$1
श्रीकृष्णस्तोत्रम् श्रीमहादेवकृतम्
$1

श्रीकृष्णस्तोत्रम् श्रीमहादेवकृतम्

श्रीमहादेव उवाच - परं ब्रह्म परं धाम परं ज्योतिः सनातनम् । निर्लिप्तं परमात्मानं नमाम्यखिलकारणम् ॥ १॥ स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम् । सर्वदृश्यमदृश्यं च स्वेच्छाचारं नमाम्यहम् ॥ २॥ साकारं च निराकारं सगुणं निर्गुणं प्रभुम् । सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ॥ ३॥ अतीव कमनीयं च रूपं निरुपमं विभुम् । करालरूपमत्यन्तं बिभ्रतं प्रणमाम्यहम् ॥ ४॥ कर्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः । फलं च फलदातारं सर्वरूपं नमाम्यहम् ॥ ५॥ स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः । नानामूर्तिः कलांशेन यः पुमांस्तं नमाम्यहम् ॥ ६॥ स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् । तयोः परं स्वयं शश्वत्तन्नमामि परात्परम् ॥ ७॥ स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया । स्वयं माया स्वयं मायी यो देवस्तं नमाम्यहम् ॥ ८॥ तारकं सर्वदुःखानां सर्वकारणकारणम् । धारकं सर्वविश्वानां सर्वबीजं नमाम्यहम् ॥ ९॥ तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः । नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ॥ १०॥ रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः । नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ॥ ११॥ प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम् । सनत्कुमारो मुनिषु तं नमामि जगद्गुरुम् ॥ १२॥ देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम् । स्वायम्भुवो मनूनां यो मानवेषु वैष्णवः । नारीणां शतरूपा च बहुरूपं नमाम्यहम् ॥ १३॥ ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः । एकादशी तिथीनां च नमाम्यखिलरूपिणम् ॥ १४॥ सागरः सरितां यश्च पर्वतानां हिमालयः । वसुन्धरा सहिष्णूनां तं सर्वं प्रणमाम्यहम् ॥ १५॥ पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् । वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ॥ १६॥ पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च । अमृतं भक्ष्यवस्तुनां नानारूपं नमाम्यहम् ॥ १७॥ ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् । कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम् ॥ १८॥ तैजसानां सुवर्णं च धान्यानां यव एव च । यः केसरी पशूनां च वररूपं नमाम्यहम् ॥ १९॥ यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः । दिक्पालानां महेन्द्रश्च तं नमामि परं वरम् ॥ २०॥ वेदसङ्घश्च शास्त्राणां पण्डितानां सरस्वती । अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ॥ २१॥ मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम् । इन्द्रियाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ॥ २२॥ सुदर्शनं च शस्त्राणां व्याधिनां वैष्णवो ज्वरः । तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ॥ २३॥ बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् । कालः कलयतां यो हि तं नमामि विलक्षणम् ॥ २४॥ ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु । मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ॥ २५॥ शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम् । पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ॥ २६॥ प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च । शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ॥ २७॥ धर्मः कल्याणबीजानां वेदानां सामवेदकः । धर्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ॥ २८॥ जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु । शब्दरूपश्च गगने तं प्रणम्यं नमाम्यहम् ॥ २९॥ क्रतूनां राजसूयो यो गायत्री छन्दसां च यः । गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ॥ ३०॥ क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः । पुण्यदानां च यः स्तोत्रं तं नमामि शुभप्रदम् ॥ ३१॥ तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् । गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ॥ ३२॥ तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान् । सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम् ॥ ३३॥ सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् । आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ॥ ३४॥ वेदानिवर्चनीयं यन्न स्तोतुं पण्डितः क्षमः । यदनिर्वचनीयं च को वा तत्स्तोतुमीश्वरः । ३५॥ वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती । तं च वाङ्मनसापारं को विद्वान्स्तोतुमीश्वरः ॥ ३६॥ शुद्धतेजस्स्वरूपं च भक्ताऽनुग्रहविग्रहम् । अतीव कमनीयं च श्यामरूपं नमाम्यहम् ॥ ३७॥ द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा । शश्वद्गोपाङ्गनाभिश्च वीक्ष्यमाणं नमाम्यहम् ॥ ३८॥ राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम् । रत्नसिंहासनस्थं च तमीशं प्रणमाम्यहम् ॥ ३९॥ रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः । पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम् ॥ ४०॥ वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम् । रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥ ४१॥ शतश‍ृङ्गे महाशैले गोलोके रत्नपर्वते । विरजापुलिने रम्ये प्रणमामि विहारिणम् ॥ ४२॥ परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् । सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ॥ ४३॥ ॥ फलश्रुतिः ॥ श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं यः पठेन्नरः । धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ॥ ४४॥ हरिदास्यं हरौ भक्तिं लभेत्स्तोत्रप्रसादतः । इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद्ध्रुवम् ॥ ४५॥ सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् । तेजसा यशसा भाति यथा सूर्यो महीतले ॥ ४६॥ जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः । अरोगी गुणवान्विद्वान्पुत्रवान्धनवान्सदा ॥ ४७॥ षडभिज्ञो दशबलो मनोमायी भवेद्ध्रुवम् । सर्वज्ञः सर्वदश्चैव स दाता सर्वसम्पदाम् ॥ ४८॥ कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः । इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम् ॥ ४९॥ तत्र कृत्वा मन्त्रसिद्धिं पश्चात्प्राप्स्यसि वाञ्छितम् । त्रिस्सप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम् । ममाऽऽशिषा मुनिश्रेष्ठ श्रीकृष्णस्य प्रसादतः ॥ ५०॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे स्तवप्रदानं नाम द्वात्रिंशतमोऽध्याये श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥ NA
$1
% Text title            : mahAdevakRitaM shrIkRiShNastotra brahmavaivartapurANe
% File name             : krishnastotramahAdevaBVP.itx
% itxtitle              : kRiShNastotram (mahAdevakRitam, brahmavaivartapurANAntargatam)
% engtitle              : Krishna stotra by Mahadeva from BrahmavaivartapurAna
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description-comments  : brahmavaivartapurANa gaNapatikhaNDam adhyAya 32 shloka 27-76
% Latest update         : April 4, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org