{4.3.6.4}, {5.51.9}, {5.4.7.9}
346 स॒जूरा᳚दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे᳚ण वा॒युना᳚ |

आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ||{4.3.6.5}, {5.51.10}, {5.4.7.10}
347 स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ |

स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ||{4.3.7.1}, {5.51.11}, {5.4.7.11}
348 स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ |

बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः ||{4.3.7.2}, {5.51.12}, {5.4.7.12}
349 विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ |

दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ||{4.3.7.3}, {5.51.13}, {5.4.7.13}
350 स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति |

स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚ अदिते कृधि ||{4.3.7.4}, {5.51.14}, {5.4.7.14}
351 स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव |

पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ||{4.3.7.5}, {5.51.15}, {5.4.7.15}
[44] (१-१७) सप्तदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१५, ७-१५) प्रथमादिपञ्चर्चाम् सप्तम्यादिनवानाञ्चानष्टप (६, १६-१७) षष्ठ्याः षोडशीसप्तदश्योश्च पतिश्छन्दसी ||
352 प्र श्या᳚वाश्व धृष्णु॒यार्चा᳚ म॒रुद्भि॒रृक्व॑भिः |

ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद᳚न्ति य॒ज्ञियाः᳚ ||{4.3.8.1}, {5.52.1}, {5.4.8.1}
353 ते हि स्थि॒रस्य॒ शव॑सः॒ सखा᳚यः॒ सन्ति॑ धृष्णु॒या |

ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना᳚ पान्ति॒ शश्व॑तः ||{4.3.8.2}, {5.52.2}, {5.4.8.2}
354 ते स्य॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्दन्ति॒ शर्व॑रीः |

म॒रुता॒मधा॒ महो᳚ दि॒वि क्ष॒मा च॑ मन्महे ||{4.3.8.3}, {5.52.3}, {5.4.8.3}
355 म॒रुत्सु॑ वो दधीमहि॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |

विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं᳚ रि॒षः ||{4.3.8.4}, {5.52.4}, {5.4.8.4}
356 अर्ह᳚न्तो॒ ये सु॒दान॑वो॒ नरो॒ असा᳚मिशवसः |

प्र य॒ज्ञं य॒ज्ञिये᳚भ्यो दि॒वो अ॑र्चा म॒रुद्भ्यः॑ ||{4.3.8.5}, {5.52.5}, {5.4.8.5}
357 आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत |

अन्वे᳚नाँ॒ अह॑ वि॒द्युतो᳚ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना᳚ दि॒वः ||{4.3.9.1}, {5.52.6}, {5.4.8.6}
358 ये वा᳚वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ |

वृ॒जने᳚ वा न॒दीनां᳚ स॒धस्थे᳚ वा म॒हो दि॒वः ||{4.3.9.2}, {5.52.7}, {5.4.8.7}
359 शर्धो॒ मारु॑त॒मुच्छं᳚स स॒त्यश॑वस॒मृभ्व॑सम् |

उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्य॒न्द्रा यु॑जत॒ त्मना᳚ ||{4.3.9.3}, {5.52.8}, {5.4.8.8}
360 उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा᳚ वसत शु॒न्ध्यवः॑ |

उ॒त प॒व्या रथा᳚ना॒मद्रिं᳚ भिन्द॒न्त्योज॑सा ||{4.3.9.4}, {5.52.9}, {5.4.8.9}
361 आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः |

ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ᳚हते ||{4.3.9.5}, {5.52.10}, {5.4.8.10}
362 अधा॒ नरो॒ न्यो᳚ह॒तेऽधा᳚ नि॒युत॑ ओहते |

अधा॒ पारा᳚वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या᳚ ||{4.3.10.1}, {5.52.11}, {5.4.8.11}
363 छ॒न्दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो᳚ नृतुः |

ते मे॒ के चि॒न्न ता॒यव॒ ऊमा᳚ आसन्दृ॒शि त्वि॒षे ||{4.3.10.2}, {5.52.12}, {5.4.8.12}
364 य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वयः॒ सन्ति॑ वे॒धसः॑ |

तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया᳚ गि॒रा ||{4.3.10.3}, {5.52.13}, {5.4.8.13}
365 अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा᳚ |

दि॒वो वा᳚ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ||{4.3.10.4}, {5.52.14}, {5.4.8.14}
366 नू म᳚न्वा॒न ए᳚षां दे॒वाँ अच्छा॒ न व॒क्षणा᳚ |

दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ ||{4.3.10.5}, {5.52.15}, {5.4.8.15}
367 प्र ये मे᳚ बन्ध्वे॒षे गां वोच᳚न्त सू॒रयः॒ पृश्निं᳚ वोचन्त मा॒तर᳚म् |

अधा᳚ पि॒तर॑मि॒ष्मिणं᳚ रु॒द्रं वो᳚चन्त॒ शिक्व॑सः ||{4.3.10.6}, {5.52.16}, {5.4.8.16}
368 स॒प्त मे᳚ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः |

य॒मुना᳚या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं᳚ मृजे॒ नि राधो॒ अश्व्यं᳚ मृजे ||{4.3.10.7}, {5.52.17}, {5.4.8.17}
[45] (१-१६) षोळशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१, ५, १०-११, १५) प्रथमापञ्चमीदशम्येकादशीपञ्चदशीनामृचां ककुभ्, (२) द्वितीयाया बृहती, (३) तृतीयाया अनुष्टुप्, (४) चतुर्थ्याः पुर उष्णिक्, (६-७, ९, १३-१४, १६) षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडशीनां सतोबृहति, (८, १२) अष्टमीद्वादश्योश्च गायत्री छन्दांसि ||
369 को वे᳚द॒ जान॑मेषां॒ को वा᳚ पु॒रा सु॒म्नेष्वा᳚स म॒रुता᳚म् |

यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ||{4.3.11.1}, {5.53.1}, {5.4.9.1}
370 ऐतान्रथे᳚षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः |

कस्मै᳚ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा᳚भिर्वृ॒ष्टयः॑ स॒ह ||{4.3.11.2}, {5.53.2}, {5.4.9.2}
371 ते म॑ आहु॒र्य आ᳚य॒युरुप॒ द्युभि॒र्विभि॒र्मदे᳚ |

नरो॒ मर्या᳚ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ||{4.3.11.3}, {5.53.3}, {5.4.9.3}
372 ये अ॒ञ्जिषु॒ ये वाशी᳚षु॒ स्वभा᳚नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ |

श्रा॒या रथे᳚षु॒ धन्व॑सु ||{4.3.11.4}, {5.53.4}, {5.4.9.4}
373 यु॒ष्माकं᳚ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः |

वृ॒ष्टी द्यावो᳚ य॒तीरि॑व ||{4.3.11.5}, {5.53.5}, {5.4.9.5}
374 आ यं नरः॑ सु॒दान॑वो ददा॒शुषे᳚ दि॒वः कोश॒मचु॑च्यवुः |

वि प॒र्जन्यं᳚ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ||{4.3.12.1}, {5.53.6}, {5.4.9.6}
375 त॒तृ॒दा॒नाः सिन्ध॑वः॒ क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो᳚ यथा |

स्य॒न्ना अश्वा᳚ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त᳚न्त ए॒न्यः॑ ||{4.3.12.2}, {5.53.7}, {5.4.9.7}
376 आ या᳚त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त |

माव॑ स्थात परा॒वतः॑ ||{4.3.12.3}, {5.53.8}, {5.4.9.8}
377 मा वो᳚ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री᳚रमत् |

मा वः॒ परि॑ ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ||{4.3.12.4}, {5.53.9}, {5.4.9.9}
378 तं वः॒ शर्धं॒ रथा᳚नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् |

अनु॒ प्र य᳚न्ति वृ॒ष्टयः॑ ||{4.3.12.5}, {5.53.10}, {5.4.9.10}
379 शर्धं᳚शर्धं व एषां॒ व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ |

अनु॑ क्रामेम धी॒तिभिः॑ ||{4.3.13.1}, {5.53.11}, {5.4.9.11}
380 कस्मा᳚ अ॒द्य सुजा᳚ताय रा॒तह᳚व्याय॒ प्र य॑युः |

ए॒ना यामे᳚न म॒रुतः॑ ||{4.3.13.2}, {5.53.12}, {5.4.9.12}
381 येन॑ तो॒काय॒ तन॑याय धा॒न्य१॑(अ॒) अंबीजं॒ वह॑ध्वे॒ अक्षि॑तम् |

अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो᳚ वि॒श्वायु॒ सौभ॑गम् ||{4.3.13.3}, {5.53.13}, {5.4.9.13}
382 अती᳚याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा᳚तीः |

वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे᳚ष॒जं स्याम॑ मरुतः स॒ह ||{4.3.13.4}, {5.53.14}, {5.4.9.14}
383 सु॒दे॒वः स॑महासति सु॒वीरो᳚ नरो मरुतः॒ स मर्त्यः॑ |

यं त्राय॑ध्वे॒ स्याम॒ ते ||{4.3.13.5}, {5.53.15}, {5.4.9.15}
384 स्तु॒हि भो॒जान्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से |

य॒तः पूर्वाँ᳚ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ||{4.3.13.6}, {5.53.16}, {5.4.9.16}
[46] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (११३, १५) प्रथमादित्रयोदशों पञ्चदश्याश्च जगती, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
385 प्र शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नव इ॒मां वाच॑मनजा पर्वत॒च्युते᳚ |

घ॒र्म॒स्तुभे᳚ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ||{4.3.14.1}, {5.54.1}, {5.4.10.1}
386 प्र वो᳚ मरुतस्तवि॒षा उ॑द॒न्यवो᳚ वयो॒वृधो᳚ अश्व॒युजः॒ परि॑ज्रयः |

सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ||{4.3.14.2}, {5.54.2}, {5.4.10.2}
387 वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ |

अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो᳚जसः ||{4.3.14.3}, {5.54.3}, {5.4.10.3}
388 व्य१॑(अ॒)क्तून्रु॑द्रा॒ व्यहा᳚नि शिक्वसो॒ व्य१॑(अ॒)'न्तरि॑क्षं॒ वि रजां᳚सि धूतयः |

वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ||{4.3.14.4}, {5.54.4}, {5.4.10.4}
389 तद्वी॒र्यं᳚ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् |

एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया᳚तना गि॒रिम् ||{4.3.14.5}, {5.54.5}, {5.4.10.5}
390 अभ्रा᳚जि॒ शर्धो᳚ मरुतो॒ यद᳚र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः |

अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ||{4.3.15.1}, {5.54.6}, {5.4.10.6}
391 न स जी᳚यते मरुतो॒ न ह᳚न्यते॒ न स्रे᳚धति॒ न व्य॑थते॒ न रि॑ष्यति |

नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं᳚ वा॒ यं राजा᳚नं वा॒ सुषू᳚दथ ||{4.3.15.2}, {5.54.7}, {5.4.10.7}
392 नि॒युत्व᳚न्तो ग्राम॒जितो॒ यथा॒ नरो᳚ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑ |

पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्यु᳚न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ||{4.3.15.3}, {5.54.8}, {5.4.10.8}
393 प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ |

प्र॒वत्व॑तीः प॒थ्या᳚ अ॒न्तरि॑क्ष्याः प्र॒वत्व᳚न्तः॒ पर्व॑ता जी॒रदा᳚नवः ||{4.3.15.4}, {5.54.9}, {5.4.10.9}
394 यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः |

न वोऽश्वाः᳚ श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ||{4.3.15.5}, {5.54.10}, {5.4.10.10}
395 अंसे᳚षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ |

अ॒ग्निभ्रा᳚जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः᳚ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः᳚ ||{4.3.16.1}, {5.54.11}, {5.4.10.11}
396 तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू᳚नुथ |

सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर᳚न्ति॒ घोषं॒ वित॑तमृता॒यवः॑ ||{4.3.16.2}, {5.54.12}, {5.4.10.12}
397 यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |

न यो युच्छ॑ति ति॒ष्यो॒३॑(ओ॒) यथा᳚ दि॒वो॒३॑(ओ॒)ऽस्मे रा᳚रन्त मरुतः सह॒स्रिण᳚म् ||{4.3.16.3}, {5.54.13}, {5.4.10.13}
398 यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी᳚रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् |

यू॒यमर्व᳚न्तं भर॒ताय॒ वाजं᳚ यू॒यं ध॑त्थ॒ राजा᳚नं श्रुष्टि॒मन्त᳚म् ||{4.3.16.4}, {5.54.14}, {5.4.10.14}
399 तद्वो᳚ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॑(अ॒)'र्ण त॒तना᳚म॒ नॄँर॒भि |

इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर॑सा श॒तं हिमाः᳚ ||{4.3.16.5}, {5.54.15}, {5.4.10.15}
[47] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-९) प्रथमादिनवर्ता जगती, (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
400 प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो᳚ दधिरे रु॒क्मव॑क्षसः |

ईय᳚न्ते॒ अश्वैः᳚ सु॒यमे᳚भिरा॒शुभिः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.17.1}, {5.55.1}, {5.4.11.1}
401 स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा᳚ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा᳚जथ |

उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.17.2}, {5.55.2}, {5.4.11.2}
402 सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा᳚वृधु॒र्नरः॑ |

वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.17.3}, {5.55.3}, {5.4.11.3}
403 आ॒भू॒षेण्यं᳚ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् |

उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.17.4}, {5.55.4}, {5.4.11.4}
404 उदी᳚रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः |

न वो᳚ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.17.5}, {5.55.5}, {5.4.11.5}
405 यदश्वा᳚न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम् |

विश्वा॒ इत्स्पृधो᳚ मरुतो॒ व्य॑स्यथ॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.18.1}, {5.55.6}, {5.4.11.6}
406 न पर्व॑ता॒ न न॒द्यो᳚ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् |

उ॒त द्यावा᳚पृथि॒वी या᳚थना॒ परि॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.18.2}, {5.55.7}, {5.4.11.7}
407 यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते᳚ वसवो॒ यच्च॑ श॒स्यते᳚ |

विश्व॑स्य॒ तस्य॑ भवथा॒ नवे᳚दसः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.18.3}, {5.55.8}, {5.4.11.8}
408 मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्तन |

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{4.3.18.4}, {5.55.9}, {5.4.11.9}
409 यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं᳚ह॒तिभ्यो᳚ मरुतो गृणा॒नाः |

जु॒षध्वं᳚ नो ह॒व्यदा᳚तिं यजत्रा व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{4.3.18.5}, {5.55.10}, {5.4.11.10}
[48] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-२, ४-६, ८-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टमीनवम्योश्च बृहती, (३, ७) तृतीयासप्तम्योश्च सतोबृहती छन्दसी ||
410 अग्ने॒ शर्ध᳚न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभिः॑ |

विशो᳚ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ||{4.3.19.1}, {5.56.1}, {5.4.12.1}
411 यथा᳚ चि॒न्मन्य॑से हृ॒दा तदिन्मे᳚ जग्मुरा॒शसः॑ |

ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भी॒मसं᳚दृशः ||{4.3.19.2}, {5.56.2}, {5.4.12.2}
412 मी॒ळ्हुष्म॑तीव पृथि॒वी परा᳚हता॒ मद᳚न्त्येत्य॒स्मदा |

ऋक्षो॒ न वो᳚ मरुतः॒ शिमी᳚वाँ॒ अमो᳚ दु॒ध्रो गौरि॑व भीम॒युः ||{4.3.19.3}, {5.56.3}, {5.4.12.3}
413 नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ |

अश्मा᳚नं चित्स्व॒र्य१॑(अ॒) अंपर्व॑तं गि॒रिं प्र च्या᳚वयन्ति॒ याम॑भिः ||{4.3.19.4}, {5.56.4}, {5.4.12.4}
414 उत्ति॑ष्ठ नू॒नमे᳚षां॒ स्तोमैः॒ समु॑क्षितानाम् |

म॒रुतां᳚ पुरु॒तम॒मपू᳚र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ||{4.3.19.5}, {5.56.5}, {5.4.12.5}
415 यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे᳚ यु॒ङ्ग्ध्वं रथे᳚षु रो॒हितः॑ |

यु॒ङ्ग्ध्वं हरी᳚ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ||{4.3.20.1}, {5.56.6}, {5.4.12.6}
416 उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः |

मा वो॒ यामे᳚षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे᳚षु चोदत ||{4.3.20.2}, {5.56.7}, {5.4.12.7}
417 रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे |

आ यस्मि᳚न्त॒स्थौ सु॒रणा᳚नि॒ बिभ्र॑ती॒ सचा᳚ म॒रुत्सु॑ रोद॒सी ||{4.3.20.3}, {5.56.8}, {5.4.12.8}
418 तं वः॒ शर्धं᳚ रथे॒शुभं᳚ त्वे॒षं प॑न॒स्युमा हु॑वे |

यस्मि॒न्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु॑ मीळ्हु॒षी ||{4.3.20.4}, {5.56.9}, {5.4.12.9}
[49] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-६) प्रथमादिषण्णां जगती, (७-८) सप्तम्यष्टम्योश्च त्रिष्टुप् छन्दसी ||
419 आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर᳚ण्यरथाः सुवि॒ताय॑ गन्तन |

इ॒यं वो᳚ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा᳚ उद॒न्यवे᳚ ||{4.3.21.1}, {5.57.1}, {5.5.1.1}
420 वाशी᳚मन्त ऋष्टि॒मन्तो᳚ मनी॒षिणः॑ सु॒धन्वा᳚न॒ इषु॑मन्तो निष॒ङ्गिणः॑ |

स्वश्वाः᳚ स्थ सु॒रथाः᳚ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ᳚म् ||{4.3.21.2}, {5.57.2}, {5.5.1.2}
421 धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना᳚ जिहते॒ याम॑नो भि॒या |

को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ||{4.3.21.3}, {5.57.3}, {5.5.1.3}
422 वात॑त्विषो म॒रुतो᳚ व॒र्षनि᳚र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः |

पि॒शङ्गा᳚श्वा अरु॒णाश्वा᳚ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ||{4.3.21.4}, {5.57.4}, {5.5.1.4}
423 पु॒रु॒द्र॒प्सा अ᳚ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं᳚दृशो अनव॒भ्ररा᳚धसः |

सु॒जा॒तासो᳚ ज॒नुषा᳚ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ||{4.3.21.5}, {5.57.5}, {5.5.1.5}
424 ऋ॒ष्टयो᳚ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो᳚ बा॒ह्वोर्वो॒ बलं᳚ हि॒तम् |

नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे᳚षु वो॒ विश्वा᳚ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ||{4.3.22.1}, {5.57.6}, {5.5.1.6}
425 गोम॒दश्वा᳚व॒द्रथ॑वत्सु॒वीरं᳚ च॒न्द्रव॒द्राधो᳚ मरुतो ददा नः |

प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ||{4.3.22.2}, {5.57.7}, {5.5.1.7}
426 ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः |

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{4.3.22.3}, {5.57.8}, {5.5.1.8}
[50] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
427 तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् |

य आ॒श्व॑श्वा॒ अम॑व॒द्वह᳚न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ||{4.3.23.1}, {5.58.1}, {5.5.2.1}
428 त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि᳚व्रतं मा॒यिनं॒ दाति॑वारम् |

म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ||{4.3.23.2}, {5.58.2}, {5.5.2.2}
429 आ वो᳚ यन्तूदवा॒हासो᳚ अ॒द्य वृ॒ष्टिं ये विश्वे᳚ म॒रुतो᳚ जु॒नन्ति॑ |

अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ||{4.3.23.3}, {5.58.3}, {5.5.2.3}
430 यू॒यं राजा᳚न॒मिर्यं॒ जना᳚य विभ्वत॒ष्टं ज॑नयथा यजत्राः |

यु॒ष्मदे᳚ति मुष्टि॒हा बा॒हुजू᳚तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ||{4.3.23.4}, {5.58.4}, {5.5.2.4}
431 अ॒रा इ॒वेदच॑रमा॒ अहे᳚व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो᳚भिः |

पृश्नेः᳚ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया᳚ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ||{4.3.23.5}, {5.58.5}, {5.5.2.5}
432 यत्प्राया᳚सिष्ट॒ पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒ रथे᳚भिः |

क्षोद᳚न्त॒ आपो᳚ रिण॒ते वना॒न्यवो॒स्रियो᳚ वृष॒भः क्र᳚न्दतु॒ द्यौः ||{4.3.23.6}, {5.58.6}, {5.5.2.6}
433 प्रथि॑ष्ट॒ याम᳚न्पृथि॒वी चि॑देषां॒ भर्ते᳚व॒ गर्भं॒ स्वमिच्छवो᳚ धुः |

वाता॒न्ह्यश्वा᳚न्धु॒र्या᳚युयु॒ज्रे व॒र्षं स्वेदं᳚ चक्रिरे रु॒द्रिया᳚सः ||{4.3.23.7}, {5.58.7}, {5.5.2.7}
434 ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः |

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{4.3.23.8}, {5.58.8}, {5.5.2.8}
[51] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-७) प्रथमादिसप्तर्चाम् जगती, (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
435 प्र वः॒ स्पळ॑क्रन्सुवि॒ताय॑ दा॒वनेऽर्चा᳚ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे |

उ॒क्षन्ते॒ अश्वा॒न्तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः ||{4.3.24.1}, {5.59.1}, {5.5.3.1}
436 अमा᳚देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि᳚र्य॒ती |

दू॒रे॒दृशो॒ ये चि॒तय᳚न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे᳚ येतिरे॒ नरः॑ ||{4.3.24.2}, {5.59.2}, {5.5.3.2}
437 गवा᳚मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने |

अत्या᳚ इव सु॒भ्व१॑(अ॒)श्चार॑वः स्थन॒ मर्या᳚ इव श्रि॒यसे᳚ चेतथा नरः ||{4.3.24.3}, {5.59.3}, {5.5.3.3}
438 को वो᳚ म॒हान्ति॑ मह॒तामुद॑श्नव॒त्कस्काव्या᳚ मरुतः॒ को ह॒ पौंस्या᳚ |

यू॒यं ह॒ भूमिं᳚ कि॒रणं॒ न रे᳚जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने᳚ ||{4.3.24.4}, {5.59.4}, {5.5.3.4}
439 अश्वा᳚ इ॒वेद॑रु॒षासः॒ सब᳚न्धवः॒ शूरा᳚ इव प्र॒युधः॒ प्रोत यु॑युधुः |

मर्या᳚ इव सु॒वृधो᳚ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑ ||{4.3.24.5}, {5.59.5}, {5.5.3.5}
440 ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा᳚वृधुः |

सु॒जा॒तासो᳚ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा᳚ जिगातन ||{4.3.24.6}, {5.59.6}, {5.5.3.6}
441 वयो॒ न ये श्रेणीः᳚ प॒प्तुरोज॒सान्ता᳚न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ |

अश्वा᳚स एषामु॒भये॒ यथा᳚ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ||{4.3.24.7}, {5.59.7}, {5.5.3.7}
442 मिमा᳚तु॒ द्यौरदि॑तिर्वी॒तये᳚ नः॒ सं दानु॑चित्रा उ॒षसो᳚ यतन्ताम् |

आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे᳚ रु॒द्रस्य॑ म॒रुतो᳚ गृणा॒नाः ||{4.3.24.8}, {5.59.8}, {5.5.3.8}
[52] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतोऽग्नामरुतौ वा देवते | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७-८) सप्तम्यष्टम्योर्‌ऋचोश्च जगती छन्दसी ||
443 ईळे᳚ अ॒ग्निं स्वव॑सं॒ नमो᳚भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ |

रथै᳚रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ||{4.3.25.1}, {5.60.1}, {5.5.4.1}
444 आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे᳚षु |

वना᳚ चिदुग्रा जिहते॒ नि वो᳚ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ||{4.3.25.2}, {5.60.2}, {5.5.4.2}
445 पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ |

यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य᳚ञ्चो धवध्वे ||{4.3.25.3}, {5.60.3}, {5.5.4.3}
446 व॒रा इ॒वेद्रै᳚व॒तासो॒ हिर᳚ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे |

श्रि॒ये श्रेयां᳚सस्त॒वसो॒ रथे᳚षु स॒त्रा महां᳚सि चक्रिरे त॒नूषु॑ ||{4.3.25.4}, {5.60.4}, {5.5.4.4}
447 अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय |

युवा᳚ पि॒ता स्वपा᳚ रु॒द्र ए᳚षां सु॒दुघा॒ पृश्निः॑ सु॒दिना᳚ म॒रुद्भ्यः॑ ||{4.3.25.5}, {5.60.5}, {5.5.4.5}
448 यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा᳚व॒मे सु॑भगासो दि॒वि ष्ठ |

अतो᳚ नो रुद्रा उ॒त वा॒ न्व१॑(अ॒)स्याग्ने᳚ वि॒त्ताद्ध॒विषो॒ यद्यजा᳚म ||{4.3.25.6}, {5.60.6}, {5.5.4.6}
449 अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ |

ते म᳚न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ||{4.3.25.7}, {5.60.7}, {5.5.4.7}
450 अग्ने᳚ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः॒ सोमं᳚ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ |

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नर प्र॒दिवा᳚ के॒तुना᳚ स॒जूः ||{4.3.25.8}, {5.60.8}, {5.5.4.8}
[53] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | (१-४, ११-१६) प्रथमादिचतुर्‌ऋचाम् एइकादश्यादिषण्णाञ्च मरुतः, (५-८) पञ्चम्यादिचतसृणां तरन्तमहिषी शशीयसी, (९) नवम्या वैददश्चिः पुरुमी हः, (१०) दशम्या वैददश्विस्तरन्तः, (१७-१९) सतदश्यादितृचस्य च दाओ रथवीतिदेवताः | (१-४, ६-८, १०-११) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादितृचस्य दशम्यादिद्वादशानाञ्च गायत्री, (५) पञ्चम्या अनुष्टुप्, (९) नवम्याश्च सतोबृहती छन्दांसि ||
451 के ष्ठा᳚ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य |

प॒र॒मस्याः᳚ परा॒वतः॑ ||{4.3.26.1}, {5.61.1}, {5.5.5.1}
452 क्व१॑(अ॒) वोऽश्वाः॒ क्वा॒३॑(आ॒)भीश॑वः क॒थं शे᳚क क॒था य॑य |

पृ॒ष्ठे सदो᳚ न॒सोर्यमः॑ ||{4.3.26.2}, {5.61.2}, {5.5.5.2}
453 ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो᳚ यमुः |

पु॒त्र॒कृ॒थे न जन॑यः ||{4.3.26.3}, {5.61.3}, {5.5.5.3}
454 परा᳚ वीरास एतन॒ मर्या᳚सो॒ भद्र॑जानयः |

अ॒ग्नि॒तपो॒ यथास॑थ ||{4.3.26.4}, {5.61.4}, {5.5.5.4}
455 सन॒त्साश्व्यं᳚ प॒शुमु॒त गव्यं᳚ श॒ताव॑यम् |

श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो᳚प॒बर्बृ॑हत् ||{4.3.26.5}, {5.61.5}, {5.5.5.5}
456 उ॒त त्वा॒ स्त्री शशी᳚यसी पुं॒सो भ॑वति॒ वस्य॑सी |

अदे᳚वत्रादरा॒धसः॑ ||{4.3.27.1}, {5.61.6}, {5.5.5.6}
457 वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य᳚न्तं॒ वि का॒मिन᳚म् |

दे॒व॒त्रा कृ॑णु॒ते मनः॑ ||{4.3.27.2}, {5.61.7}, {5.5.5.7}
458 उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः |

स वैर॑देय॒ इत्स॒मः ||{4.3.27.3}, {5.61.8}, {5.5.5.8}
459 उ॒त मे᳚ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् |

वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा᳚य दी॒र्घय॑शसे ||{4.3.27.4}, {5.61.9}, {5.5.5.9}
460 यो मे᳚ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् |

त॒र॒न्त इ॑व मं॒हना᳚ ||{4.3.27.5}, {5.61.10}, {5.5.5.10}
461 य ईं॒ वह᳚न्त आ॒शुभिः॒ पिब᳚न्तो मदि॒रं मधु॑ |

अत्र॒ श्रवां᳚सि दधिरे ||{4.3.28.1}, {5.61.11}, {5.5.5.11}
462 येषां᳚ श्रि॒याधि॒ रोद॑सी वि॒भ्राज᳚न्ते॒ रथे॒ष्वा |

दि॒वि रु॒क्म इ॑वो॒परि॑ ||{4.3.28.2}, {5.61.12}, {5.5.5.12}
463 युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने᳚द्यः |

शु॒भं॒यावाप्र॑तिष्कुतः ||{4.3.28.3}, {5.61.13}, {5.5.5.13}
464 को वे᳚द नू॒नमे᳚षां॒ यत्रा॒ मद᳚न्ति॒ धूत॑यः |

ऋ॒तजा᳚ता अरे॒पसः॑ ||{4.3.28.4}, {5.61.14}, {5.5.5.14}
465 यू॒यं मर्तं᳚ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या |

श्रोता᳚रो॒ याम॑हूतिषु ||{4.3.28.5}, {5.61.15}, {5.5.5.15}
466 ते नो॒ वसू᳚नि॒ काम्या᳚ पुरुश्च॒न्द्रा रि॑शादसः |

आ य॑ज्ञियासो ववृत्तन ||{4.3.29.1}, {5.61.16}, {5.5.5.16}
467 ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा᳚ वह |

गिरो᳚ देवि र॒थीरि॑व ||{4.3.29.2}, {5.61.17}, {5.5.5.17}
468 उ॒त मे᳚ वोचता॒दिति॑ सु॒तसो᳚मे॒ रथ॑वीतौ |

न कामो॒ अप॑ वेति मे ||{4.3.29.3}, {5.61.18}, {5.5.5.18}
469 ए॒ष क्षे᳚ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ |

पर्व॑ते॒ष्वप॑श्रितः ||{4.3.29.4}, {5.61.19}, {5.5.5.19}
[54] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्रुतविदृषिः मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
470 ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् |

दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं᳚ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ||{4.3.30.1}, {5.62.1}, {5.5.6.1}
471 तत्सु वां᳚ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे |

विश्वाः᳚ पिन्वथः॒ स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ||{4.3.30.2}, {5.62.2}, {5.5.6.2}
472 अधा᳚रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो᳚भिः |

व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ||{4.3.30.3}, {5.62.3}, {5.5.6.3}
473 आ वा॒मश्वा᳚सः सु॒युजो᳚ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् |

घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ||{4.3.30.4}, {5.62.4}, {5.5.6.4}
474 अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा |

नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः ||{4.3.30.5}, {5.62.5}, {5.5.6.5}
475 अक्र॑विहस्ता सु॒कृते᳚ पर॒स्पा यं त्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः |

राजा᳚ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ||{4.3.31.1}, {5.62.6}, {5.5.6.6}
476 हिर᳚ण्यनिर्णि॒गयो᳚ अस्य॒ स्थूणा॒ वि भ्रा᳚जते दि॒व्य१॑(अ॒)श्वाज॑नीव |

भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ||{4.3.31.2}, {5.62.7}, {5.5.6.7}
477 हिर᳚ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य |

आ रो᳚हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं᳚ च ||{4.3.31.3}, {5.62.8}, {5.5.6.8}
478 यद्बंहि॑ष्ठं॒ नाति॒विधे᳚ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा |

तेन॑ नो मित्रावरुणावविष्टं॒ सिषा᳚सन्तो जिगी॒वांसः॑ स्याम ||{4.3.31.4}, {5.62.9}, {5.5.6.9}
[55] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | जगती छन्दः ||
479 ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो᳚मनि |

यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै᳚ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ||{4.4.1.1}, {5.63.1}, {5.5.7.1}
480 स॒म्राजा᳚व॒स्य भुव॑नस्य राजथो॒ मित्रा᳚वरुणा वि॒दथे᳚ स्व॒र्दृशा᳚ |

वृ॒ष्टिं वां॒ राधो᳚ अमृत॒त्वमी᳚महे॒ द्यावा᳚पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ||{4.4.1.2}, {5.63.2}, {5.5.7.2}
481 स॒म्राजा᳚ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती᳚ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी |

चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया᳚ ||{4.4.1.3}, {5.63.3}, {5.5.7.3}
482 मा॒या वां᳚ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् |

तम॒भ्रेण॑ वृ॒ष्ट्या गू᳚हथो दि॒वि पर्ज᳚न्य द्र॒प्सा मधु॑मन्त ईरते ||{4.4.1.4}, {5.63.4}, {5.5.7.4}
483 रथं᳚ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु |

रजां᳚सि चि॒त्रा वि च॑रन्ति त॒न्यवो᳚ दि॒वः स᳚म्राजा॒ पय॑सा न उक्षतम् ||{4.4.1.5}, {5.63.5}, {5.5.7.5}
484 वाचं॒ सु मि॑त्रावरुणा॒विरा᳚वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी᳚मतीम् |

अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस᳚म् ||{4.4.1.6}, {5.63.6}, {5.5.7.6}
485 धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया᳚ |

ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा᳚जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ᳚म् ||{4.4.1.7}, {5.63.7}, {5.5.7.7}
[56] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | (१-६) प्रथमादिषडृचामनुष्टुप्, (७) सप्तम्याश्च प‌ङ्क्तिश्छन्दसी ||
486 वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे |

परि᳚ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व᳚र्णरम् ||{4.4.2.1}, {5.64.1}, {5.5.8.1}
487 ता बा॒हवा᳚ सुचे॒तुना॒ प्र य᳚न्तमस्मा॒ अर्च॑ते |

शेवं॒ हि जा॒र्यं᳚ वां॒ विश्वा᳚सु॒ क्षासु॒ जोगु॑वे ||{4.4.2.2}, {5.64.2}, {5.5.8.2}
488 यन्नू॒नम॒श्यां गतिं᳚ मि॒त्रस्य॑ यायां प॒था |

अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं᳚सानस्य सश्चिरे ||{4.4.2.3}, {5.64.3}, {5.5.8.3}
489 यु॒वाभ्यां᳚ मित्रावरुणोप॒मं धे᳚यामृ॒चा |

यद्ध॒ क्षये᳚ म॒घोनां᳚ स्तोतॄ॒णां च॑ स्पू॒र्धसे᳚ ||{4.4.2.4}, {5.64.4}, {5.5.8.4}
490 आ नो᳚ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ |

स्वे क्षये᳚ म॒घोनां॒ सखी᳚नां च वृ॒धसे᳚ ||{4.4.2.5}, {5.64.5}, {5.5.8.5}
491 यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः |

उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये᳚ ||{4.4.2.6}, {5.64.6}, {5.5.8.6}
492 उ॒च्छन्त्यां᳚ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि |

सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा᳚वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ||{4.4.2.7}, {5.64.7}, {5.5.8.7}
[57] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणौ देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टुप्, (६) षष्ठ्याश्च प‌ङ्क्तिश्छन्दसी ||
493 यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः |

वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ||{4.4.3.1}, {5.65.1}, {5.5.9.1}
494 ता हि श्रेष्ठ॑वर्चसा॒ राजा᳚ना दीर्घ॒श्रुत्त॑मा |

ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा᳚ना॒ जने᳚जने ||{4.4.3.2}, {5.65.2}, {5.5.9.2}
495 ता वा᳚मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा᳚ |

स्वश्वा᳚सः॒ सु चे॒तुना॒ वाजाँ᳚ अ॒भि प्र दा॒वने᳚ ||{4.4.3.3}, {5.65.3}, {5.5.9.3}
496 मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया᳚य गा॒तुं व॑नते |

मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ||{4.4.3.4}, {5.65.4}, {5.5.9.4}
497 व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे |

अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ||{4.4.3.5}, {5.65.5}, {5.5.9.5}
498 यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः |

मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी᳚णां गोपी॒थे न॑ उरुष्यतम् ||{4.4.3.6}, {5.65.6}, {5.5.9.6}
[58] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणो देवते | अनुष्टुप् छन्दः ||
499 आ चि॑कितान सु॒क्रतू᳚ दे॒वौ म॑र्त रि॒शाद॑सा |

वरु॑णाय ऋ॒तपे᳚शसे दधी॒त प्रय॑से म॒हे ||{4.4.4.1}, {5.66.1}, {5.5.10.1}
500 ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |

अध᳚ व्र॒तेव॒ मानु॑षं॒ स्व१॑(अ॒)'र्ण धा᳚यि दर्श॒तम् ||{4.4.4.2}, {5.66.2}, {5.5.10.2}
501 ता वा॒मेषे॒ रथा᳚नामु॒र्वीं गव्यू᳚तिमेषाम् |

रा॒तह᳚व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै᳚र्मनामहे ||{4.4.4.3}, {5.66.3}, {5.5.10.3}
502 अधा॒ हि काव्या᳚ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता |

नि के॒तुना॒ जना᳚नां चि॒केथे᳚ पूतदक्षसा ||{4.4.4.4}, {5.66.4}, {5.5.10.4}
503 तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी᳚णाम् |

ज्र॒य॒सा॒नावरं᳚ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ||{4.4.4.5}, {5.66.5}, {5.5.10.5}
504 आ यद्वा᳚मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ |

व्यचि॑ष्ठे बहु॒पाय्ये॒ यते᳚महि स्व॒राज्ये᳚ ||{4.4.4.6}, {5.66.6}, {5.5.10.6}
[59] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणौ देवते | अनुष्टुप् छन्दः ||
505 बळि॒त्था दे᳚व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् |

वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा᳚शाथे ||{4.4.5.1}, {5.67.1}, {5.5.11.1}
506 आ यद्योनिं᳚ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः |

ध॒र्तारा᳚ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ||{4.4.5.2}, {5.67.2}, {5.5.11.2}
507 विश्वे॒ हि वि॒श्ववे᳚दसो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं᳚ रि॒षः ||{4.4.5.3}, {5.67.3}, {5.5.11.3}
508 ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा᳚नो॒ जने᳚जने |

सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ||{4.4.5.4}, {5.67.4}, {5.5.11.4}
509 को नु वां᳚ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना᳚म् |

तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ||{4.4.5.5}, {5.67.5}, {5.5.11.5}
[60] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणो देवते | ३२६ अक् वेद गायत्री छन्दः ||
510 प्र वो᳚ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा |

महि॑क्षत्रावृ॒तं बृ॒हत् ||{4.4.6.1}, {5.68.1}, {5.5.12.1}
511 स॒म्राजा॒ या घृ॒तयो᳚नी मि॒त्रश्चो॒भा वरु॑णश्च |

दे॒वा दे॒वेषु॑ प्रश॒स्ता ||{4.4.6.2}, {5.68.2}, {5.5.12.2}
512 ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ |

महि॑ वां क्ष॒त्रं दे॒वेषु॑ ||{4.4.6.3}, {5.68.3}, {5.5.12.3}
513 ऋ॒तमृ॒तेन॒ सप᳚न्तेषि॒रं दक्ष॑माशाते |

अ॒द्रुहा᳚ दे॒वौ व॑र्धेते ||{4.4.6.4}, {5.68.4}, {5.5.12.4}
514 वृ॒ष्टिद्या᳚वा री॒त्या᳚पे॒षस्पती॒ दानु॑मत्याः |

बृ॒हन्तं॒ गर्त॑माशाते ||{4.4.6.5}, {5.68.5}, {5.5.12.5}
[61] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
515 त्री रो᳚च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां᳚सि |

वा॒वृ॒धा॒नाव॒मतिं᳚ क्ष॒त्रिय॒स्यानु᳚ व्र॒तं रक्ष॑माणावजु॒र्यम् ||{4.4.7.1}, {5.69.1}, {5.5.13.1}
516 इरा᳚वतीर्वरुण धे॒नवो᳚ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे |

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा᳚नां रेतो॒धा वि द्यु॒मन्तः॑ ||{4.4.7.2}, {5.69.2}, {5.5.13.2}
517 प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |

रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे᳚ तो॒काय॒ तन॑याय॒ शं योः ||{4.4.7.3}, {5.69.3}, {5.5.13.3}
518 या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य |

न वां᳚ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ||{4.4.7.4}, {5.69.4}, {5.5.13.4}
[62] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | गायत्री छन्दः ||
519 पु॒रू॒रुणा᳚ चि॒द्ध्यस्त्यवो᳚ नू॒नं वां᳚ वरुण |

मित्र॒ वंसि॑ वां सुम॒तिम् ||{4.4.8.1}, {5.70.1}, {5.5.14.1}
520 ता वां᳚ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से |

व॒यं ते रु॑द्रा स्याम ||{4.4.8.2}, {5.70.2}, {5.5.14.2}
521 पा॒तं नो᳚ रुद्रा पा॒युभि॑रु॒त त्रा᳚येथां सुत्रा॒त्रा |

तु॒र्याम॒ दस्यू᳚न्त॒नूभिः॑ ||{4.4.8.3}, {5.70.3}, {5.5.14.3}
522 मा कस्या᳚द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ |

मा शेष॑सा॒ मा तन॑सा ||{4.4.8.4}, {5.70.4}, {5.5.14.4}
[63] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणो देवते | गायत्री छन्दः ||
523 आ नो᳚ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा᳚ |

उपे॒मं चारु॑मध्व॒रम् ||{4.4.9.1}, {5.71.1}, {5.5.15.1}
524 विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः |

ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{4.4.9.2}, {5.71.2}, {5.5.15.2}
525 उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{4.4.9.3}, {5.71.3}, {5.5.15.3}
[64] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणौ देवते | उष्णिक् छन्दः ||
526 आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् |

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{4.4.10.1}, {5.72.1}, {5.5.16.1}
527 व्र॒तेन॑ स्थो ध्रु॒वक्षे᳚मा॒ धर्म॑णा यात॒यज्ज॑ना |

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{4.4.10.2}, {5.72.2}, {5.5.16.2}
528 मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां᳚ य॒ज्ञमि॒ष्टये᳚ |

नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ||{4.4.10.3}, {5.72.3}, {5.5.16.3}
[65] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप् छन्द ||
529 यद॒द्य स्थः प॑रा॒वति॒ यद᳚र्वा॒वत्य॑श्विना |

यद्वा᳚ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ||{4.4.11.1}, {5.73.1}, {5.6.1.1}
530 इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां᳚सि॒ बिभ्र॑ता |

व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ||{4.4.11.2}, {5.73.2}, {5.6.1.2}
531 ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः |

पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां᳚सि दीयथः ||{4.4.11.3}, {5.73.3}, {5.6.1.3}
532 तदू॒ षु वा᳚मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे᳚ |

नाना᳚ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ||{4.4.11.4}, {5.73.4}, {5.6.1.4}
533 आ यद्वां᳚ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा᳚ |

परि॑ वामरु॒षा वयो᳚ घृ॒णा व॑रन्त आ॒तपः॑ ||{4.4.11.5}, {5.73.5}, {5.6.1.5}
534 यु॒वोरत्रि॑श्चिकेतति॒ नरा᳚ सु॒म्नेन॒ चेत॑सा |

घ॒र्मं यद्वा᳚मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ||{4.4.12.1}, {5.73.6}, {5.6.1.6}
535 उ॒ग्रो वां᳚ ककु॒हो य॒यिः शृ॒ण्वे यामे᳚षु संत॒निः |

यद्वां॒ दंसो᳚भिरश्वि॒नात्रि᳚र्नराव॒वर्त॑ति ||{4.4.12.2}, {5.73.7}, {5.6.1.7}
536 मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी᳚ |

यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो᳚ भरन्त वाम् ||{4.4.12.3}, {5.73.8}, {5.6.1.8}
537 स॒त्यमिद्वा उ॑ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚ |

ता याम᳚न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ||{4.4.12.4}, {5.73.9}, {5.6.1.9}
538 इ॒मा ब्रह्मा᳚णि॒ वर्ध॑ना॒श्विभ्यां᳚ सन्तु॒ शंत॑मा |

या तक्षा᳚म॒ रथाँ᳚ इ॒वावो᳚चाम बृ॒हन्नमः॑ ||{4.4.12.5}, {5.73.10}, {5.6.1.10}
[66] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप्, छन्दः ||
539 कूष्ठो᳚ देवावश्विना॒द्या दि॒वो म॑नावसू |

तच्छ्र॑वथो वृषण्वसू॒ अत्रि᳚र्वा॒मा वि॑वासति ||{4.4.13.1}, {5.74.1}, {5.6.2.1}
540 कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या |

कस्मि॒न्ना य॑तथो॒ जने॒ को वां᳚ न॒दीनां॒ सचा᳚ ||{4.4.13.2}, {5.74.2}, {5.6.2.2}
541 कं या᳚थः॒ कं ह॑ गच्छथः॒ कमच्छा᳚ युञ्जाथे॒ रथ᳚म् |

कस्य॒ ब्रह्मा᳚णि रण्यथो व॒यं वा᳚मुश्मसी॒ष्टये᳚ ||{4.4.13.3}, {5.74.3}, {5.6.2.3}
542 पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः |

यदीं᳚ गृभी॒तता᳚तये सिं॒हमि॑व द्रु॒हस्प॒दे ||{4.4.13.4}, {5.74.4}, {5.6.2.4}
543 प्र च्यवा᳚नाज्जुजु॒रुषो᳚ व॒व्रिमत्कं॒ न मु᳚ञ्चथः |

युवा॒ यदी᳚ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ||{4.4.13.5}, {5.74.5}, {5.6.2.5}
544 अस्ति॒ हि वा᳚मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये |

नू श्रु॒तं म॒ आ ग॑त॒मवो᳚भिर्वाजिनीवसू ||{4.4.14.1}, {5.74.6}, {5.6.2.6}
545 को वा᳚म॒द्य पु॑रू॒णामा व᳚व्ने॒ मर्त्या᳚नाम् |

को विप्रो᳚ विप्रवाहसा॒ को य॒ज्ञैर्वा᳚जिनीवसू ||{4.4.14.2}, {5.74.7}, {5.6.2.7}
546 आ वां॒ रथो॒ रथा᳚नां॒ येष्ठो᳚ यात्वश्विना |

पु॒रू चि॑दस्म॒युस्ति॒र आ᳚ङ्गू॒षो मर्त्ये॒ष्वा ||{4.4.14.3}, {5.74.8}, {5.6.2.8}
547 शमू॒ षु वां᳚ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः |

अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम् ||{4.4.14.4}, {5.74.9}, {5.6.2.9}
548 अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव᳚म् |

वस्वी᳚रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ||{4.4.14.5}, {5.74.10}, {5.6.2.10}
[67] (१-९) नवर्चस्य सूक्तस्य आत्रेयोऽवस्यु ऋषिः | अश्विनौ देवते | पतिश्छन्दः ||
549 प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् |

स्तो॒ता वा᳚मश्विना॒वृषिः॒ स्तोमे᳚न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.15.1}, {5.75.1}, {5.6.3.1}
550 अ॒त्याया᳚तमश्विना ति॒रो विश्वा᳚ अ॒हं सना᳚ |

दस्रा॒ हिर᳚ण्यवर्तनी॒ सुषु᳚म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.15.2}, {5.75.2}, {5.6.3.2}
551 आ नो॒ रत्ना᳚नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् |

रुद्रा॒ हिर᳚ण्यवर्तनी जुषा॒णा वा᳚जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.15.3}, {5.75.3}, {5.6.3.3}
552 सु॒ष्टुभो᳚ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता |

उ॒त वां᳚ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.15.4}, {5.75.4}, {5.6.3.4}
553 बो॒धिन्म॑नसा र॒थ्ये᳚षि॒रा ह॑वन॒श्रुता᳚ |

विभि॒श्च्यवा᳚नमश्विना॒ नि या᳚थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.15.5}, {5.75.5}, {5.6.3.5}
554 आ वां᳚ नरा मनो॒युजोऽश्वा᳚सः प्रुषि॒तप्स॑वः |

वयो᳚ वहन्तु पी॒तये᳚ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.16.1}, {5.75.6}, {5.6.3.6}
555 अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |

ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या᳚तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.16.2}, {5.75.7}, {5.6.3.7}
556 अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं᳚ शुभस्पती |

अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.16.3}, {5.75.8}, {5.6.3.8}
557 अभू᳚दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |

अयो᳚जि वां वृषण्वसू॒ रथो᳚ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4.4.16.4}, {5.75.9}, {5.6.3.9}
[68] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
558 आ भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्विप्रा᳚णां देव॒या वाचो᳚ अस्थुः |

अ॒र्वाञ्चा᳚ नू॒नं र॑थ्ये॒ह या᳚तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ||{4.4.17.1}, {5.76.1}, {5.6.4.1}
559 न सं᳚स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठान्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह |

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ||{4.4.17.2}, {5.76.2}, {5.6.4.2}
560 उ॒ता या᳚तं संग॒वे प्रा॒तरह्नो᳚ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |

दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं᳚ पी॒तिर॒श्विना त॑तान ||{4.4.17.3}, {5.76.3}, {5.6.4.3}
561 इ॒दं हि वां᳚ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम् |

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या᳚त॒मिष॒मूर्जं॒ वह᳚न्ता ||{4.4.17.4}, {5.76.4}, {5.6.4.4}
562 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{4.4.17.5}, {5.76.5}, {5.6.4.5}
[69] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
563 प्रा॒त॒र्यावा᳚णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः |

प्रा॒तर्हि य॒ज्ञम॒श्विना᳚ द॒धाते॒ प्र शं᳚सन्ति क॒वयः॑ पूर्व॒भाजः॑ ||{4.4.18.1}, {5.77.1}, {5.6.5.1}
564 प्रा॒तर्य॑जध्वम॒श्विना᳚ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् |

उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी᳚यान् ||{4.4.18.2}, {5.77.2}, {5.6.5.2}
565 हिर᳚ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो᳚ वर्तते वाम् |

मनो᳚जवा अश्विना॒ वात॑रंहा॒ येना᳚तिया॒थो दु॑रि॒तानि॒ विश्वा᳚ ||{4.4.18.3}, {5.77.3}, {5.6.5.3}
566 यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे |

स तो॒कम॑स्य पीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ||{4.4.18.4}, {5.77.4}, {5.6.5.4}
567 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{4.4.18.5}, {5.77.5}, {5.6.5.5}
[70] (१-९) नवर्चस्य सूक्तस्य आत्रेयः सप्तवध्रि ऋषिः | अश्विनौ देवते | (१-३) प्रथमादितृचस्योष्णिक्, (४) चतुर्थ्या चस्त्रिष्टुप्, (५-९) पञ्चम्यादिपञ्चानाञ्चानुष्टप छन्दांसि ||
568 अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ||{4.4.19.1}, {5.78.1}, {5.6.6.1}
569 अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम् |

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ||{4.4.19.2}, {5.78.2}, {5.6.6.2}
570 अश्वि॑ना वाजिनीवसू जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ |

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ||{4.4.19.3}, {5.78.3}, {5.6.6.3}
571 अत्रि॒र्यद्वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒ योषा᳚ |

श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ||{4.4.19.4}, {5.78.4}, {5.6.6.4}
572 वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्य᳚न्त्या इव |

श्रु॒तं मे᳚ अश्विना॒ हवं᳚ स॒प्तव॑ध्रिं च मुञ्चतम् ||{4.4.20.1}, {5.78.5}, {5.6.6.5}
573 भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये |

मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा᳚चथः ||{4.4.20.2}, {5.78.6}, {5.6.6.6}
574 यथा॒ वातः॑ पुष्क॒रिणीं᳚ समि॒ङ्गय॑ति स॒र्वतः॑ |

ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ||{4.4.20.3}, {5.78.7}, {5.6.6.7}
575 यथा॒ वातो॒ यथा॒ वनं॒ यथा᳚ समु॒द्र एज॑ति |

ए॒वा त्वं द॑शमास्य स॒हावे᳚हि ज॒रायु॑णा ||{4.4.20.4}, {5.78.8}, {5.6.6.8}
576 दश॒ मासा᳚ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ |

नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव᳚न्त्या॒ अधि॑ ||{4.4.20.5}, {5.78.9}, {5.6.6.9}
[71] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | प‌ङ्क्तिश्छन्दः ||
577 म॒हे नो᳚ अ॒द्य बो᳚ध॒योषो᳚ रा॒ये दि॒वित्म॑ती |

यथा᳚ चिन्नो॒ अबो᳚धयः स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.21.1}, {5.79.1}, {5.6.7.1}
578 या सु॑नी॒थे शौ᳚चद्र॒थे व्यौच्छो᳚ दुहितर्दिवः |

सा व्यु॑च्छ॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.21.2}, {5.79.2}, {5.6.7.2}
579 सा नो᳚ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः |

यो व्यौच्छः॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.21.3}, {5.79.3}, {5.6.7.3}
580 अ॒भि ये त्वा᳚ विभावरि॒ स्तोमै᳚र्गृ॒णन्ति॒ वह्न॑यः |

म॒घैर्म॑घोनि सु॒श्रियो॒ दाम᳚न्वन्तः सुरा॒तयः॒ सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.21.4}, {5.79.4}, {5.6.7.4}
581 यच्चि॒द्धि ते᳚ ग॒णा इ॒मे छ॒दय᳚न्ति म॒घत्त॑ये |

परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.21.5}, {5.79.5}, {5.6.7.5}
582 ऐषु॑ धा वी॒रव॒द्यश॒ उषो᳚ मघोनि सू॒रिषु॑ |

ये नो॒ राधां॒स्यह्र॑या म॒घवा᳚नो॒ अरा᳚सत॒ सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.22.1}, {5.79.6}, {5.6.7.6}
583 तेभ्यो᳚ द्यु॒म्नं बृ॒हद्यश॒ उषो᳚ मघो॒न्या व॑ह |

ये नो॒ राधां॒स्यश्व्या᳚ ग॒व्या भज᳚न्त सू॒रयः॒ सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.22.2}, {5.79.7}, {5.6.7.7}
584 उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः |

सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.22.3}, {5.79.8}, {5.6.7.8}
585 व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ |

नेत्त्वा᳚ स्ते॒नं यथा᳚ रि॒पुं तपा᳚ति॒ सूरो᳚ अ॒र्चिषा॒ सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.22.4}, {5.79.9}, {5.6.7.9}
586 ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो᳚ वा॒ दातु॑मर्हसि |

या स्तो॒तृभ्यो᳚ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा᳚ते॒ अश्व॑सूनृते ||{4.4.22.5}, {5.79.10}, {5.6.7.10}
[72] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
587 द्यु॒तद्या᳚मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं᳚ विभा॒तीम् |

दे॒वीमु॒षसं॒ स्व॑रा॒वह᳚न्तीं॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्जरन्ते ||{4.4.23.1}, {5.80.1}, {5.6.8.1}
588 ए॒षा जनं᳚ दर्श॒ता बो॒धय᳚न्ती सु॒गान्प॒थः कृ᳚ण्व॒ती या॒त्यग्रे᳚ |

बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति᳚र्यच्छ॒त्यग्रे॒ अह्ना᳚म् ||{4.4.23.2}, {5.80.2}, {5.6.8.2}
589 ए॒षा गोभि॑ररु॒णेभि᳚र्युजा॒नास्रे᳚धन्ती र॒यिमप्रा᳚यु चक्रे |

प॒थो रद᳚न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा᳚रा॒ वि भा᳚ति ||{4.4.23.3}, {5.80.3}, {5.6.8.3}
590 ए॒षा व्ये᳚नी भवति द्वि॒बर्हा᳚ आविष्कृण्वा॒ना त॒न्वं᳚ पु॒रस्ता᳚त् |

ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{4.4.23.4}, {5.80.4}, {5.6.8.4}
591 ए॒षा शु॒भ्रा न त॒न्वो᳚ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये᳚ नो अस्थात् |

अप॒ द्वेषो॒ बाध॑माना॒ तमां᳚स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा᳚त् ||{4.4.23.5}, {5.80.5}, {5.6.8.5}
592 ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे᳚व भ॒द्रा नि रि॑णीते॒ अप्सः॑ |

व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या᳚णि॒ पुन॒र्ज्योति᳚र्युव॒तिः पू॒र्वथा᳚कः ||{4.4.23.6}, {5.80.6}, {5.6.8.6}
[73] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | जगती छन्दः ||
593 यु॒ञ्जते॒ मन॑ उ॒त यु᳚ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ |

वि होत्रा᳚ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ||{4.4.24.1}, {5.81.1}, {5.6.9.1}
594 विश्वा᳚ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा᳚वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे |

वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा᳚जति ||{4.4.24.2}, {5.81.2}, {5.6.9.2}
595 यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा |

यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां᳚सि दे॒वः स॑वि॒ता म॑हित्व॒ना ||{4.4.24.3}, {5.81.3}, {5.6.9.3}
596 उ॒त या᳚सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि |

उ॒त रात्री᳚मुभ॒यतः॒ परी᳚यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ||{4.4.24.4}, {5.81.4}, {5.6.9.4}
597 उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः |

उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा᳚जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ||{4.4.24.5}, {5.81.5}, {5.6.9.5}
[74] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | (१) प्रथमर्चोऽनुष्टुप्, (२-९) द्वितीयाद्यष्टानाञ्च गायत्री छन्दसी ||
598 तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् |

श्रेष्ठं᳚ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ||{4.4.25.1}, {5.82.1}, {5.6.10.1}
599 अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् |

न मि॒नन्ति॑ स्व॒राज्य᳚म् ||{4.4.25.2}, {5.82.2}, {5.6.10.2}
600 स हि रत्ना᳚नि दा॒शुषे᳚ सु॒वाति॑ सवि॒ता भगः॑ |

तं भा॒गं चि॒त्रमी᳚महे ||{4.4.25.3}, {5.82.3}, {5.6.10.3}
601 अ॒द्या नो᳚ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् |

परा᳚ दु॒ष्ष्वप्न्यं᳚ सुव ||{4.4.25.4}, {5.82.4}, {5.6.10.4}
602 विश्वा᳚नि देव सवितर्दुरि॒तानि॒ परा᳚ सुव |

यद्भ॒द्रं तन्न॒ आ सु॑व ||{4.4.25.5}, {5.82.5}, {5.6.10.5}
603 अना᳚गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे |

विश्वा᳚ वा॒मानि॑ धीमहि ||{4.4.26.1}, {5.82.6}, {5.6.10.6}
604 आ वि॒श्वदे᳚वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे |

स॒त्यस॑वं सवि॒तार᳚म् ||{4.4.26.2}, {5.82.7}, {5.6.10.7}
605 य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् |

स्वा॒धीर्दे॒वः स॑वि॒ता ||{4.4.26.3}, {5.82.8}, {5.6.10.8}
606 य इ॒मा विश्वा᳚ जा॒तान्या᳚श्रा॒वय॑ति॒ श्लोके᳚न |

प्र च॑ सु॒वाति॑ सवि॒ता ||{4.4.26.4}, {5.82.9}, {5.6.10.9}
[75] (१-१०) दशर्चस्य सूक्तस्य भौमोऽत्रिषिः, पर्जन्यो देवता | (१, ५-८, १०) प्रथमर्चः पञ्चम्यादिचतसृणां दशम्याश्च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती (९) नवम्याश्चानुष्टप् छन्दांसि ||
607 अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास |

कनि॑क्रदद्वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष॑धीषु॒ गर्भ᳚म् ||{4.4.27.1}, {5.83.1}, {5.6.11.1}
608 वि वृ॒क्षान्ह᳚न्त्यु॒त ह᳚न्ति र॒क्षसो॒ विश्वं᳚ बिभाय॒ भुव॑नं म॒हाव॑धात् |

उ॒ताना᳚गा ईषते॒ वृष्ण्या᳚वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ||{4.4.27.2}, {5.83.2}, {5.6.11.2}
609 र॒थीव॒ कश॒याश्वाँ᳚ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ |

दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी᳚रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्य१॑(अ॒) अंनभः॑ ||{4.4.27.3}, {5.83.3}, {5.6.11.3}
610 प्र वाता॒ वान्ति॑ प॒तय᳚न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ |

इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ||{4.4.27.4}, {5.83.4}, {5.6.11.4}
611 यस्य᳚ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य᳚ व्र॒ते श॒फव॒ज्जर्भु॑रीति |

यस्य᳚ व्र॒त ओष॑धीर्वि॒श्वरू᳚पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{4.4.27.5}, {5.83.5}, {5.6.11.5}
612 दि॒वो नो᳚ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः᳚ |

अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ||{4.4.28.1}, {5.83.6}, {5.6.11.6}
613 अ॒भि क्र᳚न्द स्त॒नय॒ गर्भ॒मा धा᳚ उद॒न्वता॒ परि॑ दीया॒ रथे᳚न |

दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य᳚ञ्चं स॒मा भ॑वन्तू॒द्वतो᳚ निपा॒दाः ||{4.4.28.2}, {5.83.7}, {5.6.11.7}
614 म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि᳚ञ्च॒ स्यन्द᳚न्तां कु॒ल्या विषि॑ताः पु॒रस्ता᳚त् |

घृ॒तेन॒ द्यावा᳚पृथि॒वी व्यु᳚न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ||{4.4.28.3}, {5.83.8}, {5.6.11.8}
615 यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ |

प्रती॒दं विश्वं᳚ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ||{4.4.28.4}, {5.83.9}, {5.6.11.9}
616 अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये᳚त॒वा उ॑ |

अजी᳚जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो᳚ऽविदो मनी॒षाम् ||{4.4.28.5}, {5.83.10}, {5.6.11.10}
[76] (१-३) तृचस्य सूक्तस्य भौमोऽत्रिषिः, पृथिवी देवता | अनुष्टुप् छन्दः ||
617 बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि |

प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ||{4.4.29.1}, {5.84.1}, {5.6.12.1}
618 स्तोमा᳚सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ |

प्र या वाजं॒ न हेष᳚न्तं पे॒रुमस्य॑स्यर्जुनि ||{4.4.29.2}, {5.84.2}, {5.6.12.2}
619 दृ॒ळ्हा चि॒द्या वन॒स्पती᳚न्क्ष्म॒या दर्ध॒र्ष्योज॑सा |

यत्ते᳚ अ॒भ्रस्य॑ वि॒द्युतो᳚ दि॒वो वर्ष᳚न्ति वृ॒ष्टयः॑ ||{4.4.29.3}, {5.84.3}, {5.6.12.3}
[77] (१-८) अष्टर्चस्य सूक्तस्य भौमोऽत्रिषिः, वरुणो देवता | त्रिष्टुप् छन्दः ||
620 प्र स॒म्राजे᳚ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ |

वि यो ज॒घान॑ शमि॒तेव॒ चर्मो᳚प॒स्तिरे᳚ पृथि॒वीं सूर्या᳚य ||{4.4.30.1}, {5.85.1}, {5.6.13.1}
621 वने᳚षु॒ व्य१॑(अ॒)'न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया᳚सु |

हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॑(अ॒)ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ᳚ ||{4.4.30.2}, {5.85.2}, {5.6.13.2}
622 नी॒चीन॑बारं॒ वरु॑णः॒ कव᳚न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् |

तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ||{4.4.30.3}, {5.85.3}, {5.6.13.3}
623 उ॒नत्ति॒ भूमिं᳚ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् |

सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ||{4.4.30.4}, {5.85.4}, {5.6.13.4}
624 इ॒मामू॒ ष्वा᳚सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो᳚चम् |

माने᳚नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये᳚ण ||{4.4.30.5}, {5.85.5}, {5.6.13.5}
625 इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष |

एकं॒ यदु॒द्ना न पृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यः समु॒द्रम् ||{4.4.31.1}, {5.85.6}, {5.6.13.6}
626 अ॒र्य॒म्यं᳚ वरुण मि॒त्र्यं᳚ वा॒ सखा᳚यं वा॒ सद॒मिद्भ्रात॑रं वा |

वे॒शं वा॒ नित्यं᳚ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ||{4.4.31.2}, {5.85.7}, {5.6.13.7}
627 कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म |

सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा᳚ ते स्याम वरुण प्रि॒यासः॑ ||{4.4.31.3}, {5.85.8}, {5.6.13.8}
[78] (१-६) षळृर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्राग्नी देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टप् (६) षष्ठ्याश्च विराट्प छन्दसी ||
628 इन्द्रा᳚ग्नी॒ यमव॑थ उ॒भा वाजे᳚षु॒ मर्त्य᳚म् |

दृ॒ळ्हा चि॒त्स प्र भे᳚दति द्यु॒म्ना वाणी᳚रिव त्रि॒तः ||{4.4.32.1}, {5.86.1}, {5.6.14.1}
629 या पृत॑नासु दु॒ष्टरा॒ या वाजे᳚षु श्र॒वाय्या᳚ |

या पञ्च॑ चर्ष॒णीर॒भी᳚न्द्रा॒ग्नी ता ह॑वामहे ||{4.4.32.2}, {5.86.2}, {5.6.14.2}
630 तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः᳚ |

प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां᳚ वृत्र॒घ्न एष॑ते ||{4.4.32.3}, {5.86.3}, {5.6.14.3}
631 ता वा॒मेषे॒ रथा᳚नामिन्द्रा॒ग्नी ह॑वामहे |

पती᳚ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ||{4.4.32.4}, {5.86.4}, {5.6.14.4}
632 ता वृ॒धन्ता॒वनु॒ द्यून्मर्ता᳚य दे॒वाव॒दभा᳚ |

अर्ह᳚न्ता चित्पु॒रो द॒धेंऽशे᳚व दे॒वावर्व॑ते ||{4.4.32.5}, {5.86.5}, {5.6.14.5}
633 ए॒वेन्द्रा॒ग्निभ्या॒महा᳚वि ह॒व्यं शू॒ष्यं᳚ घृ॒तं न पू॒तमद्रि॑भिः |

ता सू॒रिषु॒ श्रवो᳚ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं᳚ गृ॒णत्सु॑ दिधृतम् ||{4.4.32.6}, {5.86.6}, {5.6.14.6}
[79] (१-९) नवर्चस्य सूक्तस्यात्रेय एवयामरुदृषिः मरुतो देवताः | अतिजगती छन्दः ||
634 प्र वो᳚ म॒हे म॒तयो᳚ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए᳚व॒याम॑रुत् |

प्र शर्धा᳚य॒ प्रय॑ज्यवे सुखा॒दये᳚ त॒वसे᳚ भ॒न्ददि॑ष्टये॒ धुनि᳚व्रताय॒ शव॑से ||{4.4.33.1}, {5.87.1}, {5.6.15.1}
635 प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना᳚ ब्रु॒वत॑ एव॒याम॑रुत् |

क्रत्वा॒ तद्वो᳚ मरुतो॒ नाधृषे॒ शवो᳚ दा॒ना म॒ह्ना तदे᳚षा॒मधृ॑ष्टासो॒ नाद्र॑यः ||{4.4.33.2}, {5.87.2}, {5.6.15.2}
636 प्र ये दि॒वो बृ॑ह॒तः शृ᳚ण्वि॒रे गि॒रा सु॒शुक्वा᳚नः सु॒भ्व॑ एव॒याम॑रुत् |

न येषा॒मिरी᳚ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्य॒न्द्रासो॒ धुनी᳚नाम् ||{4.4.33.3}, {5.87.3}, {5.6.15.3}
637 स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् |

य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा᳚ति॒ शेवृ॑धो॒ नृभिः॑ ||{4.4.33.4}, {5.87.4}, {5.6.15.4}
638 स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा᳚ त्वे॒षो य॒यिस्त॑वि॒ष ए᳚व॒याम॑रुत् |

येना॒ सह᳚न्त ऋ॒ञ्जत॒ स्वरो᳚चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः᳚ स्वायु॒धास॑ इ॒ष्मिणः॑ ||{4.4.33.5}, {5.87.5}, {5.6.15.5}
639 अ॒पा॒रो वो᳚ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो᳚ऽवत्वेव॒याम॑रुत् |

स्थाता᳚रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ||{4.4.34.1}, {5.87.6}, {5.6.15.6}
640 ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो᳚ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् |

दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ||{4.4.34.2}, {5.87.7}, {5.6.15.7}
641 अ॒द्वे॒षो नो᳚ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं᳚ जरि॒तुरे᳚व॒याम॑रुत् |

विष्णो᳚र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॑(ओ॒) न दं॒सनाप॒ द्वेषां᳚सि सनु॒तः ||{4.4.34.3}, {5.87.8}, {5.6.15.8}
642 गन्ता᳚ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए᳚व॒याम॑रुत् |

ज्येष्ठा᳚सो॒ न पर्व॑तासो॒ व्यो᳚मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ||{4.4.34.4}, {5.87.9}, {5.6.15.9}
[80] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
643 त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता᳚ |

त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ||{4.4.35.1}, {6.1.1}, {6.1.1.1}
644 अधा॒ होता॒ न्य॑सीदो॒ यजी᳚यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् |

तं त्वा॒ नरः॑ प्रथ॒मं दे᳚व॒यन्तो᳚ म॒हो रा॒ये चि॒तय᳚न्तो॒ अनु॑ ग्मन् ||{4.4.35.2}, {6.1.2}, {6.1.1.2}
645 वृ॒तेव॒ यन्तं᳚ ब॒हुभि᳚र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा᳚गृ॒वांसो॒ अनु॑ ग्मन् |

रुश᳚न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म् ||{4.4.35.3}, {6.1.3}, {6.1.1.3}
646 प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् |

नामा᳚नि चिद्दधिरे य॒ज्ञिया᳚नि भ॒द्रायां᳚ ते रणयन्त॒ संदृ॑ष्टौ ||{4.4.35.4}, {6.1.4}, {6.1.1.4}
647 त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया᳚सो॒ जना᳚नाम् |

त्वं त्रा॒ता त॑रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ||{4.4.35.5}, {6.1.5}, {6.1.1.5}
648 स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॑(अ॒)ग्निर्होता᳚ म॒न्द्रो नि ष॑सादा॒ यजी᳚यान् |

तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ||{4.4.36.1}, {6.1.6}, {6.1.1.6}
649 तं त्वा᳚ व॒यं सु॒ध्यो॒३॑(ओ॒) नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ |

त्वं विशो᳚ अनयो॒ दीद्या᳚नो दि॒वो अ॑ग्ने बृह॒ता रो᳚च॒नेन॑ ||{4.4.36.2}, {6.1.7}, {6.1.1.7}
650 वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् |

प्रेती᳚षणिमि॒षय᳚न्तं पाव॒कं राज᳚न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ||{4.4.36.3}, {6.1.8}, {6.1.1.8}
651 सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा᳚ ह॒व्यदा᳚तिम् |

य आहु॑तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ||{4.4.36.4}, {6.1.9}, {6.1.1.9}
652 अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो᳚भिरग्ने स॒मिधो॒त ह॒व्यैः |

वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य॑तेम ||{4.4.36.5}, {6.1.10}, {6.1.1.10}
653 आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो᳚भिश्च श्रव॒स्य१॑(अ॒)स्तरु॑त्रः |

बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा᳚हि ||{4.4.36.6}, {6.1.11}, {6.1.1.11}
654 नृ॒वद्व॑सो॒ सद॒मिद्धे᳚ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः |

पू॒र्वीरिषो᳚ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{4.4.36.7}, {6.1.12}, {6.1.1.12}
655 पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू᳚नि राजन्व॒सुता᳚ ते अश्याम् |

पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ||{4.4.36.8}, {6.1.13}, {6.1.1.13}
[81] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-१०) प्रथमादिदशर्चामनुष्टुप्, (११) एकादश्याश्च शक्वरी छन्दसी ||
656 त्वं हि क्षैत॑व॒द्यशोऽग्ने᳚ मि॒त्रो न पत्य॑से |

त्वं वि॑चर्षणे॒ श्रवो॒ वसो᳚ पु॒ष्टिं न पु॑ष्यसि ||{4.5.1.1}, {6.2.1}, {6.1.2.1}
657 त्वां हि ष्मा᳚ चर्ष॒णयो᳚ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |

त्वां वा॒जी या᳚त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ||{4.5.1.2}, {6.2.2}, {6.1.2.2}
658 स॒जोष॑स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य॑ के॒तुमि᳚न्धते |

यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ||{4.5.1.3}, {6.2.3}, {6.1.2.3}
659 ऋध॒द्यस्ते᳚ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते |

ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ||{4.5.1.4}, {6.2.4}, {6.1.2.4}
660 स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् |

व॒याव᳚न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ||{4.5.1.5}, {6.2.5}, {6.1.2.5}
661 त्वे॒षस्ते᳚ धू॒म ऋ᳚ण्वति दि॒वि षञ्छु॒क्र आत॑तः |

सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा᳚वक॒ रोच॑से ||{4.5.2.1}, {6.2.6}, {6.1.2.6}
662 अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः |

र॒ण्वः पु॒री᳚व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ||{4.5.2.2}, {6.2.7}, {6.1.2.7}
663 क्रत्वा॒ हि द्रोणे᳚ अ॒ज्यसेऽग्ने᳚ वा॒जी न कृत्व्यः॑ |

परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ||{4.5.2.3}, {6.2.8}, {6.1.2.8}
664 त्वं त्या चि॒दच्यु॒ताग्ने᳚ प॒शुर्न यव॑से |

धामा᳚ ह॒ यत्ते᳚ अजर॒ वना᳚ वृ॒श्चन्ति॒ शिक्व॑सः ||{4.5.2.4}, {6.2.9}, {6.1.2.9}
665 वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे᳚ वि॒शाम् |

स॒मृधो᳚ विश्पते कृणु जु॒षस्व॑ ह॒व्यम᳚ङ्गिरः ||{4.5.2.5}, {6.2.10}, {6.1.2.10}
666 अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{4.5.2.6}, {6.2.11}, {6.1.2.11}
[82] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
667 अग्ने॒ स क्षे᳚षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚ |

यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ||{4.5.3.1}, {6.3.1}, {6.1.3.1}
668 ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश |

ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ॑प्तिः ||{4.5.3.2}, {6.3.2}, {6.1.3.2}
669 सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः |

हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा᳚ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ||{4.5.3.3}, {6.3.3}, {6.1.3.3}
670 ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा |

वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष॑त् ||{4.5.3.4}, {6.3.4}, {6.1.3.4}
671 स इदस्ते᳚व॒ प्रति॑ धादसि॒ष्यञ्छिशी᳚त॒ तेजोऽय॑सो॒ न धारा᳚म् |

चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा᳚ रघु॒पत्म॑जंहाः ||{4.5.3.5}, {6.3.5}, {6.1.3.5}
672 स ईं᳚ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा᳚ रारपीति मि॒त्रम॑हाः |

नक्तं॒ य ई᳚मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ||{4.5.4.1}, {6.3.6}, {6.1.3.6}
673 दि॒वो न यस्य॑ विध॒तो नवी᳚नो॒द्वृषा᳚ रु॒क्ष ओष॑धीषु नूनोत् |

घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी᳚ ||{4.5.4.2}, {6.3.7}, {6.1.3.7}
674 धायो᳚भिर्वा॒ यो युज्ये᳚भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः᳚ |

शर्धो᳚ वा॒ यो म॒रुतां᳚ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ||{4.5.4.3}, {6.3.8}, {6.1.3.8}
[83] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
675 यथा᳚ होत॒र्मनु॑षो दे॒वता᳚ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा᳚सि |

ए॒वा नो᳚ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ||{4.5.5.1}, {6.4.1}, {6.1.4.1}
676 स नो᳚ वि॒भावा᳚ च॒क्षणि॒र्न वस्तो᳚र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो᳚ धात् |

वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये᳚षूष॒र्भुद्भूदति॑थिर्जा॒तवे᳚दाः ||{4.5.5.2}, {6.4.2}, {6.1.4.2}
677 द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां᳚सि वस्ते॒ सूर्यो॒ न शु॒क्रः |

वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ||{4.5.5.3}, {6.4.3}, {6.1.4.3}
678 व॒द्मा हि सू᳚नो॒ अस्य॑द्म॒सद्वा᳚ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |

स त्वं न॑ ऊर्जसन॒ ऊर्जं᳚ धा॒ राजे᳚व जेरवृ॒के क्षे᳚ष्य॒न्तः ||{4.5.5.4}, {6.4.4}, {6.1.4.4}
679 निति॑क्ति॒ यो वा᳚र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये᳚त्य॒क्तून् |

तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा᳚ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ||{4.5.5.5}, {6.4.5}, {6.1.4.5}
680 आ सूर्यो॒ न भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा |

चि॒त्रो न॑य॒त्परि॒ तमां᳚स्य॒क्तः शो॒चिषा॒ पत्म᳚न्नौशि॒जो न दीय॑न् ||{4.5.6.1}, {6.4.6}, {6.1.4.6}
681 त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने |

इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता᳚ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ||{4.5.6.2}, {6.4.7}, {6.1.4.7}
682 नू नो᳚ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ |

ता सू॒रिभ्यो᳚ गृण॒ते रा᳚सि सु॒म्नं मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{4.5.6.3}, {6.4.8}, {6.1.4.8}
[84] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
683 हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा᳚न॒मद्रो᳚घवाचं म॒तिभि॒र्यवि॑ष्ठम् |

य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚ अ॒ध्रुक् ||{4.5.7.1}, {6.5.1}, {6.1.5.1}
684 त्वे वसू᳚नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया᳚सः |

क्षामे᳚व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्सं सौभ॑गानि दधि॒रे पा᳚व॒के ||{4.5.7.2}, {6.5.2}, {6.1.5.2}
685 त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा᳚ र॒थीर॑भवो॒ वार्या᳚णाम् |

अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या᳚नु॒षग्जा᳚तवेदो॒ वसू᳚नि ||{4.5.7.3}, {6.5.3}, {6.1.5.3}
686 यो नः॒ सनु॑त्यो अभि॒दास॑दग्ने॒ यो अन्त॑रो मित्रमहो वनु॒ष्यात् |

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ||{4.5.7.4}, {6.5.4}, {6.1.5.4}
687 यस्ते᳚ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा᳚शत् |

स मर्त्ये᳚ष्वमृत॒ प्रचे᳚ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा᳚ति ||{4.5.7.5}, {6.5.5}, {6.1.5.5}
688 स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो᳚ बाधस्व॒ सह॑सा॒ सह॑स्वान् |

यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो᳚भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ||{4.5.7.6}, {6.5.6}, {6.1.5.6}
689 अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर᳚म् |

अ॒श्याम॒ वाज॑म॒भि वा॒जय᳚न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं᳚ ते ||{4.5.7.7}, {6.5.7}, {6.1.5.7}
[85] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
690 प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा᳚ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा᳚नः |

वृ॒श्चद्व॑नं कृ॒ष्णया᳚मं॒ रुश᳚न्तं वी॒ती होता᳚रं दि॒व्यं जि॑गाति ||{4.5.8.1}, {6.6.1}, {6.1.6.1}
691 स श्वि॑ता॒नस्त᳚न्य॒तू रो᳚चन॒स्था अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |

यः पा᳚व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ||{4.5.8.2}, {6.6.2}, {6.1.6.2}
692 वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा᳚सः शुचे॒ शुच॑यश्चरन्ति |

तु॒वि॒म्र॒क्षासो᳚ दि॒व्या नव॑ग्वा॒ वना᳚ वनन्ति धृष॒ता रु॒जन्तः॑ ||{4.5.8.3}, {6.6.3}, {6.1.6.3}
693 ये ते᳚ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वप᳚न्ति॒ विषि॑तासो॒ अश्वाः᳚ |

अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा᳚ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः᳚ ||{4.5.8.4}, {6.6.4}, {6.1.6.4}
694 अध॑ जि॒ह्वा पा᳚पतीति॒ प्र वृष्णो᳚ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना |

शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना᳚नि ||{4.5.8.5}, {6.6.5}, {6.1.6.5}
695 आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां᳚सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ |

स बा᳚ध॒स्वाप॑ भ॒या सहो᳚भिः॒ स्पृधो᳚ वनु॒ष्यन्व॒नुषो॒ नि जू᳚र्व ||{4.5.8.6}, {6.6.6}, {6.1.6.6}
696 स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् |

च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ||{4.5.8.7}, {6.6.7}, {6.1.6.7}
[86] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप्, (६-७) षष्ठीसप्तम्योश्च जगती छन्दसी ||
697 मू॒र्धानं᳚ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् |

क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः ||{4.5.9.1}, {6.7.1}, {6.1.7.1}
698 नाभिं᳚ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न॑वन्त |

वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां᳚ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ||{4.5.9.2}, {6.7.2}, {6.1.7.2}
699 त्वद्विप्रो᳚ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो᳚ अभिमाति॒षाहः॑ |

वैश्वा᳚नर॒ त्वम॒स्मासु॑ धेहि॒ वसू᳚नि राजन्स्पृह॒याय्या᳚णि ||{4.5.9.3}, {6.7.3}, {6.1.7.3}
700 त्वां विश्वे᳚ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वन्ते |

तव॒ क्रतु॑भिरमृत॒त्वमा᳚य॒न्वैश्वा᳚नर॒ यत्पि॒त्रोरदी᳚देः ||{4.5.9.4}, {6.7.4}, {6.1.7.4}
701 वैश्वा᳚नर॒ तव॒ तानि᳚ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष |

यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि᳚न्दः के॒तुं व॒युने॒ष्वह्ना᳚म् ||{4.5.9.5}, {6.7.5}, {6.1.7.5}
702 वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू᳚नि दि॒वो अ॒मृत॑स्य के॒तुना᳚ |

तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ||{4.5.9.6}, {6.7.6}, {6.1.7.6}
703 वि यो रजां॒स्यमि॑मीत सु॒क्रतु᳚र्वैश्वान॒रो वि दि॒वो रो᳚च॒ना क॒विः |

परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ||{4.5.9.7}, {6.7.7}, {6.1.7.7}
[87] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-६) प्रथमादितृचद्वयस्य जगती, (७) सप्तम्याऋचश्च त्रिष्टुप् छन्दसी ||
704 पृ॒क्षस्य॒ वृष्णो᳚ अरु॒षस्य॒ नू सहः॒ प्र नु वो᳚चं वि॒दथा᳚ जा॒तवे᳚दसः |

वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये᳚ ||{4.5.10.1}, {6.8.1}, {6.1.8.1}
705 स जाय॑मानः पर॒मे व्यो᳚मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत |

व्य१॑(अ॒)'न्तरि॑क्षममिमीत सु॒क्रतु᳚र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ||{4.5.10.2}, {6.8.2}, {6.1.8.2}
706 व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ |

वि चर्म॑णीव धि॒षणे᳚ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य᳚म् ||{4.5.10.3}, {6.8.3}, {6.1.8.3}
707 अ॒पामु॒पस्थे᳚ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा᳚न॒मुप॑ तस्थुरृ॒ग्मिय᳚म् |

आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा᳚त॒रिश्वा᳚ परा॒वतः॑ ||{4.5.10.4}, {6.8.4}, {6.1.8.4}
708 यु॒गेयु॑गे विद॒थ्यं᳚ गृ॒णद्भ्योऽग्ने᳚ र॒यिं य॒शसं᳚ धेहि॒ नव्य॑सीम् |

प॒व्येव॑ राजन्न॒घशं᳚समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ||{4.5.10.5}, {6.8.5}, {6.1.8.5}
709 अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना᳚मि क्ष॒त्रम॒जरं᳚ सु॒वीर्य᳚म् |

व॒यं ज॑येम श॒तिनं᳚ सह॒स्रिणं॒ वैश्वा᳚नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ||{4.5.10.6}, {6.8.6}, {6.1.8.6}
710 अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं᳚ पाहि त्रिषधस्थ सू॒रीन् |

रक्षा᳚ च नो द॒दुषां॒ शर्धो᳚ अग्ने॒ वैश्वा᳚नर॒ प्र च॑ तारीः॒ स्तवा᳚नः ||{4.5.10.7}, {6.8.7}, {6.1.8.7}
[88] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
711 अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ |

वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि ||{4.5.11.1}, {6.9.1}, {6.1.9.1}
712 नाहं तन्तुं॒ न वि जा᳚ना॒म्योतुं॒ न यं वय᳚न्ति सम॒रेऽत॑मानाः |

कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा᳚नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ||{4.5.11.2}, {6.9.2}, {6.1.9.2}
713 स इत्तन्तुं॒ स वि जा᳚ना॒त्योतुं॒ स वक्त्वा᳚न्यृतु॒था व॑दाति |

य ईं॒ चिके᳚तद॒मृत॑स्य गो॒पा अ॒वश्चर᳚न्प॒रो अ॒न्येन॒ पश्य॑न् ||{4.5.11.3}, {6.9.3}, {6.1.9.3}
714 अ॒यं होता᳚ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये᳚षु |

अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॑(आ॒) वर्ध॑मानः ||{4.5.11.4}, {6.9.4}, {6.1.9.4}
715 ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः |

विश्वे᳚ दे॒वाः सम॑नसः॒ सके᳚ता॒ एकं॒ क्रतु॑म॒भि वि य᳚न्ति सा॒धु ||{4.5.11.5}, {6.9.5}, {6.1.9.5}
716 वि मे॒ कर्णा᳚ पतयतो॒ वि चक्षु॒र्वी॒३॑(ई॒)दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् |

वि मे॒ मन॑श्चरति दू॒रआ᳚धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ||{4.5.11.6}, {6.9.6}, {6.1.9.6}
717 विश्वे᳚ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस᳚म् |

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये᳚ नः ||{4.5.11.7}, {6.9.7}, {6.1.9.7}
[89] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७) सप्तम्याऋचश्च द्विपदा विराट् छन्दसी ||
718 पु॒रो वो᳚ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम् |

पु॒र उ॒क्थेभिः॒ स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क॑रति जा॒तवे᳚दाः ||{4.5.12.1}, {6.10.1}, {6.1.10.1}
719 तमु॑ द्युमः पुर्वणीक होत॒रग्ने᳚ अ॒ग्निभि॒र्मनु॑ष इधा॒नः |

स्तोमं॒ यम॑स्मै म॒मते᳚व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ||{4.5.12.2}, {6.10.2}, {6.1.10.2}
720 पी॒पाय॒ स श्रव॑सा॒ मर्त्ये᳚षु॒ यो अ॒ग्नये᳚ द॒दाश॒ विप्र॑ उ॒क्थैः |

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ||{4.5.12.3}, {6.10.3}, {6.1.10.3}
721 आ यः प॒प्रौ जाय॑मान उ॒र्वी दू᳚रे॒दृशा᳚ भा॒सा कृ॒ष्णाध्वा᳚ |

अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः ||{4.5.12.4}, {6.10.4}, {6.1.10.4}
722 नू न॑श्चि॒त्रं पु॑रु॒वाजा᳚भिरू॒ती अग्ने᳚ र॒यिं म॒घव॑द्भ्यश्च धेहि |

ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना॑न् ||{4.5.12.5}, {6.10.5}, {6.1.10.5}
723 इ॒मं य॒ज्ञं चनो᳚ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् |

भ॒रद्वा᳚जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ||{4.5.12.6}, {6.10.6}, {6.1.10.6}
724 वि द्वेषां᳚सीनु॒हि व॒र्धयेळां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{4.5.12.7}, {6.10.7}, {6.1.10.7}
[90] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
725 यज॑स्व होतरिषि॒तो यजी᳚या॒नग्ने॒ बाधो᳚ म॒रुतां॒ न प्रयु॑क्ति |

आ नो᳚ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा᳚ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ||{4.5.13.1}, {6.11.1}, {6.1.11.1}
726 त्वं होता᳚ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु |

पा॒व॒कया᳚ जु॒ह्वा॒३॑(आ॒) वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्व१॑(अ॒) अंतव॒ स्वाम् ||{4.5.13.2}, {6.11.2}, {6.1.11.2}
727 धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै |

वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ||{4.5.13.3}, {6.11.3}, {6.1.11.3}
728 अदि॑द्युत॒त्स्वपा᳚को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची |

आ॒युं न यं नम॑सा रा॒तह᳚व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः᳚ ||{4.5.13.4}, {6.11.4}, {6.1.11.4}
729 वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया᳚मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः |

अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा᳚यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ||{4.5.13.5}, {6.11.5}, {6.1.11.5}
730 द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः |

रा॒यः सू᳚नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ||{4.5.13.6}, {6.11.6}, {6.1.11.6}
[91] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
731 मध्ये॒ होता᳚ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै |

अ॒यं स सू॒नुः सह॑स ऋ॒तावा᳚ दू॒रात्सूर्यो॒ न शो॒चिषा᳚ ततान ||{4.5.14.1}, {6.12.1}, {6.1.12.1}
732 आ यस्मि॒न्त्वे स्वपा᳚के यजत्र॒ यक्ष॑द्राजन्स॒र्वता᳚तेव॒ नु द्यौः |

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो᳚ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ||{4.5.14.2}, {6.12.2}, {6.1.12.2}
733 तेजि॑ष्ठा॒ यस्या᳚र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् |

अ॒द्रो॒घो न द्र॑वि॒ता चे᳚तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ||{4.5.14.3}, {6.12.3}, {6.1.12.3}
734 सास्माके᳚भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |

द्र्व᳚न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ||{4.5.14.4}, {6.12.4}, {6.1.12.4}
735 अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम् |

स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी᳚यानृ॒णो न ता॒युरति॒ धन्वा᳚ राट् ||{4.5.14.5}, {6.12.5}, {6.1.12.5}
736 स त्वं नो᳚ अर्व॒न्निदा᳚या॒ विश्वे᳚भिरग्ने अ॒ग्निभि॑रिधा॒नः |

वेषि॑ रा॒यो वि या᳚सि दु॒च्छुना॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{4.5.14.6}, {6.12.6}, {6.1.12.6}
[92] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
737 त्वद्विश्वा᳚ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य᳚न्ति व॒निनो॒ न व॒याः |

श्रु॒ष्टी र॒यिर्वाजो᳚ वृत्र॒तूर्ये᳚ दि॒वो वृ॒ष्टिरीड्यो᳚ री॒तिर॒पाम् ||{4.5.15.1}, {6.13.1}, {6.1.13.1}
738 त्वं भगो᳚ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः |

अग्ने᳚ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः᳚ ||{4.5.15.2}, {6.13.2}, {6.1.13.2}
739 स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज᳚म् |

यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ||{4.5.15.3}, {6.13.3}, {6.1.13.3}
740 यस्ते᳚ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् |

विश्वं॒ स दे᳚व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्य१॑(अ॒) अंपत्य॑ते वस॒व्यैः᳚ ||{4.5.15.4}, {6.13.4}, {6.1.13.4}
741 ता नृभ्य॒ आ सौ᳚श्रव॒सा सु॒वीराग्ने᳚ सूनो सहसः पु॒ष्यसे᳚ धाः |

कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु॑रये ||{4.5.15.5}, {6.13.5}, {6.1.13.5}
742 व॒द्मा सू᳚नो सहसो नो॒ विहा᳚या॒ अग्ने᳚ तो॒कं तन॑यं वा॒जि नो᳚ दाः |

विश्वा᳚भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{4.5.15.6}, {6.13.6}, {6.1.13.6}
[93] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप् (६) षष्ठ्याऋचश्च शक्वरी छन्दसी ||
743 अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं᳚ जु॒जोष॑ धी॒तिभिः॑ |

भस॒न्नु ष प्र पू॒र्व्य इषं᳚ वुरी॒ताव॑से ||{4.5.16.1}, {6.14.1}, {6.1.14.1}
744 अ॒ग्निरिद्धि प्रचे᳚ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ |

अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ||{4.5.16.2}, {6.14.2}, {6.1.14.2}
745 नाना॒ ह्य१॑(अ॒)ग्नेऽव॑से॒ स्पर्ध᳚न्ते॒ रायो᳚ अ॒र्यः |

तूर्व᳚न्तो॒ दस्यु॑मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो अव्र॒तम् ||{4.5.16.3}, {6.14.3}, {6.1.14.3}
746 अ॒ग्निर॒प्सामृ॑ती॒षहं᳚ वी॒रं द॑दाति॒ सत्प॑तिम् |

यस्य॒ त्रस᳚न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ||{4.5.16.4}, {6.14.4}, {6.1.14.4}
747 अ॒ग्निर्हि वि॒द्मना᳚ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ |

स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ||{4.5.16.5}, {6.14.5}, {6.1.14.5}
748 अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{4.5.16.6}, {6.14.6}, {6.1.14.6}
[94] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज आङ्गिरसो वीतहव्यो वा ऋषिः | अग्निर्देवता | (१-२, ४-५, ७-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योः सप्तमीनवम्योश्च जगती, (३, १५) तृतीयापञ्चदश्योः शक्वरी, (६) षष्ठ्या अतिशक्वरी, (१०-१४, १६, १९) दशम्यादिपञ्चानां षोडश्या एकोनविंश्याश्च त्रिष्टुप्, (१७) सप्तदश्या अनुष्टुप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
749 इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा᳚सां वि॒शां पति॑मृञ्जसे गि॒रा |

वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ||{4.5.17.1}, {6.15.1}, {6.1.15.1}
750 मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |

स त्वं सुप्री᳚तो वी॒तह᳚व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ||{4.5.17.2}, {6.15.2}, {6.1.15.2}
751 स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू᳚र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |

रा॒यः सू᳚नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह᳚व्याय स॒प्रथो᳚ भ॒रद्वा᳚जाय स॒प्रथः॑ ||{4.5.17.3}, {6.15.3}, {6.1.15.3}
752 द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व᳚र्णरम॒ग्निं होता᳚रं॒ मनु॑षः स्वध्व॒रम् |

विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ᳚ञ्जसे ||{4.5.17.4}, {6.15.4}, {6.1.15.4}
753 पा॒व॒कया॒ यश्चि॒तय᳚न्त्या कृ॒पा क्षाम᳚न्रुरु॒च उ॒षसो॒ न भा॒नुना᳚ |

तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ||{4.5.17.5}, {6.15.5}, {6.1.15.5}
754 अ॒ग्निम॑ग्निं वः स॒मिधा᳚ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ |

उप॑ वो गी॒र्भिर॒मृतं᳚ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं᳚ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ||{4.5.18.1}, {6.15.6}, {6.1.15.6}
755 समि॑द्धम॒ग्निं स॒मिधा᳚ गि॒रा गृ॑णे॒ शुचिं᳚ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् |

विप्रं॒ होता᳚रं पुरु॒वार॑म॒द्रुहं᳚ क॒विं सु॒म्नैरी᳚महे जा॒तवे᳚दसम् ||{4.5.18.2}, {6.15.7}, {6.1.15.7}
756 त्वां दू॒तम॑ग्ने अ॒मृतं᳚ यु॒गेयु॑गे हव्य॒वाहं᳚ दधिरे पा॒युमीड्य᳚म् |

दे॒वास॑श्च॒ मर्ता᳚सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे᳚दिरे ||{4.5.18.3}, {6.15.8}, {6.1.15.8}
757 वि॒भूष᳚न्नग्न उ॒भयाँ॒ अनु᳚ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी᳚यसे |

यत्ते᳚ धी॒तिं सु॑म॒तिमा᳚वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू᳚थः शि॒वो भ॑व ||{4.5.18.4}, {6.15.9}, {6.1.15.9}
758 तं सु॒प्रती᳚कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम |

स य॑क्ष॒द्विश्वा᳚ व॒युना᳚नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते᳚षु वोचत् ||{4.5.18.5}, {6.15.10}, {6.1.15.10}
759 तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये᳚ शूर धी॒तिम् |

य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ||{4.5.19.1}, {6.15.11}, {6.1.15.11}
760 त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |

सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{4.5.19.2}, {6.15.12}, {6.1.15.12}
761 अ॒ग्निर्होता᳚ गृ॒हप॑तिः॒ स राजा॒ विश्वा᳚ वेद॒ जनि॑मा जा॒तवे᳚दाः |

दे॒वाना᳚मु॒त यो मर्त्या᳚नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा᳚ ||{4.5.19.3}, {6.15.13}, {6.1.15.13}
762 अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा᳚ |

ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते᳚ अ॒द्य ||{4.5.19.4}, {6.15.14}, {6.1.15.14}
763 अ॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा᳚ दधीत॒ रोद॑सी॒ यज॑ध्यै |

अवा᳚ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा᳚नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{4.5.19.5}, {6.15.15}, {6.1.15.15}
764 अग्ने॒ विश्वे᳚भिः स्वनीक दे॒वैरूर्णा᳚वन्तं प्रथ॒मः सी᳚द॒ योनि᳚म् |

कु॒ला॒यिनं᳚ घृ॒तव᳚न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ||{4.5.20.1}, {6.15.16}, {6.1.15.16}
765 इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म᳚न्थन्ति वे॒धसः॑ |

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रं श्या॒व्या᳚भ्यः ||{4.5.20.2}, {6.15.17}, {6.1.15.17}
766 जनि॑ष्वा दे॒ववी᳚तये स॒र्वता᳚ता स्व॒स्तये᳚ |

आ दे॒वान्व॑क्ष्य॒मृताँ᳚ ऋता॒वृधो᳚ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ||{4.5.20.3}, {6.15.18}, {6.1.15.18}
767 व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक᳚र्म स॒मिधा᳚ बृ॒हन्त᳚म् |

अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ||{4.5.20.4}, {6.15.19}, {6.1.15.19}
[95] (१-४८) अष्टचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१, ६) प्रथमाषष्ठ्योर्‌ऋचोर्वधर्म निआ, (२-५, ७-२६, २८-४५) द्वितीयादिचतसृणां सप्तम्यादिविंशतेरष्टाविंश्याद्यष्टादशानाञ्च गायत्री, (२७, ४७४८) सप्तविंश्याः सप्तचत्वारिंश्यष्टचत्वारिंश्योश्चानुष्टप् (४६) षट्चत्वारिंश्याश्च त्रिष्टुप् छन्दांसि ||
768 त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे᳚षां हि॒तः |

दे॒वेभि॒र्मानु॑षे॒ जने᳚ ||{4.5.21.1}, {6.16.1}, {6.2.1.1}
769 स नो᳚ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि᳚र्यजा म॒हः |

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ||{4.5.21.2}, {6.16.2}, {6.2.1.2}
770 वेत्था॒ हि वे᳚धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा |

अग्ने᳚ य॒ज्ञेषु॑ सुक्रतो ||{4.5.21.3}, {6.16.3}, {6.2.1.3}
771 त्वामी᳚ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् |

ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय᳚म् ||{4.5.21.4}, {6.16.4}, {6.2.1.4}
772 त्वमि॒मा वार्या᳚ पु॒रु दिवो᳚दासाय सुन्व॒ते |

भ॒रद्वा᳚जाय दा॒शुषे᳚ ||{4.5.21.5}, {6.16.5}, {6.2.1.5}
773 त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन᳚म् |

शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ||{4.5.22.1}, {6.16.6}, {6.2.1.6}
774 त्वाम॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) मर्ता᳚सो दे॒ववी᳚तये |

य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{4.5.22.2}, {6.16.7}, {6.2.1.7}
775 तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं᳚ सु॒दान॑वः |

विश्वे᳚ जुषन्त का॒मिनः॑ ||{4.5.22.3}, {6.16.8}, {6.2.1.8}
776 त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |

अग्ने॒ यक्षि॑ दि॒वो विशः॑ ||{4.5.22.4}, {6.16.9}, {6.2.1.9}
777 अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये |

नि होता᳚ सत्सि ब॒र्हिषि॑ ||{4.5.22.5}, {6.16.10}, {6.2.1.10}
778 तं त्वा᳚ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि |

बृ॒हच्छो᳚चा यविष्ठ्य ||{4.5.23.1}, {6.16.11}, {6.2.1.11}
779 स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा᳚ देव विवाससि |

बृ॒हद॑ग्ने सु॒वीर्य᳚म् ||{4.5.23.2}, {6.16.12}, {6.2.1.12}
780 त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ᳚र्वा॒ निर॑मन्थत |

मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ||{4.5.23.3}, {6.16.13}, {6.2.1.13}
781 तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई᳚धे॒ अथ᳚र्वणः |

वृ॒त्र॒हणं᳚ पुरंद॒रम् ||{4.5.23.4}, {6.16.14}, {6.2.1.14}
782 तमु॑ त्वा पा॒थ्यो वृषा॒ समी᳚धे दस्यु॒हन्त॑मम् |

ध॒नं॒ज॒यं रणे᳚रणे ||{4.5.23.5}, {6.16.15}, {6.2.1.15}
783 एह्यू॒ षु ब्रवा᳚णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ |

ए॒भिर्व॑र्धास॒ इन्दु॑भिः ||{4.5.24.1}, {6.16.16}, {6.2.1.16}
784 यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं᳚ दधस॒ उत्त॑रम् |

तत्रा॒ सदः॑ कृणवसे ||{4.5.24.2}, {6.16.17}, {6.2.1.17}
785 न॒हि ते᳚ पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानां वसो |

अथा॒ दुवो᳚ वनवसे ||{4.5.24.3}, {6.16.18}, {6.2.1.18}
786 आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः |

दिवो᳚दासस्य॒ सत्प॑तिः ||{4.5.24.4}, {6.16.19}, {6.2.1.19}
787 स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश᳚न्महित्व॒ना |

व॒न्वन्नवा᳚तो॒ अस्तृ॑तः ||{4.5.24.5}, {6.16.20}, {6.2.1.20}
788 स प्र॑त्न॒वन्नवी᳚य॒साग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ |

बृ॒हत्त॑तन्थ भा॒नुना᳚ ||{4.5.25.1}, {6.16.21}, {6.2.1.21}
789 प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |

अर्च॒ गाय॑ च वे॒धसे᳚ ||{4.5.25.2}, {6.16.22}, {6.2.1.22}
790 स हि यो मानु॑षा यु॒गा सीद॒द्धोता᳚ क॒विक्र॑तुः |

दू॒तश्च॑ हव्य॒वाह॑नः ||{4.5.25.3}, {6.16.23}, {6.2.1.23}
791 ता राजा᳚ना॒ शुचि᳚व्रतादि॒त्यान्मारु॑तं ग॒णम् |

वसो॒ यक्षी॒ह रोद॑सी ||{4.5.25.4}, {6.16.24}, {6.2.1.24}
792 वस्वी᳚ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या᳚य |

ऊर्जो᳚ नपाद॒मृत॑स्य ||{4.5.25.5}, {6.16.25}, {6.2.1.25}
793 क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा᳚ व॒न्वन्सु॒रेक्णाः᳚ |

मर्त॑ आनाश सुवृ॒क्तिम् ||{4.5.26.1}, {6.16.26}, {6.2.1.26}
794 ते ते᳚ अग्ने॒ त्वोता᳚ इ॒षय᳚न्तो॒ विश्व॒मायुः॑ |

तर᳚न्तो अ॒र्यो अरा᳚तीर्व॒न्वन्तो᳚ अ॒र्यो अरा᳚तीः ||{4.5.26.2}, {6.16.27}, {6.2.1.27}
795 अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॑(अ॒)त्रिण᳚म् |

अ॒ग्निर्नो᳚ वनते र॒यिम् ||{4.5.26.3}, {6.16.28}, {6.2.1.28}
796 सु॒वीरं᳚ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |

ज॒हि रक्षां᳚सि सुक्रतो ||{4.5.26.4}, {6.16.29}, {6.2.1.29}
797 त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः |

रक्षा᳚ णो ब्रह्मणस्कवे ||{4.5.26.5}, {6.16.30}, {6.2.1.30}
798 यो नो᳚ अग्ने दु॒रेव॒ आ मर्तो᳚ व॒धाय॒ दाश॑ति |

तस्मा᳚न्नः पा॒ह्यंह॑सः ||{4.5.27.1}, {6.16.31}, {6.2.1.31}
799 त्वं तं दे᳚व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत᳚म् |

मर्तो॒ यो नो॒ जिघां᳚सति ||{4.5.27.2}, {6.16.32}, {6.2.1.32}
800 भ॒रद्वा᳚जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य |

अग्ने॒ वरे᳚ण्यं॒ वसु॑ ||{4.5.27.3}, {6.16.33}, {6.2.1.33}
801 अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |

समि॑द्धः शु॒क्र आहु॑तः ||{4.5.27.4}, {6.16.34}, {6.2.1.34}
802 गर्भे᳚ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे᳚ |

सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{4.5.27.5}, {6.16.35}, {6.2.1.35}
803 ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |

अग्ने॒ यद्दी॒दय॑द्दि॒वि ||{4.5.28.1}, {6.16.36}, {6.2.1.36}
804 उप॑ त्वा र॒ण्वसं᳚दृशं॒ प्रय॑स्वन्तः सहस्कृत |

अग्ने᳚ ससृ॒ज्महे॒ गिरः॑ ||{4.5.28.2}, {6.16.37}, {6.2.1.37}
805 उप॑ च्छा॒यामि॑व॒ घृणे॒रग᳚न्म॒ शर्म॑ ते व॒यम् |

अग्ने॒ हिर᳚ण्यसंदृशः ||{4.5.28.3}, {6.16.38}, {6.2.1.38}
806 य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ᳚ङ्गो॒ न वंस॑गः |

अग्ने॒ पुरो᳚ रु॒रोजि॑थ ||{4.5.28.4}, {6.16.39}, {6.2.1.39}
807 आ यं हस्ते॒ न खा॒दिनं॒ शिशुं᳚ जा॒तं न बिभ्र॑ति |

वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{4.5.28.5}, {6.16.40}, {6.2.1.40}
808 प्र दे॒वं दे॒ववी᳚तये॒ भर॑ता वसु॒वित्त॑मम् |

आ स्वे योनौ॒ नि षी᳚दतु ||{4.5.29.1}, {6.16.41}, {6.2.1.41}
809 आ जा॒तं जा॒तवे᳚दसि प्रि॒यं शि॑शी॒ताति॑थिम् |

स्यो॒न आ गृ॒हप॑तिम् ||{4.5.29.2}, {6.16.42}, {6.2.1.42}
810 अग्ने᳚ यु॒क्ष्वा हि ये तवाश्वा᳚सो देव सा॒धवः॑ |

अरं॒ वह᳚न्ति म॒न्यवे᳚ ||{4.5.29.3}, {6.16.43}, {6.2.1.43}
811 अच्छा᳚ नो या॒ह्या व॑हा॒भि प्रयां᳚सि वी॒तये᳚ |

आ दे॒वान्सोम॑पीतये ||{4.5.29.4}, {6.16.44}, {6.2.1.44}
812 उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् |

शोचा॒ वि भा᳚ह्यजर ||{4.5.29.5}, {6.16.45}, {6.2.1.45}
813 वी॒ती यो दे॒वं मर्तो᳚ दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रे ह॒विष्मा॑न् |

होता᳚रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ||{4.5.30.1}, {6.16.46}, {6.2.1.46}
814 आ ते᳚ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि |

ते ते᳚ भवन्तू॒क्षण॑ ऋष॒भासो᳚ व॒शा उ॒त ||{4.5.30.2}, {6.16.47}, {6.2.1.47}
815 अ॒ग्निं दे॒वासो᳚ अग्रि॒यमि॒न्धते᳚ वृत्र॒हन्त॑मम् |

येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां᳚सि वा॒जिना᳚ ||{4.5.30.3}, {6.16.48}, {6.2.1.48}
[96] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-१४) प्रथमादिचतुर्दशर्‌ऋचाम् त्रिष्टुप्, (१५) पञ्चदश्याश्च द्विपदा त्रिष्टुप् छन्दसी ||
816 पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ᳚न्द्र |

वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम॑मि॒त्रिया॒ शवो᳚भिः ||{4.6.1.1}, {6.17.1}, {6.2.2.1}
817 स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् |

यो गो᳚त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ᳚न्द्र चि॒त्राँ अ॒भि तृ᳚न्धि॒ वाजा॑न् ||{4.6.1.2}, {6.17.2}, {6.2.2.2}
818 ए॒वा पा᳚हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः |

आ॒विः सूर्यं᳚ कृणु॒हि पी᳚पि॒हीषो᳚ ज॒हि शत्रूँ᳚र॒भि गा इ᳚न्द्र तृन्धि ||{4.6.1.3}, {6.17.3}, {6.2.2.3}
819 ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त᳚म् |

म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म् ||{4.6.1.4}, {6.17.4}, {6.2.2.4}
820 येभिः॒ सूर्य॑मु॒षसं᳚ मन्दसा॒नोऽवा᳚स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् |

म॒हामद्रिं॒ परि॒ गा इ᳚न्द्र॒ सन्तं᳚ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ||{4.6.1.5}, {6.17.5}, {6.2.2.5}
821 तव॒ क्रत्वा॒ तव॒ तद्दं॒सना᳚भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी᳚धः |

और्णो॒र्दुर॑ उ॒स्रिया᳚भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ||{4.6.2.1}, {6.17.6}, {6.2.2.6}
822 प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॑(उ॒)'र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः |

अधा᳚रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी ऋ॒तस्य॑ ||{4.6.2.2}, {6.17.7}, {6.2.2.7}
823 अध॑ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य |

अदे᳚वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ||{4.6.2.3}, {6.17.8}, {6.2.2.8}
824 अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः |

अहिं॒ यदिन्द्रो᳚ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे᳚ ज॒घान॑ ||{4.6.2.4}, {6.17.9}, {6.2.2.9}
825 अध॒ त्वष्टा᳚ ते म॒ह उ॑ग्र॒ वज्रं᳚ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि᳚म् |

निका᳚मम॒रम॑णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि॑णगृजीषिन् ||{4.6.2.5}, {6.17.10}, {6.2.2.10}
826 वर्धा॒न्यं विश्वे᳚ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ इ᳚न्द्र॒ तुभ्य᳚म् |

पू॒षा विष्णु॒स्त्रीणि॒ सरां᳚सि धावन्वृत्र॒हणं᳚ मदि॒रमं॒शुम॑स्मै ||{4.6.3.1}, {6.17.11}, {6.2.2.11}
827 आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् |

तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची᳚र॒पसः॑ समु॒द्रम् ||{4.6.3.2}, {6.17.12}, {6.2.2.12}
828 ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् |

सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ||{4.6.3.3}, {6.17.13}, {6.2.2.13}
829 स नो॒ वाजा᳚य॒ श्रव॑स इ॒षे च॑ रा॒ये धे᳚हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् |

भ॒रद्वा᳚जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये᳚ न इन्द्र ||{4.6.3.4}, {6.17.14}, {6.2.2.14}
830 अ॒या वाजं᳚ दे॒वहि॑तं सनेम॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{4.6.3.5}, {6.17.15}, {6.2.2.15}
[97] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
831 तमु॑ ष्टुहि॒ यो अ॒भिभू᳚त्योजा व॒न्वन्नवा᳚तः पुरुहू॒त इन्द्रः॑ |

अषा᳚ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ||{4.6.4.1}, {6.18.1}, {6.2.3.1}
832 स यु॒ध्मः सत्वा᳚ खज॒कृत्स॒मद्वा᳚ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी |

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा᳚ ||{4.6.4.2}, {6.18.2}, {6.2.3.2}
833 त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या᳚य |

अस्ति॑ स्वि॒न्नु वी॒र्य१॑(अ॒) अंतत्त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो᳚चः ||{4.6.4.3}, {6.18.3}, {6.2.3.3}
834 सदिद्धि ते᳚ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ |

उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो᳚ बभूव ||{4.6.4.4}, {6.18.4}, {6.2.3.4}
835 तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः |

हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚ अस्य॒ विश्वाः᳚ ||{4.6.4.5}, {6.18.5}, {6.2.3.5}
836 स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई᳚शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये᳚ |

स तो॒कसा᳚ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो᳚ अभवत्स॒मत्सु॑ ||{4.6.5.1}, {6.18.6}, {6.2.3.6}
837 स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे |

स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत॑मः॒ समो᳚काः ||{4.6.5.2}, {6.18.7}, {6.2.3.7}
838 स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं᳚ च |

वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा᳚य॒ नू चि॑त् ||{4.6.5.3}, {6.18.8}, {6.2.3.8}
839 उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या᳚य॒ रथ॑मिन्द्र तिष्ठ |

धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र म᳚न्द पुरुदत्र मा॒याः ||{4.6.5.4}, {6.18.9}, {6.2.3.9}
840 अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा |

ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा᳚नयद्दुरि॒ता द॒म्भय॑च्च ||{4.6.5.5}, {6.18.10}, {6.2.3.10}
841 आ स॒हस्रं᳚ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे᳚भिर॒र्वाक् |

या॒हि सू᳚नो सहसो॒ यस्य॒ नू चि॒ददे᳚व॒ ईशे᳚ पुरुहूत॒ योतोः᳚ ||{4.6.6.1}, {6.18.11}, {6.2.3.11}
842 प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे᳚र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः |

नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः᳚ ||{4.6.6.2}, {6.18.12}, {6.2.3.12}
843 प्र तत्ते᳚ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै |

पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ||{4.6.6.3}, {6.18.13}, {6.2.3.13}
844 अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे᳚ क॒वित॑मं कवी॒नाम् |

करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना᳚य त॒न्वे᳚ गृणा॒नः ||{4.6.6.4}, {6.18.14}, {6.2.3.14}
845 अनु॒ द्यावा᳚पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः |

कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी᳚यो जनयस्व य॒ज्ञैः ||{4.6.6.5}, {6.18.15}, {6.2.3.15}
[98] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
846 म॒हाँ इन्द्रो᳚ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा᳚ अमि॒नः सहो᳚भिः |

अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या᳚यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{4.6.7.1}, {6.19.1}, {6.2.4.1}
847 इन्द्र॑मे॒व धि॒षणा᳚ सा॒तये᳚ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |

अषा᳚ळ्हेन॒ शव॑सा शूशु॒वांसं᳚ स॒द्यश्चि॒द्यो वा᳚वृ॒धे असा᳚मि ||{4.6.7.2}, {6.19.2}, {6.2.4.2}
848 पृ॒थू क॒रस्ना᳚ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॑(अ॒)क्सं मि॑मीहि॒ श्रवां᳚सि |

यू॒थेव॑ प॒श्वः प॑शु॒पा दमू᳚ना अ॒स्माँ इ᳚न्द्रा॒भ्या व॑वृत्स्वा॒जौ ||{4.6.7.3}, {6.19.3}, {6.2.4.3}
849 तं व॒ इन्द्रं᳚ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम |

यथा᳚ चि॒त्पूर्वे᳚ जरि॒तार॑ आ॒सुरने᳚द्या अनव॒द्या अरि॑ष्टाः ||{4.6.7.4}, {6.19.4}, {6.2.4.4}
850 धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः |

सं ज॑ग्मिरे प॒थ्या॒३॑(आ॒) रायो᳚ अस्मिन्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ||{4.6.7.5}, {6.19.5}, {6.2.4.5}
851 शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो᳚ अभिभूत उ॒ग्रम् |

विश्वा᳚ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं᳚ दा हरिवो माद॒यध्यै᳚ ||{4.6.8.1}, {6.19.6}, {6.2.4.6}
852 यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस᳚म् |

येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं᳚सी॒महि॑ जिगी॒वांस॒स्त्वोताः᳚ ||{4.6.8.2}, {6.19.7}, {6.2.4.7}
853 आ नो᳚ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |

येन॒ वंसा᳚म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा᳚मीन् ||{4.6.8.3}, {6.19.8}, {6.2.4.8}
854 आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता᳚त् |

आ वि॒श्वतो᳚ अ॒भि समे᳚त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{4.6.8.4}, {6.19.9}, {6.2.4.9}
855 नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं᳚सी॒महि॑ वा॒मं श्रोम॑तेभिः |

ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त᳚म् ||{4.6.8.5}, {6.19.10}, {6.2.4.10}
856 म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{4.6.8.6}, {6.19.11}, {6.2.4.11}
857 जनं᳚ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि॑ |

अधा॒ हि त्वा᳚ पृथि॒व्यां शूर॑सातौ॒ हवा᳚महे॒ तन॑ये॒ गोष्व॒प्सु ||{4.6.8.7}, {6.19.12}, {6.2.4.12}
858 व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः᳚शत्रो॒रुत्त॑र॒ इत्स्या᳚म |

घ्नन्तो᳚ वृ॒त्राण्यु॒भया᳚नि शूर रा॒या म॑देम बृह॒ता त्वोताः᳚ ||{4.6.8.8}, {6.19.13}, {6.2.4.13}
[99] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-६, ८-१३) प्रथमादितृचद्वयस्याष्टम्यादितृचद्यस्य च त्रिष्टुप्, (७) सप्तम्याश्च विराट् छन्दसी ||
859 द्यौर्न य इ᳚न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् |

तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू᳚नो सहसो वृत्र॒तुर᳚म् ||{4.6.9.1}, {6.20.1}, {6.2.5.1}
860 दि॒वो न तुभ्य॒मन्वि᳚न्द्र स॒त्रासु॒र्यं᳚ दे॒वेभि॑र्धायि॒ विश्व᳚म् |

अहिं॒ यद्वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ||{4.6.9.2}, {6.20.2}, {6.2.5.2}
861 तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚ वृ॒द्धम॑हाः |

राजा᳚भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ||{4.6.9.3}, {6.20.3}, {6.2.5.3}
862 श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो᳚णये क॒वये॒ऽर्कसा᳚तौ |

व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ||{4.6.9.4}, {6.20.4}, {6.2.5.4}
863 म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ |

उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा᳚य॒ सूर्य॑स्य सा॒तौ ||{4.6.9.5}, {6.20.5}, {6.2.5.5}
864 प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |

प्राव॒न्नमीं᳚ सा॒प्यं स॒सन्तं᳚ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ||{4.6.10.1}, {6.20.6}, {6.2.5.6}
865 वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो᳚ वज्रि॒ञ्छव॑सा॒ न द॑र्दः |

सुदा᳚म॒न्तद्रेक्णो᳚ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे᳚ दाः ||{4.6.10.2}, {6.20.7}, {6.2.5.7}
866 स वे᳚त॒सुं दश॑मायं॒ दशो᳚णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु᳚म्नः |

आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै᳚ ||{4.6.10.3}, {6.20.8}, {6.2.5.8}
867 स ईं॒ स्पृधो᳚ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं᳚ वृत्र॒हणं॒ गभ॑स्तौ |

तिष्ठ॒द्धरी॒ अध्यस्ते᳚व॒ गर्ते᳚ वचो॒युजा᳚ वहत॒ इन्द्र॑मृ॒ष्वम् ||{4.6.10.4}, {6.20.9}, {6.2.5.9}
868 स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः |

स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः᳚ पुरु॒कुत्सा᳚य॒ शिक्ष॑न् ||{4.6.10.5}, {6.20.10}, {6.2.5.10}
869 त्वं वृ॒ध इ᳚न्द्र पू॒र्व्यो भू᳚र्वरिव॒स्यन्नु॒शने᳚ का॒व्याय॑ |

परा॒ नव॑वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा᳚तम् ||{4.6.10.6}, {6.20.11}, {6.2.5.11}
870 त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{4.6.10.7}, {6.20.12}, {6.2.5.12}
871 तव॑ ह॒ त्यदि᳚न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् |

दी॒दय॒दित्तुभ्यं॒ सोमे᳚भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॑(अ॒)र्कैः ||{4.6.10.8}, {6.20.13}, {6.2.5.13}
[100] (१-१२) द्वादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-८, १०, १२) प्रथमाद्यष्टा दशमीद्वादश्योश्चेन्द्रः, (९, ११) नवम्येकादश्योश्च विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
872 इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते |

धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या ||{4.6.11.1}, {6.21.1}, {6.2.6.1}
873 तमु॑ स्तुष॒ इन्द्रं॒ यो विदा᳚नो॒ गिर्वा᳚हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् |

यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ||{4.6.11.2}, {6.21.2}, {6.2.6.2}
874 स इत्तमो᳚ऽवयु॒नं त॑त॒न्वत्सूर्ये᳚ण व॒युन॑वच्चकार |

क॒दा ते॒ मर्ता᳚ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ||{4.6.11.3}, {6.21.3}, {6.2.6.3}
875 यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं᳚ चरति॒ कासु॑ वि॒क्षु |

कस्ते᳚ य॒ज्ञो मन॑से॒ शं वरा᳚य॒ को अ॒र्क इ᳚न्द्र कत॒मः स होता᳚ ||{4.6.11.4}, {6.21.4}, {6.2.6.4}
876 इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा᳚यः |

ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ||{4.6.11.5}, {6.21.5}, {6.2.6.5}
877 तं पृ॒च्छन्तोऽव॑रासः॒ परा᳚णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः |

अर्चा᳚मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा᳚ म॒हान्त᳚म् ||{4.6.12.1}, {6.21.6}, {6.2.6.6}
878 अ॒भि त्वा॒ पाजो᳚ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ |

तव॑ प्र॒त्नेन॒ युज्ये᳚न॒ सख्या॒ वज्रे᳚ण धृष्णो॒ अप॒ ता नु॑दस्व ||{4.6.12.2}, {6.21.7}, {6.2.6.7}
879 स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी᳚र कारुधायः |

त्वं ह्या॒३॑(आ॒)पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ᳚ ||{4.6.12.3}, {6.21.8}, {6.2.6.8}
880 प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं᳚ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य |

प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं᳚धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ||{4.6.12.4}, {6.21.9}, {6.2.6.9}
881 इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो᳚ अ॒भ्य॑र्चन्त्य॒र्कैः |

श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ᳚ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ||{4.6.12.5}, {6.21.10}, {6.2.6.10}
882 नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे᳚भिः सूनो सहसो॒ यज॑त्रैः |

ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं᳚ च॒क्रुरुप॑रं॒ दसा᳚य ||{4.6.12.6}, {6.21.11}, {6.2.6.11}
883 स नो᳚ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा᳚नः |

ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि᳚र्न इन्द्रा॒भि व॑क्षि॒ वाज᳚म् ||{4.6.12.7}, {6.21.12}, {6.2.6.12}
[101] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
884 य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः |

यः पत्य॑ते वृष॒भो वृष्ण्या᳚वान्स॒त्यः सत्वा᳚ पुरुमा॒यः सह॑स्वान् ||{4.6.13.1}, {6.22.1}, {6.2.7.1}
885 तमु॑ नः॒ पूर्वे᳚ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा᳚सो अ॒भि वा॒जय᳚न्तः |

न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो᳚घवाचं म॒तिभिः॒ शवि॑ष्ठम् ||{4.6.13.2}, {6.22.2}, {6.2.7.2}
886 तमी᳚मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः |

यो अस्कृ॑धोयुर॒जरः॒ स्व᳚र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै᳚ ||{4.6.13.3}, {6.22.3}, {6.2.7.3}
887 तन्नो॒ वि वो᳚चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि᳚न्द्र |

कस्ते᳚ भा॒गः किं वयो᳚ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ||{4.6.13.4}, {6.22.4}, {6.2.7.4}
888 तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः |

तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ||{4.6.13.5}, {6.22.5}, {6.2.7.5}
889 अ॒या ह॒ त्यं मा॒यया᳚ वावृधा॒नं म॑नो॒जुवा᳚ स्वतवः॒ पर्व॑तेन |

अच्यु॑ता चिद्वीळि॒ता स्वो᳚जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ||{4.6.14.1}, {6.22.6}, {6.2.7.6}
890 तं वो᳚ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै᳚ |

स नो᳚ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा᳚णि ||{4.6.14.2}, {6.22.7}, {6.2.7.7}
891 आ जना᳚य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा |

तपा᳚ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र᳚ह्म॒द्विषे᳚ शोचय॒ क्षाम॒पश्च॑ ||{4.6.14.3}, {6.22.8}, {6.2.7.8}
892 भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् |

धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा᳚ अजुर्य दयसे॒ वि मा॒याः ||{4.6.14.4}, {6.22.9}, {6.2.7.9}
893 आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या᳚य बृह॒तीममृ॑ध्राम् |

यया॒ दासा॒न्यार्या᳚णि वृ॒त्रा करो᳚ वज्रिन्सु॒तुका॒ नाहु॑षाणि ||{4.6.14.5}, {6.22.10}, {6.2.7.10}
894 स नो᳚ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा᳚राभि॒रा ग॑हि प्रयज्यो |

न या अदे᳚वो॒ वर॑ते॒ न दे॒व आभि᳚र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ||{4.6.14.6}, {6.22.11}, {6.2.7.11}
[102] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
895 सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा᳚न उ॒क्थे |

यद्वा᳚ यु॒क्ताभ्यां᳚ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ यासि॑ ||{4.6.15.1}, {6.23.1}, {6.2.8.1}
896 यद्वा᳚ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ |

यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर᳚न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ||{4.6.15.2}, {6.23.2}, {6.2.8.2}
897 पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं᳚ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती |

कर्ता᳚ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये᳚ चित् ||{4.6.15.3}, {6.23.3}, {6.2.8.3}
898 गन्तेया᳚न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं᳚ प॒पिः सोमं᳚ द॒दिर्गाः |

कर्ता᳚ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं᳚ गृण॒तः स्तोम॑वाहाः ||{4.6.15.4}, {6.23.4}, {6.2.8.4}
899 अस्मै᳚ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा᳚य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः |

सु॒ते सोमे᳚ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा᳚य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ||{4.6.15.5}, {6.23.5}, {6.2.8.5}
900 ब्रह्मा᳚णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि᳚र्विविष्मः |

सु॒ते सोमे᳚ सुतपाः॒ शंत॑मानि॒ राण्ड्या᳚ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ||{4.6.16.1}, {6.23.6}, {6.2.8.6}
901 स नो᳚ बोधि पुरो॒ळाशं॒ ररा᳚णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र |

एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ||{4.6.16.2}, {6.23.7}, {6.2.8.7}
902 स म᳚न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा᳚ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु |

प्रेमे हवा᳚सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ||{4.6.16.3}, {6.23.8}, {6.2.8.8}
903 तं वः॑ सखायः॒ सं यथा᳚ सु॒तेषु॒ सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |

कु॒वित्तस्मा॒ अस॑ति नो॒ भरा᳚य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ||{4.6.16.4}, {6.23.9}, {6.2.8.9}
904 ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे᳚ भ॒रद्वा᳚जेषु॒ क्षय॒दिन्म॒घोनः॑ |

अस॒द्यथा᳚ जरि॒त्र उ॒त सू॒रिरिन्द्रो᳚ रा॒यो वि॒श्ववा᳚रस्य दा॒ता ||{4.6.16.5}, {6.23.10}, {6.2.8.10}
[103] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
905 वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे᳚षु सुत॒पा ऋ॑जी॒षी |

अ॒र्च॒त्र्यो᳚ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा᳚ गि॒रामक्षि॑तोतिः ||{4.6.17.1}, {6.24.1}, {6.3.1.1}
906 ततु॑रिर्वी॒रो नर्यो॒ विचे᳚ताः॒ श्रोता॒ हवं᳚ गृण॒त उ॒र्व्यू᳚तिः |

वसुः॒ शंसो᳚ न॒रां का॒रुधा᳚या वा॒जी स्तु॒तो वि॒दथे᳚ दाति॒ वाज᳚म् ||{4.6.17.2}, {6.24.2}, {6.3.1.2}
907 अक्षो॒ न च॒क्र्योः᳚ शूर बृ॒हन्प्र ते᳚ म॒ह्ना रि॑रिचे॒ रोद॑स्योः |

वृ॒क्षस्य॒ नु ते᳚ पुरुहूत व॒या व्यू॒३॑(ऊ॒)तयो᳚ रुरुहुरिन्द्र पू॒र्वीः ||{4.6.17.3}, {6.24.3}, {6.3.1.3}
908 शची᳚वतस्ते पुरुशाक॒ शाका॒ गवा᳚मिव स्रु॒तयः॑ सं॒चर॑णीः |

व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम᳚न्वन्तो अदा॒मानः॑ सुदामन् ||{4.6.17.4}, {6.24.4}, {6.3.1.4}
909 अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑ |

मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ||{4.6.17.5}, {6.24.5}, {6.3.1.5}
910 वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः |

तं त्वा॒भिः सु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः᳚ ||{4.6.18.1}, {6.24.6}, {6.3.1.6}
911 न यं जर᳚न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय᳚न्ति |

वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे᳚भिरु॒क्थैश्च॑ श॒स्यमा᳚ना ||{4.6.18.2}, {6.24.7}, {6.3.1.7}
912 न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् |

अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग᳚म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ||{4.6.18.3}, {6.24.8}, {6.3.1.8}
913 ग॒म्भी॒रेण॑ न उ॒रुणा᳚मत्रि॒न्प्रेषो य᳚न्धि सुतपाव॒न्वाजा॑न् |

स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ||{4.6.18.4}, {6.24.9}, {6.3.1.9}
914 सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि᳚न्द्र पाहि रि॒षः |

अ॒मा चै᳚न॒मर᳚ण्ये पाहि रि॒षो मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{4.6.18.5}, {6.24.10}, {6.3.1.10}
[104] (१-९) नवर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
915 या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ |

ताभि॑रू॒ षु वृ॑त्र॒हत्ये᳚ऽवीर्न ए॒भिश्च॒ वाजै᳚र्म॒हान्न॑ उग्र ||{4.6.19.1}, {6.25.1}, {6.3.2.1}
916 आभिः॒ स्पृधो᳚ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि᳚न्द्र |

आभि॒र्विश्वा᳚ अभि॒युजो॒ विषू᳚ची॒रार्या᳚य॒ विशोऽव॑ तारी॒र्दासीः᳚ ||{4.6.19.2}, {6.25.2}, {6.3.2.2}
917 इन्द्र॑ जा॒मय॑ उ॒त येऽजा᳚मयोऽर्वाची॒नासो᳚ व॒नुषो᳚ युयु॒ज्रे |

त्वमे᳚षां विथु॒रा शवां᳚सि ज॒हि वृष्ण्या᳚नि कृणु॒ही परा᳚चः ||{4.6.19.3}, {6.25.3}, {6.3.2.3}
918 शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते᳚ |

तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा᳚सु॒ ब्रवै᳚ते ||{4.6.19.4}, {6.25.4}, {6.3.2.4}
919 न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा᳚ यो॒धो मन्य॑मानो यु॒योध॑ |

इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा᳚ जा॒तान्य॒भ्य॑सि॒ तानि॑ ||{4.6.19.5}, {6.25.5}, {6.3.2.5}
920 स प॑त्यत उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚ वे॒धसः॑ समि॒थे हव᳚न्ते |

वृ॒त्रे वा᳚ म॒हो नृ॒वति॒ क्षये᳚ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते᳚ ||{4.6.20.1}, {6.25.6}, {6.3.2.6}
921 अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता |

अ॒स्माका᳚सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो᳚ दधि॒रे पु॒रो नः॑ ||{4.6.20.2}, {6.25.7}, {6.3.2.7}
922 अनु॑ ते दायि म॒ह इ᳚न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ |

अनु॑ क्ष॒त्रमनु॒ सहो᳚ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ||{4.6.20.3}, {6.25.8}, {6.3.2.8}
923 ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे᳚वीः |

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ भ॒रद्वा᳚जा उ॒त त॑ इन्द्र नू॒नम् ||{4.6.20.4}, {6.25.9}, {6.3.2.9}
[105] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
924 श्रु॒धी न॑ इन्द्र॒ ह्वया᳚मसि त्वा म॒हो वाज॑स्य सा॒तौ वा᳚वृषा॒णाः |

सं यद्विशोऽय᳚न्त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अह᳚न्दाः ||{4.6.21.1}, {6.26.1}, {6.3.3.1}
925 त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ |

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ||{4.6.21.2}, {6.26.2}, {6.3.3.2}
926 त्वं क॒विं चो᳚दयो॒ऽर्कसा᳚तौ॒ त्वं कुत्सा᳚य॒ शुष्णं᳚ दा॒शुषे᳚ वर्क् |

त्वं शिरो᳚ अम॒र्मणः॒ परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{4.6.21.3}, {6.26.3}, {6.3.3.3}
927 त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |

त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न्त्वं तुजिं᳚ गृ॒णन्त॑मिन्द्र तूतोः ||{4.6.21.4}, {6.26.4}, {6.3.3.4}
928 त्वं तदु॒क्थमि᳚न्द्र ब॒र्हणा᳚ कः॒ प्र यच्छ॒ता स॒हस्रा᳚ शूर॒ दर्षि॑ |

अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो᳚दासं चि॒त्राभि॑रू॒ती ||{4.6.21.5}, {6.26.5}, {6.3.3.5}
929 त्वं श्र॒द्धाभि᳚र्मन्दसा॒नः सोमै᳚र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् |

त्वं र॒जिं पिठी᳚नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा᳚हन् ||{4.6.22.1}, {6.26.6}, {6.3.3.6}
930 अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ |

त्वया॒ यत्स्तव᳚न्ते सधवीर वी॒रास्त्रि॒वरू᳚थेन॒ नहु॑षा शविष्ठ ||{4.6.22.2}, {6.26.7}, {6.3.3.7}
931 व॒यं ते᳚ अ॒स्यामि᳚न्द्र द्यु॒म्नहू᳚तौ॒ सखा᳚यः स्याम महिन॒ प्रेष्ठाः᳚ |

प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम् ||{4.6.22.3}, {6.26.8}, {6.3.3.8}
[106] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-७) प्रथमादिसप्तर्चामिन्द्रः, (८) अष्टम्याश्च चायमानस्याभ्यावर्तिनो दानं देवते | त्रिष्टुप् छन्दः ||
932 किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार |

रणा᳚ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ||{4.6.23.1}, {6.27.1}, {6.3.4.1}
933 सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार |

रणा᳚ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ||{4.6.23.2}, {6.27.2}, {6.3.4.2}
934 न॒हि नु ते᳚ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म |

न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते᳚ ||{4.6.23.3}, {6.27.3}, {6.3.4.3}
935 ए॒तत्त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ |

वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ||{4.6.23.4}, {6.27.4}, {6.3.4.4}
936 वधी॒दिन्द्रो᳚ व॒रशि॑खस्य॒ शेषो᳚ऽभ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष॑न् |

वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया᳚यां॒ हन्पूर्वे॒ अर्धे᳚ भि॒यसाप॑रो॒ दर्त् ||{4.6.23.5}, {6.27.5}, {6.3.4.5}
937 त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या |

वृ॒चीव᳚न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा᳚ भिन्दा॒ना न्य॒र्थान्या᳚यन् ||{4.6.24.1}, {6.27.6}, {6.3.4.6}
938 यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा |

स सृञ्ज॑याय तु॒र्वशं॒ परा᳚दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ||{4.6.24.2}, {6.27.7}, {6.3.4.7}
939 द्व॒याँ अ॑ग्ने र॒थिनो᳚ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं᳚ स॒म्राट् |

अ॒भ्या॒व॒र्ती चा᳚यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना᳚म् ||{4.6.24.3}, {6.27.8}, {6.3.4.8}
[107] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च गावः, (२, ८) द्वितीयाष्टम्योरिन्द्रो गावो वा देवताः | (१, ५-७) प्रथमर्चः पञ्चम्यादितृचस्य च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती, (८) अष्टम्याश्चानुष्टप् छन्दांसि ||
940 आ गावो᳚ अग्मन्नु॒त भ॒द्रम॑क्र॒न्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे |

प्र॒जाव॑तीः पुरु॒रूपा᳚ इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ||{4.6.25.1}, {6.28.1}, {6.3.5.1}
941 इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति |

भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युम् ||{4.6.25.2}, {6.28.2}, {6.3.5.2}
942 न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति |

दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ||{4.6.25.3}, {6.28.3}, {6.3.5.3}
943 न ता अर्वा᳚ रे॒णुक॑काटो अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि |

उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ||{4.6.25.4}, {6.28.4}, {6.3.5.4}
944 गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे अच्छा॒न्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः |

इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ||{4.6.25.5}, {6.28.5}, {6.3.5.5}
945 यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती᳚कम् |

भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ||{4.6.25.6}, {6.28.6}, {6.3.5.6}
946 प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः᳚ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब᳚न्तीः |

मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ||{4.6.25.7}, {6.28.7}, {6.3.5.7}
947 उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् |

उप॑ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ||{4.6.25.8}, {6.28.8}, {6.3.5.8}
[108] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
948 इन्द्रं᳚ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये᳚ चका॒नाः |

म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ||{4.7.1.1}, {6.29.1}, {6.3.6.1}
949 आ यस्मि॒न्हस्ते॒ नर्या᳚ मिमि॒क्षुरा रथे᳚ हिर॒ण्यये᳚ रथे॒ष्ठाः |

आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒ वृष॑णो युजा॒नाः ||{4.7.1.2}, {6.29.2}, {6.3.6.2}
950 श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् |

वसा᳚नो॒ अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)'र्ण नृ॑तविषि॒रो ब॑भूथ ||{4.7.1.3}, {6.29.3}, {6.3.6.3}
951 स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि᳚न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः |

इन्द्रं॒ नरः॑ स्तु॒वन्तो᳚ ब्रह्मका॒रा उ॒क्था शंस᳚न्तो दे॒ववा᳚ततमाः ||{4.7.1.4}, {6.29.4}, {6.3.6.4}
952 न ते॒ अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा᳚बधे॒ रोद॑सी महि॒त्वा |

आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ||{4.7.1.5}, {6.29.5}, {6.3.6.5}
953 ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू᳚ती हिरिशि॒प्रः सत्वा᳚ |

ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ||{4.7.1.6}, {6.29.6}, {6.3.6.6}
[109] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
954 भूय॒ इद्वा᳚वृधे वी॒र्या᳚यँ॒ एको᳚ अजु॒र्यो द॑यते॒ वसू᳚नि |

प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ||{4.7.2.1}, {6.30.1}, {6.3.7.1}
955 अधा᳚ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति |

दि॒वेदि॑वे॒ सूर्यो᳚ दर्श॒तो भू॒द्वि सद्मा᳚न्युर्वि॒या सु॒क्रतु॑र्धात् ||{4.7.2.2}, {6.30.2}, {6.3.7.2}
956 अ॒द्या चि॒न्नू चि॒त्तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒ अर॑दो गा॒तुमि᳚न्द्र |

नि पर्व॑ता अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि॑ सुक्रतो॒ रजां᳚सि ||{4.7.2.3}, {6.30.3}, {6.3.7.3}
957 स॒त्यमित्तन्न त्वावाँ᳚ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् |

अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णोऽवा᳚सृजो अ॒पो अच्छा᳚ समु॒द्रम् ||{4.7.2.4}, {6.30.4}, {6.3.7.4}
958 त्वम॒पो वि दुरो॒ विषू᳚ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य |

राजा᳚भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्द्यामु॒षास᳚म् ||{4.7.2.5}, {6.30.5}, {6.3.7.5}
[110] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्च त्रिष्टुप, (४) चतुर्थ्याश्च शक्वरी छन्दसी ||
959 अभू॒रेको᳚ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः |

वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ||{4.7.3.1}, {6.31.1}, {6.3.8.1}
960 त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां᳚सि |

द्यावा॒क्षामा॒ पर्व॑तासो॒ वना᳚नि॒ विश्वं᳚ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते᳚ ||{4.7.3.2}, {6.31.2}, {6.3.8.2}
961 त्वं कुत्से᳚ना॒भि शुष्ण॑मिन्द्रा॒शुषं᳚ युध्य॒ कुय॑वं॒ गवि॑ष्टौ |

दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां᳚सि ||{4.7.3.3}, {6.31.3}, {6.3.8.3}
962 त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो᳚ जघन्थाप्र॒तीनि॒ दस्योः᳚ |

अशि॑क्षो॒ यत्र॒ शच्या᳚ शचीवो॒ दिवो᳚दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा᳚जाय गृण॒ते वसू᳚नि ||{4.7.3.4}, {6.31.4}, {6.3.8.4}
963 स स॑त्यसत्वन्मह॒ते रणा᳚य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् |

या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ||{4.7.3.5}, {6.31.5}, {6.3.8.5}
[111] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
964 अपू᳚र्व्या पुरु॒तमा᳚न्यस्मै म॒हे वी॒राय॑ त॒वसे᳚ तु॒राय॑ |

वि॒र॒प्शिने᳚ व॒ज्रिणे॒ शंत॑मानि॒ वचां᳚स्या॒सा स्थवि॑राय तक्षम् ||{4.7.4.1}, {6.32.1}, {6.3.9.1}
965 स मा॒तरा॒ सूर्ये᳚णा कवी॒नामवा᳚सयद्रु॒जदद्रिं᳚ गृणा॒नः |

स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् ||{4.7.4.2}, {6.32.2}, {6.3.9.2}
966 स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व᳚न्मि॒तज्ञु॑भिः पुरु॒कृत्वा᳚ जिगाय |

पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ||{4.7.4.3}, {6.32.3}, {6.3.9.3}
967 स नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚ म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |

पु॒रु॒वीरा᳚भिर्वृषभ क्षिती॒नामा गि᳚र्वणः सुवि॒ताय॒ प्र या᳚हि ||{4.7.4.4}, {6.32.4}, {6.3.9.4}
968 स सर्गे᳚ण॒ शव॑सा त॒क्तो अत्यै᳚र॒प इन्द्रो᳚ दक्षिण॒तस्तु॑रा॒षाट् |

इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं᳚ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ||{4.7.4.5}, {6.32.5}, {6.3.9.5}
[112] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
969 य ओजि॑ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन्स्वभि॒ष्टिर्दास्वा॑न् |

सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ||{4.7.5.1}, {6.33.1}, {6.3.10.1}
970 त्वां ही॒३॑(ई॒)'न्द्राव॑से॒ विवा᳚चो॒ हव᳚न्ते चर्ष॒णयः॒ शूर॑सातौ |

त्वं विप्रे᳚भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा᳚ ||{4.7.5.2}, {6.33.2}, {6.3.10.2}
971 त्वं ताँ इ᳚न्द्रो॒भयाँ᳚ अ॒मित्रा॒न्दासा᳚ वृ॒त्राण्यार्या᳚ च शूर |

वधी॒र्वने᳚व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ||{4.7.5.3}, {6.33.3}, {6.3.10.3}
972 स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा᳚ वि॒श्वायु॑रवि॒ता वृ॒धे भूः᳚ |

स्व॑र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि॑ता पृ॒त्सु शू᳚र ||{4.7.5.4}, {6.33.4}, {6.3.10.4}
973 नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚ अ॒भिष्टौ᳚ |

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत॑माः ||{4.7.5.5}, {6.33.5}, {6.3.10.5}
[113] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
974 सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य᳚न्ति वि॒भ्वो᳚ मनी॒षाः |

पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी᳚णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ||{4.7.6.1}, {6.34.1}, {6.3.11.1}
975 पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः |

रथो॒ न म॒हे शव॑से युजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚ अनु॒माद्यो᳚ भूत् ||{4.7.6.2}, {6.34.2}, {6.3.11.2}
976 न यं हिंस᳚न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय᳚न्तीः |

यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं᳚ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ||{4.7.6.3}, {6.34.3}, {6.3.11.3}
977 अस्मा᳚ ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ |

जनं॒ न धन्व᳚न्न॒भि सं यदापः॑ स॒त्रा वा᳚वृधु॒र्हव॑नानि य॒ज्ञैः ||{4.7.6.4}, {6.34.4}, {6.3.11.4}
978 अस्मा᳚ ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒ इन्द्रा᳚य स्तो॒त्रं म॒तिभि॑रवाचि |

अस॒द्यथा᳚ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो᳚ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ||{4.7.6.5}, {6.34.5}, {6.3.11.5}
[114] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
979 क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं᳚ दाः |

क॒दा स्तोमं᳚ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ||{4.7.7.1}, {6.35.1}, {6.3.12.1}
980 कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒ जया॒जीन् |

त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{4.7.7.2}, {6.35.2}, {6.3.12.2}
981 कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ |

क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ||{4.7.7.3}, {6.35.3}, {6.3.12.3}
982 स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑ |

पी॒पि॒हीषः॑ सु॒दुघा᳚मिन्द्र धे॒नुं भ॒रद्वा᳚जेषु सु॒रुचो᳚ रुरुच्याः ||{4.7.7.4}, {6.35.4}, {6.3.12.4}
983 तमा नू॒नं वृ॒जन॑म॒न्यथा᳚ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो᳚ गृणी॒षे |

मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा᳚ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ||{4.7.7.5}, {6.35.5}, {6.3.12.5}
[115] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
984 स॒त्रा मदा᳚स॒स्तव॑ वि॒श्वज᳚न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः |

स॒त्रा वाजा᳚नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य᳚म् ||{4.7.8.1}, {6.36.1}, {6.3.13.1}
985 अनु॒ प्र ये᳚जे॒ जन॒ ओजो᳚ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या᳚य |

स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये᳚ ||{4.7.8.2}, {6.36.2}, {6.3.13.2}
986 तं स॒ध्रीची᳚रू॒तयो॒ वृष्ण्या᳚नि॒ पौंस्या᳚नि नि॒युतः॑ सश्चु॒रिन्द्र᳚म् |

स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ||{4.7.8.3}, {6.36.3}, {6.3.13.3}
987 स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि᳚न्द्र॒ वस्वः॑ |

पति॑र्बभू॒थास॑मो॒ जना᳚ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{4.7.8.4}, {6.36.4}, {6.3.13.4}
988 स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो᳚ अ॒र्यः |

असो॒ यथा᳚ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ||{4.7.8.5}, {6.36.5}, {6.3.13.5}
[116] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
989 अ॒र्वाग्रथं᳚ वि॒श्ववा᳚रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु |

की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व᳚र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ||{4.7.9.1}, {6.37.1}, {6.3.14.1}
990 प्रो द्रोणे॒ हर॑यः॒ कर्मा᳚ग्मन्पुना॒नास॒ ऋज्य᳚न्तो अभूवन् |

इन्द्रो᳚ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा᳚ ||{4.7.9.2}, {6.37.2}, {6.3.14.2}
991 आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं᳚ सुच॒क्रे र॒थ्या᳚सो॒ अश्वाः᳚ |

अ॒भि श्रव॒ ऋज्य᳚न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ||{4.7.9.3}, {6.37.3}, {6.3.14.3}
992 वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो᳚ म॒घोनां᳚ तुविकू॒र्मित॑मः |

यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ||{4.7.9.4}, {6.37.4}, {6.3.14.4}
993 इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो᳚ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः |

इन्द्रो᳚ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ||{4.7.9.5}, {6.37.5}, {6.3.14.5}
[117] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
994 अपा᳚दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |

पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ||{4.7.10.1}, {6.38.1}, {6.3.15.1}
995 दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः |

एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना ||{4.7.10.2}, {6.38.2}, {6.3.15.2}
996 तं वो᳚ धि॒या प॑र॒मया᳚ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |

ब्रह्मा᳚ च॒ गिरो᳚ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे᳚ ||{4.7.10.3}, {6.38.3}, {6.3.15.3}
997 वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ |

वर्धाहै᳚नमु॒षसो॒ याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚ श॒रदो॒ द्याव॒ इन्द्र᳚म् ||{4.7.10.4}, {6.38.4}, {6.3.15.4}
998 ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा᳚मि वावृधा॒नं राध॑से च श्रु॒ताय॑ |

म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये᳚षु ||{4.7.10.5}, {6.38.5}, {6.3.15.5}
[118] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
999 म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ |

अपा᳚ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो᳚ युवस्व गृण॒ते गोअ॑ग्राः ||{4.7.11.1}, {6.39.1}, {6.3.16.1}
1000 अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |

रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णीँर्वचो᳚भिर॒भि यो᳚ध॒दिन्द्रः॑ ||{4.7.11.2}, {6.39.2}, {6.3.16.2}
1001 अ॒यं द्यो᳚तयद॒द्युतो॒ व्य१॑(अ॒)क्तून्दो॒षा वस्तोः᳚ श॒रद॒ इन्दु॑रिन्द्र |

इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ||{4.7.11.3}, {6.39.3}, {6.3.16.3}
1002 अ॒यं रो᳚चयद॒रुचो᳚ रुचा॒नो॒३॑(ओ॒)ऽयं वा᳚सय॒द्व्यृ१॑(इ॒)तेन॑ पू॒र्वीः |

अ॒यमी᳚यत ऋत॒युग्भि॒रश्वैः᳚ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ||{4.7.11.4}, {6.39.4}, {6.3.16.4}
1003 नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया᳚य पू॒र्वीः |

अ॒प ओष॑धीरवि॒षा वना᳚नि॒ गा अर्व॑तो॒ नॄनृ॒चसे᳚ रिरीहि ||{4.7.11.5}, {6.39.5}, {6.3.16.5}
[119] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1004 इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा᳚या |

उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याथा᳚ य॒ज्ञाय॑ गृण॒ते वयो᳚ धाः ||{4.7.12.1}, {6.40.1}, {6.3.17.1}
1005 अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ᳚न्द्र॒ मदा᳚य॒ क्रत्वे॒ अपि॑बो विरप्शिन् |

तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ||{4.7.12.2}, {6.40.2}, {6.3.17.2}
1006 समि॑द्धे अ॒ग्नौ सु॒त इ᳚न्द्र॒ सोम॒ आ त्वा᳚ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः |

त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या᳚हि सुवि॒ताय॑ म॒हे नः॑ ||{4.7.12.3}, {6.40.3}, {6.3.17.3}
1007 आ या᳚हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय᳚म् |

उप॒ ब्रह्मा᳚णि शृणव इ॒मा नोऽथा᳚ ते य॒ज्ञस्त॒न्वे॒३॑(ए॒) वयो᳚ धात् ||{4.7.12.4}, {6.40.4}, {6.3.17.4}
1008 यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ |

अतो᳚ नो य॒ज्ञमव॑से नि॒युत्वा᳚न्स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ ||{4.7.12.5}, {6.40.5}, {6.3.17.5}
[120] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1009 अहे᳚ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं᳚ पवन्त॒ इन्द॑वः सु॒तासः॑ |

गावो॒ न व॑ज्रि॒न्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया᳚नाम् ||{4.7.13.1}, {6.41.1}, {6.3.18.1}
1010 या ते᳚ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् |

तया᳚ पाहि॒ प्र ते᳚ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो᳚ वर्ततामिन्द्र ग॒व्युः ||{4.7.13.2}, {6.41.2}, {6.3.18.2}
1011 ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू᳚प॒ इन्द्रा᳚य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ |

ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न᳚म् ||{4.7.13.3}, {6.41.3}, {6.3.18.3}
1012 सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या᳚न॒यं श्रेया᳚ञ्चिकि॒तुषे॒ रणा᳚य |

ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ||{4.7.13.4}, {6.41.4}, {6.3.18.4}
1013 ह्वया᳚मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं᳚ ते॒ सोम॑स्त॒न्वे᳚ भवाति |

शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ||{4.7.13.5}, {6.41.5}, {6.3.18.5}
[121] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१३) प्रथमादितृचस्यानष्टप (४) चतुर्थ्या ऋचश्च बृहती छन्दसी ||
1014 प्रत्य॑स्मै॒ पिपी᳚षते॒ विश्वा᳚नि वि॒दुषे᳚ भर |

अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे᳚ ||{4.7.14.1}, {6.42.1}, {6.3.19.1}
1015 एमे᳚नं प्र॒त्येत॑न॒ सोमे᳚भिः सोम॒पात॑मम् |

अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु॑भिः ||{4.7.14.2}, {6.42.2}, {6.3.19.2}
1016 यदी᳚ सु॒तेभि॒रिन्दु॑भिः॒ सोमे᳚भिः प्रति॒भूष॑थ |

वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ||{4.7.14.3}, {6.42.3}, {6.3.19.3}
1017 अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व᳚र्यो॒ प्र भ॑रा सु॒तम् |

कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ||{4.7.14.4}, {6.42.4}, {6.3.19.4}
[122] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | उष्णिक् छन्दः ||
1018 यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो᳚दासाय र॒न्धयः॑ |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{4.7.15.1}, {6.43.1}, {6.3.20.1}
1019 यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं᳚ च॒ रक्ष॑से |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{4.7.15.2}, {6.43.2}, {6.3.20.2}
1020 यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे᳚ दृ॒ळ्हा अ॒वासृ॑जः |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{4.7.15.3}, {6.43.3}, {6.3.20.3}
1021 यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो᳚नं दधि॒षे शवः॑ |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{4.7.15.4}, {6.43.4}, {6.3.20.4}
[123] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः, इन्द्रो देवता | (१-६) प्रथमादितृचद्वयस्यानुष्टप्, (७, ९-२४) सप्तम्या नवम्यादिषोडशर्चाञ्च त्रिष्टुप, (८) अष्टम्याश्च विराट् छन्दांसि ||
1022 यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः |

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{4.7.16.1}, {6.44.1}, {6.4.1.1}
1023 यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् |

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{4.7.16.2}, {6.44.2}, {6.4.1.2}
1024 येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ |

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{4.7.16.3}, {6.44.3}, {6.4.1.3}
1025 त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पति᳚म् |

इन्द्रं᳚ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ||{4.7.16.4}, {6.44.4}, {6.4.1.4}
1026 यं व॒र्धय॒न्तीद्गिरः॒ पतिं᳚ तु॒रस्य॒ राध॑सः |

तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं᳚ सपर्यतः ||{4.7.16.5}, {6.44.5}, {6.4.1.5}
1027 तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |

विपो॒ न यस्यो॒तयो॒ वि यद्रोह᳚न्ति स॒क्षितः॑ ||{4.7.17.1}, {6.44.6}, {6.4.1.6}
1028 अवि॑द॒द्दक्षं᳚ मि॒त्रो नवी᳚यान्पपा॒नो दे॒वेभ्यो॒ वस्यो᳚ अचैत् |

स॒स॒वान्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ||{4.7.17.2}, {6.44.7}, {6.4.1.7}
1029 ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां᳚सि दे॒वासो᳚ अक्रन् |

दधा᳚नो॒ नाम॑ म॒हो वचो᳚भि॒र्वपु॑र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ||{4.7.17.3}, {6.44.8}, {6.4.1.8}
1030 द्यु॒मत्त॑मं॒ दक्षं᳚ धेह्य॒स्मे सेधा॒ जना᳚नां पू॒र्वीररा᳚तीः |

वर्षी᳚यो॒ वयः॑ कृणुहि॒ शची᳚भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ||{4.7.17.4}, {6.44.9}, {6.4.1.9}
1031 इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे᳚नः |

नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ||{4.7.17.5}, {6.44.10}, {6.4.1.10}
1032 मा जस्व॑ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः॑ स॒ख्ये रि॑षाम |

पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ||{4.7.18.1}, {6.44.11}, {6.4.1.11}
1033 उद॒भ्राणी᳚व स्त॒नय᳚न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या᳚नि॒ गव्या᳚ |

त्वम॑सि प्र॒दिवः॑ का॒रुधा᳚या॒ मा त्वा᳚दा॒मान॒ आ द॑भन्म॒घोनः॑ ||{4.7.18.2}, {6.44.12}, {6.4.1.12}
1034 अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य॑स्य॒ राजा᳚ |

यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ॑ण॒तामृषी᳚णाम् ||{4.7.18.3}, {6.44.13}, {6.4.1.13}
1035 अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घान |

तमु॒ प्र हो᳚षि॒ मधु॑मन्तमस्मै॒ सोमं᳚ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ||{4.7.18.4}, {6.44.14}, {6.4.1.14}
1036 पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं॒ हन्ता᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः |

गन्ता᳚ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा᳚याः ||{4.7.18.5}, {6.44.15}, {6.4.1.15}
1037 इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि |

मत्स॒द्यथा᳚ सौमन॒साय॑ दे॒वं व्य१॑(अ॒)स्मद्द्वेषो᳚ यु॒यव॒द्व्यंहः॑ ||{4.7.19.1}, {6.44.16}, {6.4.1.16}
1038 ए॒ना म᳚न्दा॒नो ज॒हि शू᳚र॒ शत्रू᳚ञ्जा॒मिमजा᳚मिं मघवन्न॒मित्रा॑न् |

अ॒भि॒षे॒णाँ अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्परा᳚च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ||{4.7.19.2}, {6.44.17}, {6.4.1.17}
1039 आ॒सु ष्मा᳚ णो मघवन्निन्द्र पृ॒त्स्व१॑(अ॒)स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ |

अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा᳚ नो अ॒र्धम् ||{4.7.19.3}, {6.44.18}, {6.4.1.18}
1040 आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः᳚ |

अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा᳚य सु॒युजो᳚ वहन्तु ||{4.7.19.4}, {6.44.19}, {6.4.1.19}
1041 आ ते᳚ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः |

इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म् ||{4.7.19.5}, {6.44.20}, {6.4.1.20}
1042 वृषा᳚सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |

वृष्णे᳚ त॒ इन्दु᳚र्वृषभ पीपाय स्वा॒दू रसो᳚ मधु॒पेयो॒ वरा᳚य ||{4.7.20.1}, {6.44.21}, {6.4.1.21}
1043 अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे᳚ण यु॒जा प॒णिम॑स्तभायत् |

अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ||{4.7.20.2}, {6.44.22}, {6.4.1.22}
1044 अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी᳚र॒यं सूर्ये᳚ अदधा॒ज्ज्योति॑र॒न्तः |

अ॒यं त्रि॒धातु॑ दि॒वि रो᳚च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू᳚ळ्हम् ||{4.7.20.3}, {6.44.23}, {6.4.1.23}
1045 अ॒यं द्यावा᳚पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् |

अ॒यं गोषु॒ शच्या᳚ प॒क्वम॒न्तः सोमो᳚ दाधार॒ दश॑यन्त्र॒मुत्स᳚म् ||{4.7.20.4}, {6.44.24}, {6.4.1.24}
[124] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः (१-३०) प्रथमादित्रिंशदृचामिन्द्रः, (३१-३३) एकत्रिंश्यादितृचस्य च बृबर तक्षादेवते | (१-२८, ३०-३२) प्रथमाद्यष्टाविंशत्र्यचां त्रिंश्यादितृचस्य च गायत्री, (२९) एकोनत्रिंश्या प्रतिनिघृत, (३३) त्रयस्त्रिंश्याश्चानुष्टप, छन्दांसि ||
1046 य आन॑यत्परा॒वतः॒ सुनी᳚ती तु॒र्वशं॒ यदु᳚म् |

इन्द्रः॒ स नो॒ युवा॒ सखा᳚ ||{4.7.21.1}, {6.45.1}, {6.4.2.1}
1047 अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना᳚ चि॒दर्व॑ता |

इन्द्रो॒ जेता᳚ हि॒तं धन᳚म् ||{4.7.21.2}, {6.45.2}, {6.4.2.2}
1048 म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः |

नास्य॑ क्षीयन्त ऊ॒तयः॑ ||{4.7.21.3}, {6.45.3}, {6.4.2.3}
1049 सखा᳚यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत |

स हि नः॒ प्रम॑तिर्म॒ही ||{4.7.21.4}, {6.45.4}, {6.4.2.4}
1050 त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो᳚रसि |

उ॒तेदृशे॒ यथा᳚ व॒यम् ||{4.7.21.5}, {6.45.5}, {6.4.2.5}
1051 नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ |

नृभिः॑ सु॒वीर॑ उच्यसे ||{4.7.22.1}, {6.45.6}, {6.4.2.6}
1052 ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा᳚यमृ॒ग्मिय᳚म् |

गां न दो॒हसे᳚ हुवे ||{4.7.22.2}, {6.45.7}, {6.4.2.7}
1053 यस्य॒ विश्वा᳚नि॒ हस्त॑योरू॒चुर्वसू᳚नि॒ नि द्वि॒ता |

वी॒रस्य॑ पृतना॒षहः॑ ||{4.7.22.3}, {6.45.8}, {6.4.2.8}
1054 वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना᳚नां शचीपते |

वृ॒ह मा॒या अ॑नानत ||{4.7.22.4}, {6.45.9}, {6.4.2.9}
1055 तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते |

अहू᳚महि श्रव॒स्यवः॑ ||{4.7.22.5}, {6.45.10}, {6.4.2.10}
1056 तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा᳚ नू॒नं हि॒ते धने᳚ |

हव्यः॒ स श्रु॑धी॒ हव᳚म् ||{4.7.23.1}, {6.45.11}, {6.4.2.11}
1057 धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ᳚ इन्द्र श्र॒वाय्या॑न् |

त्वया᳚ जेष्म हि॒तं धन᳚म् ||{4.7.23.2}, {6.45.12}, {6.4.2.12}
1058 अभू᳚रु वीर गिर्वणो म॒हाँ इ᳚न्द्र॒ धने᳚ हि॒ते |

भरे᳚ वितन्त॒साय्यः॑ ||{4.7.23.3}, {6.45.13}, {6.4.2.13}
1059 या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |

तया᳚ नो हिनुही॒ रथ᳚म् ||{4.7.23.4}, {6.45.14}, {6.4.2.14}
1060 स रथे᳚न र॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |

जेषि॑ जिष्णो हि॒तं धन᳚म् ||{4.7.23.5}, {6.45.15}, {6.4.2.15}
1061 य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः |

पति॑र्ज॒ज्ञे वृष॑क्रतुः ||{4.7.24.1}, {6.45.16}, {6.4.2.16}
1062 यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा᳚ |

स त्वं न॑ इन्द्र मृळय ||{4.7.24.2}, {6.45.17}, {6.4.2.17}
1063 धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या᳚य वज्रिवः |

सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ||{4.7.24.3}, {6.45.18}, {6.4.2.18}
1064 प्र॒त्नं र॑यी॒णां युजं॒ सखा᳚यं कीरि॒चोद॑नम् |

ब्रह्म॑वाहस्तमं हुवे ||{4.7.24.4}, {6.45.19}, {6.4.2.19}
1065 स हि विश्वा᳚नि॒ पार्थि॑वाँ॒ एको॒ वसू᳚नि॒ पत्य॑ते |

गिर्व॑णस्तमो॒ अध्रि॑गुः ||{4.7.24.5}, {6.45.20}, {6.4.2.20}
1066 स नो᳚ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे᳚भिर॒श्विभिः॑ |

गोम॑द्भिर्गोपते धृ॒षत् ||{4.7.25.1}, {6.45.21}, {6.4.2.21}
1067 तद्वो᳚ गाय सु॒ते सचा᳚ पुरुहू॒ताय॒ सत्व॑ने |

शं यद्गवे॒ न शा॒किने᳚ ||{4.7.25.2}, {6.45.22}, {6.4.2.22}
1068 न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः |

यत्सी॒मुप॒ श्रव॒द्गिरः॑ ||{4.7.25.3}, {6.45.23}, {6.4.2.23}
1069 कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम᳚न्तं दस्यु॒हा गम॑त् |

शची᳚भि॒रप॑ नो वरत् ||{4.7.25.4}, {6.45.24}, {6.4.2.24}
1070 इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो᳚नुवु॒र्गिरः॑ |

इन्द्र॑ व॒त्सं न मा॒तरः॑ ||{4.7.25.5}, {6.45.25}, {6.4.2.25}
1071 दू॒णाशं᳚ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते |

अश्वो᳚ अश्वाय॒ते भ॑व ||{4.7.26.1}, {6.45.26}, {6.4.2.26}
1072 स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |

न स्तो॒तारं᳚ नि॒दे क॑रः ||{4.7.26.2}, {6.45.27}, {6.4.2.27}
1073 इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष᳚न्ते गिर्वणो॒ गिरः॑ |

व॒त्सं गावो॒ न धे॒नवः॑ ||{4.7.26.3}, {6.45.28}, {6.4.2.28}
1074 पु॒रू॒तमं᳚ पुरू॒णां स्तो᳚तॄ॒णां विवा᳚चि |

वाजे᳚भिर्वाजय॒ताम् ||{4.7.26.4}, {6.45.29}, {6.4.2.29}
1075 अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः |

अ॒स्मान्रा॒ये म॒हे हि॑नु ||{4.7.26.5}, {6.45.30}, {6.4.2.30}
1076 अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् |

उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ||{4.7.26.6}, {6.45.31}, {6.4.2.31}
1077 यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी᳚ |

स॒द्यो दा॒नाय॒ मंह॑ते ||{4.7.26.7}, {6.45.32}, {6.4.2.32}
1078 तत्सु नो॒ विश्वे᳚ अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑ |

बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ||{4.7.26.8}, {6.45.33}, {6.4.2.33}
[125] (१-१४) चतुदर्श र्चस्य सूक्तस्य बार्हस्पत्यः शंय षिः, इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1079 त्वामिद्धि हवा᳚महे सा॒ता वाज॑स्य का॒रवः॑ |

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ||{4.7.27.1}, {6.46.1}, {6.4.3.1}
1080 स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः |

गामश्वं᳚ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे᳚ ||{4.7.27.2}, {6.46.2}, {6.4.3.2}
1081 यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू᳚महे व॒यम् |

सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा᳚ स॒मत्सु॑ नो वृ॒धे ||{4.7.27.3}, {6.46.3}, {6.4.3.3}
1082 बाध॑से॒ जना᳚न्वृष॒भेव॑ म॒न्युना॒ घृषौ᳚ मी॒ळ्ह ऋ॑चीषम |

अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚ ||{4.7.27.4}, {6.46.4}, {6.4.3.4}
1083 इन्द्र॒ ज्येष्ठं᳚ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ |

येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ||{4.7.27.5}, {6.46.5}, {6.4.3.5}
1084 त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज᳚न्दे॒वेषु॑ हूमहे |

विश्वा॒ सु नो᳚ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा᳚न्सु॒षहा᳚न्कृधि ||{4.7.28.1}, {6.46.6}, {6.4.3.6}
1085 यदि᳚न्द्र॒ नाहु॑षी॒ष्वाँ ओजो᳚ नृ॒म्णं च॑ कृ॒ष्टिषु॑ |

यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा᳚नि॒ पौंस्या᳚ ||{4.7.28.2}, {6.46.7}, {6.4.3.7}
1086 यद्वा᳚ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य᳚म् |

अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा᳚न्पृ॒त्सु तु॒र्वणे᳚ ||{4.7.28.3}, {6.46.8}, {6.4.3.8}
1087 इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू᳚थं स्वस्ति॒मत् |

छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः ||{4.7.28.4}, {6.46.9}, {6.4.3.9}
1088 ये ग᳚व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या |

अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ||{4.7.28.5}, {6.46.10}, {6.4.3.10}
1089 अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि |

यद॒न्तरि॑क्षे प॒तय᳚न्ति प॒र्णिनो᳚ दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः ||{4.7.29.1}, {6.46.11}, {6.4.3.11}
1090 यत्र॒ शूरा᳚सस्त॒न्वो᳚ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् |

अध॑ स्मा यच्छ त॒न्वे॒३॑(ए॒) तने᳚ च छ॒र्दिर॒चित्तं᳚ या॒वय॒ द्वेषः॑ ||{4.7.29.2}, {6.46.12}, {6.4.3.12}
1091 यदि᳚न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया᳚से महाध॒ने |

अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ||{4.7.29.3}, {6.46.13}, {6.4.3.13}
1092 सिन्धूँ᳚रिव प्रव॒ण आ᳚शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ |

आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ||{4.7.29.4}, {6.46.14}, {6.4.3.14}
[126] (१-३१) एकत्रिंशदृचस्य सूक्तस्य भारद्वाजो गर्ग ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् सोमः, (६-१९, २१) षष्ठ्यादिचतुदर्श निआमेकविंश्याश्चेन्द्रः, (२०) विंश्याः प्रथमपादस्य देवाः, द्वितीयपादस्य भूमिः, तृतीयपादस्य बृहस्पतिः, चतुथर्प दिस्य चेन्द्रः, (२२-२५) द्वाविंश्यादिचतसृणां साञ्जयस्य प्रस्तोकस्य दानस्तुतिः, (२६-२८) षड्विशं यादितृचस्य रथः, (२९-३१) एकोनत्रिंश्यादितृचस्य दुन्दुभिः, (३१) एकत्रिंश्या उत्तरार्धस्य च इन्द्रो देवताः | (१-१८, २०-२२, २६, २८-३१) प्रथमाद्यष्टादशों विंश्यादितृचस्य षड़िवशं या अष्टाविंश्यादिचतसृणाञ्च त्रिष्टुप्, (१९) एकोनविंश्या बृहती, (२३) त्रयोविंश्या अनुष्टुप् (२४) चतुर्विंश्या गायत्री, (२५) पञ्चविंश्या द्विपदा त्रिष्टुप्, (२७) सप्तविंश्याश्च जगती छन्दांसि ||
1093 स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् |

उ॒तो न्व१॑(अ॒)स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ||{4.7.30.1}, {6.47.1}, {6.4.4.1}
1094 अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो᳚ वृत्र॒हत्ये᳚ म॒माद॑ |

पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॑(ओ॒) हन् ||{4.7.30.2}, {6.47.2}, {6.4.4.2}
1095 अ॒यं मे᳚ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः |

अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ||{4.7.30.3}, {6.47.3}, {6.4.4.3}
1096 अ॒यं स यो व॑रि॒माणं᳚ पृथि॒व्या व॒र्ष्माणं᳚ दि॒वो अकृ॑णोद॒यं सः |

अ॒यं पी॒यूषं᳚ ति॒सृषु॑ प्र॒वत्सु॒ सोमो᳚ दाधारो॒र्व१॑(अ॒)'न्तरि॑क्षम् ||{4.7.30.4}, {6.47.4}, {6.4.4.4}
1097 अ॒यं वि॑दच्चित्र॒दृशी᳚क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |

अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ||{4.7.30.5}, {6.47.5}, {6.4.4.5}
1098 धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू᳚र सम॒रे वसू᳚नाम् |

माध्यं᳚दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो᳚ र॒यिम॒स्मासु॑ धेहि ||{4.7.31.1}, {6.47.6}, {6.4.4.6}
1099 इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒ अच्छ॑ |

भवा᳚ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः ||{4.7.31.2}, {6.47.7}, {6.4.4.7}
1100 उ॒रुं नो᳚ लो॒कमनु॑ नेषि वि॒द्वान्स्व᳚र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति |

ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता᳚ ||{4.7.31.3}, {6.47.8}, {6.4.4.8}
1101 वरि॑ष्ठे न इन्द्र व॒न्धुरे᳚ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा |

इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो᳚ अ॒र्यः ||{4.7.31.4}, {6.47.9}, {6.4.4.9}
1102 इन्द्र॑ मृ॒ळ मह्यं᳚ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा᳚म् |

यत्किं चा॒हं त्वा॒युरि॒दं वदा᳚मि॒ तज्जु॑षस्व कृ॒धि मा᳚ दे॒वव᳚न्तम् ||{4.7.31.5}, {6.47.10}, {6.4.4.10}
1103 त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म् |

ह्वया᳚मि श॒क्रं पु॑रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्रः॑ ||{4.7.32.1}, {6.47.11}, {6.4.4.11}
1104 इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |

बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{4.7.32.2}, {6.47.12}, {6.4.4.12}
1105 तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो᳚ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{4.7.32.3}, {6.47.13}, {6.4.4.13}
1106 अव॒ त्वे इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते |

उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ||{4.7.32.4}, {6.47.14}, {6.4.4.14}
1107 क ईं᳚ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा᳚ वि॒श्वहावे᳚त् |

पादा᳚विव प्र॒हर᳚न्न॒न्यम᳚न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची᳚भिः ||{4.7.32.5}, {6.47.15}, {6.4.4.15}
1108 शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा᳚ चोष्कू॒यते॒ विश॒ इन्द्रो᳚ मनु॒ष्या॑न् ||{4.7.33.1}, {6.47.16}, {6.4.4.16}
1109 परा॒ पूर्वे᳚षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति |

अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्रः॑ श॒रद॑स्तर्तरीति ||{4.7.33.2}, {6.47.17}, {6.4.4.17}
1110 रू॒पंरू᳚पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय |

इन्द्रो᳚ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ||{4.7.33.3}, {6.47.18}, {6.4.4.18}
1111 यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति |

को वि॒श्वाहा᳚ द्विष॒तः पक्ष॑ आसत उ॒तासी᳚नेषु सू॒रिषु॑ ||{4.7.33.4}, {6.47.19}, {6.4.4.19}
1112 अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू᳚त् |

बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ||{4.7.33.5}, {6.47.20}, {6.4.4.20}
1113 दि॒वेदि॑वे स॒दृशी᳚र॒न्यमर्धं᳚ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः |

अह᳚न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ||{4.7.34.1}, {6.47.21}, {6.4.4.21}
1114 प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो᳚ऽदात् |

दिवो᳚दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ||{4.7.34.2}, {6.47.22}, {6.4.4.22}
1115 दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना |

दशो᳚ हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् ||{4.7.34.3}, {6.47.23}, {6.4.4.23}
1116 दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ᳚र्वभ्यः |

अ॒श्व॒थः पा॒यवे᳚ऽदात् ||{4.7.34.4}, {6.47.24}, {6.4.4.24}
1117 महि॒ राधो᳚ वि॒श्वज᳚न्यं॒ दधा᳚नान्भ॒रद्वा᳚जान्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ||{4.7.34.5}, {6.47.25}, {6.4.4.25}
1118 वन॑स्पते वी॒ड्व᳚ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ |

गोभिः॒ संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते᳚ जयतु॒ जेत्वा᳚नि ||{4.7.35.1}, {6.47.26}, {6.4.4.26}
1119 दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ |

अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ||{4.7.35.2}, {6.47.27}, {6.4.4.27}
1120 इन्द्र॑स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ |

सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ||{4.7.35.3}, {6.47.28}, {6.4.4.28}
1121 उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते᳚ मनुतां॒ विष्ठि॑तं॒ जग॑त् |

स दु᳚न्दुभे स॒जूरिन्द्रे᳚ण दे॒वैर्दू॒राद्दवी᳚यो॒ अप॑ सेध॒ शत्रू॑न् ||{4.7.35.4}, {6.47.29}, {6.4.4.29}
1122 आ क्र᳚न्दय॒ बल॒मोजो᳚ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः |

अप॑ प्रोथ दुन्दुभे दु॒च्छुना᳚ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ||{4.7.35.5}, {6.47.30}, {6.4.4.30}
1123 आमूर॑ज प्र॒त्याव॑र्तये॒माः के᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |

समश्व॑पर्णा॒श्चर᳚न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो᳚ जयन्तु ||{4.7.35.6}, {6.47.31}, {6.4.4.31}
[127] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंय षिः (१-१०) प्रथमादिदशर्चामग्निः, (११-१५, २०-२१) एकादश्यादिपञ्चानां विंश्येकविंश्योश्च मरुतः (१३-१५) त्रयोदश्यादितृचस्य लिङ्गोक्ता वा ), (१३-१९) षोडश्यादिचतसृणां पूषा, (२२) द्वाविंश्याश्च द्यावाभूमी वा पृश्निर्वा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् प्रगाथः ( (१, ३, ५, ९) प्रथमातृतीयापञ्चमीनवमीनां बृहती, (२, ४, १०, १२) द्वितीयाचतुर्थीदशमीद्वादशीनां सतोबृहती, (६, ८), षष्ठ्यष्टम्योर्महासतोबृहती, (७) सप्तम्या महाबृहती, (११) एकादश्याश्च ककुप), (१३, १८) त्रयोदश्यष्टादश्योः पुर उष्णिक्, (१४, १९-२०) चतुदर्श येकोनविंशीविंशीनां बृहती, (१५) पञ्चदश्या अतिजगती, (१६) षोडश्याः ककुप, (१७) सप्तदश्याः सतोबृहती, (२१) एकविंश्या यवमध्या महाबृहती, ३७४ ऋक् वेद (२२) द्वाविंश्याश्चानुष्टप् छन्दांसि ||
1124 य॒ज्ञाय॑ज्ञा वो अ॒ग्नये᳚ गि॒रागि॑रा च॒ दक्ष॑से |

प्रप्र॑ व॒यम॒मृतं᳚ जा॒तवे᳚दसं प्रि॒यं मि॒त्रं न शं᳚सिषम् ||{4.8.1.1}, {6.48.1}, {6.4.5.1}
1125 ऊ॒र्जो नपा᳚तं॒ स हि॒नायम॑स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये |

भुव॒द्वाजे᳚ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म् ||{4.8.1.2}, {6.48.2}, {6.4.5.2}
1126 वृषा॒ ह्य॑ग्ने अ॒जरो᳚ म॒हान्वि॒भास्य॒र्चिषा᳚ |

अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी᳚दिहि ||{4.8.1.3}, {6.48.3}, {6.4.5.3}
1127 म॒हो दे॒वान्यज॑सि॒ यक्ष्या᳚नु॒षक्तव॒ क्रत्वो॒त दं॒सना᳚ |

अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं᳚स्व ||{4.8.1.4}, {6.48.4}, {6.4.5.4}
1128 यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति |

सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ||{4.8.1.5}, {6.48.5}, {6.4.5.5}
1129 आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि |

ति॒रस्तमो᳚ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा᳚ ||{4.8.2.1}, {6.48.6}, {6.4.5.6}
1130 बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा᳚ |

भ॒रद्वा᳚जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ||{4.8.2.2}, {6.48.7}, {6.4.5.7}
1131 विश्वा᳚सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् |

श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं᳚ श॒तं हिमाः᳚ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ||{4.8.2.3}, {6.48.8}, {6.4.5.8}
1132 त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय |

अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ||{4.8.2.4}, {6.48.9}, {6.4.5.9}
1133 पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |

अग्ने॒ हेळां᳚सि॒ दैव्या᳚ युयोधि॒ नोऽदे᳚वानि॒ ह्वरां᳚सि च ||{4.8.2.5}, {6.48.10}, {6.4.5.10}
1134 आ स॑खायः सब॒र्दुघां᳚ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ |

सृ॒जध्व॒मन॑पस्फुराम् ||{4.8.3.1}, {6.48.11}, {6.4.5.11}
1135 या शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त |

या मृ॑ळी॒के म॒रुतां᳚ तु॒राणां॒ या सु॒म्नैरे᳚व॒याव॑री ||{4.8.3.2}, {6.48.12}, {6.4.5.12}
1136 भ॒रद्वा᳚जा॒याव॑ धुक्षत द्वि॒ता |

धे॒नुं च॑ वि॒श्वदो᳚हस॒मिषं᳚ च वि॒श्वभो᳚जसम् ||{4.8.3.3}, {6.48.13}, {6.4.5.13}
1137 तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन᳚म् |

अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो᳚जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे᳚ ||{4.8.3.4}, {6.48.14}, {6.4.5.14}
1138 त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं᳚ पू॒षणं॒ सं यथा᳚ श॒ता |

सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू᳚ करत्सु॒वेदा᳚ नो॒ वसू᳚ करत् ||{4.8.3.5}, {6.48.15}, {6.4.5.15}
1139 आ मा᳚ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते᳚ अपिक॒र्ण आ᳚घृणे |

अ॒घा अ॒र्यो अरा᳚तयः ||{4.8.3.6}, {6.48.16}, {6.4.5.16}
1140 मा का᳚क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः |

मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ||{4.8.4.1}, {6.48.17}, {6.4.5.17}
1141 दृते᳚रिव तेऽवृ॒कम॑स्तु स॒ख्यम् |

अच्छि॑द्रस्य दध॒न्वतः॒ सुपू᳚र्णस्य दध॒न्वतः॑ ||{4.8.4.2}, {6.48.18}, {6.4.5.18}
1142 प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या |

अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा᳚ नू॒नं यथा᳚ पु॒रा ||{4.8.4.3}, {6.48.19}, {6.4.5.19}
1143 वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी᳚तिरस्तु सू॒नृता᳚ |

दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ||{4.8.4.4}, {6.48.20}, {6.4.5.20}
1144 स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ |

त्वे॒षं शवो᳚ दधिरे॒ नाम॑ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः॑ ||{4.8.4.5}, {6.48.21}, {6.4.5.21}
1145 स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत |

पृश्न्या᳚ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ||{4.8.4.6}, {6.48.22}, {6.4.5.22}
[128] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! त्रिष्टुप, (१५) पञ्चदश्याश्च शक्वरी छन्दसी ||
1146 स्तु॒षे जनं᳚ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता᳚ |

त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ||{4.8.5.1}, {6.49.1}, {6.4.6.1}
1147 वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः |

दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ||{4.8.5.2}, {6.49.2}, {6.4.6.2}
1148 अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो᳚ अ॒न्या |

मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा᳚ने ||{4.8.5.3}, {6.49.3}, {6.4.6.3}
1149 प्र वा॒युमच्छा᳚ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा᳚रं रथ॒प्राम् |

द्यु॒तद्या᳚मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ||{4.8.5.4}, {6.49.4}, {6.4.6.4}
1150 स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो᳚ वि॒रुक्मा॒न्मन॑सा युजा॒नः |

येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{4.8.5.5}, {6.49.5}, {6.4.6.5}
1151 पर्ज᳚न्यवाता वृषभा पृथि॒व्याः पुरी᳚षाणि जिन्वत॒मप्या᳚नि |

सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ||{4.8.6.1}, {6.49.6}, {6.4.6.6}
1152 पावी᳚रवी क॒न्या᳚ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं᳚ धात् |

ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा᳚ दुरा॒धर्षं᳚ गृण॒ते शर्म॑ यंसत् ||{4.8.6.2}, {6.49.7}, {6.4.6.7}
1153 प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे᳚न कृ॒तो अ॒भ्या᳚नळ॒र्कम् |

स नो᳚ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं᳚धियं सीषधाति॒ प्र पू॒षा ||{4.8.6.3}, {6.49.8}, {6.4.6.8}
1154 प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व᳚म् |

होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ||{4.8.6.4}, {6.49.9}, {6.4.6.9}
1155 भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ |

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ||{4.8.6.5}, {6.49.10}, {6.4.6.10}
1156 आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् |

अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष᳚न्तो नरो अङ्गिर॒स्वत् ||{4.8.7.1}, {6.49.11}, {6.4.6.11}
1157 प्र वी॒राय॒ प्र त॒वसे᳚ तु॒रायाजा᳚ यू॒थेव॑ पशु॒रक्षि॒रस्त᳚म् |

स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं᳚ वच॒नस्य॒ विपः॑ ||{4.8.7.2}, {6.49.12}, {6.4.6.12}
1158 यो रजां᳚सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ |

तस्य॑ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म॑देम त॒न्वा॒३॑(आ॒) तना᳚ च ||{4.8.7.3}, {6.49.13}, {6.4.6.13}
1159 तन्नोऽहि॑र्बु॒ध्न्यो᳚ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो᳚ धात् |

तदोष॑धीभिर॒भि रा᳚ति॒षाचो॒ भगः॒ पुरं᳚धिर्जिन्वतु॒ प्र रा॒ये ||{4.8.7.4}, {6.49.14}, {6.4.6.14}
1160 नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु॑रु॒वीरं᳚ म॒ह ऋ॒तस्य॑ गो॒पाम् |

क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न्स्पृधो॒ अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म ||{4.8.7.5}, {6.49.15}, {6.4.6.15}
[129] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1161 हु॒वे वो᳚ दे॒वीमदि॑तिं॒ नमो᳚भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् |

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान्स॑वि॒तारं॒ भगं᳚ च ||{4.8.8.1}, {6.50.1}, {6.5.1.1}
1162 सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् |

द्वि॒जन्मा᳚नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व᳚र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ||{4.8.8.2}, {6.50.2}, {6.5.1.2}
1163 उ॒त द्या᳚वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो᳚दसी शर॒णं सु॑षुम्ने |

म॒हस्क॑रथो॒ वरि॑वो॒ यथा᳚ नो॒ऽस्मे क्षया᳚य धिषणे अने॒हः ||{4.8.8.3}, {6.50.3}, {6.5.1.3}
1164 आ नो᳚ रु॒द्रस्य॑ सू॒नवो᳚ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः |

यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒ अह्वा᳚म दे॒वान् ||{4.8.8.4}, {6.50.4}, {6.5.1.4}
1165 मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा᳚ |

श्रु॒त्वा हवं᳚ मरुतो॒ यद्ध॑ या॒थ भूमा᳚ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ||{4.8.8.5}, {6.50.5}, {6.5.1.5}
1166 अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे᳚न |

श्रव॒दिद्धव॒मुप॑ च॒ स्तवा᳚नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ||{4.8.9.1}, {6.50.6}, {6.5.1.6}
1167 ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः |

यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ||{4.8.9.2}, {6.50.7}, {6.5.1.7}
1168 आ नो᳚ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर᳚ण्यपाणिर्यज॒तो ज॑गम्यात् |

यो दत्र॑वाँ उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि ||{4.8.9.3}, {6.50.8}, {6.5.1.8}
1169 उ॒त त्वं सू᳚नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः |

स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ||{4.8.9.4}, {6.50.9}, {6.5.1.9}
1170 उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा |

अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके᳚ ||{4.8.9.5}, {6.50.10}, {6.5.1.10}
1171 ते नो᳚ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो᳚ भूत नृ॒वतः॑ पुरु॒क्षोः |

द॒श॒स्यन्तो᳚ दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता॒ अप्या᳚ मृ॒ळता᳚ च देवाः ||{4.8.10.1}, {6.50.11}, {6.5.1.11}
1172 ते नो᳚ रु॒द्रः सर॑स्वती स॒जोषा᳚ मी॒ळ्हुष्म᳚न्तो॒ विष्णु᳚र्मृळन्तु वा॒युः |

ऋ॒भु॒क्षा वाजो॒ दैव्यो᳚ विधा॒ता प॒र्जन्या॒वाता᳚ पिप्यता॒मिषं᳚ नः ||{4.8.10.2}, {6.50.12}, {6.5.1.12}
1173 उ॒त स्य दे॒वः स॑वि॒ता भगो᳚ नो॒ऽपां नपा᳚दवतु॒ दानु॒ पप्रिः॑ |

त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ||{4.8.10.3}, {6.50.13}, {6.5.1.13}
1174 उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः |

विश्वे᳚ दे॒वा ऋ॑ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मन्त्राः᳚ कविश॒स्ता अ॑वन्तु ||{4.8.10.4}, {6.50.14}, {6.5.1.14}
1175 ए॒वा नपा᳚तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा᳚जा अ॒भ्य॑र्चन्त्य॒र्कैः |

ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ||{4.8.10.5}, {6.50.15}, {6.5.1.15}
[130] (१-१६) षोळशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप, (१३-१५) त्रयोदश्यादितृचस्योष्णिक्, (१६) षोडश्याश्चानुष्टप् छन्दांसि ||
1176 उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् |

ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी᳚कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ||{4.8.11.1}, {6.51.1}, {6.5.2.1}
1177 वेद॒ यस्त्रीणि॑ वि॒दथा᳚न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ |

ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च॑ष्टे॒ सूरो᳚ अ॒र्य एवा॑न् ||{4.8.11.2}, {6.51.2}, {6.5.2.2}
1178 स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् |

अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा᳚ वोचे सध॒न्यः॑ पाव॒कान् ||{4.8.11.3}, {6.51.3}, {6.5.2.3}
1179 रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् |

यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना᳚दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ||{4.8.11.4}, {6.51.4}, {6.5.2.4}
1180 द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने᳚ भ्रातर्वसवो मृ॒ळता᳚ नः |

विश्व॑ आदित्या अदिते स॒जोषा᳚ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्त ||{4.8.11.5}, {6.51.5}, {6.5.2.5}
1181 मा नो॒ वृका᳚य वृ॒क्ये᳚ समस्मा अघाय॒ते री᳚रधता यजत्राः |

यू॒यं हि ष्ठा र॒थ्यो᳚ नस्त॒नूनां᳚ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ||{4.8.12.1}, {6.51.6}, {6.5.2.6}
1182 मा व॒ एनो᳚ अ॒न्यकृ॑तं भुजेम॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे |

विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं᳚ रीरिषीष्ट ||{4.8.12.2}, {6.51.7}, {6.5.2.7}
1183 नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो᳚ दाधार पृथि॒वीमु॒त द्याम् |

नमो᳚ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ||{4.8.12.3}, {6.51.8}, {6.5.2.8}
1184 ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् |

ताँ आ नमो᳚भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा᳚न्व॒ आ न॑मे म॒हो य॑जत्राः ||{4.8.12.4}, {6.51.9}, {6.5.2.9}
1185 ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा᳚नि दुरि॒ता नय᳚न्ति |

सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज॑सत्याः ||{4.8.12.5}, {6.51.10}, {6.5.2.10}
1186 ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पञ्च॒ जनाः᳚ |

सु॒शर्मा᳚णः॒ स्वव॑सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ||{4.8.13.1}, {6.51.11}, {6.5.2.11}
1187 नू स॒द्मानं᳚ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या᳚ति॒ होता᳚ |

आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै᳚र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ||{4.8.13.2}, {6.51.12}, {6.5.2.12}
1188 अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य᳚म् |

द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ||{4.8.13.3}, {6.51.13}, {6.5.2.13}
1189 ग्रावा᳚णः सोम नो॒ हि कं᳚ सखित्व॒नाय॑ वाव॒शुः |

ज॒ही न्य१॑(अ॒)त्रिणं᳚ प॒णिं वृको॒ हि षः ||{4.8.13.4}, {6.51.14}, {6.5.2.14}
1190 यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः |

कर्ता᳚ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ||{4.8.13.5}, {6.51.15}, {6.5.2.15}
1191 अपि॒ पन्था᳚मगन्महि स्वस्ति॒गाम॑ने॒हस᳚म् |

येन॒ विश्वाः॒ परि॒ द्विषो᳚ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ||{4.8.13.6}, {6.51.16}, {6.5.2.16}
[131] (१-१७) सप्तदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-६, १३, १५-१७) प्रथमादितृचद्यस्य त्रयोदश्या चः पञ्चदश्यादितृचस्य च त्रिष्टुप्, (७-१२) सप्तम्यादितृचद्यस्य गायत्री, (१४) चतुर्दर्श्याश्च जगती छन्दांसि ||
1192 न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी᳚भिरा॒भिः |

उ॒ब्जन्तु॒ तं सु॒भ्व१॑(अ॒)ः पर्व॑तासो॒ नि ही᳚यतामतिया॒जस्य॑ य॒ष्टा ||{4.8.14.1}, {6.52.1}, {6.5.3.1}
1193 अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा᳚णं॒ निनि॑त्सात् |

तपूं᳚षि॒ तस्मै᳚ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो᳚चतु॒ द्यौः ||{4.8.14.2}, {6.52.2}, {6.5.3.2}
1194 किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा᳚हुरभिशस्ति॒पां नः॑ |

किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा᳚नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{4.8.14.3}, {6.52.3}, {6.5.3.3}
1195 अव᳚न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव᳚न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः |

अव᳚न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ ||{4.8.14.4}, {6.52.4}, {6.5.3.4}
1196 वि॒श्व॒दानीं᳚ सु॒मन॑सः स्याम॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |

तथा᳚ कर॒द्वसु॑पति॒र्वसू᳚नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ||{4.8.14.5}, {6.52.5}, {6.5.3.5}
1197 इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना |

प॒र्जन्यो᳚ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ||{4.8.15.1}, {6.52.6}, {6.5.3.6}
1198 विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |

एदं ब॒र्हिर्नि षी᳚दत ||{4.8.15.2}, {6.52.7}, {6.5.3.7}
1199 यो वो᳚ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति |

तं विश्व॒ उप॑ गच्छथ ||{4.8.15.3}, {6.52.8}, {6.5.3.8}
1200 उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये |

सु॒मृ॒ळी॒का भ॑वन्तु नः ||{4.8.15.4}, {6.52.9}, {6.5.3.9}
1201 विश्वे᳚ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ |

जु॒षन्तां॒ युज्यं॒ पयः॑ ||{4.8.15.5}, {6.52.10}, {6.5.3.10}
1202 स्तो॒त्रमिन्द्रो᳚ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ᳚र्य॒मा |

इ॒मा ह॒व्या जु॑षन्त नः ||{4.8.16.1}, {6.52.11}, {6.5.3.11}
1203 इ॒मं नो᳚ अग्ने अध्व॒रं होत᳚र्वयुन॒शो य॑ज |

चि॒कि॒त्वान्दैव्यं॒ जन᳚म् ||{4.8.16.2}, {6.52.12}, {6.5.3.12}
1204 विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ |

ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ||{4.8.16.3}, {6.52.13}, {6.5.3.13}
1205 विश्वे᳚ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया᳚ उ॒भे रोद॑सी अ॒पां नपा᳚च्च॒ मन्म॑ |

मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ||{4.8.16.4}, {6.52.14}, {6.5.3.14}
1206 ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे᳚ |

ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ||{4.8.16.5}, {6.52.15}, {6.5.3.15}
1207 अग्नी᳚पर्जन्या॒वव॑तं॒ धियं᳚ मे॒ऽस्मिन्हवे᳚ सुहवा सुष्टु॒तिं नः॑ |

इळा᳚म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ||{4.8.16.6}, {6.52.16}, {6.5.3.16}
1208 स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे |

अ॒स्मिन्नो᳚ अ॒द्य वि॒दथे᳚ यजत्रा॒ विश्वे᳚ देवा ह॒विषि॑ मादयध्वम् ||{4.8.16.7}, {6.52.17}, {6.5.3.17}
[132] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१७, ९-१०) प्रथमादिसप्तर्चाम् नवमीदशम्योश्च गायत्री, (८) अष्टम्याश्चानुष्टप् छन्दसी ||
1209 व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये |

धि॒ये पू᳚षन्नयुज्महि ||{4.8.17.1}, {6.53.1}, {6.5.4.1}
1210 अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् |

वा॒मं गृ॒हप॑तिं नय ||{4.8.17.2}, {6.53.2}, {6.5.4.2}
1211 अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना᳚य चोदय |

प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ||{4.8.17.3}, {6.53.3}, {6.5.4.3}
1212 वि प॒थो वाज॑सातये चिनु॒हि वि मृधो᳚ जहि |

साध᳚न्तामुग्र नो॒ धियः॑ ||{4.8.17.4}, {6.53.4}, {6.5.4.4}
1213 परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे |

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{4.8.17.5}, {6.53.5}, {6.5.4.5}
1214 वि पू᳚ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् |

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{4.8.18.1}, {6.53.6}, {6.5.4.6}
1215 आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे |

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{4.8.18.2}, {6.53.7}, {6.5.4.7}
1216 यां पू᳚षन्ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे |

तया᳚ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ||{4.8.18.3}, {6.53.8}, {6.5.4.8}
1217 या ते॒ अष्ट्रा॒ गोओ᳚प॒शाघृ॑णे पशु॒साध॑नी |

तस्या᳚स्ते सु॒म्नमी᳚महे ||{4.8.18.4}, {6.53.9}, {6.5.4.9}
1218 उ॒त नो᳚ गो॒षणिं॒ धिय॑मश्व॒सां वा᳚ज॒सामु॒त |

नृ॒वत्कृ॑णुहि वी॒तये᳚ ||{4.8.18.5}, {6.53.10}, {6.5.4.10}
[133] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
1219 सं पू᳚षन्वि॒दुषा᳚ नय॒ यो अञ्ज॑सानु॒शास॑ति |

य ए॒वेदमिति॒ ब्रव॑त् ||{4.8.19.1}, {6.54.1}, {6.5.5.1}
1220 समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति |

इ॒म ए॒वेति॑ च॒ ब्रव॑त् ||{4.8.19.2}, {6.54.2}, {6.5.5.2}
1221 पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते |

नो अ॑स्य व्यथते प॒विः ||{4.8.19.3}, {6.54.3}, {6.5.5.3}
1222 यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते |

प्र॒थ॒मो वि᳚न्दते॒ वसु॑ ||{4.8.19.4}, {6.54.4}, {6.5.5.4}
1223 पू॒षा गा अन्वे᳚तु नः पू॒षा र॑क्ष॒त्वर्व॑तः |

पू॒षा वाजं᳚ सनोतु नः ||{4.8.19.5}, {6.54.5}, {6.5.5.5}
1224 पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः |

अ॒स्माकं᳚ स्तुव॒तामु॒त ||{4.8.20.1}, {6.54.6}, {6.5.5.6}
1225 माकि᳚र्नेश॒न्माकीं᳚ रिष॒न्माकीं॒ सं शा᳚रि॒ केव॑टे |

अथारि॑ष्टाभि॒रा ग॑हि ||{4.8.20.2}, {6.54.7}, {6.5.5.7}
1226 शृ॒ण्वन्तं᳚ पू॒षणं᳚ व॒यमिर्य॒मन॑ष्टवेदसम् |

ईशा᳚नं रा॒य ई᳚महे ||{4.8.20.3}, {6.54.8}, {6.5.5.8}
1227 पूष॒न्तव᳚ व्र॒ते व॒यं न रि॑ष्येम॒ कदा᳚ च॒न |

स्तो॒तार॑स्त इ॒ह स्म॑सि ||{4.8.20.4}, {6.54.9}, {6.5.5.9}
1228 परि॑ पू॒षा प॒रस्ता॒द्धस्तं᳚ दधातु॒ दक्षि॑णम् |

पुन᳚र्नो न॒ष्टमाज॑तु ||{4.8.20.5}, {6.54.10}, {6.5.5.10}
[134] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
1229 एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै |

र॒थीरृ॒तस्य॑ नो भव ||{4.8.21.1}, {6.55.1}, {6.5.6.1}
1230 र॒थीत॑मं कप॒र्दिन॒मीशा᳚नं॒ राध॑सो म॒हः |

रा॒यः सखा᳚यमीमहे ||{4.8.21.2}, {6.55.2}, {6.5.6.2}
1231 रा॒यो धारा᳚स्याघृणे॒ वसो᳚ रा॒शिर॑जाश्व |

धीव॑तोधीवतः॒ सखा᳚ ||{4.8.21.3}, {6.55.3}, {6.5.6.3}
1232 पू॒षणं॒ न्व१॑(अ॒)जाश्व॒मुप॑ स्तोषाम वा॒जिन᳚म् |

स्वसु॒र्यो जा॒र उ॒च्यते᳚ ||{4.8.21.4}, {6.55.4}, {6.5.6.4}
1233 मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः |

भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ||{4.8.21.5}, {6.55.5}, {6.5.6.5}
1234 आजासः॑ पू॒षणं॒ रथे᳚ निशृ॒म्भास्ते ज॑न॒श्रिय᳚म् |

दे॒वं व॑हन्तु॒ बिभ्र॑तः ||{4.8.21.6}, {6.55.6}, {6.5.6.6}
[135] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री, (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
1235 य ए᳚नमा॒दिदे᳚शति कर॒म्भादिति॑ पू॒षण᳚म् |

न तेन॑ दे॒व आ॒दिशे᳚ ||{4.8.22.1}, {6.56.1}, {6.5.7.1}
1236 उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा |

इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते ||{4.8.22.2}, {6.56.2}, {6.5.7.2}
1237 उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय᳚म् |

न्यै᳚रयद्र॒थीत॑मः ||{4.8.22.3}, {6.56.3}, {6.5.7.3}
1238 यद॒द्य त्वा᳚ पुरुष्टुत॒ ब्रवा᳚म दस्र मन्तुमः |

तत्सु नो॒ मन्म॑ साधय ||{4.8.22.4}, {6.56.4}, {6.5.7.4}
1239 इ॒मं च॑ नो ग॒वेष॑णं सा॒तये᳚ सीषधो ग॒णम् |

आ॒रात्पू᳚षन्नसि श्रु॒तः ||{4.8.22.5}, {6.56.5}, {6.5.7.5}
1240 आ ते᳚ स्व॒स्तिमी᳚मह आ॒रेअ॑घा॒मुपा᳚वसुम् |

अ॒द्या च॑ स॒र्वता᳚तये॒ श्वश्च॑ स॒र्वता᳚तये ||{4.8.22.6}, {6.56.6}, {6.5.7.6}
[136] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रापूषणौ देवते | गायत्री छन्दः ||
1241 इन्द्रा॒ नु पू॒षणा᳚ व॒यं स॒ख्याय॑ स्व॒स्तये᳚ |

हु॒वेम॒ वाज॑सातये ||{4.8.23.1}, {6.57.1}, {6.5.8.1}
1242 सोम॑म॒न्य उपा᳚सद॒त्पात॑वे च॒म्वोः᳚ सु॒तम् |

क॒र॒म्भम॒न्य इ॑च्छति ||{4.8.23.2}, {6.57.2}, {6.5.8.2}
1243 अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी᳚ अ॒न्यस्य॒ सम्भृ॑ता |

ताभ्यां᳚ वृ॒त्राणि॑ जिघ्नते ||{4.8.23.3}, {6.57.3}, {6.5.8.3}
1244 यदिन्द्रो॒ अन॑य॒द्रितो᳚ म॒हीर॒पो वृष᳚न्तमः |

तत्र॑ पू॒षाभ॑व॒त्सचा᳚ ||{4.8.23.4}, {6.57.4}, {6.5.8.4}
1245 तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व |

इन्द्र॑स्य॒ चा र॑भामहे ||{4.8.23.5}, {6.57.5}, {6.5.8.5}
1246 उत्पू॒षणं᳚ युवामहे॒ऽभीशूँ᳚रिव॒ सार॑थिः |

म॒ह्या इन्द्रं᳚ स्व॒स्तये᳚ ||{4.8.23.6}, {6.57.6}, {6.5.8.6}
[137] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योश्च त्रिष्टुप्, (२) द्वितीयायाश्च जगती छन्दसी ||
1247 शु॒क्रं ते᳚ अ॒न्यद्य॑ज॒तं ते᳚ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि |

विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु ||{4.8.24.1}, {6.58.1}, {6.5.9.1}
1248 अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः |

अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒ भुव॑ना दे॒व ई᳚यते ||{4.8.24.2}, {6.58.2}, {6.5.9.2}
1249 यास्ते᳚ पूष॒न्नावो᳚ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒ चर᳚न्ति |

ताभि᳚र्यासि दू॒त्यां सूर्य॑स्य॒ कामे᳚न कृत॒ श्रव॑ इ॒च्छमा᳚नः ||{4.8.24.3}, {6.58.3}, {6.5.9.3}
1250 पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव॑र्चाः |

यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वञ्च᳚म् ||{4.8.24.4}, {6.58.4}, {6.5.9.4}
[138] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१६) प्रथमादितृचद्वयस्य बृहती, (७-१०) सप्तम्यादिचतुर्‌ऋचामाञ्चिआनष्टप छन्दसी ||
1251 प्र नु वो᳚चा सु॒तेषु॑ वां वी॒र्या॒३॑(आ॒) यानि॑ च॒क्रथुः॑ |

ह॒तासो᳚ वां पि॒तरो᳚ दे॒वश॑त्रव॒ इन्द्रा᳚ग्नी॒ जीव॑थो यु॒वम् ||{4.8.25.1}, {6.59.1}, {6.5.10.1}
1252 बळि॒त्था म॑हि॒मा वा॒मिन्द्रा᳚ग्नी॒ पनि॑ष्ठ॒ आ |

स॒मा॒नो वां᳚ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ||{4.8.25.2}, {6.59.2}, {6.5.10.2}
1253 ओ॒कि॒वांसा᳚ सु॒ते सचाँ॒ अश्वा॒ सप्ती᳚ इ॒वाद॑ने |

इन्द्रा॒ न्व१॑(अ॒)ग्नी अव॑से॒ह व॒ज्रिणा᳚ व॒यं दे॒वा ह॑वामहे ||{4.8.25.3}, {6.59.3}, {6.5.10.3}
1254 य इ᳚न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा |

जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ॑श्च॒न ||{4.8.25.4}, {6.59.4}, {6.5.10.4}
1255 इन्द्रा᳚ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति |

विषू᳚चो॒ अश्वा᳚न्युयुजा॒न ई᳚यत॒ एकः॑ समा॒न आ रथे᳚ ||{4.8.25.5}, {6.59.5}, {6.5.10.5}
1256 इन्द्रा᳚ग्नी अ॒पादि॒यं पूर्वागा᳚त्प॒द्वती᳚भ्यः |

हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ||{4.8.26.1}, {6.59.6}, {6.5.10.6}
1257 इन्द्रा᳚ग्नी॒ आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः |

मा नो᳚ अ॒स्मिन्म॑हाध॒ने परा᳚ वर्क्तं॒ गवि॑ष्टिषु ||{4.8.26.2}, {6.59.7}, {6.5.10.7}
1258 इन्द्रा᳚ग्नी॒ तप᳚न्ति मा॒घा अ॒र्यो अरा᳚तयः |

अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ||{4.8.26.3}, {6.59.8}, {6.5.10.8}
1259 इन्द्रा᳚ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा |

आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ||{4.8.26.4}, {6.59.9}, {6.5.10.9}
1260 इन्द्रा᳚ग्नी उक्थवाहसा॒ स्तोमे᳚भिर्हवनश्रुता |

विश्वा᳚भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये᳚ ||{4.8.26.5}, {6.59.10}, {6.5.10.10}
[139] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१-३, १३) प्रथमादितृचस्य त्रयोदश्याऋचश्च त्रिष्टुप, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुदर्शया बृहती, (१५) पञ्चदश्याश्चानुष्टुप्, छन्दांसि ||
1261 श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् |

इ॒र॒ज्यन्ता᳚ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ||{4.8.27.1}, {6.60.1}, {6.5.11.1}
1262 ता यो᳚धिष्टम॒भि गा इ᳚न्द्र नू॒नम॒पः स्व॑रु॒षसो᳚ अग्न ऊ॒ळ्हाः |

दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ||{4.8.27.2}, {6.60.2}, {6.5.11.2}
1263 आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो᳚भिरग्ने अ॒र्वाक् |

यु॒वं राधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ||{4.8.27.3}, {6.60.3}, {6.5.11.3}
1264 ता हु॑वे॒ ययो᳚रि॒दं प॒प्ने विश्वं᳚ पु॒रा कृ॒तम् |

इ॒न्द्रा॒ग्नी न म॑र्धतः ||{4.8.27.4}, {6.60.4}, {6.5.11.4}
1265 उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे |

ता नो᳚ मृळात ई॒दृशे᳚ ||{4.8.27.5}, {6.60.5}, {6.5.11.5}
1266 ह॒तो वृ॒त्राण्यार्या᳚ ह॒तो दासा᳚नि॒ सत्प॑ती |

ह॒तो विश्वा॒ अप॒ द्विषः॑ ||{4.8.28.1}, {6.60.6}, {6.5.11.6}
1267 इन्द्रा᳚ग्नी यु॒वामि॒मे॒३॑(ए॒)ऽभि स्तोमा᳚ अनूषत |

पिब॑तं शम्भुवा सु॒तम् ||{4.8.28.2}, {6.60.7}, {6.5.11.7}
1268 या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |

इन्द्रा᳚ग्नी॒ ताभि॒रा ग॑तम् ||{4.8.28.3}, {6.60.8}, {6.5.11.8}
1269 ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् |

इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{4.8.28.4}, {6.60.9}, {6.5.11.9}
1270 तमी᳚ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा᳚ परि॒ष्वज॑त् |

कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया᳚ ||{4.8.28.5}, {6.60.10}, {6.5.11.10}
1271 य इ॒द्ध आ॒विवा᳚सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ |

द्यु॒म्नाय॑ सु॒तरा᳚ अ॒पः ||{4.8.29.1}, {6.60.11}, {6.5.11.11}
1272 ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः |

इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ||{4.8.29.2}, {6.60.12}, {6.5.11.12}
1273 उ॒भा वा᳚मिन्द्राग्नी आहु॒वध्या᳚ उ॒भा राध॑सः स॒ह मा᳚द॒यध्यै᳚ |

उ॒भा दा॒तारा᳚वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये᳚ हुवे वाम् ||{4.8.29.3}, {6.60.13}, {6.5.11.13}
1274 आ नो॒ गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् |

सखा᳚यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह॑वामहे ||{4.8.29.4}, {6.60.14}, {6.5.11.14}
1275 इन्द्रा᳚ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः |

वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ||{4.8.29.5}, {6.60.15}, {6.5.11.15}
[140] (१-१४) चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सरस्वती देवता | (१-३, १३) प्रथमादितृचस्य त्रयोदश्या ऋचश्च जगती, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दांसि ||
1276 इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ |

या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ||{4.8.30.1}, {6.61.1}, {6.5.12.1}
1277 इ॒यं शुष्मे᳚भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ |

पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ||{4.8.30.2}, {6.61.2}, {6.5.12.2}
1278 सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ |

उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ||{4.8.30.3}, {6.61.3}, {6.5.12.3}
1279 प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |

धी॒नाम॑वि॒त्र्य॑वतु ||{4.8.30.4}, {6.61.4}, {6.5.12.4}
1280 यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते |

इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ||{4.8.30.5}, {6.61.5}, {6.5.12.5}
1281 त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि |

रदा᳚ पू॒षेव॑ नः स॒निम् ||{4.8.31.1}, {6.61.6}, {6.5.12.6}
1282 उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः |

वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ||{4.8.31.2}, {6.61.7}, {6.5.12.7}
1283 यस्या᳚ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |

अम॒श्चर॑ति॒ रोरु॑वत् ||{4.8.31.3}, {6.61.8}, {6.5.12.8}
1284 सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ᳚र॒न्या ऋ॒ताव॑री |

अत॒न्नहे᳚व॒ सूर्यः॑ ||{4.8.31.4}, {6.61.9}, {6.5.12.9}
1285 उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा |

सर॑स्वती॒ स्तोम्या᳚ भूत् ||{4.8.31.5}, {6.61.10}, {6.5.12.10}
1286 आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अ॒न्तरि॑क्षम् |

सर॑स्वती नि॒दस्पा᳚तु ||{4.8.32.1}, {6.61.11}, {6.5.12.11}
1287 त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती |

वाजे᳚वाजे॒ हव्या᳚ भूत् ||{4.8.32.2}, {6.61.12}, {6.5.12.12}
1288 प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा᳚म॒पस्त॑मा |

रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ||{4.8.32.3}, {6.61.13}, {6.5.12.13}
1289 सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् |

जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ||{4.8.32.4}, {6.61.14}, {6.5.12.14}