नृसिंहस्तोत्रम् गरुडपुराणान्तर्गतम्
सूत उवाच ।
नारसिंहस्तुतिं वक्ष्ये शिवोक्तं शौनकाधुना ।
पूर्वं मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥ १॥
भगवन्भक्षयिष्यामः सदेवासुरमानुषम् ।
त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ॥ २॥
शङ्करौवाच ।
भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः ।
तस्माड्वोरतरप्रायं मनः शीघ्रं निवर्त्यताम् ॥ ३॥
इत्येवं शङ्करेणोक्तमनादृत्य तु तद्वचः ।
भक्षयामासुरव्यग्रास्त्रैलोक्यं सचराचरम् ॥ ४॥
त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै ।
नृसिंहरूपिणं देवं प्रदध्यौ भगवाञ्छिवः ॥ ५॥
अनादिनिधनं देवं सर्वभूतभवोद्भवम् ।
विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरमालिनम् ॥ ६॥
रत्नाङ्गदं समुकुटं हेमकेसरभूषितम् ।
खोणिसूत्रेण महता काञ्चनेन विराजितम् ॥ ७॥
नीलोत्पलदलश्यामं रत्ननूपुरभूषितम् ।
तेजसाक्रान्तसकलब्रह्माण्डोदरमण्डपम् ॥ ८॥
आवर्तसदृशाकारैः संयुक्तं देहरोमभिः ।
सर्वपुष्पैर्योजिताञ्च धारयंश्च महास्त्रजम् ॥ ९॥
स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम् ।
यादृशेन रूपेण ध्यातो रुद्रैस्तु भक्तितः ॥ १०॥
तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः ।
प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥ ११॥
शङ्कर उवाच ।
नमस्तेऽस्त जगन्नाथ नरसिंहवपुर्धर ।
दैत्येश्वरेन्द्रसंहारिनखशुक्तिविराजित ॥ १२॥
नखमण्डलसभिन्नहेमपिङ्गलविग्रह ।
नमोऽस्तु पद्मनाभाय शोभनाय जगद्गुरो ।
कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ॥ १३॥
सहस्रयमसंत्रास सहस्रेन्द्रपराक्रम ।
हसस्त्रधनदस्फीत सहस्रचरणात्मक ॥ १४॥
सहस्रचन्दप्रतिम ! सहस्रांशुहरिक्रम ।
सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत ॥ १५॥
सहस्ररुद्रसंजप्त सहस्राक्षनिरीक्षण ।
सहस्रजन्ममथन सहस्रबन्धनमोचन ॥ १६॥
सहस्रवायुवेगाक्ष सहस्राज्ञकृपाकर ।
स्तुत्वैवं देवदेवेशं नृसिंहवपुषं हरिम् ।
विज्ञापयामास पुनर्विनयावनतः शिवः ॥ १७॥
अन्धकस्य विनाशाय या सृष्टा मातरो मया ।
अनादृत्य तु मद्वाक्यं भक्ष्यन्त्वद्भुताः प्रजाः ॥ १८॥
सृष्ट्वा ताश्च न शक्तोऽहं संहर्तुमपराजितः ।
पूर्वं कृत्वा कथं तासां विनाशमभिरोचये ॥ १९॥
एवमुक्तः स रुद्रेण नरसिहवपुर्हरिः ।
सहस्रहेवीर्जिह्वाग्रात्तदा वागीश्वरो हरिः ॥ २०॥
तथा सुरगणान्सर्वान्रौद्रान्मातृगणान्विभुः ।
संहृत्य जगतः शर्म कृत्वा चान्तर्दधे हरिः ॥ २१॥
नारसिंहमिदं स्तोत्रं यः पठेन्नियतेन्द्रियः ।
मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ॥ २२॥
ध्यायेन्नृसिंहं तरुणार्कनेत्रं सिताम्बुजातं ज्वलिताग्निवत्क्रम् ।
अनादिमध्यान्तमजं पुराणं परावरेशं जगतां निधानम् ॥ २३॥ (परापरेशं)
जपेदिदं सन्ततदुःखजालं जहाति नीहारमिवांशुमाली ।
समातृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे ॥ २४॥
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधातुं त्रिपुरान्तकारी ।
प्रसाद्य तं देववरं स लब्ध्वा अव्याज्जगन्मातृगणेभ्य एव च ॥ २५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
नृसिंहस्तोत्रं नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ।
Garuda Purana 1,231.1-25
There are different versions of the purANa in print.
Some place it as 223rd or 236th adhyAya.