श्रीकृष्णस्तुतिः
देवा ऊचुः -
कृष्णाय पूर्णपुरुषाय परात्पराय यज्ञेश्वराय परकारणकारणाय ।
राधावराय परिपूर्णतमाय साक्षाद्गोलोकधामधिषणाय नमः परस्मै ॥ १॥
योगेश्वराः किल वदन्ति महः परं त्वां
तत्रैव सात्वतमनाः कृतविग्रहं च ।
अस्माभिरद्य विदितं यददोऽद्वयं ते
तस्मै नमोऽस्तु महसां पतये परस्मै ॥ २॥
व्यङ्ग्येन वा न न हि लक्षणया कदापि
स्फोटेन यच्च कवयो न विशन्ति मुख्याः ।
निर्देश्यभावरहितः प्रकृतेः परं च
त्वां ब्रह्म निर्गुणमलं शरणं व्रजामः ॥ ३॥
त्वां ब्रह्म केचिदवयन्ति परे च कालं
केचित्प्रशान्तमपरे भुवि कर्मरूपम् ।
पूर्वे च योगमपरे किल कर्तृभाव-
मन्योक्तिभिर्न विदितं शरणं गताः स्मः ॥ ४॥
श्रेयस्करीं भगवतस्तवपादसेवां
हित्वाथ तीर्थयजनादि तपश्चरन्ति ।
ज्ञानेन ये च विदिता बहुविघ्नसङ्घैः
सन्ताडिता किमु भवन्ति न ते कृतार्थाः ॥ ५॥
विज्ञाप्यमद्य किमु देव अशेषसाक्षी
यः सर्वभूतहृदयेषु विराजमानः ।
देवैर्नमद्भिरमलाशयमुक्तदेहै-
स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ ६॥
यो राधिकाहृदयसुन्दरचन्द्रहारः
श्रीगोपिकानयनजीवनमूलहारः ।
गोलोकधामधिषणध्वज आदिदेवः
स त्वं विपत्सु विबुधान् परिपाहि पाहि ॥ ७॥
वृन्दावनेश गिरिराजपते व्रजेश
गोपालवेषकृत नित्यविहारलील ।
राधापते श्रुतिधराधिपते धरां त्वं
गोवर्द्धनोद्धरण उद्धर धर्मधाराम् ॥ ८॥
इति गर्गसंहितायां गोलोकख्ण्डे तृतीयाध्यायान्तर्गता गोलोके
देवानां श्रीकृष्णस्तुतिः समाप्ता ।
Garga Samhita, Golokakhanda, Adhaya 3 verses 15-22
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran