श्रीकृष्णचरितम्

श्रीकृष्णचरितम्

केतुमालवासिन ऊचुः - आसीत्तु शेषशयनो जगदार्त्तिहारी साक्षात्प्रधानपुरुषेश्वर आदिदेवः । यः प्रार्थितः सुरवरैर्भुवनावनाय तस्मै नमो भगवते पुरुषोत्तमाय ॥ १॥ जातो गतः पितृगृहात्पितरौ विमोक्ष्य नन्दालयं शिशुतनुः स तु नन्दपत्न्या । संलालितः सघृणया बहुमङ्गलश्रीः प्राणप्रहारमकरोत्किल पूतनायाः ॥ २॥ बालो बभञ्ज शकटं शयनं प्रकुर्वन् दैत्यं निपात्य महदद्भुतकं च पृष्ठे । मात्रे प्रदर्श्य निजरूपमलङ्कृतोऽभूद्- गर्गेण सङ्कथितसुन्दरभाग्यलक्ष्मीः ॥ ३॥ संलालितो व्रजजनैर्नवनीतचौरः श्यामो मनोहरवपुर्मृदुलः स बालः । भित्वा जघास दधिपात्रमतीव दध्नो वृक्षौ बभञ्ज जननीलघुदामबद्धः ॥ ४॥ वृन्दावने स विचरन् सह वत्सगोपै- र्वत्सासुरं च विनिपात्य कपित्थवृक्षैः । सद्यो विगृह्य खरतुण्डपुटे च दोर्भ्यां दैत्यं ददार स बकं तृणवत्तटिन्याम् ॥ ५॥ सन्धारयंश्च शिशुभिर्बहुवत्ससङ्घान् वेणुं क्वणन्मदनमोहनवेषभृद्यः । गोपानघासुरमुखे प्रहिताञ्जुगोप गोगोपवत्सपवपुः स चकार सद्यः ॥ ६॥ क्षेत्रज्ञ आत्मपुरुषो भगवाननन्तः पूर्णः प्रधानपुरुषेश्वर आदिदेवः । धृत्वा वपुः स विहरन्व्रजबालकेषु सम्मोहयन्विधिमजो विचचार कृष्णः ॥ ७॥ चिक्षेप धेनुकमसौ बलिनं बलेन ताले प्रगृह्य सहसा फणिकालियाख्यम् । बभ्राम वह्निमपिबद्दनुजं प्रलम्बं सद्यो जघान स बली दृढमुष्टिना च ॥ ८॥ सञ्चारयन्व्रजवधूर्मधुरं क्वणन् यो वेणुं वने व्रजवधूनिजगीतकीर्तिः । दिव्याम्बराणि स जहार वराङ्गनानां विप्राङ्गनाभिरभितः कृतभक्तभोजः ॥ ९॥ देवे च वर्षति पशून्कृपया रिरक्षु- र्गोवर्धनं प्रकृतबाल इवोच्छिलीन्ध्रम् । बिभ्रद्गिरिं स गजराडिव कञ्जमेक- हस्ते शचीपतिवचोभिरतः स्तुतोऽभूत् ॥ १०॥ नन्दं जुगोप वरुणात्स्वजनाय लोकं दिव्यं परं च तमसो दिवि दर्शयित्वा । श्रीरासमण्डलगतो व्रजसुन्दरीणां रेमे पुलिन्दतटिनीपुलिनेऽङ्गनाभिः ॥ ११॥ मानं हरन्मदनयौवनमानिनीना- मन्तर्दधे व्रजवधूनिजगीतकीर्तिः । स्रग्वी मनोहरवपुर्विरहातुराणां साक्षाद्धरिर्मदनमोहन आविरासीत् ॥ १२॥ वृन्दावने शबरराजवराङ्गनाभि- र्विष्णुर्विभूतिभिरिव द्युभिरादिदेवः । रेमे स्तुतः सुरवरैः स च रासरङ्गे केयूरकुण्डलकिरीटविटङ्कवेषः ॥ १३॥ नन्दं विमोक्ष्य फणिने प्रददौ च मोक्षं दिव्यं मणिं स च जहार ह शङ्खचूडात् । गोपस्तुतो वृषभरूपधरं ह्यरिष्टं भूमौ निपात्य निजघान करेण श‍ृङ्गे ॥ १४॥ कंसः परं भयमवाप च तेन केशी सम्प्रेषितः सघनमेघवपुः प्रचण्डः । उत्सृज्य तं च तरसा पुनरापतन्तं श्रीबाहुना मुखगतेन जघान कृष्णः ॥ १५॥ यो नारदेन बहुवर्णितभाग्यलक्ष्मी- र्व्योमासुरो व्यसुरकारि परेण येन । अक्रूरवर्णितमहोदय आदिदेवो गोपीजनातिविरहातुरचित्तचौरः ॥ १६॥ श्वाफल्कये हितकराय निजं स्वरूप- मन्तर्दधे जलचये स च दर्शयित्वा । स प्राप तत्र मथुरोपवनं परेशो गोपालकैश्च सबलो मथुरां ददर्श ॥ १७॥ स्वैरं चरन्मधुपुरे रजकं निकृत्य कृष्णः प्रदाय च वरानथ वायकाय । मालाकृतं समनुकम्प्य चकार कुब्जा- मृज्वीं धनुश्च सहसा नमयन्बभञ्ज ॥ १८॥ द्वारि द्विपञ्च विनिहत्य नरेन्द्रमल्लौ हत्वा प्रगृह्य विनिपात्य स रङ्गभूमौ । कंसं हरिस्तु पितरावथ मोचयित्वा बन्धान्नृपं पुरि चकार महोग्रसेनम् ॥ १९॥ नन्दं प्रसाद्य बहुदानकरो यदूंस्ता- नाहूय तर्प्य सुधनैश्च निवेदयित्वा । विद्यामधीत्य स ददौ प्रमृतं ह्यपत्यं कृत्वा वधं दनुजपञ्चजनस्य कृष्णः ॥ २०॥ गोपीजनान्समनुगृह्य स चोद्धवेना- क्रूरेण हास्तिनपुरे त्वथ पाण्डुपुत्रान् । कृष्णो विजित्य बलिनं च जरासुतं च भस्मीचकार मुचकुन्ददृशाऽऽत्मकालम् ॥ २१॥ निर्माय चाद्भुतपुरं स्थितयेऽत्र कृष्णो निन्ये च कुण्डिनपुरात्किल भीष्मकन्याम् । पुत्रेण शम्बरमरिं निजघान चादाद्- राज्ञे मणीं युधि विजित्य स ऋक्षराजम् ॥ २२॥ भामापतिः स च शिरः शतधन्वनस्तु हृत्वा ह्युवाह सवितुश्च सुतां परेशः । आवन्त्यराजतनुजां स जहार कृष्णः सत्यां स्वयंवरगृहे वृषभान्दमित्वा ॥ २३॥ कैकेयराजतनुजां स जहार भद्रां श्रीलक्ष्मणामखिलभद्रपतेः सुतां च । भौमं विजित्य सबलं युधि शस्त्रसङ्घै- र्निन्ये च षोडशसहस्रवराङ्गनाश्च ॥ २४॥ भामेच्छया सुरतरुं च सभां सुधर्मां शक्रं विजित्य स जहार कलत्रमित्रः । यो रुक्मिणं च निजघान बलेन गोष्ठ्यां बाणस्य बाहुनिचयं शतधाच्छिनत्सः ॥ २५॥ तेनोग्रसेनक्रतवेऽथ जगद्विजेतुं सम्प्रेषितो निजसुतः किल शम्बरारिः । योऽत्रागतो भुवि विजित्य नृपान्समस्तान् श्रीकेतुमालपतये च नमोऽस्तु तस्मै ॥ २६॥ इति गर्गसंहितायां विश्वजित्खण्डे एकत्रिंशाध्यायान्तर्गतं केतुमालवासिभिः प्रद्युम्नस्य पुरतः गीतं श्रीकृष्णचरितं सम्पूर्णम् । Garga Samhita, Hayamedhakhanda, Adhaya 55 verses 8-33 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : shrIkRiShNacharitam from Gargasamhita
% File name             : kRiShNacharitamgargasamhitA.itx
% itxtitle              : shrIkRiShNacharitam (gargasaMhitAntargatam)
% engtitle              : shrIkRiShNacharitam from Gargasamhita
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org