द्वादशनामस्तोत्रम्

द्वादशनामस्तोत्रम्

श्रीगणेशाय नमः ॥ श‍ृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः । अनन्तस्याप्रमेयस्य नामद्वादशकं स्तवम् ॥ १॥ अर्जुनाय पुरा गीतं गोपालेन महात्मना । द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ ॥ २॥ अस्य श्रीदिव्यद्वादशनामस्तोत्रमहामन्त्रस्य फाल्गुनऋषिः अनुष्टुप्छन्दः श्रीकृष्णः परमात्मा देवता ॐ बीजं स्वाहेति शक्तिः श्रीगोपालकृष्णप्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् । जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरम् । सकुण्डलालकं बालं गोपालं चिन्तयेद्बुधः ॥ १॥ प्रथमं तु हरिं वन्द्यं द्वितीयं केशवं तथा । तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा ॥ २॥ पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनम् । सप्तमं वासुदेवं च वाराहं चाष्टमं तथा ॥ ३॥ नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् । कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा ॥ ४॥ एतद्द्वादशनामानि मया प्रोक्तानि फाल्गुन । कालत्रये पठेद्यस्तु तस्य पुण्यफलं श‍ृणु ॥ ५॥ चान्द्रायणसहस्रस्य कन्यादानशतस्य च । अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ६॥ इति श्रीमहाभारतेऽरण्यपर्वणि श्रीकृष्णार्जुनसवादे द्वादशनामस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : dvAdashanAmastotram kRiShNadvAdashanAmastotram
% File name             : dvAdashanAmastotram.itx
% itxtitle              : dvAdashanAmastotram shrIkRiShNadvAdashanAmastotram (mahAbhArate araNyaparvaNi)
% engtitle              : dvAdashanAmastotram
% Category              : vishhnu, krishna, stotra, vyAsa, vishnu, dvAdasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran, Ravin Bhalekar
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Source                : Aranyaparva Mahabharata
% Latest update         : March 25, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org