अच्युतस्तोत्रम् चक्रधरस्तोत्रं च
गरुडपुराणान्तर्गतम्
सूत उवाच ।
वक्ष्येऽहमच्युतस्तोत्रं शृणु शौनक सर्वदम् ।
ब्रह्मा पृष्टो नारदाय यथोवाच तथापरम् ॥ १॥
नारद उवाच ।
यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया ।
प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि ॥ २॥
ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः ।
सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम् ॥ ३॥
ब्रह्मोवाच ।
मुने स्तोत्रं प्रवक्ष्यामिः वासुदेवस्य मुक्तिदम् ।
शृणु येन स्तुतः सम्यक्पूजाकाले प्रसीदति ॥ ४॥
ॐ नमो भगवते वासुदेवाय नमः सर्वापहारिणे । सर्वपापहारिणे
नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे ॥ ५॥
नमः सर्वसुरेशाय नमः श्रीवत्सधारिणे ।
नमश्चर्मासिहस्ताय नमः पङ्कजमालिने ॥ ६॥
नमो विश्वप्रतिष्ठाय नमः पीताम्बराय च ।
नमो नृसिंहरूपाय वैकुण्ठाय नमोनमः ॥ ७॥
नमः पङ्कजनाभाय नमः क्षीरोदशायिने ।
नमः सहस्रशीर्षाय नमो नागाङ्गशायिने ॥ ८॥
नमः परशुहस्ताय नमः क्षत्त्रान्तकारिणे ।
नमः सत्यप्रतिज्ञाय ह्यजिताय नमोनमः ॥ ९॥
नमस्त्रै लोक्यनाथाय नमश्चक्रधारय च ।
नमः शिवाय सूक्ष्माय पुराणाय नमोनमः ॥ १०॥
नमो वामनरूपाय बलिराज्यापहारिणे ।
नमो यज्ञवराहाय गोविन्दाय नमोनमः ॥ ११॥
नमस्ते परमानन्द नमस्ते परमाक्षर ।
नमस्ते ज्ञानसद्भाव नमस्ते ज्ञानदायक ॥ १२॥
नमस्ते परमाद्वैत नमस्ते पुरुषोत्तम ।
नमस्ते विश्वकृद्देव नमस्ते विश्वभावन ॥ १३॥
नमस्तेऽस्तु विश्वनाथ नमस्ते विश्वकारण ।
नमस्ते मधुदैत्यघ्न नमस्ते रावणान्तक ॥ १४॥
नमस्ते कंसकेशिघ्न नमस्ते कैटभार्दन ।
नमस्ते शतपत्राक्ष नमस्ते गरुडध्वज ॥ १५॥
नमस्ते कालनेमिघ्न नमस्ते गरुडासन ।
नमस्ते देवकीपुत्र नमस्ते वृष्णिनन्दन ॥ १६॥
नमस्ते रुक्मिणीकान्त नमस्ते दितिनन्दन ।
नमस्ते गोकुलावास नमस्ते गोकुलप्रिय ॥ १७॥
जय गोपवपुः कृष्ण जय गोपीजनप्रिय ।
जय गोवर्धनाधार जय गोकुलवर्धन ॥ १८॥
जय रावणवीरघ्न जय चाणूरनाशन ।
जय वृष्णिकुलोद्द्योत जय कालीयमर्दन ॥ १९॥
जय सत्य जगत्साक्षिन्जय सर्वार्थसाधक ।
जय वेदान्तविद्वेद्य जय सर्वद माधव ॥ २०॥
जय सर्वाश्रयाव्यक्त जय सर्वग माधव ।
जय सूक्ष्मचिदान्दन जय चित्तनिरञ्जन ॥ २१॥
जयस्तेऽस्तु निरालम्ब जय शान्त सनातन ।
जय नाथ जगत्पुष्ट (त्पूज्य) जय विष्णो नमोऽस्तूते ॥ २२॥
त्वं गुरुस्त्वं हरे शिष्यस्त्वं दीक्षामन्त्रमण्डलम् ।
त्वं न्यासमुद्रासमयास्त्वं च पुष्पादिसाधनम् ॥ २३॥
त्वमाधारस्त्व ह्यनन्तस्त्वं कूर्मस्त्वं धराम्बुजम् ।
धर्मज्ञानादयस्त्वं हि वेदिमण्डलशक्तयः ॥ २४॥
त्वं प्रभो छलभृद्रामस्त्वं पुनः स खरान्तकः ।
त्वं ब्रह्मर्षिश्चदेवस्त्वं विष्णुः सत्यपराक्रमः ॥ २५॥
त्वं नृसिंहः परानन्दो वराहस्त्वं धराधरः ।
त्वं सुपर्णस्तथा चक्रं त्वं गदा शङ्ख एव च ॥ २६॥
त्वं श्रीः प्रभो त्वं मुष्टिसत्वं त्वं माला देव शाश्वती ।
श्रीवत्सः कौस्तुभस्त्वं हि शार्ङ्गी त्वं च तथेषुधिः ॥ २७॥
त्वं खड्गचर्मणा सार्धं त्वं दिक्पालास्तथा प्रभो ।
त्वं वेधास्त्वं विधाता च त्वं यमस्त्वं हुताशनः ॥ २८॥
त्वं धनेशस्त्वमीशानस्त्वमिन्द्रस्त्वमपांपतिः ।
त्वं रक्षोऽधिपतिः साध्यस्त्वं वायुस्त्वं निशाकरः ॥ २९॥
आदित्या वसवो रुद्रा अश्विनौ त्वं मरुद्गणाः ।
त्वं दैत्या दानवा नागास्त्वं यक्षा राक्षसाः खगाः ॥ ३०॥
गन्धर्वाप्सरसः सिद्धाः पितरस्त्वं महामराः ।
भूतानि विषयस्त्वं हि त्वमव्यक्तेन्द्रियाणि च ॥ ३१॥
मनोबुद्धिरहङ्कारः क्षेत्रज्ञस्त्वं हृदीश्वरः ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः समित्कुशः ॥ ३२॥
त्वं वेदी त्वं हरे दीक्षा त्वं यूपस्त्वं हुताशनः ।
त्वं पत्नी त्वं पुरोडाशस्त्वं शाला स्त्रुक्च त्वं स्तुवः ॥ ३३॥
ग्रावाणः सकलं त्वं हि सदस्यास्त्वं सदाक्षिणः ।
त्वं सूर्पादिस्त्वं च ब्रह्मा मुसलोलूखले ध्रुवम् ॥ ३४॥
त्वं होता यजमानस्त्वं त्वं धान्यं पशुयाजकः ।
त्वमध्वर्युस्त्वमुद्गाता त्वं यज्ञः पुरुषोत्तमः ॥ ३५॥
दिक्पातालमहि व्योम द्यौस्त्वं नक्षत्रकारकः ।
देवतिर्यङ्मनुष्येषु जगदेतच्चराचरम् ॥ ३६॥
यत्किञ्चिद्दृश्यते देव ब्रह्माण्डमखिलं जगत् ।
तव रूपमिदं सर्वं दृष्ट्यर्थं संप्रकाशितम् ॥ ३७॥
नाथयन्ते परं ब्रह्म दैवेरपि दुरासदम् ।
कस्तज्जानाति विमलं योगगम्यमतीन्द्रियम् ॥ ३८॥
अक्षयं पुरुषं नित्यमव्यक्तमजमव्ययम् ।
प्रलयोत्पत्तिरहितं सर्वव्यापिनमीश्वरम् ॥ ३९॥
सर्वज्ञं निर्गुणं शुद्धमानन्दमजरं परम् ।
बोधरूपं ध्रुवं शान्तं पूर्णमद्वैतमक्षयम् ॥ ४०॥
अवतारेषु या मूर्तिर्विदूरे देव दृश्यते ।
परं भावमजानन्तस्त्वां भजन्ति दिवौकसः ॥ ४१॥
कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम ।
अराधयितुमीशान मनोगम्यमगोचरम् ॥ ४२॥
इह यन्मण्डले नाथ पूज्यते विधिवत्क्रमैः ।
पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः ॥ ४३॥
संकर्षणादिभेदेन तव यत्पूजिता मया ।
क्षन्तुमर्हसि तत्सर्वं यत्कृतं न कृतं मया ॥ ४४॥
न शक्नोमि विभो सम्यक्कर्तुं पूजां यथोदिताम् ।
यत्कृतं जपहोमादि असाध्यं पुरुषोत्तम ॥ ४५॥
विनिष्पादयितुं भक्त्या अत स्त्वां क्षमयाम्यहम् ।
दिवा रात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः ॥ ४६॥
अचला तु हरे ! भक्तिस्तवाङ्घ्रियुगले मम ।
शरीरेण तथा प्रीतिर्न च धर्मादिकेषु च ॥ ४७॥
यथा त्वयि जगन्नाथ प्रीतिरात्यन्तिकी मम ।
किं तेन न कृतं कर्म स्वर्गमोक्षादिसाधनम् ॥ ४८॥
यस्य विष्णौ दृढा भक्तिः सर्वकामफलप्रदे ।
पूजां कर्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत ॥ ४९॥
स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते ।
इति चक्रधरस्तोत्रं मया सम्यगुदाहृतम् ।
स्तौहि विष्णुं मुने भक्त्या यदीच्छसि परं पदम् ॥ ५०॥
स्तोत्रेणानेन यः स्तौति पूजाकाले जगद्गुरुम् ॥ ५१॥
अचिराल्लभते मोक्षं छित्वा संसारबन्धनम् ।
अन्योऽपि यो जपेद्भक्त्या त्रिसन्ध्यं नियतः शुचिः ॥ ५२॥
इदं स्तोत्रं मुने सोऽपि सर्वकाममवाप्नुयात् ।
पुत्रार्थी लभते पुत्रान्बद्धो मुच्येत बन्धनात् ॥ ५३॥
रोगाद्विमुच्यते रागी लभते निर्धनो धनम् ।
विद्यार्थो लभते विद्यां भाग्यं कीर्तिं च विन्दति ॥ ५४॥ यशः
जाति स्मरत्वं मेधावी यद्यदिच्छति चेतसा ।
स धन्यः सर्ववित्प्राज्ञः स साधुः सर्वकर्मकृत् ॥ ५५॥
स सत्यवाक्यश्छुचिर्दाता यः स्तौति पुरुषोत्तमम् ।
असंभाष्या हि ते सर्वे सर्वधर्मबहिष्कृताः ॥ ५६॥
येषां प्रवर्तने नास्ति हरिमुद्दिश्य सत्क्रिया ।
न शुद्धं विद्यते तस्य मनो वाक्च दुरात्मनः ॥ ५७॥
यस्य सर्वार्थदे विष्णौ भक्तिर्नाव्यभिचारिणी ।
आराध्य विधिवद्देवं हरिं सर्वसुखप्रदम् ॥ ५८॥
प्राप्नोति पुरुषः सम्यग्यद्यत्प्रार्थयते फलम् ।
कर्म कामादिकं सर्वं श्रद्धधानः सुरोत्तमः ।
असुरादिवपुः सिद्धैर्देयते यस्य नान्तरम् ॥ ५९॥
सकलमुनिभिराद्यश्चिन्त्यते यो हि शुद्धो
निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी ।
तमजममृतमीशं वासुदेवं नतोऽस्मि
भयमरणविहीनं नित्यमानन्दरूपम् ॥ ६०॥
निखिलभुवननाथं शाश्वतं सुप्रसन्नं
त्वतिविमलविशुद्धं निर्गुणं भावपुष्पैः ।
सुखमुदितसमस्तं पूजयाम्यात्मभावं
विशतु हृदयपद्मे सर्वसाक्षी चिदात्मा ॥ ६१॥
एवं मयोक्तं परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः ।
तस्माद्विचिन्त्यः परमेश्वरोऽसौ विमुक्तिकामेन नरेण सम्यक् ॥ ६२॥
बोधस्वरूपं पुरुषं पुराणमादित्यवर्णं विमलं विशुद्धम् ।
सञ्चिन्त्य विष्णुं परमद्वितीयं कस्तत्र योगी न लंय प्रयाति ॥ ६३॥
इमं स्तवं यः सततं मनुष्यः पठेच्च तद्वत्प्रयतः प्रशान्तः ।
स धूतपाप्मा विततप्रभावः प्रयाति लोकं विततं मुरारेः ॥ ६४॥
यः प्रार्थयत्यर्थमशेषसौख्यं धर्मं च कामं च तथैव मोक्षम् ।
स सर्वमुत्सृज्य परं पुराणं प्रयाति विष्णुं शरणं वरेण्यम् ॥ ६५॥
विभुं प्रभुं विश्वधरं विशुद्धमशेषसंसारविनाशहेतुम् ।
यो वासुदेवं विमलं प्रपन्नः स मोक्षमाप्नोति विमुक्तसङ्गः ॥ ६६॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे-
ऽच्युतस्तोत्रं नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥
Garuda Purana 1,234.1-66 (varied 227 with 56 verses)