लक्ष्मीनारायणस्तोत्रम्
ध्यानम् ।
चक्रं विद्यावरघटगदादर्पणं पद्मयुग्मं
दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्योः
एकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥
शङ्खचक्रगदापद्मकुम्भादर्शाब्जपुस्तकम् ।
बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २॥
विद्युत्प्रभाश्लिष्टघनोपमानौ
शुद्धाशये बिम्बितसुप्रकाशौ ।
चित्ते चिदाभौ कलयामि लक्ष्मी-
नारायणौ सत्त्वगुणप्रधानौ ॥ ३॥
स्तोत्रम् ।
लोकोद्भवस्थे मलयेश्वराभ्यां
शोकोरुदीनस्थितिनाशकाभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ४॥
सम्पत्सुखानन्दविधायकाभ्यां
भक्तावनानारतदीक्षिताभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ५॥
दृष्ट्वोपकारे गुरुतां च पञ्च-
विंशावतारान् सरसं दधद्भ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ६॥
क्षीराम्बुराश्यादि विराट्भवाभ्यां
नारं सदा पालयितुं पराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ७॥
दारिद्र्यदुःखस्थितिदारकाभ्यां
दययैव दूरीकृतदुर्गतिभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ८॥
भक्तव्रजाघौघविदारकाभ्यां
स्वीयाशयोद्धूतरजस्तमोभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ९॥
रक्तोत्पलाभाभवपुर्धराभ्यां
पद्मारिशङ्खाब्जगदाधराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ १०॥
अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां
मोक्षप्रदप्राक्तनदम्पतीभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ११॥
इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारायणाष्टकम् ।
ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् १२॥
इति श्रीकृष्णकृतं लक्ष्मीनारायणाष्टकस्तोत्रं समाप्तम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com