श्रीहयग्रीवकवचम् २
अस्य श्रीहयग्रीवकवचमहामन्त्रस्य हयग्रीव ऋषिः,
अनुष्टुप् छन्दः, श्रीहयग्रीवः परमात्मा देवता,
ॐ श्रीं वागीश्वराय नम इति बीजं,
ॐ क्लीं विद्याधराय नम इति शक्तिः,
ॐ सौं वेदनिधये नमो नम इति कीलकम्,
ॐ नमो हयग्रीवाय शुक्लवर्णाय विद्यामूर्तये,
ओङ्कारायाच्युताय ब्रह्मविद्याप्रदाय स्वाहा ।
मम श्रीहयग्रीवप्रसाद सिध्यर्थे जपे विनियोगः ॥
ध्यानम् -
कलशाम्बुधिसङ्काशं कमलायतलोचनम् ।
कलानिधिकृतावासं कर्णिकान्तरवासिनम् ॥ १॥
ज्ञानमुद्राक्षवलयशङ्खचक्रलसत्करम् ।
भूषाकिरणसन्दोहविराजितदिगन्तरम् ॥ २॥
वक्त्राब्जनिर्गतोद्दामवाणीसन्तानशोभितम् ।
देवतासार्वभौमं तं ध्याये दिष्टार्थसिद्धये ॥ ३॥
ॐ हयग्रीवश्शिरः पातु ललाटं चन्द्रमध्यगः ।
शास्त्रदृष्टिर्दृशौ पातु शब्दब्रह्मात्मकश्श्रुती ॥ १॥
घ्राणं गन्धात्मकः पातु वदनं यज्ञसम्भवः ।
जिह्वां वागीश्वरः पातु मुकुन्दो दन्तसंहतीः ॥ २॥
ओष्ठं ब्रह्मात्मकः पातु पातु नारायणोऽधरम् ।
शिवात्मा चिबुकं पातु कपोलौ कमला प्रभुः ॥ ३॥
विद्यात्मा पीठकं पातु कण्ठं नादात्मको मम ।
भुजौ चतुर्भुजः पातु करौ दैत्येन्द्रमर्दनः ॥ ४॥
ज्ञानात्मा हृदयं पातु विश्वात्मा तु कुचद्वयम् ।
मध्यमं पातु सर्वात्मा पातु पीताम्बरः कटिम् ॥ ५॥
कुक्षिं कुक्षिस्थविश्वो मे बलिभङ्गो वलित्रयम् ।
नाभिं मे पद्मनाभोऽव्याद्गुह्यं गुह्यार्थबोधकृत् ॥ ६॥
ऊरू दामोदरः पातु जानुनी मधुसूदनः ।
पातु जङ्घे महाविष्णुर्गुल्भौ पातु जनार्दनः ॥ ७॥
पादौ त्रिविक्रमः पातु पातु पादाङ्गुलीर्हरिः ।
सर्वाङ्गं सर्वगः पातु पातु रोमाणि केशवः ॥ ८॥
धातुन्नाडीगतः पातु भार्यां लक्ष्मीपतिर्मम ।
पुत्रान्विश्वकुटुम्बी मे पातु बन्धून्सुरेश्वरः ॥ ९॥
मित्रं मित्रात्मकः पातु वह्न्यात्मा शत्रुसंहतीः ।
प्राणान्वाय्वात्मकः पातु क्षेत्रं विश्वम्भरात्मकः ॥ १०॥
वरुणात्मा रसान्पातु व्योमात्मा हृद्गुहान्तरम् ।
दिवारात्रं हृषीकेशः पातु सर्वं जगद्गुरुः ॥ ११॥
विषमे सङ्कटे चैव पातु क्षेमङ्करो मम ।
सच्चिदानन्दरूपो मे ज्ञानं रक्षतु सर्वदा ॥ १२॥
प्राच्यां रक्षतु सर्वात्मा आग्नेय्यां ज्ञानदीपकः ।
याम्यां बोधप्रदः पातु नैरृत्यां चिद्धनप्रभः ॥ १३॥
विद्यानिधिस्तु वारुण्यां वायव्यां चिन्मयोऽवतु ।
कौबेर्यां वित्तदः पातु ऐशान्यां च जगद्गुरुः ॥ १४॥
उर्ध्वं पातु जगत्स्वामी पात्वधस्तात्परात्परः ।
रक्षाहीनन्तु यत्स्थानं रक्षत्वखिलनायकः ॥ १४॥
एवं न्यस्तशरीरोऽसौ साक्षाद्वागीश्वरो भवेत् ।
आयुरारोग्यमैश्वर्यं सर्वशास्त्रप्रवक्तृताम् ॥ १६॥
लभते नात्र सन्देहो हयग्रीवप्रसादतः ।
इतीदं कीर्तितं दिव्यं कवचं देवपूजितम् ॥ १७॥
इति हयग्रीवतन्त्रे अथर्वणवेदे मन्त्रखण्डे पूर्वसंहितायां
श्रीहयग्रीवकवचं सम्पूर्णम् ॥
Encoded and proofread by Rajnarayanan C K krajnara at gmail.com