ककारादि श्रीकृष्णसहस्रनामस्तोत्रम्

ककारादि श्रीकृष्णसहस्रनामस्तोत्रम्

व्यास उवाच- कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादान्न संशयः । यतो मया परं ज्ञानं ब्रह्मगीतात्मकं श्रुतम् ॥ १॥ परं तु येन मे जन्म न भवेत्कर्हिचिन्मुने । पूर्णब्रह्मैकविज्ञानविरहो न च जायते ॥ २॥ येन मे दृढविश्वासो भक्तावुत्पद्यते हरेः । कालपाशविनिर्मुक्तिः कर्मबन्धविमोचनम् ॥ ३॥ जन्ममृत्युजराव्याधिक्लेशक्षोभनिवारणम् । कलिकालभयध्वंसो ब्रह्मज्ञानं दृढं हृदि ॥ ४॥ कीर्तिः श्रीः सन्मतिः शान्तिर्भक्तिर्मुक्तिश्च शाश्वती । जायते तदुपायं मे वद वेदविदां वर ॥ ५॥ नारद उवाच- तत्त्वमेकं त्रिलोकेषु पूर्णानन्दो जगद्गुरुः । दैवतं सर्वदेवानां प्राणिनां मुक्तिकारणम् ॥ ६॥ तारणं भवपाथोधेर्दुःखदारिद्र्यहारणम् । तद्रूपं सर्वदा ध्येयं योगिभिर्ज्ञानिभिस्तथा ॥ ७॥ ज्ञेयमेव सदा सिद्धैः सिद्धान्तेन दृढीकृतम् । वेदान्ते गीतमाप्तानां हितकृत्कष्टनाशनम् ॥ ८॥ सर्वेषामेव जीवानां कर्मपाशविमोचनम् । सत्यज्ञानदयासिन्धोः कादिनामसहस्रकम् ॥ ९॥ अतिगुह्यतरं लोके नाकेऽपि ब्रह्मवादिनाम् । कालपाशविनिर्मुक्तेर्हेतुभूतं सनातनम् ॥ १०॥ कामार्तिशमनं पुंसां दुर्बुद्धिक्षयकारकम् । सर्वव्याध्याधिहरणं शरणं साधुवादिनाम् ॥ ११॥ कपटच्छलपाखण्डक्रोधलोभविनाशनम् । अज्ञानाधर्मविध्वंसि श्रितानन्दविवर्धनम् ॥ १२॥ विज्ञानोद्दीपनं दिव्यं सेव्यं सर्वजनैरिह । पठनीयं प्रयत्नेन सर्वमन्त्रैकदोहनम् ॥ १३॥ मोहमात्सर्यमूढानामगोचरमलौकिकम् । पूर्णानन्दप्रसादेन लभ्यमेतत्सुदुर्लभम् ॥ १४॥ पुर्णानन्दः स्वयं ब्रह्म भक्तोद्धाराय भूतले । अक्षराकारमाविश्य स्वेच्छयाऽनन्तविक्रमः ॥ १५॥ कृष्णनाम्नात्र विख्यातः स्वयं निर्वाणदायकः । अत एवात्र वर्णानां ककारस्तन्मयो मतः ॥ १६॥ कादिनामानि लोकेऽस्मिन्दुर्लभानि दुरात्मनाम् । भक्तानां सुलभानीह निर्मलानां यतात्मनाम् ॥ १७॥ ज्ञेय एव स्वयं कृष्णो ध्येय एव निरन्तरम् । अमेयोऽप्यनुमानेन मेय एवात्मभावतः ॥ १८॥ ब्रह्मगीतादिभिर्गेयः सेवनीयो मुमुक्षभिः । कृष्ण एव गतिः पुंसां संसारेऽस्मिन्सुदुस्तरे ॥ १९॥ कालास्ये पतितं सर्वं कालेन कवलीकृतम् । कालाधीनं कालसंस्थं कालोत्पन्नं जगत्त्रयम् ॥ २०॥ स कालस्तस्य भृत्योऽस्ति तदधीनस्तदुद्भवः । तस्मात्सर्वेषु कालेषु कृष्ण एव गतिर्नृणाम् ॥ २१॥ अन्ये देवास्त्रिलोकेषु कृष्णाश्रयपरायणाः । कृष्णमाश्रित्य तिष्ठन्ति कृष्णस्यानुचरा हि ते ॥ २२॥ यथा सूर्योदये सर्वास्तारकाः क्षीणकान्तयः । सर्वे देवास्तथा व्यास हतवीर्या हतौजसः ॥ २३॥ न कृष्णादितरत्तत्त्वं न कृष्णादितरत्सुखम् । न कृष्णादितरज्ज्ञानं न कृष्णादितरत्पदम् ॥ २४॥ कृष्ण एव जगन्मित्रं कृष्ण एव जगद्गुरुः । कृष्ण एव जगत्त्राता कृष्ण एव जगत्पिता ॥ २५॥ कृष्ण कृष्णेति ये जीवाः प्रवदन्ति निरन्तरम् । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ २६॥ कृष्णे तुष्टे जगन्मित्रं कृष्णे रुष्टे हि तद्रिपुः । कृष्णात्मकं जगत्सर्वं कृष्णमाश्रित्य तिष्ठति ॥ २७॥ यथा सूर्योदये सर्वे पदार्थज्ञानिनो नराः । कृष्णसूर्योदयेऽन्तःस्थे तथाऽऽत्मज्ञानिनो बुधाः ॥ २८॥ तस्मात्त्वं सर्वभावेन कृष्णस्य शरणं व्रज । नान्योपायस्त्रिलोकेषु भवाब्धिं तरितुं सताम् ॥ २९॥ श्रीव्यास उवाच- कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादादतन्द्रितः । यस्माच्छ्रुतं मया ज्ञानं श्रीकृष्णस्य महात्मनः ॥ ३०॥ परं तु श्रेतुमिच्छामि त्वत्तो ब्रह्मविदां वर । नैवास्ति त्वत्समो ज्ञानी त्रिषु लोकेषु कुत्रचित् ॥ ३१॥ कथं मे करुणासिन्धुः प्रसन्नो जायते हरिः । केनोपायेन तद्भक्तिर्निश्चला जायते मयि ॥ ३२॥ केनोपायेन तद्दास्यं सखित्वं देवदुर्लभम् । तदधीनत्वमेवाथ तत्स्वरूपैकता तथा ॥ ३३॥ एतन्मे वद देवर्षे सर्वशास्त्रार्थदोहनम् । विना कृष्णं गतिर्नाऽस्ति कृष्ण एव गतिर्मम ॥ ३४॥ नारद उवाच- श्रीकृष्णः करुणासिन्धुर्दीनबन्धुर्जगद्गुरुः । कादिनामहस्रेण विना नान्यैश्च साधनैः ॥ ३५॥ प्रसन्नो जायते नूनं तस्मात्तानि वदामि ते । अवाच्यान्यपि ते वच्मि त्रिषु लोकेषु कुत्रचित् ॥ ३६॥ न प्रसिद्धानि दुष्टानां दुर्लभानि महीतले । सुलभानीह भक्तानां भाविष्यन्ति तदाज्ञया ॥ ३७॥ पुरा सारस्वते कल्पे रम्ये वृन्दावने निशि । निजभक्तहितार्थाय वेणुनादं हरिः स्वयम् ॥ ३८॥ चकारोच्चैर्मनोहारी विहारी वैरनाशनः । तदा गोपीजनः सर्वः सहसोत्थाय विह्वलः ॥ ३९॥ निशीथे सकलं त्यक्त्वाऽगच्छद्वेणुवशीकृतः । तेन सार्धं कृता क्रीडा स्वप्नवद्रासमण्डले ॥ ४०॥ तत्रान्तर्धानमगमत्तच्चित्तमपहृत्य सः । तदा ता गोपिकाः सर्वाः दिङ्मूढा इव गोगणाः ॥ ४१॥ समीपस्थमपि भ्रान्त्या तं नापश्यन्नरोत्तमम् । इतस्ततो विचिन्वन्त्यः कस्तूरीमृगवद्वने ॥ ४२॥ अत्यन्तव्याकुलीभूताः खण्डिताः श्रुतयो यथा । ब्रह्मज्ञानाद्यथा विप्राः कालमायावशनुगाः ॥ ४३॥ तथैता गोपिका व्यास कृष्णदर्शनलालसाः । अत्यन्तविरहाक्रान्तास्तच्चित्तास्तत्परायणाः ॥ ४४॥ भ्रमरीकीटवल्लीना नान्यत्पश्यन्ति तद्विना । विरहानलदग्धाङ्ग्यः कामान्धा भयविह्वलाः ॥ ४५॥ स्वात्मानं न विदुर्दीना ज्ञानहीना नरा इव । तल्लीनमानसाकारा विकारादिविवर्जिताः ॥ ४६॥ तदातिकृपया कृष्णो भक्ताधीनो निरङ्कुशः । आविर्बभूव तत्रैव यथा सूर्यो निशात्यये ॥ ४७॥ तदा ता गोपिकाः सर्वा दृष्ट्वा प्राणपतिं हरिम् । जन्मान्तरनिभं हित्वा विरहाग्निं सुदुःसहम् ॥ ४८॥ तवावतारवन्मत्वा हर्षनिर्भरमानसाः । पद्मिन्य इव कृष्णार्कं दृष्ट्वा विकसितास्तदा ॥ ४९॥ पपुर्नेत्रपुटैरेनं न च तृप्तिमुपाययुः । क्रीडायाः शान्तिमापन्ना मत्वा कृष्णं जगद्गुरुम् ॥ ५०॥ तं प्रत्यूचुः प्रीतियुक्ता विरक्ता विरहानलात् । आसक्तास्तत्पदे नित्यं विरक्ता इव योगिनः ॥ ५१॥ गोप्य ऊचुः- हे नाथ याहि नो दीनास्त्वन्नाथास्त्वत्परायणाः । तवालम्बेन जीवन्त्यस्तव दास्यो वयं सदा ॥ ५२॥ केनोपायेन भो कृष्ण न भवेद्विरहस्तव । न भवेत्पुनरावृत्तिर्न च संसारवासना ॥ ५३॥ त्वयि भक्तिर्दृढा केन सखीत्वं जायते तव । तदुपायं हि नो ब्रूहि कृपां कृत्वा दयानिधे ॥ ५४॥ श्रीकृष्ण उवाच- अत्यन्तदुर्लभःप्रश्नस्त्वदीयः कलिनाशनः । न कदापि मया प्रोक्तः कस्याप्यग्रे व्रजाङ्गनाः ॥ ५५॥ तथाप्यत्यन्तभावेन युष्मद्भक्त्या वशीकृतः । रहस्यं कथयाम्यद्य मदीयं मद्गतिप्रदम् ॥ ५६॥ कादिनामसहस्राख्यमविख्यातं धरातले । गुह्याद्गुह्यतरं गोप्यं वेदशास्त्रार्थदोहनम् ॥ ५७॥ अलौकिकमिदं पुंसां सद्यः श्रेयस्करं सताम् । शब्दब्रह्ममयं लोके सूर्यवच्चित्प्रकाशनम् ॥ ५८॥ संसारसागरे घोरे प्लवतुल्यं मनीषिणाम् । सर्वसिद्धिप्रदं पुंसामज्ञानार्णवशोषणम् ॥ ५९॥ जातिस्मृतिप्रदं विद्यावर्धनं मोहनाशनम् । ब्रह्मज्ञानरहस्यं मे कादिनामसहस्रकम् ॥ ६०॥ तदेवाहं प्रवक्ष्यामि श‍ृणुध्वं भक्तिपूर्वकम् । यस्य स्मरणमात्रेण जीवन्मुक्तिः प्रजायते ॥ ६१॥ ॐ अस्य श्रीपुराणपुरुषोत्तमश्रीकृष्णकादिसहस्रनाममन्त्रस्य नारद ऋषिः अनुष्टुप्छन्दः, सर्वात्मस्वरूपी श्रीपरमात्मा देवता । ॐ इति बीजं, नम इति शक्तिः, कृष्णायेति कीलकं, धर्मार्थकाममोक्षार्थे श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ कालात्मेत्यङ्गुष्ठाभ्यां नमः । ॐ कीर्तिवर्द्धन इति तर्जनीभ्यां नमः । ॐ कूटस्थसाक्षीति मध्यमाभ्यां नमः । ॐ कैवल्यज्ञानसाधन इति अनामिकाभ्यां नमः । ॐ कौस्तुभोद्भासितोरस्क इति कनिष्ठकाभ्यां नमः । ॐ कन्दर्पज्वरनाशन इति करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । ॐ कालात्मेति हृदयाय नमः । ॐ कीर्तिवर्धन इति शिरसे स्वाहा । ॐ कूटस्थसाक्षीति शिखायै वषट् । ॐ कैवल्यज्ञानसाधन इति कवचाय हुम् । ॐ कौस्तुभोद्भासितोरस्क इति नेत्रत्रयाय वौषट् । ॐ कन्दर्पज्वरनाशन इत्यस्त्राय फट् । अथ ध्यानम् । वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् । कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥ ६२॥ श्रीकृष्ण उवाच- ॐ कृष्णः कृष्णात्मकः कृष्णस्वरूपः कृष्णनामधृत् । कृष्णाङ्गः कृष्णदैवत्यः कृष्णारक्तविलोचनः ॥ ६३॥ कृष्णाश्रयः कृष्णवर्त्त्मा कृष्णालक्ताभिरक्षकः । कृष्णेशप्रीतिजनकः कृष्णेशप्रियकारकः ॥ ६४॥ कृष्णेशारिष्टसंहर्ता कृष्णेशप्राणवल्लभः । कृष्णेशानन्दजनकः कृष्णेशायुर्विवर्द्धनः ॥ ६५॥ कृष्णेशारिसमूहघ्नः कृष्णेशाभीष्टसिद्धिदः । कृष्णाधीशः कृष्णकेशः कृष्णानन्दविवर्द्धनः ॥ ६६॥ कृष्णागरुसुगन्धाढ्यः कृष्णागरुसुगन्धवित् । कृष्णागरुविवेकज्ञः कृष्णागरुविलेपनः ॥ ६७॥ कृतज्ञः कृतकृत्यात्मा कृपासिन्धुः कृपाकरः । कृष्णानन्दैकवरदः कृष्णानन्दपदाश्रयः ॥ ६८॥ कमलावल्लभाकारः कलिघ्नः कमलापतिः । कमलानन्दसम्पन्नः कमलासेविताकृतिः ॥ ६९॥ कमलामानसोल्लासी कमलामानदायकः । कमलालङ्कृताकारः कमलाश्रितविग्रहः ॥ ७०॥ कमलामुखपद्मार्कः कमलाकरपूजितः । कमलाकरमध्यस्थः कमलाकरतोषितः ॥ ७१॥ कमलाकरसंसेव्यः कमलाकरभूषितः । कमलाकरभावज्ञः कमलाकरसंयुतः ॥ ७२॥ कमलाकरपार्श्वस्थः कमलाकररूपवान् । कमलाकरशोभाढ्यः कमलाकरपङ्कजः ॥ ७३॥ कमलाकरपापघ्नः कमलाकरपुष्टिकृत् । कमलारूपसौभाग्यवर्द्धनः कमलेक्षणः ॥ ७४॥ कमलाकलिताङ्घ्र्यब्जः कमलाकलिताकृतिः । कमलाहृदयानन्दवर्द्धनः कमलाप्रियः ॥ ७५॥ कमलाचलचित्तात्मा कमलालङ्कृताकृतिः । कमलाचलभावज्ञः कमलालिङ्गिताकृतिः ॥ ७६॥ कमलामलनेत्रश्रीः कमलाचलमानसः । कमलापरमानन्दवर्द्धनः कमलाननः ॥ ७७॥ कमलानन्दसौभाग्यवर्द्धनः कमलाश्रयः । कमलाविलसत्पाणिः कमलामललोचनः ॥ ७८॥ कमलामलभालश्रीः कमलाकरपल्लवः । कमलेशः कमलभूः कमलानन्ददायकः ॥ ७९॥ कमलोद्भवभीतिघ्नः कमलोद्भवसंस्तुतः । कमलाकरपाशाढ्यः कमलोद्भवपालकः ॥ ८०॥ कमलासनसंसेव्यः कमलासनसंस्थितः । कमलासनरोगघ्नः कमलासनपापहा ॥ ८१॥ कमलोदरमध्यस्थः कमलोदरदीपनः । कमलोदरसम्पन्नः कमलोदरसुन्दरः ॥ ८२॥ कनकालङ्कृताकारः कनकालङ्कृताम्बरः । कनकालङ्कृतागारः कनकालङ्कृतासनः ॥ ८३॥ कनकालङ्कृतास्यश्रीः कनकालङ्कृतास्पदः । कनकालङ्कृताङ्घ्र्यब्जः कनकालङ्कृतोदरः ॥ ८४॥ कनकाम्बरशोभाढ्यः कनकाम्बरभूषणः । कनकोत्तमभालश्रीः कनकोत्तमरूपधृक् ॥ ८५॥ कनकागारमध्यस्थः कनकागारकारकः । कनकाचलमध्यस्थः कनकाचलपालकः ॥ ८६॥ कनकाचलशोभाढ्यः कनकाचलभूषणः । कनकैकप्रजाकर्ता कनकैकप्रदायकः ॥ ८७॥ कलाननः कलरवः कलस्त्रीपरिवेष्टितः । कलहंसपरित्राता कलहंसपराक्रमः ॥ ८८॥ कलहंससमानश्रीः कलहंसप्रियङ्करः । कलहंसस्वभावस्थः कलहंसैकमानसः ॥ ८९॥ कलहंससमारूढः कलहंससमप्रभः । कलहंसविवेकज्ञः कलहंसगतिप्रदः ॥ ९०॥ कलहंसपरित्राता कलहंससुखास्पदः । कलहंसकुलाधीशः कलहंसकुलास्पदः ॥ ९१॥ कलहंसकुलाधारः कलहंसकुलेश्वरः । कलहंसकुलाचारी कलहंसकुलप्रियः ॥ ९२॥ कलहंसकुलत्राता कलहंसकुलात्मकः । कवीशः कविभावस्थः कविनाथः कविप्रियः ॥ ९३॥ कविमानसहंसात्मा कविवंशविभूषणः । कविनायकसंसेव्यः कविनायकपालकः ॥ ९४॥ कविवंशैकवरदः कविवंशशिरोमणिः । कविवंशविवेकज्ञः कविवंशप्रबोधकः ॥ ९५॥ कविवंशपरित्राता कविवंशप्रभाववित् । कवित्वामृतसंसिद्धः कवित्वामृतसागरः ॥ ९६॥ कवित्वाकारसंयुक्तः कवित्वाकारपालकः । कवित्वाद्वैतभावस्थः कवित्वाश्रयकारकः ॥ ९७॥ कवीन्द्रहृदयानन्दी कवीन्द्रहृदयास्पदः । कवीण्द्रहृदयान्तःस्थः कवीन्द्रज्ञानदायकः ॥ ९८॥ कवीन्द्रहृदयाम्भोजप्रकाशैकदिवाकरः । कवीन्द्रहृदयाम्भोजाह्लादनैकनिशाकरः ॥ ९९॥ कवीन्द्रहृदयाब्जस्थः कवीन्द्रप्रतिबोधकः । कवीन्द्रानन्दजनकः कवीन्द्राश्रितपङ्कजः ॥ १००॥ कविशब्दैकवरदः कविशब्दैकदोहनः । कविशब्दैकभावस्थः कविशब्दैककारणः ॥ १०१॥ कविशब्दैकसंस्तुत्यः कविशब्दैकभूषणः । कविशब्दैकरसिकः कविशब्दविवेकवित् ॥ १०२॥ कवित्वब्रह्मविख्यातः कवित्वब्रह्मगोचरः । कविवाणीविवेकज्ञः कविवाणीविभूषणः ॥ १०३॥ कविवाणीसुधास्वादी कविवाणीसुधाकरः । कविवाणीविवेकस्थः कविवाणीविवेकवित् ॥ १०४॥ कविवाणीपरित्राता कविवाणीविलासवान् । कविशक्तिप्रदाता च कविशक्तिप्रवर्तकः ॥ १०५॥ कविशक्तिसमूहस्थः कविशक्तिकलानिधिः । कलाकोटिसमायुक्तः कलाकोटिसमावृतः ॥ १०६॥ कलाकोटिप्रकाशस्थः कलाकोटिप्रवर्तकः । कलानिधिसमाकारः कलानिधिसमन्वितः ॥ १०७॥ कलाकोटिपरित्राता कलाकोटिप्रवर्धनः । कलानिधिसुधास्वादी कलानिधिसमाश्रितः ॥ १०८॥ कलङ्करहिताकारः कलङ्करहितास्पदः । कलङ्करहितानन्दः कलङ्करहितात्मकः ॥ १०९॥ कलङ्करहिताभासः कलङ्करहितोदयः । कलङ्करहितोद्देशः कलङ्करहिताननः ॥ ११०॥ कलङ्करहितश्रीशः कलङ्करहितस्तुतिः । कलङ्करहितोत्साहः कलङ्करहितप्रियः ॥ १११॥ कलङ्करहितोच्चारः कलङ्करहितेन्दिरयः । कलङ्करहिताकारः कलङ्करहितोत्सवः ॥ ११२॥ कलङ्काङ्कितदुष्टघ्नः कलङ्काङ्कितधर्महा । कलङ्काङ्कितकर्मारिः कलङ्काङ्कितमार्गहृत् ॥ ११३॥ कलङ्काङ्कितदुर्द्दर्शः कलङ्काङ्कितदुःसहः । कलङ्काङ्कितदूरस्थः कलङ्काङ्कितदूषणः ॥ ११४॥ कलहोत्पत्तिसंहर्ता कलहोत्पत्तिकृद्रिपुः । कलहातीतधामस्थः कलहातीतनायकः ॥ ११५॥ कलहातीततत्त्वज्ञः कलहातीतवैभवः । कलहातीतभावस्थः कलहातीतसत्तमः ॥ ११६॥ कलिकालबलातीतः कलिकालविलोपकः । कलिकालैकसंहर्ता कलिकालैकदूषणः ॥ ११७॥ कलिकालकुलध्वंसी कलिकालकुलापहः । कलिकालभयच्छेत्ता कलिकालमदापहः ॥ ११८॥ कलिक्लेशविनिर्मुक्तः कलिक्लेशविनाशनः । कलिग्रस्तजनत्राता कलिग्रस्तनिजार्तिहा ॥ ११९॥ कलिग्रस्तजगन्मित्रः कलिग्रस्तजगत्पतिः । कलिग्रस्तजगत्त्राता कलिपाशविनाशनः ॥ १२०॥ कलिमुक्तिप्रादाता कः कलिमुक्तकलेवरः । कलिमुक्तमनोवृत्तिः कलिमुक्तमहामतिः ॥ १२१॥ कलिकालमतातीतः कलिधर्मविलोपकः । कलिधर्माधिपध्वंसी कलिधर्मैकखण्डनः ॥ १२२॥ कलिधर्माधिपालक्ष्यः कलिकालविकारहा । कलिकर्मकथातीतः कलिकर्मकथारिपुः ॥ १२३॥ कलिकष्टैकशमनः कलिकष्टविवर्ज्जितः । कलिघ्नः कलिधर्मघ्नः कलिधर्माधिकारिहा ॥ १२४॥ कर्मवित्कर्मकृत्कर्मी कर्मकाण्डैकदोहनः । कर्मस्थः कर्मजनकः कर्मिष्ठः कर्मसाधनः ॥ १२५॥ कर्मकर्ता कर्मभर्ता कर्महर्ता च कर्मजित् । कर्मजातजगत्त्राता कर्मजातजगत्पतिः ॥ १२६॥ कर्मजातजगन्मित्रः कर्मजातजगद्गुरुः । कर्मभूतभवच्छात्रः कर्मभूतभवातिहा ॥ १२७॥ कर्मकाण्डपरिज्ञाता कर्मकाण्डप्रवर्त्तकः । कर्मकाण्डपरित्राता कर्मकाण्डप्रमाणकृत् ॥ १२८॥ कर्मकाण्डविवेकज्ञः कर्मकाण्डप्रकारकः । कर्मकाण्डविवेकस्थः कर्मकाण्डैकदोहनः ॥ १२९॥ कर्मकाण्डरताभीष्टप्रदाता कर्मतत्परः । कर्मबद्धजगत्त्राता कर्मबद्धजगद्गुरुः ॥ १३०॥ कर्मबन्धार्तिशमनः कर्मबन्धविमोचनः । कर्मिष्ठद्विजवर्यस्थः कर्मिष्ठद्विजवल्लभः ॥ १३१॥ कर्मिष्ठद्विजजीवात्मा कर्मिष्ठद्विजजीवनः । कर्मिष्ठद्विजभावज्ञः कर्मिष्ठद्विजपालकः ॥ १३२॥ कर्मिष्ठद्विजजातिस्थः कर्मिष्ठद्विजकामदः । कर्मिष्ठद्विजसंसेव्यः कर्मिष्ठद्विजपापहा ॥ १३३॥ कर्मिष्ठद्विजबुद्धिस्थः कर्मिष्ठद्विजबोधकः । कर्मिष्ठद्विजभीतिघ्नः कर्मिष्ठद्विजमुक्तिदः ॥ १३४॥ कर्मिष्ठद्विजदोषघ्नः कर्मिष्ठद्विजकामधुक् । कर्मिष्ठद्विजसम्पूज्यः कर्मिष्ठद्विजतारकः ॥ १३५॥ कर्मिष्ठारिष्टसंहर्ता कर्मिष्ठाभीष्टसिद्धिदः । कर्मिष्ठादृष्टमध्यस्थः कर्मिष्ठादृष्टवर्धनः ॥ १३६॥ कर्ममूलजगद्धेतुः कर्ममूलनिकन्दनः । कर्मबीजपरित्राता कर्मबीजविवर्द्धनः ॥ १३७॥ कर्मद्रुमफलाधीशः कर्मद्रुमफलप्रदः । कस्तूरीद्रवलिप्ताङ्गः कस्तूरीद्रववल्लभः ॥ १३८॥ कस्तूरीसौरभग्राही कस्तूरीमृगवल्लभः । कस्तूरीतिलकानन्दी कस्तूरीतिलकप्रियः ॥ १३९॥ कस्तूरीतिलकाश्लेषी कस्तूरीतिलकाङ्कितः । कस्तूरीवासनालीनः कस्तूरीवासनाप्रियः ॥ १४०॥ कस्तूरीवासनारूपः कस्तूरीवासनात्मकः । कस्तूरीवासनान्तःस्थः कस्तूरीवासनास्पदः ॥ १४१॥ कस्तूरीचन्दनग्राही कस्तूरीचन्दनार्चितः । कस्तूरीचन्दनागारः कस्तूरीचन्दनान्वितः ॥ १४२॥ कस्तूरीचन्दनाकारः कस्तूरीचन्दनासनः । कस्तूरीचर्चितोरस्कः कस्तूरीचर्विताननः ॥ १४३॥ कस्तूरीचर्वितश्रीशः कस्तूरीचर्चिताम्बरः । कस्तूरीचर्चितास्यश्रीः कस्तूरीचर्चितप्रियः ॥ १४४॥ कस्तूरीमोदमुदितः कस्तूरीमोदवर्द्धनः । कस्तूरीमोददीप्ताङ्गः कस्तूरीसुन्दराकृतिः ॥ १४५॥ कस्तूरीमोदरसिकः कस्तूरीमोदलोलुपः । कस्तूरीपरमानन्दी कस्तूरीपरमेश्वरः ॥ १४६॥ कस्तूरीदानसन्तुष्टः कस्तूरीदानवल्लभः । कस्तूरीपरमाह्लादः कस्तूरीपुष्टिवर्द्धनः ॥ १४७॥ कस्तूरीमुदितात्मा च कस्तूरीमुदिताशयः । कदलीवनमध्यस्थः कदलीवनपालकः ॥ १४८॥ कदलीवनसञ्चारी कदलीवनवल्लभः । कदलीदर्शनानन्दी कदलीदर्शनोत्सुकः ॥ १४९॥ कदलीपल्लवास्वादी कदलीपल्लवाश्रयः । कदलीफलसन्तुष्टः कदलीफलदायकः ॥ १५०॥ कदलीफलसम्पुष्टः कदलीफलभोजनः । कदलीफलवर्याशी कदलीफलतोषितः ॥ १५१॥ कदलीफलमाधुर्यवल्लभः कदलीप्रियः । कपिध्वजसमायुक्तः कपिध्वजपरिस्तुतः ॥ १५२॥ कपिध्वजपरित्राता कपिध्वजसमाश्रितः । कपिध्वजपदान्तस्थः कपिध्वजजयप्रदः ॥ १५३॥ कपिध्वजरथारूढः कपिध्वजयशःप्रदः । कपिध्वजैकपापघ्नः कपिध्वजसुखप्रदः ॥ १५४॥ कपिध्वजारिसंहर्ता कपिध्वजभयापहः । कपिध्वजमनोऽभिज्ञः कपिध्वजमतिप्रदः ॥ १५५॥ कपिध्वजसुहृन्मित्रः कपिध्वजसुहृत्सखः । कपिध्वजाङ्गनाराध्यः कपिध्वजगतिप्रदः ॥ १५६॥ कपिध्वजाङ्गनारिघ्नः कपिध्वजरतिप्रदः । कपिध्वजकुलत्राता कपिध्वजकुलारिहा ॥ १५७॥ कपिध्वजकुलाधीशः कपिध्वजकुलप्रियः । कपीन्द्रसेविताङ्घ्र्यब्जः कपीन्द्रस्तुतिवल्लभः ॥ १५८॥ कपीन्द्रानन्दजनकः कपीन्द्राश्रितविग्रहः । कपीन्द्राश्रितपादाब्जः कपीन्द्राश्रितमानसः ॥ १५९॥ कपीन्द्राराधिताकारः कपीन्द्राभीष्टसिद्धिदः । कपीन्द्रारातिसंहर्ता कपीन्द्रातिबलप्रदः ॥ १६०॥ कपीन्द्रैकपरित्राता कपीन्द्रैकयशःप्रदः ॥ १६१॥ कपीन्द्रानन्दसम्पन्नः कपीन्द्रानन्दवर्द्धनः । कपीन्द्रध्यानगम्यात्मा कपीन्द्रज्ञानदायकः ॥ १६२॥ कल्याणमङ्गलाकारः कल्याणमङ्गलास्पदः । कल्याणमङ्गलाधीशः कल्याणमङ्गलप्रदः ॥ १६३॥ कल्याणमङ्गलागारः कल्याणमङ्गलात्मकः । कल्याणानन्दसपन्नः कल्याणानन्दवर्धनः ॥ १६४॥ कल्याणानन्दसहितः कल्याणानन्ददायकः ॥ १६५॥ कल्याणानन्दसन्तुष्टः कल्याणानन्दसंयुतः । कल्याणीरागसङ्गीतः कल्याणीरागवल्लभः ॥ १६६॥ कल्याणीरागरसिकः कल्याणीरागकारकः । कल्याणीकेलिकुशलः कल्याणीप्रियदर्शनः ॥ १६७॥ कल्पशास्त्रपरिज्ञाता कल्पशास्त्रार्थदोहनः । कल्पशास्त्रसमुद्धर्ता कल्पशास्त्रपरिस्तुतः ॥ १६८॥ कल्पकोटिशतातीतः कल्पकोटिशतोत्तरः । कल्पकोटिशतज्ञानी कल्पकोटिशतप्रभुः ॥ १६९॥ कल्पवृक्षसमाकारः कल्पवृक्षसमप्रभः । कल्पवृक्षसमोदारः कल्पवृक्षसमस्थितः ॥ १७०॥ कल्पवृक्षपरित्राता कल्पवृक्षसमावृतः । कल्पवृक्षवनाधीशः कल्पवृक्षवनास्पदः ॥ १७१॥ कल्पान्तदहनाकारः कल्पान्तदहनोपमः । कल्पान्तकालशमनः कल्पान्तातीतविग्रहः ॥ १७२॥ कलशोद्भवसंसेव्यः कलशोद्भववल्लभः । कलशोद्भवभीतिघ्नः कलशोद्भवसिद्धिदः ॥ १७३॥ कपिलः कपिलाकारः कपिलप्रियदर्शनः । कर्द्दमात्मजभावस्थः कर्द्दमप्रियकारकः ॥ १७४॥ कन्यकानीकवरदः कन्यकानीकवल्लभः । कन्यकानीकसंस्तुत्यः कन्यकानीकनायकः ॥ १७५॥ कन्यादानप्रदत्राता कन्यादानप्रदप्रियः । कन्यादानप्रभावज्ञः कन्यादानप्रदायकः ॥ १७६॥ कश्यपात्मजभावस्थः कश्यपात्मजभास्करः । कश्यपात्मजशत्रुघ्नः कश्यपात्मजपालकः ॥ १७७॥ कश्यपात्मजमध्यस्थः कश्यपात्मजवल्लभः । कश्यपात्मजभीतिघ्नः कश्यपात्मजदुर्लभः ॥ १७८॥ कश्यपात्मजभावस्थः कश्यपात्मजभाववित् । कश्यपोद्भवदैत्यारिः कश्यपोद्भवदेवराट् ॥ १७९॥ कश्पयानन्दजनकः कश्यपानन्दवर्द्धनः । कश्यपारिष्टसंहर्ता कश्यपाभीष्टसिद्धिदः ॥ १८०॥ कर्तृकर्मक्रियातीतः कर्तृकर्मक्रियान्वयः । कर्तृकर्मक्रियालक्ष्यः कर्तृकर्मक्रियास्पदः ॥ १८१॥ कर्तृकर्मक्रियाधीशः कर्तृकर्मक्रियात्मकः । कर्तृकर्मक्रियाभासः कर्तृकर्मक्रियाप्रदः ॥ १८२॥ कृपानाथः कृपासिन्धुः कृपाधीशः कृपाकरः । कृपासागरमध्यस्थः कृपापात्रः कृपानिधिः ॥ १८३॥ कृपापात्रैकवरदः कृपापात्रभयापहः । कृपाकटाक्षपापघ्नः कृतकृत्यः कृतान्तकः ॥ १८४॥ कदम्बवनमध्यस्थः कदम्बकुसुमप्रियः । कदम्बवनसञ्चारी कदम्बवनवल्लभः ॥ १८५॥ कर्पूरामोदमुदितः कर्पूरामोदवल्लभः । कर्पूरवासनासक्तः कर्पूरागरुचर्चितः ॥ १८६॥ करुणारसंसम्पूर्णः करुणारसवर्धनः । करुणाकरविख्यातः करुणाकरसागरः ॥ १८७॥ कालात्मा कालजनकः कालाग्निः कालसंज्ञकः । कालः कालकलातीतः कालस्थः कालभैरवः ॥ १८८॥ कालज्ञः कालसंहर्ता कालचक्रप्रवर्तकः । कालरूपः कालनाथः कालकृत्कालिकाप्रियः ॥ १८९॥ कालैकवरदः कालः कारणः कालरूपभाक् । कालमायाकलातीतः कालमायाप्रवर्तकः ॥ १९०॥ कालमायाविनिर्मुक्तः कालमायाबलापहः । कालत्रयगतिज्ञाता कालत्रयपराक्रमः ॥ १९१॥ कालज्ञानकलातीतः कालज्ञानप्रदायकः । कालज्ञः कालरहितः कालाननसमप्रभः ॥ १९२॥ कालचक्रैक हेतुस्थः कालरात्रिदुरत्ययः । कालपाशविनिर्मुक्तः कालपाशविमोचनः ॥ १९३॥ कालव्यालैकदलनः कालव्यालभयापहः । कालकर्मकलातीतः कालकर्मकलाश्रयः ॥ १९४॥ कालकर्मकलाधीशः कालकर्मकलात्मकः । कालव्यालपरिग्रस्तनिजभक्तैकमोचनः ॥ १९५॥ काशिराजशिरश्छेत्ता काशीशप्रियकारकः । काशीस्थार्तिहरः काशीमध्यस्थः काशिकाप्रियः ॥ १९६॥ काशीवासिजनानन्दी काशीवासिजनप्रियः । काशीवासिजनत्राता काशीवासिजनस्तुतः ॥ १९७॥ काशीवासिविकारघ्नः काशीवासिविमोचनः । काशीवासिजनोद्धर्ता काशीवासकुलप्रदः ॥ १९८॥ काशीवास्याश्रिताङ्घ्र्यब्जः काशीवासिसुखप्रदः । काशीस्थाभीष्टफलदः काशीस्थारिष्टनाशनः ॥ १९९॥ काशीस्थद्विजसंसेव्यः काशीस्थद्विजपालकः । काशीस्थद्विजसद्बुद्धिप्रदाता काशिकाश्रयः ॥ २००॥ कान्तीशः कान्तिदः कान्तः कान्तारप्रियदर्शनः । कान्तिमान्कान्तिजनकः कान्तिस्थः कान्तिवर्धनः ॥ २०१॥ कालागरुसुगन्धाढ्यः कालागरुविलेपनः । कालागरुसुगन्धज्ञः कालागरुसुगन्धकृत् ॥ २०२॥ कापट्यपटलच्छेत्ता कायस्थः कायवर्धनः । कायभाग्भयभीतिघ्नः कायरोगापहारकः ॥ २०३॥ कार्यकारणकर्तृस्थः कार्यकारणकारकः । कार्यकारणसम्पन्नः कार्यकारणसिद्धिदः ॥ २०४॥ काव्यामृतरसास्वादी काव्यामृतरसात्मकः । काव्यामृतरसाभिज्ञः कार्यामृतरसप्रियः ॥ २०५॥ कादिवर्णैकजनकः कादिवर्णप्रवर्तकः । कादिवर्णविवेकज्ञः कादिवर्णविनोदवान् ॥ २०६॥ कादिहादिमनुज्ञाता कादिहादिमनुप्रियः । कादिहादिमनूद्धारकारकः कादिसंज्ञकः ॥ २०७॥ कालुष्यरहिताकारः कालुष्यैकविनाशनः । कारागृहविमुक्तात्मा कारागृहविमोचनः ॥ २०८॥ कामात्मा कामदः कामी कामेशः कामपूरकः । कामहृत्कामजनकः कामिकामप्रदायकः ॥ २०९॥ कामपालः कामभर्ता कामकेलिकलानिधिः । कामकेलिकलासक्तः कामकेलिकलाप्रियः ॥ २१०॥ कामबीजैकवरदः कामबीजसमन्वितः । कामजित्कामवरदः कामक्रीडातिलालसः ॥ २११॥ कामार्तिशमनः कामालङ्कृतः कामसंस्तुतः । कामिनीकामजनकः कामिनीकामवर्धनः ॥ २१२॥ कामिनीकामरसिकः कामिनीकामपूरकः । कामिनीमानदः कामकलाकौतूहलप्रियः ॥ २१३॥ कामिनीप्रेमजनकः कामिनीप्रेमवर्धनः । कामिनीहावभावज्ञः कामिनीप्रीतिवर्धनः ॥ २१४॥ कामिनीरूपरसिकः कामिनीरूपभूषणः । कामिनीमानसोल्लासी कामिनीमानसास्पदः ॥ २१५॥ कामिभक्तजनत्राता कामिभक्तजनप्रियः । कामेश्वरः कामदेवः कामबीजैकजीवनः ॥ २१६॥ कालिन्दीविषसंहर्ता कालिन्दीप्राणजीवनः । कालिन्दीहृदयानन्दी कालिन्दीनीरवल्लभः ॥ २१६॥ कालिन्दीकेलिकुशलः कालिन्दीप्रीतिवर्धनः । कालिन्दीकेलिरसिकः कालिन्दीकेलिलालसः ॥ २१८॥ कालिन्दीनीरसङ्खेलद्गोपीयूथसमावृतः । कालिन्दीनीरमध्यस्थः कालिन्दीनीरकेलिकृत् ॥ २१९॥ कालिन्दीरमणासक्तः कालिनागमदापहः । कामधेनुपरित्राता कामधेनुसमावृतः ॥ २२०॥ काञ्चनाद्रिसमानश्रीः काञ्चनाद्रिनिवासकृत् । काञ्चनाभूषणासक्तः काञ्चनैकविवर्धनः ॥ २२१॥ काञ्चनाभश्रियासक्तः काञ्चनाभश्रियाश्रितः । कार्तिकेयैकवरदः कार्तवीर्यमदापहः ॥ २२२॥ किशोरीनायिकासक्तः किशोरीनायिकाप्रियः । किशोरीकेलिकुशलः किशोरीप्राणजीवनः ॥ २२३॥ किशोरीवल्लभाकारः किशोरीप्राणवल्लभः । किशोरीप्रीतिजनकः किशोरीप्रियदर्शनः ॥ २२४॥ किशोरीकेलिसंसक्तः किशोरीकेलिवल्लभः । किशोरीकेलिसंयुक्तः किशोरीकेलिलोलुपः ॥ २२५॥ किशोरीहृदयानन्दी किशोरीहृदयास्पदः । किशोरीशः किशोरात्मा किशोरः किंशुकाकृतिः ॥ २२६॥ किंशुकाभरणालक्ष्यः किंशुकाभरणान्वितः । कीर्तिमान्कीर्तिजनकः कीर्तनीयपराक्रमः ॥ २२७॥ कीर्तनीययशोराशिः कीर्तिस्थः कीर्तनप्रियः । कीर्तिश्रीमतिदः कीशः कीर्तिज्ञः कीर्तिवर्धनः ॥ २२८॥ क्रियात्मकः क्रियाधारः किर्याभासः क्रियास्पदः । कीलालामलचिद्वृत्तिः कीलालाश्रयकारणः ॥ २२९॥ कुलधर्माधिपाधीशः कुलधर्माधिपप्रियः । कुलधर्मपरित्राता कुलधर्मपतिस्तुतः ॥ २३०॥ कुलधर्मपदाधारः कुलधर्मपदाश्रयः । कुलधर्मपतिप्राणः कुलधर्मपतिप्रियः ॥ २३१॥ कुलधर्मपतित्राता कुलधर्मैकरक्षकः । कुलधर्मसमासक्तः कुलधर्मैकदोहनः ॥ २३२॥ कुलधर्मसमुद्धर्ता कुलधर्मप्रभाववित् । कुलधर्मसमाराध्यः कुलधर्मधुरन्धरः ॥ २३३॥ कुलमार्गरतासक्तः कुलमार्गरताश्रयः । कुलमार्गसमासीनः कुलमार्गसमुत्सुकः ॥ २३४॥ कुलधर्माधिकारस्थः कुलधर्मविवर्धनः । कुलाचारविचारज्ञः कुलाचारसमाश्रितः ॥ २३५॥ कुलाचारसमायुक्तः कुलाचारसुखप्रदः । कुलाचारातिचतुरः कुलाचारातिवल्लभः ॥ २३६॥ कुलाचारपवित्राङ्गः कुलाचारप्रमाणकृत् । कुलवृक्षैकजनकः कुलवृक्षविवर्धनः ॥ २३७॥ कुलवृक्षपरित्राता कुलवृक्षफलप्रदः । कुलवृक्षफलाधीशः कुलवृक्षफलाशनः ॥ २३८॥ कुलमार्गकलाभिज्ञः कुलमार्गकलान्वितः । कुकर्मनिरतातीतः कुकर्मनिरतान्तकः ॥ २३९॥ कुकर्ममार्गरहितः कुकर्मैकनिषूदनः । कुकर्मरहिताधीशः कुकर्मरहितात्मकः ॥ २४०॥ कुकर्मरहिताकारः कुकर्मरहितास्पदः । कुकर्मरहिताचारः कुकर्मरहितोत्सवः ॥ २४१॥ कुकर्मरहितोद्देशः कुकर्मरहितप्रियः । कुकर्मरहितान्तस्थः कुकर्मरहितेश्वरः ॥ २४२॥ कुकर्मरहितस्त्रीशः कुकर्मरहितप्रजः । कुकर्मोद्भवपापघ्नः कुकर्मोद्भवदुःखहा ॥ २४३॥ कुतर्करहिताधीशः कुतर्करहिताकृतिः । कूटस्थसाक्षी कूटात्मा कूटस्थाक्षरनायकः ॥ २४४॥ कूटस्थाक्षरसंसेव्यः कूटस्थाक्षरकारणः । कुबेरबन्धुः कुशलः कुम्भकर्णविनाशनः ॥ २४५॥ कूर्माकृतिधरः कूर्मः कूर्मस्थावनिपालकः । कुमारीवरदः कुस्थः कुमारीगणसेवितः ॥ २४६॥ कुशस्थलीसमासीनः कुशदैत्यविनाशनः । केशवः क्लेशसंहर्ता केशिदैत्यविनाशनः ॥ २४७॥ क्लेशहीनमनोवृत्तिः क्लेशहीनपरिग्रहः । क्लेशातीतपदाधीशः क्लेशातीतजनप्रियः ॥ २४८॥ क्लेशातीतशुभाकारः क्लेशातीतसुखास्पदः । क्लेशातीतसमाजस्थः क्लेशातीतमहामतिः ॥ २४९॥ क्लेशातीतजनत्राता क्लेशहीनजनेश्वरः । क्लेशहीनस्वधर्मस्थः क्लेशहीनविमुक्तिदः ॥ २५०॥ क्लेशहीननराधीशःक्लेशहीननरोत्तमः । क्लेशातिरिक्तसदनः क्लेशमूलनिकन्दनः ॥ २५१॥ क्लेशातिरिक्तभावस्थः क्लेशहीनैकवल्लभः । क्लेशहीनपदान्तस्थः क्लेशहीनजनार्द्दनः ॥ २५२॥ केसराङ्कितभालश्रीः केसराङ्कितवल्लभः । केसरालिप्तहृदयः केसरालिप्तसद्भुजः ॥ २५३॥ केसराङ्कितवासश्रीः केसराङ्कितविग्रहः । केसराकृतिगोपीशः केसरामोदवल्लभः ॥ २५४॥ केसरामोदमधुपः केसरामोदसुन्दरः । केसरामोदमुदितः केसरामोदवर्धनः ॥ २५५॥ केसरार्चितभालश्रीः केसरार्चितविग्रहः । केसरार्चितपादाब्जः केसरार्चितकुण्डलः ॥ २५६॥ केसरामोदसम्पन्नः केसरामोदलोलुपः । केतकीकुसुमासक्तःकेतकीकुसुमप्रियः ॥ २५७॥ केतकीकुसुमाधीशःकेतकीकुसुमाङ्कितः । केतकीकुसुमामोदवर्धनः केतकीप्रियः ॥ २५८॥ केतकीशोभिताकारः केतकीशोभिताम्बरः । केतकीकुसुमामोदवल्लभः केतकीश्वरः ॥ २५९॥ केतकीसौरभानन्दी केतकीसौरभप्रियः । केयूरालङ्कृतभुजः केयूरालङ्कृतात्मकः ॥ २६०॥ केयूरालङ्कृतश्रीशःकेयूरप्रियदर्शनः । केदारेश्वरसंयुक्तः केदारेश्वरवल्लभः ॥ २६१॥ केदारेश्वरपार्श्वस्थः केदारेश्वरभक्तपः । केदारकल्पसारज्ञः केदारस्थलवासकृत् ॥ २६२॥ केदाराश्रितभीतिघ्नः केदाराश्रितमुक्तिदः । केदारावासिवरदः केदाराश्रितदुःखहा ॥ २६३॥ केदारपोषकः केशः केदारान्नविवर्द्धनः । केदारपुष्टिजनकः केदारप्रियदर्शनः ॥ २६४॥ कैलासेशसमाजस्थः कैलासेशप्रियङ्करः । कैलासेशसमायुक्तः कैलासेशप्रभाववित् ॥ २६५॥ कैलासाधीशत्रुघ्नः कैलासपतितोषकः । कैलासाधीशसहितः कैलासाधीशवल्लभः ॥ २६६॥ कैवल्यमुक्तिजनकः कैवल्यपदवीश्वरः । कैवल्यपदवीत्राता कैवल्यपदवीप्रियः ॥ २६७॥ कैवल्यज्ञानसम्पन्नः कैवल्यज्ञानसाधनः । कैवल्यज्ञानगम्यात्मा कैवल्यज्ञानदायकः ॥ २६८॥ कैवल्यज्ञानसंसिद्धः कैवल्यज्ञानदीपकः । कैवल्यज्ञानविख्यातः कैवल्यैकप्रदायकः ॥ २६९॥ क्रोधलोभभयातीतः क्रोधलोभविनाशनः । क्रोधारिः क्रोधहीनात्मा क्रोधहीनजनप्रियः ॥ २७०॥ क्रोधहीनजनाधीशः क्रोधहीनप्रजेश्वरः । कोपतापोपशमनः कोपहीनवरप्रदः ॥ २७१॥ कोपहीननरत्राता कोपहीनजनाधिपः । कोपहीननरान्तःस्थः कोपहीनप्रजापतिः ॥ २७२॥ कोपहीनप्रियासक्तः कोपहीनजनार्तिहा । कोपहीनपदाधीशः कोपहीनपदप्रदः ॥ २७३॥ कोपहीननरस्वामी कोपहीनस्वरूपधृक् । कोकिलालापसङ्गीतः कोकिलालापवल्लभः ॥ २७४॥ कोकिलालापलीनात्मा कोकिलालापकारकः । कोकिलालापकान्तेशः कोकिलालापभाववित् ॥ २७५॥ कोकिलागानरसिकः कोकिलावरवल्लभः । कोटिसूर्यसमानश्रीः कोटिचन्द्रामृतात्मकः ॥ २७६॥ कोटिदानवसंहर्ता कोटिकन्दर्पदर्पहा । कोटिदेवेन्द्रसंसेव्यः कोटिब्रह्मार्चिताकृतिः ॥ २७७॥ कोटिब्रह्माण्डमध्यस्थः कोटिविद्युत्समद्युतिः । कोट्यश्वमेधपापघ्नः कोटिकामेश्वराकृतिः ॥ २७८॥ कोटिमेघसमोदारः कोटिवह्निसुदुःसहः । कोटिपाथोधिगम्भीरः कोटिमेरुसमस्थिरः ॥ २७९॥ कोटिगोपीजनाधीशः कोटिगोपाङ्गनावृतः । कोटिदैत्येशदप्रघ्नः कोटिरुद्रपराकर्मः ॥ २८०॥ कोटिभक्तार्तिशमनः कोटिदुष्टविमर्दनः । कोटिभक्तजनोद्धर्ता कोटियज्ञफलप्रदः ॥ २८१॥ कोटिदेवर्षिसंसेव्यः कोटिब्रह्मर्षिमुक्तिदः । कोटिराजर्षिसंस्तुत्यः कोटिब्रह्माण्डमण्डनः ॥ २८२॥ कोट्याकाशप्रकाशात्मा कोटिवायुमहाबलः । कोटितेजोमयाकारः कोटिभूमिसमक्षमी ॥ २८३॥ कोटिनीरसमस्वच्छः कोटिदिग्ज्ञानदायकः । कोटिब्रह्माण्डजनकः कोटिब्रह्माण्डपालकः ॥ २८४॥ कोटिब्रह्माण्डसंहर्ता कोटिब्रह्माण्डबोधकः । कोटिवाक्पतिवाचालः कोटिशुक्रकवीश्वरः ॥ २८५॥ कोटिद्विजसमाचारः कोटिहेरम्बविघ्नहा । कोटिमानसहंसात्मा कोटिमानससंस्थितः ॥ २८६॥ कोटिच्छलकरारातिः कोटिदाम्भिकनाशनः । कोटिशून्यपथच्छेत्ता कोटिपाखण्डखण्डनः ॥ २८७॥ कोटिशेषधराधारः कोटिकालप्रबोधकः । कोटिवेदान्तसंवेद्यः कोटिसिद्धान्तनिश्चयः ॥ २८८॥ कोटियोगीश्वराधीशः कोटियोगैकसिद्धिदः । कोटिधामाधिपाधीशः कोटिलोकैकपालकः ॥ २८९॥ कोटियज्ञैकभोक्ता च कोटियज्ञफलप्रदः । कोटिभक्तहृदन्तस्थः कोटिभक्ताभयप्रदः ॥ २९०॥ कोटिजन्मार्तिशमनः कोटिजन्माघनाशनः । कोटिजन्मान्तरज्ञानप्रदाता कोटिभक्तपः ॥ २९१॥ कोटिशक्तिसमायुक्तः कोटिचैतन्यबोधकः । कोटिचक्रावृताकारः कोटिचक्रप्रवर्तकः ॥ २९२॥ कोटिचक्रार्चनत्राता कोटिवीरावलीवृतः । कोटितीर्थजलान्तस्थः कोटितीर्थफलप्रदः ॥ २९३॥ कोमलामलचिद्वृत्तिः कोमलामलमानसः । कौस्तुभोद्भासितोरस्कः कौस्तुभोद्भासिताकृतिः ॥ २९४॥ कौरवानीकसंहर्ता कौरवार्णवकुम्भभूः । कौन्तेयाश्रितपादाब्जः कौन्तेयाभयदायकः ॥ २९५॥ कौन्तेयारातिसंहर्ता कौन्तेयप्रतिपालकः । कौन्तेयानन्दजनकः कौन्तेयप्राणजीवनः ॥ २९६॥ कौन्तेयाचलभावज्ञः कौन्तेयाचलमुक्तिदः । कौमुदीमुदिताकारः कौमुदीमुदिताननः ॥ २९७॥ कौमुदीमुदितप्राणः कौमुदीमुदिताशयः । कौमुदीमोदमुदितः कौमुदीमोदवल्लभः ॥ २९८॥ कौमुदीमोदमधुपः कौमुदीमोदवर्धनः । कौमुदीमोदमानात्मा कौमुदीमोदसुन्दरः ॥ २९९॥ कौमुदीदर्शनानन्दी कौमुदीदर्शनोत्सुकः । कौसल्यापुत्रभावस्थः कौसल्यानन्दवर्धनः ॥ ३००॥ कंसारिः कंसहीनात्मा कंसपक्षनिकन्दनः । कङ्कालः कङ्कवरदः कण्टकक्षयकारकः ॥ ३०१॥ कन्दर्पदर्पशमनः कन्दर्पाभिमनोहरः । कन्दर्पकामनाहीनः कन्दर्पज्वरनाशनः ॥ ३०२॥ कन्दर्पज्वरनाशन ॐ नम इति इति श्रीसर्वसौभाग्यवर्धनं श्रीपतिप्रियम् । नाम्नामक्षरकादीनां सहस्रं परिकीर्तितम् ॥ ३०३॥ सर्वापराधशमनं रहस्यं श्रुतिगोचरम् । कलिकालैकदमनं क्रूरशत्रुनिकन्दनम् ॥ ३०४॥ क्रूरपापसमूहघ्नं क्रूरकर्मविनाशनम् । क्रूरासुरौघसंहारकारकं क्लेशनाशनम् ॥ ३०५॥ कुमार्गदलनं कष्टहरणं कल्मषापहम् । कुबुद्धिशमनं क्रोधकन्दनं कान्तिवर्द्धनम् ॥ ३०६॥ कुविद्यादमनं काममर्दनं कीर्तिदायकम् । कुतर्कनाशनं कान्तं कुपथार्णवशोषणम् ॥ ३०७॥ कोटिजन्मार्जितारिष्टहरं कालभयापहम् । कोटिजन्मार्जिताज्ञाननाशनैकदिवाकरम् ॥ ३०८॥ कापट्यपटलध्वंसिकार्पण्यैकहुताशनम् । कालुष्यभावशमनं कीर्तिश्रीमतिदं सताम् ॥ ३०९॥ कोपोपतापशमनं कंसारिस्मृतिदायकम् । कुलाचारविचारस्थं कुलधर्मप्रवर्तकम् ॥ ३१०॥ कुलधर्मरताभीष्टसिद्धिदं कुलदीपकम् । कुत्सामार्गनिराकर्तृ कुपथाचारवर्जितम् ॥ ३११॥ कल्याणमङ्गलागारं कल्पवृक्षसमं सताम् । कौटिल्यभावशमनं काशीवासफलप्रदम् ॥ ३१२॥ अतिगुह्यतरं पुंसां भोगमोक्षैकसाधनम् । अत्यन्तस्नेहभावेन युष्मदग्रे प्रकाशितम् ॥ ३१३॥ न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन । पाप्यग्रे कुटिलाग्रे च राग्यग्रे पिशुनाय वै ॥ ३१४॥ द्रोह्यग्रे मलिनाघ्रे च कपट्यग्रे विशेषतः । लम्पटाग्रेऽभिमान्यग्रे काम्यते क्रोधिने तथा ॥ ३१५॥ लोभ्यग्रे तस्कराग्रे च गर्वाहङ्कारभाजिने । संसारासक्तचित्ताग्रे वाद्यग्रे घातिनेऽपि वा ॥ ३१६॥ मताभिमानिने गोप्यं मदीयं स्तोत्रमुत्तमम् । वाच्यं शान्ताय भक्ताय निर्मलाय दयालवे ॥ ३१७॥ सन्तोषिणे सुशीलाय सुपात्राय द्विजातये । विवेकिने ज्ञानिने च मद्भक्ताय विशेषतः ॥ ३१८॥ य इदं श‍ृणुते नित्यं पठतेऽहर्निशं जनः । माहात्म्यं तस्य पुण्यस्य मया वक्तुं न शक्यते ॥ ३१९॥ एकवरमिदं स्तोत्रं यः श‍ृणोति नरोत्तमः । भोगमोक्षप्रधानः स भविष्यति न संशयः ॥ ३२०॥ किं पुनः पठनादस्य सर्वसिद्धः करे स्थिता । भोगार्थी लभते भोगान्योगार्थी योगसाधनाम् ॥ ३२१॥ कामार्थी लभते कामान्प्रजार्थी लभते प्रजाम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमव्ययम् ॥ ३२२॥ द्रव्याथी लभते द्रव्यं प्रियार्थी लभते प्रियम् । मानार्थी लभते मानं राज्यार्थी राज्यमुत्तमम् ॥ ३२३॥ ज्ञानार्थी लभते ज्ञानं सुखार्थी लभते सुखम् । कीर्त्यर्थी लभते कीर्तिं ब्रह्मार्थी ब्रह्म निर्गुणम् ॥ ३२४॥ पुष्ट्यर्थी लभते पुष्टिं तुष्ट्यर्थी तुष्टिमात्मनि । निरीहो लभते नूनं मत्पदं देवदुर्लभम् ॥ ३२५॥ किं दानैः किं व्रतैस्तीर्थैर्यज्ञयागादिभिस्तथा । अस्य श्रवणमात्रेण सर्वयज्ञफलं लभेत् ॥ ३२६॥ नातः परतरं ज्ञानं नातः परतरं तपः । नातः परतरं ध्यानं नातः परतरो जपः ॥ ३२७॥ नातः परतरा सिद्धिर्नातः परतरो मखः । नातः परतरं द्रव्यं नातः परतरा क्रिया ॥ ३२८॥ य इदं पठते भक्त्या श‍ृणुयाद्वा समाहितः । स ज्ञानी स तपस्वी च स ध्यानी जयतत्परः ॥ ३२९॥ स सिद्धो भाग्यवान् श्रीमान् क्रियावान्बुद्धिमानपि । जितं तेन जगत्सर्वं येनेदं पठितं श्रुतम् ॥ ३३०॥ किं पुनर्भक्तिभावेन भोगमोक्षप्रदं द्रुतम् । कोटिजन्मार्जितैः पुण्यैर्लभ्यते भाग्यतो यदा ॥ ३३१॥ तदा भाग्योदयः पुंसां नात्र कार्या विचारणा । सारात्सारतरं शास्त्रं तत्रापि ज्ञानदायकम् ॥ ३३२॥ ज्ञानाद्ध्यानं परं श्रेष्ठं तत्रापि लयता यथा । तथैवेदं महास्तोत्रं विना मत्कृपया किल ॥ ३३३॥ दुर्लभं त्रिषु लोकेषु सर्वसिद्धिप्रदं सताम् । यथा भक्तिस्त्रिलोकेषु दुर्लभा मम देहिनाम् ॥ ३३४॥ तथैवेदं महास्तोत्रं सद्यः सायुज्यदायकम् । सर्वापराधशमनं लोके कल्पद्रुमप्रभम् ॥ ३३५॥ यथा सुदर्शनं लोके दुष्टदैत्यनिबर्हणम् । तथैवेदं परं स्तोत्रं कामादिकभयापहम् ॥ ३३६॥ अस्यैकावर्तनात्पापं नश्यत्याजन्मसञ्चितम् । दशावर्तनतः पुंसां शतजन्मान्तरार्चितम् ॥ ३३७॥ शतावर्तनमात्रेण देवरूपो भवेन्नरः । आवर्तनसहस्रैश्च मद्गतिं लभतेऽचलाम् ॥ ३३८॥ लक्षतो मम सायुज्यं दशलक्षात्स्वयं हरिः । तस्मान्नैव प्रदातव्यं मदीयं स्तोत्रमुत्तमम् ॥ ३३९॥ पुत्रकामोऽयुतान्पाठान्कारयित्वा ममालये । सहस्रनामभिर्दिव्यैर्जुहुयाद्घृतपायसैः ॥ ३४०॥ शर्करामधुसंयुक्तैर्बिल्वीदलसमन्वितः । ब्राह्मणान्भोजयेद्भक्त्या नामसङ्ख्यामितानिह ॥ ३४१॥ राज्यकामोऽयुतान्नित्यं पठेद्वा पाठयेद्द्विजान् । शिवालये सहस्रैश्च होमयेदाज्यपायसैः ॥ ३४२॥ ब्राह्मणान्भोजयेन्नूनमयुतैकं यथाविधि । दक्षिणां दापयेच्छक्त्या वित्तशाढ्यं न कारयेत् ॥ ३४३॥ सहस्रमेकं कन्यार्थी पठेद्वा पाठयेत्किल । देव्यालये तथा नित्यं धनकामोऽपि पाठयेत् ॥ ३४४॥ कीर्तिकामोऽयुतं भाक्त्या पठेद्वृन्दावने सदा । जयकामो हि दुर्गायां शत्रुसंहारकारकः । आयुः कामो नदीतीरे ज्ञानार्थी पर्वतोपरि ॥ ३४५॥ मोक्षार्थी भक्तिभावेन मन्दिरे मम सन्निधौ । पाठसङ्ख्यान्द्विजान्भोज्यान्पायसैः शर्कराप्लुतैः ॥ ३४६॥ जुहुयाद्घृतधाराभिर्मम प्रीतिविवर्धनैः । सर्वकामप्रदं नाम्नां सहस्रं मम दुर्लभम् ॥ ३४७॥ कामनारहितानां च मुक्तिदं भवसागरात् । इदं सहस्रनामाख्यं स्तोत्रमानन्दवर्द्धनम् ॥ ३४८॥ सर्वापराधशमनं पठितव्यमहर्निशम् । अन्यथा न गतिर्नूनं त्रिषु लोकेषु कुत्रचित् ॥ ३४९॥ वैष्णवानां विशेषेण वैष्णवा मामका जनाः । दुर्लभं दुष्टजीवानां मदीयं स्तोत्रमद्भुतम् ॥ ३५०॥ लोकेऽस्मिन्दुर्लभो गोप्यो मुक्तिमार्गो मनीषिणम् । सुलभो मम भक्तानां स्तोत्रेणानेन निश्चितम् ॥ ३५१॥ तावद्गर्जन्ति पापानि तावद्गर्जन्ति शत्रवः । तावद्गर्जति दारिद्र्यं यावत्स्तोत्रं न लभ्यते ॥ ३५२॥ किमत्र बहुनोक्तेन त्वदग्रे गोपिका मया । मम प्राणाधिकं स्तोत्रं सदाऽऽनन्दविवर्धनम् ॥ ३५३॥ अत्यन्तस्नेहभावेन त्वदीयेन व्रजाङ्गनाः । मया प्रकाशितं स्तोत्रं त्वद्भक्त्याऽहं वशीकृतः ॥ ३५४॥ एवमुक्त्वा हृषीकेशः शरणागतवत्सलः । प्रहसन्सहसोत्थाय क्रीडां चक्रे पुनर्जले ॥ ३५५॥ नारद उवाच- एतद्गुह्यतरं स्तोत्रं दुर्लभं देहधारिणाम् । मया तदाज्ञया प्रोक्तं तवाग्रे व्यासभावन ॥ ३५६॥ त्वयैतन्नैव वक्तव्यं कस्याग्रेऽपि विनाऽऽज्ञया । स्वशिष्याग्रे शुकाग्रे वा गोपनीयं धरातले ॥ ३५७॥ एतदेव स्वयं साक्षादगतीनां गतिप्रदः । बुद्ध्याविष्टनिजांशेन पूर्णानन्दः स्वलीलया ॥ ३५८॥ कलिग्रस्तान् जनान्स्वीयानुद्धर्तुं करुणानिधिः । स्वयमेवात्र विख्यातं करिष्यति न संशयः ॥ ३५९॥ एतद्दिव्यसहस्रनाम परमानन्दैकसंवर्धनं लोकेस्मिन्किल कादिनामरचनालङ्कारशोभान्वितम् । येषां कर्णपुटे पतिष्यति महाभाग्यादिहालौकिकं तेषां नैव किमप्यलभ्यमचिरात्कल्पद्रुमाभं सताम् ॥ ३६०॥ इति श्रीब्रह्माण्डपुराणेऽध्यात्मकभागवते श्रुतिरहस्ये ककारादि श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम् । Proofread by Pallasena Narayanaswami ppnswami at gmail.com, PSA Easwaran
% Text title            : kRRiShNasahasranAmastotram kakArAdi
% File name             : kRRiShNasahasranAmastotramkakArAdi.itx
% itxtitle              : kRRiShNasahasranAmastotram kakArAdi (brahmANDapurANAntargatam)
% engtitle              : kRRiShNasahasranAmastotram kakArAdi
% Category              : sahasranAma, vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com, PSA Easwaran
% Description-comments  : Edited by S. V. Radhakrishna Shastriji
% Source                : brahmANDapurANe.adhyAtmakabhAgavate shrutirahasye
% Indexextra            : (Scan VSM 1)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : December 26, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org